संस्कृत सूची|संस्कृत साहित्य|पुराण|पद्मपुराणम्|पातालखण्डः|
अध्यायः ११२

पातालखण्डः - अध्यायः ११२

भगवान् नारायणाच्या नाभि-कमलातून, सृष्टि-रचयिता ब्रह्मदेवाने उत्पन्न झाल्यावर सृष्टि-रचना संबंधी ज्ञानाचा विस्तार केला, म्हणून ह्या पुराणास पद्म पुराण म्हणतात.


शंभुरुवाच-
अथान्यदपि निर्वच्मि प्रमदाख्यानमुत्तमम्
सुतया देवरातस्य यत्प्राप्तं नामकीर्तनात् ॥१॥
देवरातसुता बाला कला नामातिरूपिणी
धनंजयसुतस्यासीद्भार्या शोणस्य धीमतः ॥२॥
तावुभौ नियतौ नित्यं धर्म्मैकप्रवणौ शुभौ
लब्धवंतौ निधिमथो गंगास्नानाय तौ गतौ ॥३॥
प्रवाहपतिते कूले मृत्तिकानयनायतौ
कूलादादाय मृल्लोष्टं दृष्टवंतौ महाघटम् ॥४॥
राजतं चोर्द्ध्वपाषाणमथ शोणः प्रियां वचः
इदमाह कथं कार्यं किं कर्तव्यं हि नो हितम् ॥५॥
भार्योवाच-
न नारीमतमालंब्य किंचित्कार्यं समाचरेत्
न च नार्या चरेद्गुह्यमप्रियं वाथ किंचन ॥६॥
यदि नारीसमक्षं तु द्रविणं दृष्टिमापतेत्
वंचयीत तथा नारी ईदृशैर्वाक्यसंचयैः ॥७॥
अस्माभिर्न हि संप्रेक्ष्यं किं वा तत्र हि तिष्ठति
द्रविणं चेन्न संप्रेक्ष्यं बाधोदर्कं भविष्यति ॥८॥
अन्याज्ञातं तु यदि चेत्कुतो ज्ञानविनिश्चयः
अप्रदृष्टस्त्विदानीं चेन्निभृतः कोपि तिष्ठति ॥९॥
तिरोधानं न किंचिच्चेन्मायया कोपि तिष्ठति
न चेन्माया मनुष्याणां क्षेत्त्रपालस्तु तिष्ठति ॥१०॥
न हि चेद्भैरवश्चेह तिष्ठति ब्रह्मराक्षसः
न सोपि चेन्महाविद्या राज्ञां तत्र भविष्यति ॥११॥
न च जानाति चेद्राजा व्यवहारादिसंभवः
स चेद्गूढप्रकारेण चोरबाधा भविष्यति ॥१२॥
अप्रमत्तस्य भवतो महानर्थो भविष्यति
प्रायेणार्थवतां नॄणां भोगलिप्सा प्रजायते ॥१३॥
भोगाद्भोगांतरेच्छा च सर्वानुष्ठाननाशिनी
जानाति यदि नारी स्वं भावयोगगतं तथा ॥१४॥
नारी स्वतंत्रतामेति रोषाल्लब्धप्रकाशिनी
रोषे विश्वासतां याति तदा दोषः पुरोदितः ॥१५॥
विश्वासिनि च विश्रंभः प्रवासो वान्यचित्तता
विश्रम्भाज्जायते स्त्रीणां नानाविधविचेष्टिता ॥१६॥
यं कंचित्पुरुषं दृष्ट्वा युवानं प्रीतिरापतेत्
प्रीत्या संजायते योगो योगान्मैथुनसंगतिः ॥१७॥
सततं मैथुने जाते विश्रंभांतरमापतेत्
भवता वा तथा पूर्वं भुक्तेदानीं च भुज्यते ॥१८॥
का प्रतीच्छा तवेदानीं प्रीतिः कस्यामथापि वा
का विदग्धा सुसंस्निग्धा पुरुषादन्यतश्चरेत् ॥१९॥
योब्रवीदथ वाक्यं तां यदि ब्रूयास्त्वमद्य मे
सर्वमेव तथा वच्मि नान्यथा वाक्यमुच्यते ॥२०॥
इत्थं च धृष्टतां याता तथा रूपांतरेण च
द्रव्यमादाय यत्किंचिदनुवर्तेत्स्वतंत्रतः ॥२१॥
समारयित्वा तां द्रव्यं गृहीत्वा पातयिष्यति
अथ पूर्वं पति मृतौ प्रविशेन्नाशुशुक्षणिम् ॥२२॥
वैधव्ये द्रविणं सर्वं धर्मार्थं मे भविष्यति
इति निश्चित्य मनसा वैधव्ये समुपस्थिते ॥२३॥
योनिकुंडं समासाद्य दिवा वा यदि वा निशि
एकांतस्थानमभ्येत्य विवृत्य वसनं भगम् ॥२४॥
इदमूचे वचो दुःखादुपस्थस्थकरा सती
किं त्वया वै कृतं योने किंवा पापमुपाश्रिता ॥२५॥
शिश्नस्य वाथवा पापं यत्त्वदंतरवेशनात्
यच्च कर्तृकृतं पापं मादृक्सेवाविवर्जनात् ॥२६॥
अतोपि कंडूसंभूतौ प्रवेशयेदथांगुलीम्
विचित्रचेष्टां कृत्वा तु कंडू बुद्धेरतः परम् ॥२७॥
मर्दयित्वा कराभ्यां तत्संताड्य च विवृत्य तु
असकृद्धुन्वती पादौ विवृतास्यातिदुःखिता ॥२८॥
खट्वा काष्ठमथालिंग्य स्तनपीडं यथाप्रियम्
अथो विचित्रचित्तत्वे ततः प्रद्युष्टती भवेत् ॥२९॥
अथवाह्नि पुरे स्थित्वा शाकं व्यवहृतं च यत्
आलंब्य वेश्मनि निशि संध्यायां विशिखासु च ॥३०॥
कृत्वान्यवेषमात्मानं यैः कैरप्युपभुज्यते
अथ वाच्यप्रभावेण शंकिता योग्यमाहरेत् ॥३१॥
अज्ञातं च गृहं गत्वा रमयेदेव निश्चितम्
नारीसमक्षं लब्धे तु द्रविणे ह्येतदिष्यते ॥३२॥
तस्मान्मयापि भवतो न विचारप्रयोजनम्
शोण उवाच-
एवमेतन्न संदेहो गच्छ त्वं तिष्ठ दूरतः ॥३३॥
मलमूत्रविसर्गार्थं स्थित्वा गच्छाम्यतः परम्
तस्यां गतायां शोणोपि वस्त्रखंडं त्वकल्पयत् ॥३४॥
एकैकस्मिंस्ततः खंडे त्वग्रहीद्द्रविणं बहु
सैकते त्ववरं जानुदघ्नं कृत्वा ततस्ततः ॥३५॥
क्षिप्त्वा धनं पूरयित्वा विष्ठां चक्रे ततोपरि
वस्त्राधारं घटं तं च प्रतिचिक्षेप कुत्रचित् ॥३६॥
सर्वमज्ञातवत्कृत्वा स्नानाय प्रययौ मुनिः
तस्य भार्या ततः स्नानं कृत्वा संपूज्य पार्वतीम् ॥३७॥
गच्छेति भर्त्रा सा प्रोक्ता स्ववेश्माभ्यागमत्सती
एतामेकाकिनीं ज्ञात्वा मारीचो नाम राक्षसः ॥३८॥
भर्तृरूपमथास्थाय कलामेतदुवाच ह
मारीच उवाच-
सप्तगोदावरीतीरे पवित्रं पापनाशनम् ॥३९॥
द्राक्षाराममिति प्रोक्तं यत्र भीमः स्वयं स्थितः
भुक्तिमुक्तिप्रदो नॄणां स्मरणात्पापनाशनः ॥४०॥
तत्र गच्छावहे शीघ्रं त्वं तु निर्गच्छ सुंदरि
कलोवाच-
इदानीमभिषेकाय प्रवृत्तो नाभिषिक्तवान् ॥४१॥
कथमेतादृशं त्वं हि पूर्वानुक्तं वदिष्यसि
प्रकृतेरन्यथाभावमुत्पातं विदुरुत्तमाः ॥४२॥
मारीच उवाच-
भर्तुरप्रतिकूलत्वं नारीणां धर्म उच्यते
प्रतिकूलानुकूला वा मम शीघ्रं वदस्व तत् ॥४३॥
तूष्णींभूत्वाथ सा साध्वी भर्तेत्येव विचार्य तम्
निर्ययौ तेन सा बाला वनमध्ये गता सती ॥४४॥
अथ मध्याह्नकालोसौ क्रियतामाह्निकक्रियाः
राक्षसोथ वचः श्रुत्वा नानुष्ठानस्थलं त्विह ॥४५॥
यत्र तत्रास्ति गंतव्यमितो गच्छावहे ततः
किंचित्प्रदेशं गत्वा तु गुहां वीक्ष्य सरस्तथा ॥४६॥
इह स्थानं हि मे स्थातुं कार्यं स्नानमथ प्रिये
इत्युक्त्वा सरसि स्नात्वा फलाहारं प्रकल्प्य च ॥४७॥
भोजनावसरे प्राप्ते कला दध्यावुमां शिवम्
अयं धवो मम न वा इति ध्यानपराभवत् ॥४८
अथ ध्यानेन तं चोरं निश्चित्य च पतिव्रता
भीतातिनम्रवदना अश्रुपूर्णमुखी तदा ॥४९॥
कष्टमापतितं पापमित्युक्त्वा निपापत च
रुदतीं तामथो दृष्ट्वा राक्षसः पापनिश्चयः ॥५०॥
धर्षितुं तामथारेभे न चैतद्धर्षणं प्रति
बलात्कारमथो कर्तुं यतमाने तु राक्षसे ॥५१॥
आजानुनाभिपर्यंतं शैलस्थानमकल्पयत्
शिला समभवद्वस्त्रं राक्षसो वीक्ष्य तामथ ॥५२॥
इत्येवं तां हनिष्यामि खादयिष्याम्यतः परम्
इत्युक्त्वा भ्रामयित्वासिं शिरश्छेत्तुं प्रचक्रमे ॥५३॥
कलाहं मत्पतिर्ज्ञात्वा शापं दास्यति मा हर
इत्युक्तमात्रे वचसि शिरश्चिच्छेद राक्षसः ॥५४॥
प्राप्ता यां दुर्मृतिं तस्यामथ शैवाः समागताः
दूता विचित्राभरणाः सर्वायुधधराः शुभाः ॥५५॥
एतां विमानमारोप्य शिवालोकमुपागमन्
तामागतां गिरिसुता हर्षेण प्रतिपूज्य च ॥५६॥
स्वपादप्रणतां शुद्धामुमा वाक्यमभाषत
पातिव्रत्येन ते तुष्टा अभीष्टं प्रददामि ते ॥५७॥
कलोवाच-
दासीभावं प्रयच्छ त्वं त्वत्पादाब्जं मम प्रियम्
प्रार्थ्यैःकिमन्यैर्बहुभिस्तथास्त्विति शिवाब्रवीत् ॥५८॥
इंद्रादिवनिताभिः सा पूजिताथ कलानिधिः
एतस्मिन्नंतरे प्राप्तः शोणो मुनिरथो गृहम् ॥५९॥
न तत्र दृष्ट्वा तां भार्यां ध्यानयोगपरोभवत्
रक्षोहृतां मृतां प्राप्तां शिवालोकमुमां प्रति ॥६०॥
उमादत्तवरां चापि दृष्टवाञ्ज्ञानचक्षुषा
किंचिद्दुःखश्चिरं ध्यात्वा परावृत्य मुनिस्तदा ॥६१॥
श्वशुरं गतवान्सोऽथ देवरातं मुनीश्वरः
निवेद्य सर्वं सहितो विश्वामित्रमगान्मुनिम् ॥६२॥
निवेद्य तद्वसिष्ठस्य वसिष्ठोऽप्याह तान्मुनीन्
गत्वा कैलासमादौ तु दृष्ट्वा देवं महेश्वरम् ॥६३॥
अनुज्ञां शिवतो लब्ध्वा पार्वतीमंदिरे गताः
देव्यै विज्ञाप्य तत्सर्वं यथार्थं प्रवदामतत् ॥६४॥
तथेत्युक्त्वा मुनिवराः कैलासं शंकरालयम्
गत्वा प्रणम्य देवेशं वीरभद्रेण पूजिताः ॥६५॥
विज्ञापयामासुरिदं शोणभार्य्याहृतेति च
शिवः प्राह मुनींद्रास्तांञ्ज्ञातमेव मया त्विदम् ॥६६॥
अकालमरणं त्वस्या आयुर्वर्षशतं स्थितम्
अकालमृत्युयुक्तानां पुनर्ज्जीवनमस्ति च ॥६७॥
दशपुत्रप्रसूर्वीरा रूपसौभाग्यवत्यपि
भवद्भिरिति निश्चित्य समागतमिह द्विजाः ॥६८॥
यमलोकगतानां तु सर्वमेतद्विनिश्चितम्
ममलोकगतानां च गतिरन्या न विद्यते ॥६९॥
अनया कीर्तितं नाम प्राणनिर्गमने पुरा
तया यमलिपिर्मृष्टा कथमायुष्यनिर्णयः ॥७०॥
अथवा गिरिजायै च निवेदयत कृत्स्नशः
अथ ते पार्वतीपाददर्शनाय गता द्विजाः ॥७१॥
प्रणम्य मातरं सर्वे विश्वामित्रोऽब्रवीदिदम्
दीनानाथाकृशा भार्या प्रणष्टपितृकाञ्छिशून् ॥७२॥
रक्षयित्वा पुरा मातरिष्टदा त्वं सदा ह्यभूः
कला पौत्री ममैवेयं त्वामाराध्य पतिं त्वमुम् ॥७३॥
शोणं लब्धवती मातस्त्वत्पूजायाः फलं त्विदम्
तपसा लभ्यते पर्णे दानेन यदि वापि च ॥७४॥
व्रतोपवासैरथवा कला सा लभ्यते मया
एतया परिविष्टान्नं भोक्तुमिच्छामि तत्कथम् ॥७५॥
पार्वत्युवाच-
यादृशी चेष्यते भार्य्या तादृशी दीयते मया
नैनां त्यक्तुमहं शक्ता किं वा त्वं मन्यसे मुने ॥७६॥
विश्वामित्र उवाच-
माता त्वमित्येव मया अविशंकितमीरितम्
शोणो मुनिरयं मातस्तव विज्ञापयिष्यति ॥७७॥
शोण उवाच-
तामेव भार्य्यां प्रतिमे प्रीतिरत्युक्तत्कटाति
सैव मे दीयतां भार्य्या चान्यथा मरणं भवेत् ॥७८॥
पार्वत्युवाच-
भार्या पतीसमावेव विषमौ तु विगर्हितौ
तव चासदृशी चेयं सदृशीं प्रददाम्यहम् ॥७९॥
न च मन्मंदिरे प्राप्तां त्यक्ष्ये देहविवर्ज्जिताम्
शोण उवाच-
यदि नो दीयते चेयं भार्य्यामन्यां मम प्रियाम् ॥८०॥
राज्यं महेश्वरे भक्तिं प्रयच्छ वरमुत्तमम्
भविष्यत्येव मे वैतदित्युक्त्वा चाब्रवीन्मुनीन् ॥८१॥
भोक्तव्यमिह युष्माभिर्ममास्मिन्दिवसत्रयम्
प्रतींदुवारे देवस्य महेशस्यैव तुष्टये ॥८२॥
भोजनीयाः सदा कालमष्टौ विप्रा मुनीश्वराः
इच्छया यत्र कुत्रापि व्रतमेतदुपक्रमेत् ॥८३॥
वत्सरे परिपूर्णे तु महाराज तमीश्वरम्
चतुर्निष्कप्रमाणेन तदर्द्धेनैव कारयेत् ॥८४॥
श्वेतवस्त्रयुगं सूक्ष्मं चामरे व्यजने तथा
पादुकोपानहं च्छत्रं सर्वं विप्रे नियोजयेत् ॥८५॥
स्वशक्त्या दक्षिणां दत्वा ब्राह्मणांश्च विसर्जयेत्
एतदुद्यापने कुर्यादादौ मध्ये तथा सुधीः ॥८६॥
दिनेदिने तथा पूजा सोमस्य परमात्मनः ॥८७॥
तत्पुरुषस्य विद्महे महादेवस्य धीमहि
तन्नो रुद्र प्रःचोदयात् ॥८८॥
इति पूजामंत्रः -
स्थंडिले पूजयेद्देवं प्रतिमायामथापि वा
एकभक्तं स्वयं कुर्याद्ब्रह्मचर्यसमन्वितम् ॥८९॥
एतत्सोमव्रतं प्रोक्तं शिवतुष्टिप्रदं शुभम्
य एवं कुरुते भक्त्या नारी वा पुरुषोपि वा ॥९०॥
छायेव शंकरस्यासौ नित्यमेवानुवर्तते
अद्य सोमदिनं प्राप्तं मध्याह्नात्परतो भुजिः ॥९१॥
यूयं च सर्वे मुनयः कृतपौर्वाह्णिकक्रियाः
माध्याह्निकीं क्रिंयां कृत्वा भोक्तुमर्हथ सत्तमाः ॥९२॥
मातुर्वचनमाकर्ण्य तथेत्युक्त्वा नमस्य च
अनुष्ठानाय ते सर्वे गता भागीरथीं नदीम् ॥९३॥
संगमे मध्यतो वृत्ते कृत्वा माध्याह्निकीं क्रियाम्
विश्वेशपूजां कृत्वा च षोडशैरुपचारकैः ॥९४॥
अथ ते पार्वतीगेहं गत्वा देवीं प्रणम्य च
लोकमातुर्नियोगेन शालंकायनकात्मजः ॥९५॥
पादप्रक्षालनमुखानुपचारानकल्पयत्
पंचगंधकमादाय तान्मुनीनभ्यलेपयत् ॥९६॥
राज्यं च महदाप्नोति यो दद्यात्पंचगंधकम्
पंचबाणसमो भूत्वा स्त्रीणां वल्लभतामियात् ॥९७॥
विष्णवे यो हि दद्यात्तु सोपि मारसमो भवेत्
कामीत्वकामी यः कुर्यात्कैलासे पंचवत्सरान् ॥९८॥
सर्वगंधसमोपेतो भोगी चेष्टार्थसंयुतः
यथेष्टवर्तनो भूत्वा ततो जायेत भूमिपः ॥९९॥
कस्तूरीचंदनं चंद्रमगरुद्वितयं तथा
पंचगंधं समाख्यातं सर्वकार्येषु शोभनम् ॥१००॥
विलिप्तपंचगंधेषु ब्राह्मणेषु महात्मसु
आसीनेषु तदाभ्यागाद्ब्राह्मणः स्थविरः कृशः ॥१०१॥
उन्मत्तवेषो दिग्वासा जराजर्ज्जरितस्त्वरी
खल्वाटः श्वासकासी च बहुहिक्की क्षुधान्वितः ॥१०२॥
लालास्नुतः श्मश्रुकूर्चश्लेष्मानम्रः स्खलत्पदः
द्व्यष्टवर्षा तथा नारी सर्वाभरणभूषिता ॥१०३॥
रूपलावण्यसंयुक्ता लोकोत्कृष्टस्वरूपिणी
पुरुषान्रूपसंयुक्तान्वीक्षंती च ततस्ततः ॥१०४॥
गायंती त्वथ नृत्यंती तं दृष्ट्वाह सती पतिम्
प्रबाधते वृद्धधवं शीघ्रमेहि कृशाधम ॥१०५॥
आलंब्य त्वत्करं वृद्ध दुःखिता नित्यमस्म्यहम्
भूषणं वसनं घ्राणं स्रग्विलेपनमेव च ॥१०६॥
हासो गीतिस्तथा पानं मंडनं शोभनं गृहम्
सर्वऋतुसमृद्धिश्च कामस्यैवाभिवृद्धये ॥१०७॥
सर्वेषामेव कामानां रतिरेका प्रयोजनम्
सुखानि सर्वाण्येकत्र रतिरेकत्र च स्थिता ॥१०८॥
तुलया तुलितं सर्वं रतिः शतगुणाधिका
तन्मादृशी समासाद्य भवंतं किं करिष्यति ॥१०९॥
इति चान्यानि वाक्यानि ब्रुवाणा गृह्य वै करे
तदुत्तरमुवाचेदं किं कुर्म्मो भाग्यमीदृशम् ॥११०॥
मा मारय दुरुक्त्या त्वं मां विज्ञायाथ चेदृशम्
एतादृशो द्विजः प्रायात्पार्वतीमंदिरं तदा ॥१११॥
अविज्ञायैव गिरिजामिदं वचनमब्रवीत्
द्विज उवाच-
अन्नार्थिनमिह प्राप्तं विद्धि मामतिथिं मुने ॥११२॥
भोजनावसरे प्राप्तं ब्राह्मणान्न हि भोजय
तद्भार्यावचनं प्राह क्व मुनिर्योषिदेव हि ॥११३॥
अंधस्य वचनं सर्वमेवमेतादृशं दृढम्
पार्वत्युवाच-
प्रक्षाल्य चरणावेतमासने उपवेशय ॥११४॥
जांबूनदकृतेतीव भोज्येनातर्पयद्द्विजम्
सुरत्नचषकोपेतममृतं ब्रह्मवादिनीम् ॥११५॥
अरुंधतीमथाहूय पर्य्यवेषयदंबिका
कला चारुंधती चैव अनसूया पतिव्रता ॥११६॥
परिवेषं पदार्थानां स्रग्गंधाक्षतभूषणाः
अकुर्वन्नंबिकावाक्यात्षड्रसानां पृथक्पृथक् ॥११७॥
भुंजानेषु तु विप्रेषु दिग्वासा ब्राह्मणाकृतिः
क्षणेन बुभुजे सर्वं दातुं नो शेकुरंगनाः ॥११८॥
अथ सा गिरिजा देवी स्वयं दातुं प्रचक्रमे
यथादत्तमशेषं तु क्षणेनाश्नाति स द्विजः ॥११९॥
भांडस्थितमशेषं च भोक्तुमैच्छत्प्रिया सह
तथांबिका समादाय प्रादादक्षय्यमस्त्विति ॥१२०॥
अथ वामकरेणासौ भोक्तुमैच्छत्ततः सती
तत्राप्यक्षय्यमेवास्तु तवान्नमिति चार्पयत् ॥१२१॥
करांतरमथोत्पाद्य भोक्तुमैच्छद्द्विजोत्तमः
एवं करसहस्रं च कृत्वैच्छद्भोजनं द्विजः ॥१२२॥
दत्त्वा दत्त्वा पुनर्देवी संतुष्टा न च कोपना
न चित्तमन्यथाकर्तुं शक्यमस्या इति द्विजः ॥१२३॥
प्रक्षाल्य हस्तौ चरणौ हस्तार्पितसुगंधवान्
पार्वतीं वाक्यमाहेदं तोषितोहं वरं वृणु ॥१२४॥
पार्वत्युवाच-
मम दातुं वरं शक्तो यदि त्वं ब्राह्मणोत्तम
वरेण मम किं कार्य्यं शंकरो मे यतः पतिः ॥१२५॥
तदाह ब्राह्मणो देवीं शंकरः कीदृशस्त्विति
सदृशोऽसौ त्वया नो वा त्वद्योग्यो नान्यथा भवेत् ॥१२६॥
स्त्रीवल्लभत्वमप्येव रूपं दाक्ष्यं शुभांगना
नो चेदेतादृशी भार्य्या मदधीना कथं भवेत् ॥१२७॥
पार्वत्युवाच-
त्वद्भार्य्यावचनं श्रुत्वा तव वाक्यं तथा द्विज
अपलापस्त्वयं ब्रह्मञ्च्छ्रुतं किंवा तथाविषम् ॥१२८॥
ब्राह्मण उवाच-
धम्मिल्लं ते करिष्यामि ममांकं त्वं समारुह
प्रचलेद्यदि ते चित्तं पातिव्रत्यं कुतस्तव ॥१२९॥
पार्वत्युवाच-
मम व्रतं द्विजश्रेष्ठ शंकरांकैकरोहणम्
अथ तच्चित्तमाज्ञाय भवान्याः परमेश्वरः ॥१३०॥
द्व्यष्टवर्षवया भूत्वा सुस्निग्धकचबंधनः
सुस्निग्धचारुनयनो गोक्षीरसमविग्रहः ॥१३१॥
कोटिकंदर्पलावण्यः सर्वाभरणभूषितः
स्वपार्श्वस्थितनार्यंसे प्रसारितभुजद्वयः ॥१३२॥
गायन्मंदतया साकमुमया पटुता यथा
अथ तां पार्वतीं शंभुः करेणाकृष्य च स्मयन् ॥१३३॥
विन्यस्य हस्तौ वनिता द्वयांसे गायन्समस्ताभरणः प्रसन्नदृक्
ननर्त चानंदसमृद्धगात्रो मुनींद्र गीतश्च सकालवेलम् ॥१३४॥
एतादृशं शिवं ध्यात्वा जन्मकोटिशतेष्वपि
न दुःखं जायते तस्य सदा हर्षश्च जायते ॥१३५॥
अथ स्तुतो मुनिवरैर्नारीं कृत्वा हरिं ततः
अथ सा पार्वती तुष्टा देवं प्राह पिनाकिनम् ॥१३६॥
पार्वत्युवाच-
किमित्येतादृशं भावमास्थाय त्वमिहागतः
नारीं कृत्वा तथा विष्णुं किं प्रकृत्या न चागतौ ॥१३७॥
शिवः प्राह व्रते चात्र ह्यतिथेर्भोजनं शुभम्
जाने सिद्धिमथो येषां विषादो नाभिजायते ॥१३८॥
जाते विषादे तु व्रतमसम्यगिति निश्चयः
सोमवाराः समायांति यावंतोब्दशतानि तु ॥१३९॥
तावंति मत्पुरे देवि सर्वभोगसमन्वितः
सभार्य्यपुत्रबंधुश्च वेदोक्तायुष्यजीवितः ॥१४०॥
पश्चाद्वाराणसीं गत्वा मृतो मुक्तिमवाप्स्यति
शंभुरुवाच-
अथ देवे स्थिते तत्र मुनयस्त्रिः प्रदक्षिणम् ॥१४१॥
कृत्वा पंचनमस्कारान्पुनः कृत्वा प्रदक्षिणम्
पुनश्च दंडवद्भूत्वा विसृष्टा निर्ययुस्ततः ॥१४२॥
अथ शोणः शोभितांगीं भार्यामाप ह्यनिंदिताम्
राज्यं च भारते वर्षे धर्मेणापालयद्द्विजः ॥१४३॥
मानुषानखिलान्भोगान्बुभुजे शिवभक्तिमान्
नित्यं देवार्चनपरो नित्यं ब्राह्मणपूजकः ॥१४४॥
नित्यदाता नित्ययाजी नित्यश्रोता पुराणकम्
मृतः स गतवांल्लोकं शंकरस्य विभोः शुभम् ॥१४५॥
शंभुरुवाच-
नामकीर्तनमाहात्म्यं प्रसंगात्परिकीर्तितम्
शृण्वतां सर्वपापघ्नं भक्तानां च तथा नृप ॥१४६॥
सर्वकल्याणदं नित्यं सुभार्य्या राज्यदं शिवम्
शिवभक्तिप्रदं गोप्यं यस्य कस्यापि नेरयेत् ॥१४७॥
इति श्रीपद्मपुराणे पातालखंडे शिवराघवसंवादे शिवनाममाहात्म्ये
द्वादशोत्तरशततमोऽध्यायः ॥११२॥

N/A

References : N/A
Last Updated : November 13, 2020

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP