संस्कृत सूची|संस्कृत साहित्य|पुराण|पद्मपुराणम्|पातालखण्डः|
अध्यायः ६४

पातालखण्डः - अध्यायः ६४

भगवान् नारायणाच्या नाभि-कमलातून, सृष्टि-रचयिता ब्रह्मदेवाने उत्पन्न झाल्यावर सृष्टि-रचना संबंधी ज्ञानाचा विस्तार केला, म्हणून ह्या पुराणास पद्म पुराण म्हणतात.


शेष उवाच
शत्रुघ्नं पतितं वीक्ष्य सुरथः प्रवरो नृपः
प्रययौ मणिना सृष्टे रथे तिष्ठन्महाद्भुते ॥१॥
पुष्कलस्तु रणे पूर्वं पातितः स विचारयन्
लवं ययौ तदा योद्धुं महावीरबलोन्नतम् ॥२॥
सुरथः कुशमासाद्य बाणान्मुंचन्ननेकधा
व्यथयामास समरे महावीरशिरोमणिः ॥३॥
सुरथं विरथं चक्रे बाणैर्दशभिरुच्छिखैः
धनुश्चिच्छेद तरसा सुदृढं गुणपूरितम् ॥४॥
अस्त्रप्रत्यस्त्रसंहारैः क्षैपणैः प्रतिक्षेपणैः
अभवत्तुमुलं युद्धं वीराणां रोमहर्षणम् ॥५॥
अत्यंतं समरोद्युक्ते सुरथे दुर्जये नृपे
कुशः संचिंतयामास किंकर्तव्यं रणे मया ॥६॥
विचार्य निशितं घोरं सायकं समुपाददे
हननाय नृपस्यास्य महाबलसमन्वितः ॥७॥
तमागतं शरं दृष्ट्वा कालानलसमप्रभम्
छेत्तुं मतिं चकाराशु तावल्लग्नो महाशरः ॥८॥
मुमूर्च्छ समरे वीरो महावीरबलस्ततः
पपात स्यंदनोपस्थे सारथिस्तमुपाहरत् ॥९॥
सुरथे पतिते दृष्ट्वा कुशं जयसमन्वितम्
त्रासयंतं वीरगणानियाय पवनात्मजः ॥१०॥
समीरसूनुं प्रबलमायांतं वीक्ष्य वानरम्
जहास दर्शयन्दंतान्कोपयन्निव तं क्रुधा ॥११॥
उवाच च हनूमंतमेहि त्वं मम संमुखम्
भेत्स्ये बाणसहस्रेण मृतो यास्यसि यामिनीम् ॥१२॥
इत्युक्तो हनुमाञ्ज्ञात्वा रामसूनुं महाबलम्
स्वामिकार्यं प्रकर्तव्यमिति कृत्वा प्रधावितः ॥१३॥
शालमुत्पाट्य तरसा विशालं शतशाखिनम्
कुशं वक्षसि संलक्ष्य ययौ योद्धुं महाबलः ॥१४॥
शालहस्तं समायांतं हनूमंतं महाबलम्
त्रिभिः क्षुरप्रैर्विव्याध हृदि चंद्रोपमैर्बली ॥१५॥
स बाणविद्धस्तरसा कुशेन बलशालिना
शालेन हृदि संजघ्ने दंतान्निष्पिष्य मारुतिः ॥१६॥
शालाहतस्तदा बालः किंचिन्नाकंपत स्मयात्
तदा वीराः प्रशंसां तु प्रचक्रुस्तस्य बाल्यतः ॥१७॥
स शालेन हतो वीरः संहारास्त्रं समाददे
संहन्तुं वैरिणं कोपात्कुशः स परमास्त्रवित् ॥१८॥
संहारास्त्रं समालोक्य दुर्जयं कुशमोचितम्
दध्यौ रामं स्वमनसा भक्तविघ्नविनाशकम् ॥१९॥
तदा मुक्तं कुशेनाशु तदस्त्रं हृदि मारुतेः
लग्नं महाव्यथाकारि तेन मूर्च्छामितः पुनः ॥२०॥
मूर्च्छां प्राप्तं तु तं दृष्ट्वा प्लवंगं बलसंयुतः
विव्याध सायकैस्तीक्ष्णैः सैन्यं तत्सकलं महत् ॥२१॥
तस्य बाणायुतैर्भग्नं बलं सर्वं रणांगणे
पलायनपरं जातं चतुरंगसमन्वितम् ॥२२॥
तदा कपिपतिः कोपात्सुग्रीवो रक्षको महान्
अभ्यधावन्नगान्नैकानुत्पाट्य कुशमुद्भटम् ॥२३॥
कुशः सर्वान्प्रचिच्छेद लीलया प्रहसन्नगान्
पुनरप्यागतान्वृक्षांश्चिच्छेद तरसा बली ॥२४॥
अनेकबाणव्यथितः सुग्रीवः समरांगणे
जग्राह पर्वतं घोरं कुशमस्तकमध्यतः ॥२५॥
कुशस्तं नगमायांतं वीक्ष्य बाणैरनेकधा
निष्पिपेष चकाराशु महारुद्रांगयोग्यताम् ॥२६॥
सुग्रीवस्तन्महत्कर्म दृष्ट्वा बालेन निर्मितम्
जयाशाप्रतिनिर्वृत्तो बभूव समरांगणे ॥२७॥
रणमध्ये दुराक्रांतं कुशं लांगूलताडकम्
अत्यमर्षीरुषाक्रांतस्तं हंतुं नगमाददे ॥२८॥
आत्मानं हंतुमुद्युक्तं वीक्ष्य सुग्रीवमादरात्
ताडयामास बहुभिः सायकैः शितपर्वभिः ॥२९॥
स ताडितो बहुविधैः शरैः पीडासमन्वितः
कुशं हंतुं समारब्धो ययौ शालं समाददे ॥३०॥
तदापि च कुशो वीरो वारुणास्त्रं समाददे
बबंध तं च पाशेन दृढेन स लवाग्रजः ॥३१॥
स बद्धः पाशकैः स्निग्धैः कुशेन बलशालिना
पपात रणमध्ये वै महावीरैरलंकृते ॥३२॥
सुग्रीवं पतितं दृष्ट्वा वीराः सर्वत्र दुद्रुवुः
जयमाप लवभ्राता महावीरशिरोमणिः ॥३३॥
तावल्लवो भटाञ्जित्वा पुष्कलं चांगदं तथा
प्रतापाग्र्यं वीरमणिं तथान्यानपि भूभुजः ॥३४॥
जयं प्राप्य रणे वीरो लवो भ्रातरमागमत्
संग्रामे जयकर्तारं वैरिकोटिनिपातकम् ॥३५॥
परस्परं प्रहृषितौ परिरंभं प्रकुर्वतः
जयं प्राप्तौ तदा वार्तां मुने चक्रतुरुन्मदौ ॥३६॥
लव उवाच
भ्रातस्तव प्रसादेन निस्तीर्णो रणतोयधिः
इदानीं वीररणकं शोधयावः सुशोभितम् ॥३७॥
इत्युक्त्वा त्वरितं वीरो जग्मतुस्तौ कुशीलवौ
राज्ञो मौलिमणिं चित्रं जग्राह कनकाचितम् ॥३८॥
पुष्कलस्य लवो वीरो जग्राह मुकुटं शुभम्
अंगदे च महानर्घ्ये शत्रुघ्नस्यापरस्य च ॥३९॥
गृहीत्वा शस्त्रसंघातं हनूमंतं कपीश्वरम्
सुग्रीवं सविधे गत्वा उभावपि बबंधतुः ॥४०॥
पुच्छे वायुसुतस्यायं गृहीत्वा तु कुशानुजः
भ्रातरं प्रत्युवाचेदं नेष्यामि स्वकमंदिरम् ॥४१॥
आवयोर्जननी प्रीत्यै गृहीत्वा पुच्छके त्वहम्
क्रीडार्थमृषिपुत्राणां कौतुकार्थं ममैव च ॥४२॥
एतच्छ्रुत्वा ततो वाक्यमुवाच च कुशो लवम्
अहमेनं ग्रहीष्यामि वानरं बलिनं दृढम् ॥४३॥
इत्येवं भाषमाणौ तौ बद्ध्वा तौ बलिनां वरौ
पुच्छयोर्बलिनौ धृत्वा जग्मतुः स्वाश्रमं प्रति ॥४४॥
स्वाश्रमाय प्रगच्छंतौ वीक्ष्य तौ कपिसत्तमौ
कंपमानौ जगदतुरन्योन्यं भीतया गिरा ॥४५॥
हनूमान्कपिराजानं प्रत्युवाच भयार्द्रधीः
एतौ रामसुतावस्मान्नेष्यतः स्वाश्रमं प्रति ॥४६॥
मया पूर्वं कृतं कर्म जानकीं प्रतिगच्छता
तत्र मे जानकी देवी संमुखाभून्मनोहरा ॥४७॥
सा मां द्रक्ष्यति वैदेही बद्धं पाशेन वैरिणा
तदा हसिष्यति वरा त्रपा मेऽत्र भविष्यति ॥४८॥
मया किमत्र कर्तव्यं प्राणत्यागो भविष्यति
महद्दुःखं चापतितं स रामः किं करिष्यति ॥४९॥
सुग्रीवस्तद्वचः श्रुत्वा ममाप्येवं महाकपे
नेष्यते यदि मामेवं निधनं तु भविष्यति ॥५०॥
एवं कथयतोरेव ह्यन्योन्यं भयभीतयोः
कुशो लवश्च भवनं मातुः प्रापतुरोजसा ॥५१॥
तावायातौ समीक्ष्यैव जहर्ष जननी तयोः
अन्योन्यं परमप्रीत्या परिरेभे निजौ सुतौ ॥५२॥
ताभ्यां पुच्छगृहीतौ तौ वानरौ वीक्ष्य जानकी
हनूमंतं च सुग्रीवं सर्ववीरं कपीश्वरम् ॥५३॥
जहास पाशबद्धौ तौ वीक्षमाणा वरांगना
उवाच च विमोक्षार्थं वदंती वचनं वरम् ॥५४॥
पुत्रौ प्रमुंचतं कीशौ महावीरौ महाबलौ
ईक्षंतौ मां यदि स्फीतौ प्राणत्यागं करिष्यतः ॥५५॥
अयं वै हनुमान्वीरो यो ददाह दनोः पुरीम्
अयमप्यृक्षराजो हि सर्ववानरभूमिपः ॥५६॥
किमर्थं विधृतौ कुत्र किं वा कृतमनादरात्
पुच्छे युवाभ्यां विधृतौ स महान्विस्मयोऽस्ति मे ॥५७॥
इति मातुर्वचः श्लक्ष्णं वीक्ष्यतां पुत्रकौ तदा
ऊचतुर्विनयश्रेष्ठौ महाबलसमन्वितौ ॥५८
मातः कश्चन भूपालो रामो दाशरथिर्बली
तेन मुक्तो हयः स्वर्णभालपत्रः सुशोभितः ॥५९॥
तत्रैवं लिखितं मातरेकवीराप्रसूर्मम
ये क्षत्रियास्ते गृह्णन्तु नोचेत्पादतलार्चकाः ॥६०॥
तदा मया विचारो वै कृतः स्वांते पतिव्रते
भवती क्षत्रिया किं न वीरसूः किं न वा भवेत् ॥६१॥
धार्ष्ट्यं तद्वीक्ष्य भूपस्य गृहीतोऽश्वो मया बलात्
जितं कुशेन वीरेण सैन्यं तत्पातितं रणे ॥६२॥
मुकुटोऽयं भूमिपतेर्जानीहि पतिदेवते
अयमप्यन्यवीरस्य पुष्कलस्य महात्मनः ॥६३॥
जानीहि मुकुटं त्वन्यं मणिमुक्ताविराजितम्
अश्वोऽयं मे मनोहारी कामयानो हि भूपतेः ॥६४॥
आरोहणाय मद्भ्रातुर्जानीहि बलिनो वरे
इमौ कीशौ मया रंतुमानीतौ बलिनां वरौ ॥६५॥
कौतुकार्थं तवैवैतौ संग्रामे युद्धकारकौ
इति वाक्यं समाकर्ण्य जानकी पतिदेवता ॥६६॥
जगाद पुत्रौ तौ वीरौ मोचयेथां पुनः पुनः
सीतोवाच
युवाभ्यामनयः सृष्टो हृतो रामहयो महान् ॥६७॥
अनेके पातिता वीरा इमौ बद्धौ कपीश्वरौ
पितुस्तव हयो वीरो यागार्थं मोचितोऽमुना ॥६८
तस्यापि हृतवंतौ किं वाजिनं मखसत्तमे
मुंचतं प्लवगावेतौ मुंचतं वाजिनां वरम् ॥६९॥
क्षाम्यतां भूपतेर्भ्राता शत्रुघ्नः परकोपनः
जनन्यास्तद्वचः श्रुत्वा ऊचतुस्तां बलान्वितौ ॥७०॥
क्षात्रधर्मेण तं भूपं जितवंतौ बलान्वितम्
नास्माकमनयोर्भावि क्षात्रधर्मेण युध्यताम् ॥७१॥
वाल्मीकिना पुरा प्रोक्तमस्माकं पठतां पुरः ॥७२॥
कण्वस्याश्रमकेवाहं धृत्वा यागक्रियोचितम्
तस्मात्सुतः स्वपित्रापि युध्येद्भ्रात्रापि चानुजः ॥७३॥
गुरुणा शिष्य एवापि तस्मान्नो पापसंभवः
त्वदाज्ञातो ऽधुना चावां दास्यावो हयमुत्तमम् ॥७४॥
मोक्ष्यावः कीशावेतौ हि करिष्यावो वचस्तव
इत्युक्त्वा मातरं वीरौ गतौ रणे कपीश्वरौ ॥७५॥
अमुंचतां हयं चापि हयमेधक्रियोचितम्
सीतादेवी स्वपुत्राभ्यां श्रुत्वा सैन्यं निपातितम् ॥७६॥
श्रीरामं मनसा ध्यात्वा भानुमैक्षत साक्षिणम्
यद्यहं मनसा वाचा कर्मणा रघुनायकम् ॥७७॥
भजामि नान्यं मनसा तर्हि जीवेदयं नृपः
सैन्यं चापि महत्सर्वं यन्नाशितमिदं बलात् ॥७८॥
पुत्राभ्यां तत्तु जीवेत मत्सत्याज्जगतांपते
इति यावद्वचो ब्रूते जानकीपतिदेवता ॥७९॥
तावद्बलं च तत्सर्वं जीवितं रणमूर्द्धनि ॥८०॥
इति श्रीपद्मपुराणे पातालखण्डे शेषवात्स्यायनसंवादे रामाश्वमेधे
सैन्यजीवनंनाम चतुःषष्टितमोऽध्यायः ॥६४॥

N/A

References : N/A
Last Updated : November 06, 2020

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP