संस्कृत सूची|संस्कृत साहित्य|पुराण|पद्मपुराणम्|पातालखण्डः|
अध्यायः ८६

पातालखण्डः - अध्यायः ८६

भगवान् नारायणाच्या नाभि-कमलातून, सृष्टि-रचयिता ब्रह्मदेवाने उत्पन्न झाल्यावर सृष्टि-रचना संबंधी ज्ञानाचा विस्तार केला, म्हणून ह्या पुराणास पद्म पुराण म्हणतात.


सूत उवाच-
इति तस्य वचः श्रुत्वा नारदस्य महात्मनः
अंबरीषश्च राजर्षिर्विस्मितो वाक्यमब्रवीत् ॥१॥
अंबरीष उवाच-
मार्गशीर्षादिकान्मासान्हित्वा पुण्यान्महामुने
सर्वमासाधिकं मासं वैशाखं किं प्रशंससि ॥२॥
सर्वेभ्योऽप्यधिकः कस्मान्माधवो माधवप्रियः
को विधिस्तत्र किं दानं किं तपः का च देवता ॥३॥
त्वत्पादांभोजरजसा पावितस्य च मे मुने
उपदेशप्रसादेन प्रसादं कर्तुमर्हसि ॥४॥
धर्मज्ञो धर्ममार्गाणामुद्धर्तासि महामुने
त्वमेकोऽखिलतत्त्वार्थवेत्ता धर्मोपदेशकः ॥५॥
कर्तोपदेष्टा मंता वानुमंतापि प्रयोजकः
शास्त्रविद्भिर्मुनिवर स्मर्यंते समभागिनः ॥६॥
व्रतसत्रतपोदानैर्यत्फलं समवाप्यते
धर्मोपदेशनेनैव तत्सर्वमुपलभ्यते ॥७॥
तीर्थस्नानं तपोयज्ञकर्म यत्कुरुते मुने
अपि तत्फलभागीस्याद्यः प्रवर्तयिता भवेत् ॥८॥
यद्यदाचरति श्रेष्ठस्तत्तदेवेतरो जनः
स यत्प्रमाणं कुरुते लोकस्तदनुवर्तते ॥९॥
तदर्हति भवान्धर्ममुपदेष्टुं तदद्भुतम्
दुर्ल्लभो गुरुसंबोधो देशकालोपपत्तयः ॥१०॥
न केचन तथा भावाश्चेतः शीतलयंतिनः
राज्यलाभादयोऽप्येते यथा तव समागमः ॥११॥
सूत उवाच-
अथ मंदमृदुस्मेरस्फुरद्दंतप्रभानुगः
अंबरीषं प्रत्युवाच नारदो मुनिसत्तमः ॥१२॥
नारद उवाच-
शृणु राजन्प्रवक्ष्यामि हिताय जगतस्तव
विधिर्माधवमासस्य यच्छ्रुतो ब्रह्मणः पुरा ॥१३॥
दुर्ल्लभं भारते वर्षे जन्म तस्मान्मनुष्यता
मानुष्ये दुर्ल्लभे लोके स्वस्वधर्मप्रवर्त्तनम् ॥१४॥
ततोऽपि भक्तिर्भूपाल वासुदेवेऽतिदुर्ल्लभा
तत्रापि दुर्ल्लभो मासो माधवो माधवप्रियः ॥१५॥
तमवाप्य ततो मासं स्नानदानजपादिकम्
कुर्वंति विधिना ये तु धन्यास्ते कृतिनो नराः ॥१६॥
तेषां दर्शनमात्रेण पापिनोऽपि विकिल्बिषाः
भवंति भगवद्भावभाविता धर्मकांक्षिणः ॥१७॥
माधवे मासि यैः स्नातं प्रातर्नियमसंयुतैः
ते कोटिवर्षपर्यंतं क्रीडंते नंदने वने ॥१८॥
यथा न वारिधिसमो लोके कोऽपि जलाशयः
तथा मासो न वैशाखसदृशो माधवप्रियः ॥१९॥
तावत्पापानि तिष्ठंति मनुष्याणां कलेवरे
यावत्किलमलध्वंसी मासो नायाति माधवः ॥२०॥
अवशिष्टदिनान्येव पंचमासस्य तस्य वै
एकादशीं समारभ्य सर्वमाससमानि वै ॥२१॥
वैशाखे पूजितो देवो माधवो मधुहा तु यैः
नानोपचारै राजेंद्र तैः प्राप्तं जन्मनः फलम् ॥२२॥
किं किं न दुर्ल्लभतरं प्राप्यते मासि माधवे
स्नानेन परमेशस्य पूजनेन यथाविधि ॥२३॥
न दत्तं न हुतं जप्तं न तीर्थे मरणं कृतम्
यैर्हि नारायणो नैव ध्यातो निखिलपापहा ॥२४॥
तेषां जन्म नृणां लोके ज्ञातव्यं निष्फलं नृप
द्रव्येषु विद्यमानेषु कृपणो यो भवेन्नरः ॥२५॥
अदत्वा म्रियते यो हि तस्य द्रव्यं निरर्थकम्
तीर्थस्नानादि तपसा सत्कुले जन्म लभ्यते ॥२६॥
न दानेन विना भूप किंचिदप्युपतिष्ठति
वैशाखस्नानमाहात्म्यादपि पंचदिनात्मकात् ॥२७॥
सत्कुले प्राप्यते जन्म वैभवं विविधं तथा
सुपुत्रः सुकुलं भूप धनधान्यं वरस्त्रियः ॥२८॥
सुजन्ममरणं चापि सुभोगाः सुखमेव च
सदा दानेऽधिका प्रीतिरौदार्यं धैर्यमुत्तमम् ॥२९॥
प्रसादात्तस्य देवस्य विष्णोश्चैव महात्मनः
नारायणस्य जायंते सिद्धयो भूप वांच्छिताः ॥३०॥
ऊर्जे मासि तपो मासि माधवे माधवप्रिये
स्नात्वा दामोदरं भक्त्या माधवं मधुसूदनम् ॥३१॥
विशेषेण समभ्यर्च्य दत्वा दानानि शक्तितः
एहिकं सुखमासाद्य नरो हरिपदं व्रजेत् ॥३२॥
अनेकजन्मार्जितपातकावली विलीयते माधवमज्जनेन
सूर्योदये भूप यथा तमिस्रं वचः स्वयंभूरिदमादिशन्मे ॥३३॥
चकार विष्णुर्विपुलप्रचारं मासस्य वै माधवसंज्ञकस्य
यमस्य गुप्तं वचसा विचिंत्य मनुष्यलोकं गमितं चकार ॥३४॥
तस्मादस्मिन्समायाते माधवे मासि वैष्णवैः
स्नात्वा पुण्यजले तीर्थे गंगायाः पावने नृणाम् ॥३५॥
रेवाया वा महाराज यामुने शारदेऽथवा
प्रातस्त्वनुदिते भानौ विधानेन नृपोत्तम ॥३६॥
पूजयित्वा च देवेशं मुकुंदं मधुसूदनम्
पुत्रपौत्रधनैः श्रेयो वांच्छितानि सुखानि च ॥३७॥
अनुभूय तपस्त्वंते स्वर्गमक्षयमाप्नुयात्
एवं ज्ञात्वा महाभाग मधुसूदनमर्चय ॥३८॥
स्नात्वा सम्यग्विधानेन वैशाखे तु विशेषतः
देवमाराध्य गोविन्दं नारायणमनामयम् ॥३९॥
प्राप्स्यसि त्वं सुखं पुत्रं धनानि च हरेः पदम्
देवदेवं नमस्कृत्य माधवं पापनाशनम् ॥४०॥
प्रारभेत व्रतमिदं पौर्णमास्यां मधोर्नृप
यमैश्च नियमैर्युक्तः शक्त्या किंचित्प्रदाय च ॥४१॥
हविष्यभुग्भूमिशायी ब्रह्मचर्यव्रते स्थितः
कृच्छ्रादितपसा क्षामो ध्यायन्नारायणं हृदि ॥४२॥
एवं प्राप्य च वैशाखीं दद्यान्मधुतिलादिकम्
भोजनं द्विजमुख्येभ्यो भक्त्या धेनुं सदक्षिणाम् ॥४३॥
अच्छिद्रं प्रार्थयेच्चापि तस्य स्नानस्य भूसुरान्
यथा लक्ष्मीः प्रिया भूप माधवस्य जगत्पतेः ॥४४॥
तथैव माधवो मासो मधुसूदनवल्लभः
एवं विधियुतो मर्त्यः स्नात्वा द्वादशवत्सरम् ॥४५॥
उद्यापनं चरेच्छक्त्या मधुसूदनतुष्टये
इदं माधवमासस्य माहात्म्यं कथितं तव ॥४६॥
यत्पुरा ब्रह्मणो वक्त्राच्छ्रुतमासीन्मया नृप ॥४७॥
इति श्रीपद्मपुराणे पातालखंडे वैशाखमासमाहात्म्ये
षडशीतितमोऽध्यायः ॥८६॥

N/A

References : N/A
Last Updated : November 06, 2020

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP