संस्कृत सूची|संस्कृत साहित्य|पुराण|पद्मपुराणम्|पातालखण्डः|
अध्यायः १०३

पातालखण्डः - अध्यायः १०३

भगवान् नारायणाच्या नाभि-कमलातून, सृष्टि-रचयिता ब्रह्मदेवाने उत्पन्न झाल्यावर सृष्टि-रचना संबंधी ज्ञानाचा विस्तार केला, म्हणून ह्या पुराणास पद्म पुराण म्हणतात.


यम उवाच-
एतन्माधवमासस्य समासात्किंचिदीरितम्
माहात्म्यं पूर्णिमायाश्च विशेषाद्द्विजसत्तम ॥१॥
वैशाखमासे मधुसूदनस्य प्रियं य एनं पठतीतिहासम्
स याति कृष्णालयमाशुपूतः कल्पाननेकानिह मोदते च ॥२॥
धन्यं यशस्यमायुष्यमिदं स्वस्त्ययनं महत्
स्वर्ग्यं श्रीदं सौमनस्यं प्रशस्यमघमर्षणम् ॥३॥
इदं माधवमासस्य माहात्म्यं माधवप्रियम्
चरित्रं भूपतेस्तस्य संवादं चावयोरपि ॥४॥
श्रुत्वा पठित्वा विधिवदनुमोद्य मनःप्रियम्
भवेद्भक्तिर्भगवति यया स्यात्पापसंक्षयः ॥५॥
अथ गच्छ महीदेव देवलोकाद्यथेच्छया
निपात्य भुवि वैदेहं रुदंत्यद्यापि बांधवाः ॥६॥
विलप्यमानैरपि बंधुभिस्तैर्न यावदग्नौ तव तच्छरीरम्
प्रक्षिप्यते हंत जवैर्न तावद्याहि स्वयं सुप्त इव प्रबुद्धः ॥७॥
ममप्रसादादिह पुण्ययोगः श्रुतो यथावत्तमिमं विधेहि
विधानतो वै समये समंते समागमोंऽते भविता सुरैश्च ॥८॥
सूत उवाच-
इति देववचः श्रुत्वा नत्वा धर्माधिपं ततः
पुनः पपात स इह परितुष्टमना द्विजः ॥९॥
धर्मराजप्रसादेन ततस्तत्र महीतले
संसुप्तइव चोत्तस्थौ बंधुवर्गसमन्वितः ॥१०॥
विधिमेनं द्विजो भूमौ वर्षेवर्षे च स स्वयम्
स्वयं च कारयामास माधवस्नापनं जनम् ॥११॥
यमब्राह्मणसंवादो मयायं परिकीर्तितः
तस्य माधवमासस्य पुण्यस्नानप्रसङ्गतः ॥१२॥
वैशाखमासे सततं हरिप्रिये स्नानं विदध्याच्च ददाति भक्त्या
दानं च होमं सुकृतं तथा बुधो हरेःपदं तस्य नदुर्ल्लभं कदा ॥१३॥
यःशृणोत्येकचित्तेनमाहात्म्यंमेषसूर्यजम्
सर्वपापविनिर्मुक्तो याति विष्णोः परं पदम् ॥१४॥
ऋषय ऊचुः -
सूतसूत महाप्राज्ञ त्वयाऽतिकरुणात्मना
वैशाखमासमाहात्म्यं कीर्तितं पापनाशनम् ॥१५॥
नियमा मधुहन्तुर्ये माधवे कथितास्त्वया
पूजनं स्नानदानाद्यं श्रौतस्मार्तविधानतः ॥१६॥
यथा च माधवो देवः प्रीयते पापनाशनः
अधुना श्रोतुमिच्छामो ध्यानं तस्य महात्मनः ॥१७॥
कृष्णस्य भक्तवृन्दानां प्रियस्य भवतारणम् ॥१८॥
सूत उवाच-
शृणुध्वं मुनयः सर्वे कृष्णस्य जगदात्मनः
गोगोपगोपीप्राणस्य वृन्दावनचरस्य च ॥१९॥
एकदा नारदः पृष्टो गौतमेन द्विजोत्तमाः
स तस्मै प्राह यद्ध्यानं तद्वक्ष्ये पापनाशनम् ॥२०॥
नारद उवाच-
सुमप्रकरसौरभोद्गलितमाध्विकाद्युल्लसत्सुशाखिनवपल्लवप्रकरनम्र शोभायुतम्
प्रफुल्लनवमञ्जरीललितवल्लरीवेष्टितं स्मरेत सततं शिवं शितमतिः सुवृन्दावनम् ॥२१॥
विकाशि सुमनोरसास्वदनमंजुलैः संचरच्छिलीमुखमुखोद्गतैर्मुखरितान्तरं झंकृतैः
कपोतशुकसारिकापरभृतादिभिः पत्रिभिर्विराणितमितस्ततो भुजगशत्रुनृत्याकुलम् ॥२२॥
कलिन्ददुहितुश्च लल्लहरिविप्लुषां वाहिभिर्विनिद्र सरसीरुहोदररजश्च योद्धूसरैः
प्रदीपित मनोभवव्रजविलासिनी वाससां विलोलनपरैर्निषेवितमनारतं मारुतैः ॥२३॥
प्रवालनवपल्लवं मरकतच्छदं मौक्तिकप्रभाप्रकरकोरकं कमलरागनानाफलम्
स्थविष्ठमखिलर्तुभिः सततसेवितं कामदं तदन्तरपिकल्पकाङ्घ्रिपमुदञ्चितं-
चिन्तयेत् ॥२४॥
सुहेमशिखराचलेउदितभानुवद्भासुरामधोऽस्य कनकस्थलीममृतशीकरासारिणः
प्रदीप्तमणिकुट्टिमां कुसुमरेणुपुञ्जोज्ज्वलां स्मरेत्पुनरतन्द्रितो विगतषट्तरङ्गांबुधः ॥२५॥
तद्रत्नकुट्टिमनिविष्टमहिष्ठयोगपीठेऽष्टपत्रमरुणं कमलं विचिन्त्य
उद्यद्विरोचनसरोचिरमुष्यमध्ये संचिन्तयेत्सुखनिविष्टमथोमुकुन्दम् ॥२६॥
सुत्रामहेति दलिताञ्जनमेघपुञ्जप्रत्यग्रनीलजलजन्मसमानभासम्
सुस्निग्धनीलघनकुञ्चितकेशजालं राजन्मनोज्ञशितिकण्ठशिखण्डचूडम् ॥२७॥
रोलम्बलालितसुरद्रुमसूनुसंपद्युक्तं समुत्कचनवोत्पलकर्णपूरम्
लोलालिभिः स्फुरितभालतलप्रदीप्तगोरोचनातिलकमुज्ज्वलचिल्लिचापम् ॥२८॥
आपूर्णशारदगताङ्क शशाङ्कबिम्बकान्ताननं कमलपत्रविशालनेत्रम्
रत्नस्फुरन्मकरकुण्डलरश्मिदीप्तगण्डस्थलीमुकुरमुन्नतचारुनासम् ॥२९॥
सिन्दूरसुन्दरतराधरमिन्दुकुन्दमन्दारमन्दहसितद्युतिदीपिताशम्
वन्यप्रवालकुसुमप्रचयावकॢप्तग्रैवेयकोज्ज्वलमनोहरकम्बुकण्ठम् ॥३०॥
मत्तभ्रमद्भ्रमरघुष्टविलम्बमानं संतानकप्रसरदामपरिष्कृतांसम्
हारावलीभगणराजितपीवरोरुव्योमस्थलीलसितकौस्तुभभानुमन्तम् ॥३१॥
श्रीवत्सलक्षणसुलक्षितमुन्नतांसमाजानुपीनपरिवृत्तसुजातबाहुम्
आबन्धुरोदरमुदारगभीरनाभिं भृङ्गाङ्गनानि करमंजुलरोमराजिम् ॥३२॥
नानामणिप्रघटिताङ्गदकङ्कणोर्मि ग्रैवेयसारसननूपुरतुन्दबन्धम्
दिव्याङ्गरागपरिपिञ्जरिताङ्गयष्टिमापीतवस्त्रपरिवीतनितम्बबिम्बम् ॥३३॥
चारूरुजानुमनुवृत्तमनोज्ञजङ्घं कान्तोन्नतप्रपदनिन्दित कूर्मकान्तिम्
माणिक्यदर्पणलसन्नखराजराजद्रक्ताङ्गुलिच्छदनुसुन्दरपादपद्मम् ॥३४॥
मत्स्याङ्कुशारिदरकेतुयवाब्जवज्रैः संलक्षितारुणकराङ्घ्रितलाभिरामम्
लावण्यसारसमुदायविनिर्मिताङ्गं सौन्दर्यनिन्दितमनोभव देहकान्तिम् ॥३५॥
आस्यारविन्दपरिपूरितवेणुरन्ध्रलोलत्कराङ्गुलिसमीरितदिव्यरागैः
शश्वद्भवैः कृतनिविष्टसमस्तजन्तुसंतानसंनतिमनन्तसुखाम्बुराशिम् ॥३६॥
गोभिर्मुखाम्बुजविलीनविलोचनाभिरूधोभरस्खलितमन्थरमन्दगाभिः
दन्ताग्रदष्टपरिशिष्टतृणाङ्कुराभिरालम्बिवालधिलताभिरथाभिवीतम् ॥३७॥
संप्रस्नुतस्तनविभूषणपूर्णनिश्चलास्याद्दृढक्षरितफेनिलदुग्धमुग्धैः
वेणुप्रवर्तितमनोहरमन्दगीतदत्तोच्चकर्णयुगलैरपितर्णकैश्च ॥३८॥
प्रत्यग्रशृङ्गमृदुमस्तकसंप्रहारसंरम्भभावनविलोलखुराग्रपातैः
आमेदुरैर्बहुलसास्नगलैरुदग्रपुच्छैश्च वत्सतरवत्सतरीनिकायैः ॥३९॥
हम्भारवक्षुभितदिग्वलयैर्महद्भिरध्युक्षभिः पृथुककुद्भरभारखिन्नैः
उत्तम्भितश्रुतिपुटीपरिपीतवंशध्वानामृतोद्धतविकासिविशालघोणैः ॥४०॥
गोपैः समानगुणशीलवयोविलासवेशैश्च मूर्छितकलस्वनवेणुवीणैः
मन्दोच्चतारपटुगानपरैर्विलोलदोर्वल्लरीललितलास्यविधानदक्षैः ॥४१॥
जङ्घान्तपीवरकटीरतटीनिबद्धव्यालोलकिङ्किणिघटारणितैरटद्भिः
मुग्धैस्तरक्षुनखकल्पितकान्तभूषैरव्यक्तमंजुवचनैः पृथुकैः परीतम् ॥४२॥
अथ सुललितगोपसुन्दरीणां पृथुकबरीषनितम्बमन्थराणाम्
गुरुकुचभरभंगुरावलग्नत्रिवलिविजृम्भितरोमराजिभाजाम् ॥४३॥
तदतिरुचिरचारुवेणुवाद्यामृतरसपल्लविताङ्गजाङ्घ्रिपस्य
मुकुलविमलरम्यरूढरोमोद्गमसमलंकृतगात्रवल्लरीणाम् ॥४४॥
तदतिरुचिर मन्दहासचन्द्रातपपरिजृम्भितरागवारिराशेः
तरलतरतरङ्गभङ्गविप्रुट्प्रकरघनश्रमबिन्दुसंततानाम् ॥४५॥
तदतिललितमन्दचिल्लिचापच्युतनिशितेक्षणमारबाणवृष्ट्या
दलितसकलमर्मविह्वलाङ्गप्रविसृतदुःसहवेपथुव्यथानाम् ॥४६॥
तदतिरुचिरवेषरूपशोभामृतरसपानविधानलालसानाम्
प्रणयसलिलपूरवाहिनीनामलसविलोलविलोचनाम्बुजानाम् ॥४७॥
विस्रंसत्कबरीकलापविगलत्फुल्लत्प्रसूनास्रवन्
माध्वीलम्पटचञ्चरीकघटयासंसेवितानां मुहुः
मारोन्मादमदस्खलन्मृदुगिरामालोलकाञ्च्युल्लस-
न्नीवीविश्लथमानचीनसिचयान्तार्चिर्नितम्बत्विषाम् ॥४८॥
स्खलितलसितपादाम्भोजमन्दाभिघात-
च्छुरितमणितुलाकोट्याकुलाशामुखानाम्
चलदधरदलानांकुड्मलापक्ष्मलाक्षि-
द्वयसरसिरुहाणामुल्लसत्कुण्डलानाम् ॥४९॥
द्राघिष्ठश्वसनसमीरणाभितापप्रम्लानीभवदरुणौष्ठपल्लवानाम्
नानोपायनविलसत्कराम्बुजानामालीभिः सततनिषेवितं समन्तात् ॥५०॥
तासामायतलोलनीलनयनव्याकोशलीनाम्बुज-
स्रग्भिः संपरिपूजिताखिलतनुं नानाविलासास्पदम्
तन्मुग्धाननपङ्कजप्रविगलन्माध्वीरसास्वादिनीं-
बिभ्राणं प्रणयान्मदाक्षिमधुहृन्मालां मनोहारिणीम् ॥५१॥
गोपीगोपपशूनां बहिः स्मरेदग्रतोऽस्य गीर्वाणघटांवित्तार्थिनीं विरिञ्चित्रिनयनशतमन्युपूर्विकां स्तोत्रपराम् ॥५२॥
तद्वद्दक्षिणतो मुनिनिकरं दृढधर्मवाञ्छया समाम्नायपरम्
योगीन्द्रानथ पृष्ठे मुमुक्षमाणान्समाधिना तु सनकाद्यान् ॥५३॥
सव्ये सकान्तानथ यक्षसिद्धगन्धर्वविद्याधरचारणांश्च
सकिन्नरानप्सरसश्च मुख्याः कामार्थिनीर्नर्तनगीतवाद्यैः ॥५४॥
शङ्खेन्दुकुन्दधवलं सकलागमज्ञं सौदामिनीततिपिशङ्गजटाकलापम्
तत्पादपङ्कजगताममलां च भक्तिं वाञ्छन्तमुज्झिततरान्यसमस्तसङ्गम् ॥५५॥
नानाविध श्रुतिगुणान्वितसप्तरागग्रामत्रयीगतमनोहरमूर्छनाभिः
संप्रीणयन्तमुदिताभिरपि प्रभक्त्या संचिन्तयन्नभसि मां द्रुहिणप्रसूतम् ॥५६॥
इति ध्यात्वाऽत्मानं पटुविशदधीर्नन्दतनयं नरो बुद्ध्यैवाऽर्घप्रभृतिभिरनिन्द्योपहृतिभिः
यजेद्भूयो भक्त्या स्ववपुषि बहिष्ठैश्च विभवैरिति प्रोक्तं सर्वं यदभिलषितं भूसुरवराः ॥५७॥
इति श्रीपद्मपुराणे पातालखंडे वैशाखमाहात्म्ये त्र्युत्तरशततमोऽध्यायः ॥१०३॥

N/A

References : N/A
Last Updated : November 13, 2020

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP