संस्कृत सूची|संस्कृत साहित्य|पुराण|पद्मपुराणम्|पातालखण्डः|
अध्यायः २०

पातालखण्डः - अध्यायः २०

भगवान् नारायणाच्या नाभि-कमलातून, सृष्टि-रचयिता ब्रह्मदेवाने उत्पन्न झाल्यावर सृष्टि-रचना संबंधी ज्ञानाचा विस्तार केला, म्हणून ह्या पुराणास पद्म पुराण म्हणतात.


सुमतिरुवाच
अथ प्रयाते भूपाले सर्वलोकसमन्विते
महाभागैर्वैष्णवैश्च गायकैः कृष्णकीर्तनम् ॥१॥
शुश्रावासौ महाराजो मार्गे गोविंदकीर्तनम्
जय माधव भक्तानां शरण्य पुरुषोत्तम ॥२॥
मार्गे तीर्थान्यनेकानि कुर्वन्पश्यन्महोदयम्
तापसब्राह्मणात्तेषां महिमानमथा शृणोत् ॥३॥
विचित्रविष्णुवार्ताभिर्विनोदितमना नृपः
मार्गेमार्गे महाविष्णुं गापयामास गायकान् ॥४॥
दीनांधकृपणानां च पंगूनां वासनोचितम्
दानं ददौ महाराजो बुद्धिमान्विजितेंद्रियः ॥५॥
अनेकतीर्थविरजमात्मानं भव्यतां गतम्
कुर्वन्ययौ स्वीयलोकैर्हरिध्यानपरायणः ॥६॥
नृपो गच्छन्ददर्शाग्रे नदीं पापप्रणाशिनीम्
चक्रांकितग्रावयुतां मुनिमानस निर्मलाम् ॥७॥
अनेकमुनिवृंदानां बहुश्रेणिविराजिताम्
सारसादिपतत्रीणां कूजितैरुपशोभिताम् ॥८॥
दृष्ट्वा पप्रच्छ विप्राग्र्यं तापसं धर्मकोविदम्
अनेकतीर्थमाहात्म्य विशेषज्ञानजृंभितम् ॥९॥
स्वामिन्केयं नदी पुण्या मुनिवृन्दनिषेविता
करोति मम चित्तस्य प्रमोदभरनिर्भरम् ॥१०॥
इति श्रुत्वा वचस्तस्य राजराजस्य धीमतः
वक्तुं प्रचक्रमे विद्वांस्तीर्थमाहात्म्यमुत्तमम् ॥११॥
ब्राह्मण उवाच
गंडकीयं नदी राजन्सुरासुरनिषेविता
पुण्योदकपरीवाह हतपातकसंचया ॥१२॥
दर्शनान्मानसं पापं स्पर्शनात्कर्मजं दहेत्
वाचिकं स्वीय तोयस्य पानतः पापसंचयम् ॥१३॥
पुरा दृष्ट्वा प्रजानाथः प्रजाः सर्वा विपावनीः
स्वगंडविप्रुषोनेक पापघ्नीं सृष्टवानिमाम् ॥१४॥
एनां नदीं ये पुण्योदां स्पृशंति सुतरंगिणीम्
ते गर्भभाजो नैव स्युरपि पापकृतो नराः ॥१५॥
अस्यां भवा ये चाश्मानश्चक्रचिह्नैरलंकृताः
ते साक्षाद्भगवंतो हि स्वस्वरूपधराः पराः ॥१६॥
शिलां संपूजयेद्यस्तु नित्यं चक्रयुतां नरः
न जातु स जनन्या वै जठरं समुपाविशेत् ॥१७॥
पूजयेद्यो नरो धीमाञ्छालग्रामशिलां वराम्
तेनाचारवता भाव्यं दंभलोभवियोगिना ॥१८॥
परदार परद्रव्यविमुखेन नरेण हि
पूजनीयः प्रयत्नेन शालग्रामः सचक्रकः ॥१९॥
द्वारवत्यां भवं चक्रं शिला वै गंडकीभवा
पुंसां क्षणाद्धरत्येव पापं जन्मशतार्जितम् ॥२०॥
अपि पापसहस्राणां कर्ता तावन्नरो भवेत्
शालग्रामशिलातोयं पीत्वा पूतो भवेत्क्षणात् ॥२१॥
ब्राह्मणः क्षत्रियो वैश्यः शूद्रो वेदपथि स्थितः
शालग्रामं पूजयित्वा गृहस्थो मोक्षमाप्नुयात् ॥२२॥
न जातु चित्स्त्रिया कार्यं शालग्रामस्य पूजनम्
भर्तृहीनाथ सुभगा स्वर्गलोकहितैषिणी ॥२३॥
मोहात्स्पृष्ट्वापि महिला जन्मशीलगुणान्विता
हित्वा पुण्यसमूहं सा सत्वरं नरकं व्रजेत् ॥२४॥
स्त्रीपाणिमुक्तपुष्पाणि शालग्रामशिलोपरि
पवेरधिकपातानि वदंति ब्राह्मणोत्तमाः ॥२५॥
चंदनं विषसंकाशं कुसुमं वज्रसंनिभम्
नैवेद्यं कालकूटाभं भवेद्भगवतः कृतम् ॥२६॥
तस्मात्सर्वात्मना त्याज्यं स्त्रिया स्पर्शः शिलोपरि
कुर्वती याति नरकं यावदिंद्राश्चतुर्दश ॥२७॥
अपि पापसमाचारो ब्रह्महत्यायुतोऽपि वा
शालग्रामशिलातोयं पीत्वा याति परां गतिम् ॥२८॥
तुलसीचंदनं वारि शंखो घंटाथ चक्रकम्
शिला ताम्रस्य पात्रं तु विष्णोर्नामपदामृतम् ॥२९॥
पदामृतं तु नवभिः पापराशिप्रदाहकम्
वदंति मुनयः शांताः सर्वशास्त्रार्थकोविदाः ॥३०॥
सर्वतीर्थपरिस्नानात्सर्वक्रतुसमर्चनात्
पुण्यं भवति यद्राजन्बिंदौ बिंदौ तदद्भुतम् ॥३१॥
शालग्रामशिला यत्र पूज्यते पुरुषोत्तमैः
तत्र योजनमात्रं तु तीर्थकोटिसमन्वितम् ॥३२॥
शालग्रामाः समाः पूज्याः समेषु द्वितयं नहि
विषमा एव संपूज्या विषमेषु त्रयं नहि ॥३३॥
द्वारावती भवं चक्रं तथा वै गंडकीभवम्
उभयोः संगमो यत्र तत्र गंगा समुद्रगा ॥३४॥
रूक्षाः कुर्वंति पुरुषा नायुः श्रीबलवर्जितान्
तस्मात्स्निग्धा मनोहारि रूपिण्यो ददति श्रियम् ॥३५॥
आयुष्कामो नरो यस्तु धनकामो हि यः पुमान्
पूजयन्सर्वमाप्नोति पारलौकिकमैहिकम् ॥३६॥
प्राणांतकाले पुंसस्तु भवेद्भाग्यवतो नृप
वाचि नाम हरेः पुण्यं शिला हृदि तदंतिके ॥३७॥
गच्छत्सु प्राणमार्गेषु यस्य विश्रंभतोऽपि चेत्
शालग्रामशिला स्फूर्तिस्तस्य मुक्तिर्न संशयः ॥३८॥
पुरा भगवता प्रोक्तमंबरीषाय धीमते
ब्राह्मणा न्यासिनः स्निग्धाः शालग्रामशिलास्तथा ॥३९॥
स्वरूपत्रितयं मह्यमेतद्धि क्षितिमंडले
पापिनां पापनिर्हारं कर्तुं धृतमुदं च ता ॥४०॥
निंदंति पापिनो ये वा शालग्रामशिलां सकृत्
कुंभीपाके पचंत्याशु यावदाभूतसंप्लवम् ॥४१॥
पूजां समुद्यतं कर्तुं यो वारयति मूढधीः
तस्य मातापिताबंधुवर्गा नरकभागिनः ॥४२॥
यो वा कथयति प्रेष्ठं शालग्रामार्चनं कुरु
सकृतार्थो नयत्याशु वैकुंठं स्वस्य पूर्वजान् ॥४३॥
अत्रैवोदाहरंतीममितिहासं पुरातनम्
मुनयो वीतरागाश्च कामक्रोधविवर्जिताः ॥४४॥
पुरा कीकटसंज्ञे वै देशे धर्मविवर्जिते
आसीत्पुल्कसजातीयो नरः शबरसंज्ञितः ॥४५॥
नित्यं जंतुवधोद्युक्तः शरासनधरो मुहुः
तीर्थं प्रति यियासूनां बलाद्धरति जीवितम् ॥४६॥
अनेकप्राणिहत्याकृत्परस्वे निरतः सदा
सदा रागादिसंयुक्तः कामक्रोधादिसंयुतः ॥४७॥
विचरत्यनिशं भीमे वने प्राणिवधंकरः
विषसंसक्तबाणाग्र रूढचापगुणोद्धुरः ॥४८॥
सैकदा पर्यटन्व्याधः प्राणिमात्रभयंकरः
कालं प्राप्तं न जानाति समीपेऽप्युग्रमानसः ॥४९॥
यमदूतास्तु संप्राप्ताः पाशमुद्गरपाणयः
ताम्रकेशा दीर्घनखा लंबदंष्ट्रा भयानकाः ॥५०॥
श्यामा लोहस्यनिगडान्बिभ्रतो मोहकारकाः
बध्नंतु पापिनं ह्येनं प्राणिमात्रभयंकरम् ॥५१॥
कदाचिन्मनसा नायं प्राणिमात्रोपकारकः
परदार परद्रव्य परद्रोहपरायणः ॥५२॥
एतस्य जिह्वां महतीमहं निष्कासयाम्यतः
एको वदति चैतस्य चक्षुरुत्पाटयाम्यहम् ॥५३॥
एको वदति चैतस्य करौ कृंतामि पापिनः
अन्यो वदत्यहं कर्णौ कर्तयामि दुरात्मनः ॥५४॥
एवं वदंतः सुभृशं दन्तैर्दन्तनिपीडकाः
आगत्य तं दुरात्मानं सायुधास्तस्थुरुन्मदाः ॥५५॥
एको दूतस्तदा सर्परूपं धृत्वादशत्पदे
स दष्टमात्रः सहसा गतासुः पर्यजायत ॥५६॥
तदा तं लोहपाशेन बद्ध्वा ते यमकिंकराः
कशाभिस्ताडयामासुर्मुद्गरैः प्राहरन्क्रुधा ॥५७॥
अहो दुष्ट दुरात्मंस्त्वं कदाचिन्नाचरः शुभम्
मनसापि यतस्त्वां वै क्षेप्स्यामो रौरवेषु च ॥५८॥
त्वङ्मांसं वायसा रौद्रा भक्षयिष्यंति वै क्रुधा
आजन्मतस्तु भवता न कृतं हरिसेवनम् ॥५९॥
त्वया कलत्रपुत्राद्या द्रोहं कृत्वा सुपोषिताः
न कदाचित्स्मृतो देवः पापहारी जनार्दनः ॥६०॥
तस्मात्त्वां लोहशंकौ वा कुंभीपाके च रौरवे
धर्मराजाज्ञया सर्वे नेष्यामो बहुताडनैः ॥६१॥
एवमुक्त्वा यदानेतुं समैच्छन्यमकिंकराः
तावत्प्राप्तो महाविष्णुचरणाब्जपरायणः ॥६२॥
यमदूतास्तदा दृष्टा वैष्णवेन महात्मना
पाशमुद्गरदंडादिदुष्टायुधधरा गणाः ॥६३॥
पुल्कसं लोहनिगडैर्बद्ध्वा यातुं समुद्यताः
बन्ध बन्ध ग्रसच्छिन्धि भिन्धि भिन्धीति वादिनः ॥६४॥
तदा कृपालुस्तं प्रेक्ष्य पद्मनाभपरायणः
अत्यंतकृपयायुक्तं चेतस्तत्र तदाकरोत् ॥६५॥
असौ महादुष्ट पीडां मा यातु मम सन्निधौ
मोचयाम्यहमद्यैव यमदूतेभ्य एव च ॥६६॥
इति कृत्वा मतिं तस्मिन्कृपायुक्तो मुनीश्वरः
शालग्रामशिलां हस्ते गृहीत्वास्य गतोंऽतिके ॥६७॥
तस्य पादोदकं पुण्यं तुलसीदलमिश्रितम्
मुखे विनिक्षिपन्कर्णे रामनाम जजाप ह ॥६८॥
तुलसीं मस्तके तस्य धारयामास वैष्णवः
शिलां हृदि महाविष्णोर्धृत्वा प्राह स वैष्णवः ॥६९॥
गच्छंतु यमदूता वै यातनासु परायणाः
शालग्रामशिलास्पर्शो दहतात्पातकं महत् ॥७०॥
इत्युक्तवति तस्मिन्वै गणा विष्णोर्महाद्भुताः
आययुस्तस्य सविधे शिलास्पर्शाद्गतांहसः ॥७१॥
पीतवस्त्राः शंखचक्रगदापद्मविराजिताः
आगत्य मोचयामासुर्लोहपाशाद्दुरासदात् ॥७२॥
मोचयित्वा महापापकारकं पुल्कसं नरम्
ऊचुः किमर्थं बद्धोऽयं वैष्णवः पूज्यदेहभृत् ॥७३॥
कस्याज्ञाकारका यूयं यदधर्मप्रकारकाः
मुंचंतु वैष्णवं त्वेनं किमर्थं विधृतो ह्ययम् ॥७४॥
इति वाक्यं समाकर्ण्य जगदुर्यमकिंकराः
धर्मराजाज्ञया प्राप्ता नेतुं पापिनमुद्यताः ॥७५॥
नासौ कदाचिन्मनसा प्राणिमात्रोपकारकः
प्राणिहत्या महापापकारी दुष्टशरीरभृत् ॥७६॥
नॄन्बहूंस्तीर्थयात्रायां गच्छतोऽसौ व्यलुंठयत्
परदाररतो नित्यं सर्वपापाधिकारकः ॥७७॥
तस्मान्नेतुं वयं प्राप्ताः पापिनं पुल्कसं नरम्
भवद्भिर्मोचितः कस्मादकस्मादागतैर्भटैः ॥७८॥
विष्णुदूता ऊचुः
ब्रह्महत्यादिकं पापं प्राणिकोटिवधोद्भवम्
शालग्रामशिलास्पर्शः सर्वं दहति तत्क्षणात् ॥७९॥
रामेति नाम यच्छ्रोत्रे विश्रंभादागतं यदि
करोति पापसंदाहं तूलं वह्निकणो यथा ॥८०॥
तुलसी मस्तके यस्य शिला हृदि मनोहरा
मुखे कर्णेऽथवा राम नाम मुक्तस्तदैव सः ॥८१॥
तस्मादनेन तुलसी मस्तके विधृता पुरा
श्रावितं रामनामाशु शिला हृदि सुधारिता ॥८२॥
तस्मात्पापसमूहोऽस्य दग्धः पुण्यकलेवरः
यास्यते परमं स्थानं पापिनां यत्सुदुर्ल्लभम् ॥८३॥
वर्षायुतं तत्र भुक्त्वा भोगान्सर्वमनोहरान्
भारते जन्म संप्राप्य समाराध्य जगद्गुरुम् ॥८४॥
प्राप्स्यते परमं स्थानं सुरासुरसुदुर्ल्लभम्
न ज्ञातो महिमा सम्यक्छिलायाः परमेष्ठिनः ॥८५॥
दृष्टा स्पृष्टार्चिता वापि सर्वपापहरा क्षणात्
इत्युक्त्वा विरताः सर्वे महाविष्णोर्गणा मुदा ॥८६॥
याम्यास्ते किंकरा राज्ञे कथयामासुरद्भुतम्
वैष्णवो हर्षमापेदे रघुनाथपरायणः ॥८७॥
मुक्तोऽसौ यमपाशाच्च गमिष्यति परं पदम्
तदाजगाम विमलं किंकिणीजालमंडितम् ॥८८॥
विमानं देवलोकात्तु मनोहारि महाद्भुतम्
तत्रारुह्य गतः स्वर्गं महापुण्यैर्निषेवितम् ॥८९॥
भोगान्भुक्त्वा स विपुलानाजगाम महीतलम्
काश्यां जन्म समासाद्य शुचिवाडवसत्कुले ॥९०॥
आराध्य जगतामीशं गतवान्परमं पदम्
स पापी साधुसंगत्या शालग्रामशिलां स्पृशन् ॥९१॥
महापीडाविनिर्मुक्तो गतवान्परमं पदम्
मया तेऽभिहितं राजन्गंडकीचरितं महत् ॥९२॥
श्रुत्वा विमुच्यते पापैर्भुक्तिं मुक्तिं च विंदति ॥९३॥
इति श्रीपद्मपुराणे पातालखंडे रामाश्वमेधे शेषवात्स्यायनसंवादे
गंडकीमाहात्म्यंनाम विंशोऽध्यायः ॥२०॥

N/A

References : N/A
Last Updated : November 04, 2020

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP