संस्कृत सूची|संस्कृत साहित्य|पुराण|पद्मपुराणम्|पातालखण्डः| अध्यायः ५३ पातालखण्डः वि्षयानुक्रमणिका अध्यायः १ अध्यायः २ अध्यायः ३ अध्यायः ४ अध्यायः ५ अध्यायः ६ अध्यायः ७ अध्यायः ८ अध्यायः ९ अध्यायः १० अध्यायः ११ अध्यायः १२ अध्यायः १३ अध्यायः १४ अध्यायः १५ अध्यायः १६ अध्यायः १७ अध्यायः १८ अध्यायः १९ अध्यायः २० अध्यायः २१ अध्यायः २२ अध्यायः २३ अध्यायः २४ अध्यायः २५ अध्यायः २६ अध्यायः २७ अध्यायः २८ अध्यायः २९ अध्यायः ३० अध्यायः ३१ अध्यायः ३२ अध्यायः ३३ अध्यायः ३४ अध्यायः ३५ अध्यायः ३६ अध्यायः ३७ अध्यायः ३८ अध्यायः ३९ अध्यायः ४० अध्यायः ४१ अध्यायः ४२ अध्यायः ४३ अध्यायः ४४ अध्यायः ४५ अध्यायः ४६ अध्यायः ४७ अध्यायः ४८ अध्यायः ४९ अध्यायः ५० अध्यायः ५१ अध्यायः ५२ अध्यायः ५३ अध्यायः ५४ अध्यायः ५५ अध्यायः ५६ अध्यायः ५७ अध्यायः ५८ अध्यायः ५९ अध्यायः ६० अध्यायः ६१ अध्यायः ६२ अध्यायः ६३ अध्यायः ६४ अध्यायः ६५ अध्यायः ६६ अध्यायः ६७ अध्यायः ६८ अध्यायः ६९ अध्यायः ७० अध्यायः ७१ अध्यायः ७२ अध्यायः ७३ अध्यायः ७४ अध्यायः ७५ अध्यायः ७६ अध्यायः ७७ अध्यायः ७८ अध्यायः ७९ अध्यायः ८० अध्यायः ८१ अध्यायः ८२ अध्यायः ८३ अध्यायः ८४ अध्यायः ८५ अध्यायः ८६ अध्यायः ८७ अध्यायः ८८ अध्यायः ८९ अध्यायः ९० अध्यायः ९१ अध्यायः ९२ अध्यायः ९३ अध्यायः ९४ अध्यायः ९५ अध्यायः ९६ अध्यायः ९७ अध्यायः ९८ अध्यायः ९९ अध्यायः १०० अध्यायः १०१ अध्यायः १०२ अध्यायः १०३ अध्यायः १०४ अध्यायः १०५ अध्यायः १०६ अध्यायः १०७ अध्यायः १०८ अध्यायः १०९ अध्यायः ११० अध्यायः १११ अध्यायः ११२ अध्यायः ११३ अध्यायः ११४ अध्यायः ११५ अध्यायः ११६ अध्यायः ११७ पातालखण्डः - अध्यायः ५३ भगवान् नारायणाच्या नाभि-कमलातून, सृष्टि-रचयिता ब्रह्मदेवाने उत्पन्न झाल्यावर सृष्टि-रचना संबंधी ज्ञानाचा विस्तार केला, म्हणून ह्या पुराणास पद्म पुराण म्हणतात. Tags : padma puranpuransanskritपद्म पुराणपुराणसंस्कृत अध्यायः ५३ Translation - भाषांतर सुग्रीवस्तु तत्कटकं भग्नं वीक्ष्य रणांगणेस्वामिनं मूर्च्छितं वापि ययौ योद्धुं नृपं प्रति ॥१॥आगच्छ भूप सर्वान्नो मूर्च्छयित्वा कुतो भवान्गच्छति क्षिप्रं मां देहि युद्धं रणविशारद ॥२॥एवमुक्त्वा नगं कंचिद्विशालं शाखया युतम्उत्पाट्य प्राहरत्तस्य मस्तके बलसंयुतः ॥३॥तेन प्रहारेण महाबलो नृपःसंवीक्ष्यसु ग्रीवमथो स्वचापेबाणान्समाधाय शितान्सरोषाज्जघान वक्षस्यतिपौरुषो बली ॥४॥तान्बाणान्व्यधमत्सर्वान्सुग्रीवः सहसा हसन्ताडयामास हृदये सुरथं सुमहाबलः ॥५॥पर्वतैः शिखरैश्चैव नगैर्द्विरदवर्ष्मभिःवेगात्संताडयामास दारयन्सुरथं नखैः ॥६॥तमप्याशु बबंधास्त्राद्रामसंज्ञात्सुदारुणात्बद्धः कपिवरो मेने सुरथं रामसेवकम् ॥७॥गजो यथायसमयीं शृंखलां पादलंबिताम्प्राप्य किंचिन्न वै कर्तुं शक्नोति स तथा ह्यभूत् ॥८॥जितं तेन महाराज्ञा सुरथेन सुपुत्रिणासर्वान्वीरान्रथे स्थाप्य ययौ स्वनगरं प्रति ॥९॥गत्वा सभायां सुमहान्बद्धं मारुतिमब्रवीत्स्मर श्रीरघुनाथं त्वं दयालुं भक्तपालकम् ॥१०॥यथा त्वां बंधनात्सद्यो मोचयिष्यति सुष्ठुधीःनान्यथायुतवर्षेण मोचयिष्यामि बंधनात् ॥११॥इत्युक्तमाकर्ण्य समीरजस्तदासुबद्धमात्मानमवेक्ष्य वीरान्संमूर्च्छिताञ्छत्रुशराभिघात -पीडायुतान्बंधनमुक्तये स्मरत् ॥१२॥श्रीरामचंद्रं रघुवंशजातं सीतापतिं पंकजपत्रनेत्रम्स्वमुक्तये बंधनतः कृपालुं सस्मार सर्वैः करणैर्विशोकैः ॥१३॥हनूमानुवाचहा नाथ हा नरवरोत्तम हा दयालोसीतापते रुचिरकुंतलशोभिवक्त्रभक्तार्तिदाहक मनोहररूपधारिन्मां बंधनात्सपदि मोचय मा विलंबम् ॥१४॥संमोचितास्तु भवता गजपुंगवाद्याःदेवाश्च दानवकुलाग्नि सुदह्यमानाःतत्सुंदरीशिरसिसंस्थितकेशबंधःसंमोचितस्तु करुणालय मां स्मरस्व ॥१५॥त्वं यागकर्मनिरतोऽसि मुनीश्वरेंद्रैर्धर्मं विचारयसि भूमिपतीड्यपादअत्राहमद्य सुरथेन विगाढपाश -बद्धोस्मि मोचय महापुरुषाशु देव ॥१६॥नो मोचयस्यथ यदि स्मरणातिरेकात्त्वं सर्वदेववरपूजितपादपद्मलोको भवंतमिदमुल्लसितोऽहसिष्य -त्तस्माद्विलंबमिह माचर मोचयाशु ॥१७॥इति श्रुत्वा जगन्नाथो रघुवीरः कृपानिधिःभक्तं मोचयितुं प्रागात्पुष्पकेणाशुवेगिना ॥१८॥लक्ष्मणेनानुगेनाथ भरतेन सुशोभितम्मुनिवृंदैर्व्यासमुख्यैः समेतं ददृशे कपिः ॥१९॥तमागतं निजं नाथं वीक्ष्य भूपं समब्रवीत्पश्य राजन्निजं मोक्तुमायातं कृपया हरिम् ॥२०॥अनेके मोचिताः पूर्वं स्मरणात्सेवका निजाःतथा मां पाशतो बद्धं संमोचयितुमागतः ॥२१॥श्रीरामभद्रमायांतं वीक्ष्यासौ सुरथः क्षणात्नतीश्च शतशश्चक्रे भक्तिपूरपरिप्लुतः ॥२२॥श्रीरामस्तं निजैर्दोर्भिः परिरेभे चतुर्भुजःमूर्ध्नि सिंचन्नश्रुजलैर्हर्षाद्भक्तं स्वकं मुहुः ॥२३॥उवाच धन्यदेहोऽसि महत्कर्म कृतं त्वयाकपीश्वरस्त्वया बद्धो हनूमान्सर्वतो बलः ॥२४॥श्रीरामः कपिवर्यं तं मोचयामास बंधनात्मूर्छितांस्तान्भटान्सर्वान्वीक्ष्य दृष्ट्या स्वजीवयत् ॥२५॥ते मूर्च्छां तत्यजुर्दृष्टा रामेण सुरसेविनाउत्थिता ददृशुः श्रीमद्रामचंद्रं मनोरमम् ॥२६॥प्रणतास्ते रघुपतिं तेन पृष्टा अनामयम्सुखीभूता नृपं प्रोचुः सर्वं स्वकुशलं नृपाः ॥२७॥सुरथो वीक्ष्य रामं च कृपार्थं सेवकात्मनःआगतं सकलं राज्यं सहयं सुमुदार्पयत् ॥२८॥अनेकवरिवस्याभिः श्रीरामं समतोषयत्कथयामास मेऽन्याय्यं कृतं ते क्षम राघवश्रीरामस्तमुवाचाथ कृतं ते वाहरक्षणम् ॥२९॥क्षत्त्रियाणामयं धर्मः स्वामिना सह युद्ध्यतेत्वया साधुकृतं कर्म रणे वीराः प्रतोषिताः ॥३०॥इत्युक्तवंतं नृहरिं पूजयन्ससुतोऽभवत्श्रीरामस्त्रिदिनं स्थित्वा ययौ तमनुमंत्र्य च ॥३१॥कामगेन विमानेन मुनिभिः सहितो महान्तं दृष्ट्वा विस्मितास्तस्य कथाश्चक्रुर्मनोहराः ॥३२॥चंपकं स्वपुरे स्थाप्य सुरथः क्षत्रियो बलीशत्रुघ्नेन समं यातुं मनश्चक्रे महाबलः ॥३३॥शत्रुघ्नः स्वहयं प्राप्य भेरीनादानकारयत्शंखनादान्बहुविधान्सर्वत्र समवादयत् ॥३४॥सुरथेन समं वीरो यज्ञवाहममूमुचत्स बभ्रामापरान्देशान्न कोपि जगृहे बली ॥३५॥यत्रयत्र गतो वाहस्तत्रतत्र परिभ्रमन्सैन्येन महता यातः शत्रुघ्नः सुरथेन च ॥३६॥कदाचिज्जाह्नवीतीरे वाल्मीकेराश्रमं वरम्गतो मुनिवरैर्जुष्टं प्रातर्धूमेन चिह्नितम् ॥३७॥इति श्रीपद्मपुराणे पातालखण्डे शेषवात्स्यायनसंवादे रामाश्वमेधेरघुनाथसमागमोनाम त्रिपंचाशत्तमोऽध्यायः ॥५३॥ N/A References : N/A Last Updated : November 05, 2020 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP