संस्कृत सूची|संस्कृत साहित्य|पुराण|पद्मपुराणम्|पातालखण्डः|
अध्यायः ६६

पातालखण्डः - अध्यायः ६६

भगवान् नारायणाच्या नाभि-कमलातून, सृष्टि-रचयिता ब्रह्मदेवाने उत्पन्न झाल्यावर सृष्टि-रचना संबंधी ज्ञानाचा विस्तार केला, म्हणून ह्या पुराणास पद्म पुराण म्हणतात.


शेष उवाच
कथितौ वै सुमतिना वाल्मीकेराश्रमे शिशू
पुत्रौ स्वीयाविति ज्ञात्वा वाल्मीकिं प्रति संजगौ ॥१॥
श्रीराम उवाच
कौ शिशू मम सारूप्यधारकौ बलिनां वरौ
किमर्थं तिष्ठतस्तत्र धनुर्विद्याविशारदौ ॥२॥
अमात्यकथितौ श्रुत्वा विस्मयो मम जायते
यौ शत्रुघ्नं हनूमंतं लीलयांग बबंधतुः ॥३॥
तस्माच्छंस मुने सर्वं बालयोश्च विचेष्टितम्
यथा मे परमा प्रीतिर्भवत्येवमभीप्सिता ॥४॥
इति तत्कथितं श्रुत्वा राजराजस्य धीमतः
उवाच परमं वाक्यं स्पष्टाक्षरसमन्वितम् ॥५॥
वाल्मीकिरुवाच
तवांतर्यामिणो नॄणां कथं ज्ञानं च नो भवेत्
तथापि कथयाम्यत्र तव संतोषहेतवे ॥६॥
राजन्यौ बालकौ मह्यमाश्रमे बलिनां वरौ
त्वत्सारूप्यधरौ स्वांगमनोहरवपुर्धरौ ॥७॥
त्वया यदा वने त्यक्ता जानकी वै निरागसी
अंतर्वत्नी वने घोरे विलपंती मुहुर्मुहुः ॥८॥
कुररीमिव दुःखार्तां वीक्ष्याहं तव वल्लभाम्
जनकस्य सुतां पुण्यामाश्रमे त्वानयं तदा ॥९॥
तस्याः पर्णकुटीरम्या रचिता मुनिपुत्रकैः
तस्यामसूत पुत्रौ द्वौ भासयंतौ दिशो दश ॥१०॥
तयोरकरवं नाम कुशो लव इति स्फुटम्
ववृधातेऽनिशं तत्र शुक्लपक्षे यथा शशी ॥११॥
कालेनोपनयाद्यानि सर्वाणि कृतवानहम्
वेदान्सांगानहं सर्वान्ग्राहयामास भूपते ॥१२॥
सर्वाणि सरहस्यानि शृणुष्व मुखतो मम
आयुर्वेदं धनुर्विद्यां शस्त्रविद्यां तथैव च ॥१३॥
विद्यां जालंधरीं चाथ संगीतकुशलौ कृतौ
गंगाकूले गायमानौ लताकुंजवनेषु च ॥१४॥
चंचलौ चलचित्तौ तौ सर्वविद्याविशारदौ
तदाहमतिसंतोषं प्राप्तश्चाहं रघूत्तम ॥१५॥
दत्त्वा सर्वाणि चास्त्राणि मस्तके निहितः करः
अतीवगानकुशलौ दृष्ट्वा लोका विसिष्मिरे
षड्जमध्यमगांधारस्वरभेदविशारदौ ॥१६॥
तथाविधौ विलोक्याहं गापयामि मनोहरम्
भविष्यज्ञानयोगाच्च कृतं रामायणं शुभम् ॥१७॥
मृदंगपणवाद्यादि यंत्रवीणाविशारदौ
वनेवने च गायंतौ मृगपक्षिविमोहकौ ॥१८॥
अद्भुतं गीतमाधुर्यं तव रामकुमारयोः
श्रोतुं तौ वरुणो बाला वा निनाय विभावरीम् ॥१९॥
मनोहरवयोरूपौ गानविद्याब्धिपारगौ
कुमारौ जगदुस्तत्र लोकेशादेशतः कलम् ॥२०॥
परमं मधुरं रम्यं पवित्रं चरितं तव
शुश्राव वरुणः सार्द्धं कुटुंबेन च गायकैः ॥२१॥
शृण्वन्नैव गतस्तृप्तिं मित्रेण वरुणः सह
सुधातोऽपि परं स्वादुचरितं रघुनंदन ॥२२॥
गानानंदमहालोभ हृतप्राणेंद्रियक्रियः
प्रत्यागंतुं दिदेशासौ कुमारौ न हि तावकौ ॥२३॥
रमणीय महाभोगैर्लोभितावपि बालकौ
चलितौ न गुरोश्चात्ममातुः पादांबुजस्मृतेः ॥२४॥
अहं चापि गतः पश्चाद्वरुणालयमुत्तमम्
वरुणः प्रेमसहितः पूजां चक्रे मम प्रभो ॥२५॥
पृच्छते जन्मकर्मादि सर्वज्ञायापि बालयोः
वरुणायाब्रुवं सर्वं जन्मविद्याद्युपागमम् ॥२६॥
श्रुत्वा सीतासुतौ देवः स चक्रेंबरभूषणैः
देवदत्तमिति ग्राह्यमिति मद्वाक्यगौरवात् ॥२७॥
आहृतं राजपुत्राभ्यां यद्दत्तं वरुणेन तत्
प्रसन्नेन तयोर्वाद्यगानविद्यावयोगुणैः
ततो मामब्रवीत्सीतामुद्दिश्य वरुणः कृती ॥२८॥
सीतापति व्रताधुर्या रूपशीलवयोन्विता
वीरपुत्रा महाभागा त्यागं नार्हति कर्हिचित् ॥२९॥
महती हानिरेतस्यास्त्यागे हि रघुनंदन
सिद्धीनां परमासिद्धिरेषा ते ह्यनपायिनी ॥३०॥
पामरैर्महिमानास्या ज्ञायते यदि दूषितैः
का हानिस्तावता राम पुण्यश्रवणकीर्तन ॥३१॥
अस्मत्साक्षिकमेतस्याः पावनं चरितं सदा
सद्यस्ते सिद्धिमायांति ये सीतापदचिंतकाः ॥३२॥
यस्याः संकल्पमात्रेण जन्मस्थितिलयादिकाः
भवंति जगतां नित्यं व्यापारा ऐश्वरा अमी ॥३३॥
सीता मृत्युःसुधा चेयं तपत्येषा च वर्षति
स्वर्गो मोक्षस्तपो योगो दानं च तव जानकी ॥३४॥
ब्रह्माणं शिवमन्यांश्च लोकपालान्मदादिकान्
करोत्येषा करोत्येव नान्या सीता तव प्रिया ॥३५॥
त्वं पिता सर्वलोकानां सीता च जननीत्यतः
कुदृष्टिरत्र तु क्षेमयोग्या न तव कर्हिचित् ॥३६॥
वेत्ति सीतां सदा शुद्धां सर्वज्ञो भगवान्स्वयम्
भवानपि सुतां भूमेः प्राणादपि गरीयसीम् ॥३७॥
आदर्तव्या त्वया तस्मात्प्रिया शुद्धेति जानकी
न च शापपराभूतिः सीतायां त्वयि वा विभो ॥३८॥
इमानि मम वाक्यानि वाच्यानि जगतां पतिम्
रामं प्रति त्वया साक्षाद्वाल्मीके मुनिसत्तम ॥३९॥
इत्युक्तो वरुणेनाहं सीतासंग्रहकारणात्
एवमेव हि सर्वैश्च लोकपालैरपि प्रभो ॥४०॥
श्रुतं रामायणोद्गानं पुत्राभ्यां ते सुरासुरैः
गंधर्वैरपि सर्वैश्च कौतुकाविष्टमानसैः ॥४१॥
प्रसन्ना एव सर्वेऽपि प्रशशंसुः सुतौ च ते
त्रैलोक्यं मोहितं ताभ्यां रूपगानवयोगुणैः ॥४२॥
दत्तं यल्लोकपालैस्तु सुताभ्यां स्वीकृतं हि तत्
ऋषिभिश्च वरा आभ्यामन्येभ्यः कीर्तिरेव च ॥४३॥
एकरामं जगत्सर्वं पूर्वं मुनिविलोकितम्
त्रिराममधुना जांतं सुताभ्यां तेखिलेक्षितम् ॥४४॥
एककामपरामूर्तिर्लोके पूर्वमवेक्षिता
कामैश्चतुर्भिरद्यायं जायते च यतस्ततः ॥४५॥
सर्वत्रान्यत्र राजेंद्र रामपुत्रौ कुशीलवौ
गीयते अत्र संकोचः किं कृतो विदुषि त्वयि ॥४६॥
कृतेषु तव सर्वेषु श्रूयते महती स्तुतिः
त्यागादन्यत्र सीतायाः पुण्यश्लोकशिरोमणे ॥४७॥
त्वया त्रैलोक्यनाथेन गार्हस्थ्यमनुकुर्वता
अंगीकार्यौ सुतौ रामविद्याशीलगुणान्वितौ ॥४८॥
न तौ स्वां मातरं हित्वा स्थास्यतोऽभवदंतिके
जनन्या सहितौ तस्मादाकार्यौ भवता सुतौ ॥४९॥
दत्त एव तयेदानीं सेनासंजीवनात्पुनः
प्रत्ययः सर्वलोकानां पावनः पततामपि ॥५०॥
नाज्ञातं तेन चास्माकं नामराणां च मानद
शुद्धौ तस्यास्तु लोकानां यन्नष्टं तदिह ध्रुवम् ॥५१॥
शेष उवाच
इति वाल्मीकिना रामः सर्वज्ञोऽप्यवबोधितः
स्तुत्वा नत्वा च वाल्मीकिं प्रत्युवाच स लक्ष्मणम् ॥५२॥
गच्छ ताताधुना सीतामानेतुं धर्मचारिणीम्
सपुत्रां रथमास्थाय सुमंत्रसहितः सखे ॥५३॥
श्रावयित्वा ममेमानि मुनेश्च वचनान्यपि
संबोध्य च पुरीमेतां सीतां प्रत्यानयाशु ताम् ॥५४॥
लक्ष्मण उवाच
यास्यामि तव संदेशात्सर्वेषां नः प्रभोर्विभो
देव्या यास्यति चेद्देव यात्रा मे सफला ततः ॥५५॥
मयि सामाभ्यसूयैव पूर्वदोषवशात्सती
अनागतायां तस्यां तु क्षमस्वागंतुकं मम ॥५६॥
इत्युक्त्वा लक्ष्मणो रामं रथे स्थित्वा नृपाज्ञया
सुमित्रमुनिशिष्याभ्यां युतोऽगाद्भूमिजाश्रमम् ॥५७॥
कथं प्रसादनीया स्यात्सीता भगवती मया
पूर्वदोषं विजानंती रामाधीनस्य मे सदा ॥५८॥
एवं संचिंतयन्नंतर्हर्षसंकोच मध्यगः
लक्ष्मणः प्राप सीताया आश्रमं श्रमनाशनम् ॥५९॥
रथात्सोथावरुह्यारादश्रुरुद्धविलोचनः
आर्ये पूज्ये भगवति शुभे इति वदन्मुहुः ॥६०॥
पपात पादयोस्तस्या वेपमानाखिलांगकः
उत्थापितस्तया देव्या प्रीतिविह्वलया स च ॥६१॥
किमर्थमागतः सौम्य वनं मुनिजनप्रियम्
आस्ते स कुशली देवः कौसल्याशुक्तिमौक्तिकः ॥६२॥
अरोषो मयि कश्चित्स कीर्त्या केवलयादृतः
कीर्त्यते सर्वलोकैश्च कल्याणगुणसागरः ॥६३॥
अकीर्तिभीतिमापन्नस्त्यक्तुं मां त्वां नियुक्तवान्
यदि ततश्च लोकेषु कीर्तिस्तस्यामलाभवत् ॥६४॥
मृत्वापि पतिसत्कीर्तिं कुर्वंत्या मे हि सुस्थिरा
पतिसामीप्यमेवाशु भूयादेव हि देवर ॥६५॥
त्यक्तयापि मया तेन नासौ त्यक्तो मनागपि
फलं हि साधनायत्तं हेतुः फलवशो न तु ॥६६॥
कौसल्याशल्यशून्यासौ कृपापूर्णा सदा मयि
आस्ते कुशलिनी यस्याः पुत्रस्त्रैलोक्यपालकः ॥६७॥
सर्वे कुशलिनः संति भरताद्याश्च बांधवाः
सुमित्रा च महाभागा यस्याः प्राणादहं प्रिया ॥६८॥
मद्वत्किं त्वमपि त्यक्तः सर्वलोकेषु कीर्तये
राज्ञः किं दुस्त्यजं तस्य स्वात्मापि यस्य न प्रियः ॥६९॥
इत्येवं बहुधा पृष्टस्तया रामानुजः सताम्
उवाच कुशली देवः कुशलं त्वयि पृच्छति ॥७०॥
कौसल्या च सुमित्रा च याश्चान्या राजयोषितः
पप्रच्छुः कुशलं देवि प्रीत्या त्वामाशिषा सह ॥७१॥
कुशलप्रश्नपूर्वं हि तव पादाभिवंदनम्
निवेदयामि शत्रुघ्न भरताभ्यां कृतं शुभे ॥७२॥
गुरुभिर्गुरुपत्नीभिः सर्वाभिरपि ते शुभे
दत्ताशीः कुशलप्रश्नः कृतश्च त्वयि जानकि ॥७३॥
आकारयति देवस्त्वां निर्व्यलीकेन चात्मवान्
अलभ्यान्यरतिस्त्वत्तोऽन्यत्र सर्वत्र भामिनि ॥७४॥
शून्या एव दिशः सर्वास्त्वां विना जनकात्मजे
पश्यन्रोदिति नाथो नो रोदयन्नितरानपि ॥७५॥
यत्र देवि स्थितासि त्वं नित्यं स्मरति राघवः
अशून्यं तु तमेवासौ मन्यमानो विदेहजे ॥७६॥
धन्योऽयमाश्रमो जातो वाल्मीकेर्यत्र जानकी
कालं क्षपति वार्ताभिर्मदीयाभिर्वदन्निति ॥७७॥
उक्तवान्यद्रुदन्किंचित्स्वामी नस्त्वयि तच्छृणु
व्यक्तीभवति वक्तुर्यद्धृद्गतं तदसंशयम् ॥७८॥
लोका वदंति मामेव सर्वेषामीश्वरेश्वरम्
अहं त्वदृष्टमेवैषां स्वतंत्रं कारणं ब्रुवे ॥७९॥
अदृष्टमेव कार्येषु सर्वेशोऽप्यनुगच्छति
ईशनीयाः कुतो नैतदन्वीयुः सुखदुःखयोः ॥८०॥
धनुर्भंगे मतिभ्रंशे कैकय्या मरणे पितुः
अरण्यगमने तत्र हरणे तव वारिधेः ॥८१॥
तरणे रक्षसां भर्तुर्मारणेऽपि रणेरणे
सहायीभवने मह्यमृक्षवानररक्षसाम् ॥८२॥
लाभे तव प्रतिज्ञायाः सत्यत्वे च सतीमणे
पुनः स्वबंधुसंबंधे राज्यप्राप्तौ च भामिनि ॥८३॥
पुनः प्रियावियोगे च कारणं यदवारणम्
प्रसीदति तदेवाद्य संयोगे पुनरावयोः ॥८४॥
वेदोऽन्यथा कृतो येन लोकोत्पत्ति लयौ यतः
लोकाननुगतस्तस्मात्कारणं प्रथमं त्वहम् ॥८५॥
अदृष्टमनुवर्तंते लोकाः संप्रतिबोधकाः
भोगेन जीर्यतेऽदृष्टं तत्तद्भुक्तं त्वया वने ॥८६॥
स्नेहोऽकारणकः सीते वर्धमानो मम त्वयि
लोकादृष्टे तिरस्कृत्य त्वामाह्वयत आदरात् ॥८७॥
शङ्कितेनापि दोषेण स्नेहनैर्मल्यमज्जनम्
भवतीति स वै शुद्ध आस्वाद्यो विबुधैः सदा ॥८८॥
स्नेहशुद्धिरियं भद्रे कृता मे त्वयि नान्यथा
मंतव्यं रक्षितोऽप्येष लोकः शिष्टानुवर्तिना ॥८९॥
आवयोर्निंदया देवि सर्वावस्था सुशुद्धये
लोको नश्येद्धि संमूढश्चरितैर्महतामयम् ॥९०॥
आवयोरुज्ज्वला कीर्तिरावयोरुज्ज्वलो रसः
आवयोरुज्ज्वलौ वंशावावयोरुज्ज्वलाः क्रियाः ॥९१॥
भवेयुरावयोः कीर्तिर्गायका उज्ज्वला भुवि
आवयोर्भक्तिमंतो ये ते यांत्यंते भवांबुधेः ॥९२॥
इत्युक्ता भवती तेन प्रीयमाणेन ते गुणैः
पत्युः पादांबुजे द्रष्टुं करोतु सदयं मनः ॥९३॥
वासांसि रमणीयानि भूषणानि महांति च
अंगरागस्तथा गंधा मनोज्ञास्त्वयि योजिताः ॥९४॥
रथो दास्यश्च रामेण प्रेषिता उत्सवायते
छत्रं च चामरे शुभ्रे गजा अश्वाश्च शोभने ॥९५॥
स्तूयमाना द्विजश्रेष्ठैः सूतमागधबंदिभिः
वंद्यमाना पुरस्त्रीभिः सेव्यमाना च योद्धृभिः ॥९६॥
पुष्पैः संछाद्यमाना च देवीदेवांगनादिभिः
धनानि ददती तेभ्यो द्विजातिभ्यो यथेप्सितम् ॥९७॥
गजारूढौ कुमारौ च पुरस्कृत्य जनेश्वरी
मयानुगम्यमाना च गच्छायोध्यां निजां पुरीम् ॥९८॥
त्वयि तत्र गतायां तु संगतायां प्रियेण ते
सर्वासां राजनारीणामागतानां च सर्वशः ॥९९॥
सर्वासामृषिपत्नीनां कौसलानां तथैव च
मंगलैर्वाद्यगीताद्यैर्भवत्वद्य महोत्सवः ॥१००॥
शेष उवाच-
इतिविज्ञापनां देवी श्रुत्वा सीता तमाह सा
नाहं कीर्तिकरी राज्ञो ह्यपकीर्तिः स्वयं त्वहम् ॥१०१॥
किं मया तस्य साध्यं स्याद्धर्मकामार्थशून्यया
सत्येवं भवतां भूपे को विश्वासो निरंकुशे ॥१०२॥
प्रत्यक्षा वा परोक्षा वा भर्तुर्दोषा मनःस्थिताः
न वाच्या जातु मादृश्या कल्याणकुलजातया ॥१०३॥
पाणिग्रहणकाले मे यद्रूपो हृदये स्थितः
तद्रूपो हृदयान्नासौ कदाचिदपसर्पति ॥१०४॥
लक्ष्मणेमौ कुमारौ मे तत्तेजोंशसमुद्भवौ
वंशांकुरौ महाशूरौ धनुर्विद्याविशारदौ ॥१०५॥
नीत्वा पितुः समीपं तु लालनीयौ प्रयत्नतः
तपसाराधयिष्यामि रामं काममिह स्थिता ॥१०६॥
वाच्यं त्वया महाभाग पूज्यपादाभिवंदनम्
सर्वेभ्यः कुशलं चापि गत्वेतो मदपेक्षया ॥१०७॥
पुत्रौ समादिशत्सीता गच्छतं पितुरंतिकम्
शुश्रूषणीय एवासौ भवद्भ्यां स्वपदप्रदः ॥१०८॥
आज्ञप्तावप्यनिच्छंतौ तौ कुमारौ कुशीलवौ
वाल्मीकिवचनात्तत्र जग्मतुश्च सलक्ष्मणौ ॥१०९॥
वाल्मीकेरेव पादाब्जसमीपं तत्सुतौ गतौ
लक्ष्मणोऽपि ववंदे तं गत्वा बालकसंयुतः ॥११०॥
वाल्मीकिर्लक्ष्मणस्तौ तु कुमारौ मिलिता अमी
सभायां संस्थितं रामं ज्ञात्वा ते जग्मुरुत्सुकाः ॥१११॥
लक्ष्मणः प्रणिपत्याथ सीतावाक्यादिसर्वशः
कथयामास रामाय हर्षशोकयुतः सुधीः ॥११२॥
सीतासंदेशवाक्येभ्यो रामो मूर्च्छां समन्वभूत्
संज्ञामवाप्य चोवाच लक्ष्मणं नयकोविदम् ॥११३॥
गच्छ मित्र पुनस्तत्र यत्नेन महता च ताम्
शीघ्रमानय भद्रं ते मद्वाक्यानि निवेद्य च ॥११४॥
अरण्ये किं तपस्यंत्या गतिरन्या विचिंतिता
श्रुता दृष्टाथ वा मत्तो यन्नागच्छसि जानकि ॥११५॥
त्वदिच्छया त्वमेवेतो गतारण्यं मुनिप्रियम्
पूजिता मुनिपत्न्यस्ता दृष्टा मुनिगणास्त्वया ॥११६॥
पूर्णो मनोरथस्तेऽद्य किं नागच्छसि भामिनि
न दोषं मयि पश्येस्त्वं स्वात्मेच्छाया विलोकनात् ॥११७॥
गत्वा गत्वाथ वामोरु पतिरेव गतिः स्त्रियाः
निर्गुणोपि गुणांभोधिः किंपुनर्मनसेप्सितः ॥११८॥
याया क्रियाकुलस्त्रीणां सासा पत्युः प्रतुष्टये
पूर्वमेवप्रतुष्टोऽहमिदानीं सुतरां त्वयि ॥११९॥
यागो जपस्तपोदानं व्रतं तीर्थं दयादिकम्
देवाश्च मयि संतुष्टे तुष्टमेतदसंशयम् ॥१२०॥
शेष उवाच-
इति संदेशमादाय सीतां प्रति जगत्पतेः
आह लक्ष्मण आत्मेशमानतः प्रणयाद्धरौ ॥१२१॥
सीतानयनमुद्दिश्य प्रसन्नस्त्वं यदूचिवान्
कथयिष्यामि तद्वाक्यं विनयेन समन्वितम् ॥१२२॥
इत्युक्त्वा पादयोर्नत्वा रघुनाथस्य लक्ष्मणः
जगाम त्वरितः सीतां रथे तिष्ठन्महाजवे ॥१२३॥
वाल्मीकिः श्रीयुतौ वीक्ष्य रामपुत्रौ महौजसौ
उवाच स्मितमाधाय मुखं कृत्वा मनोहरम् ॥१२४
युवां प्रगायतां पुत्रौ रामचारित्रमद्भुतम्
वीणां प्रवादयंतौ च कलगानेन शोभितम् ॥१२५॥
इत्यक्तौ तौ सुतौ रामचारित्रं बहुपुण्यदम्
अगायतां महाभागौ सुवाक्यपदचित्रितम् ॥१२६॥
यस्मिन्धर्मविधिः साक्षात्पातिव्रत्यं तु यत्स्थितम्
भ्रातृस्नेहो महान्यत्र गुरुभक्तिस्तथैव च ॥१२७॥
स्वामिसेवकयोर्यत्र नीतिर्मूर्तिमती किल
अधर्मकरशास्तिं वै यत्र साक्षाद्रघूद्वहात् ॥१२८॥
तद्गानेन जगद्व्याप्तं दिवि देवा अपि स्थिताः
किन्नरा अपि यद्गानं श्रुत्वा मूर्च्छामिताः क्षणात् ॥१२९॥
वीणायारणितं श्रुत्वा तालमानेन शोभितम्
निखिला परिषत्तत्र शालभं जीवचित्रिता ॥१३०॥
हर्षादश्रूणिमुंचंतो रामाद्या भूमिपास्तथा
तद्गानपंचमालापमोहिताश्चित्रितोपमाः ॥१३१॥
तत्र रामः सुतौ दृष्ट्वा महागानविमोहकौ
अदात्ताभ्यां सुवर्णस्य लक्षं लक्षं पृथक्पृथक् ॥१३२॥
तदा दानपरं दृष्ट्वा वाल्मीकिं मुनिसत्तमम्
अब्रूतां प्रहसंतौ तौ किंचिद्वक्रभ्रुवौ ततः ॥१३३॥
मुने महानयोनेन क्रियते भूमिपेन वै
यदावाभ्यां सुवर्णानि दातुमिच्छति लोभयन् ॥१३४॥
प्रतिग्रहो ब्राह्मणानां शस्यते नेतरेषु वै
प्रतिग्रहपरो राजा नरकायैव कल्पते ॥१३५॥
आवयोः कृपया मुक्तं राज्यं भुंक्ते महीपतिः
कथं दातुं सुवर्णानि वांछति श्रेयसांचितः ॥१३६॥
इत्युक्तवंतौ तौ दृष्ट्वा वाल्मीकिः कृपयायुतः
अशंसद्युष्मत्पितरं जानीथां नीतिवित्तमौ ॥१३७॥
इति श्रुत्वा मुनेर्वाक्यं बालकौ नृपपादयोः
लग्नौ विनयसंयुक्तौ मातृभक्त्यातिनिर्मलौ ॥१३८॥
रामो बालौ दृढं स्वांगे परिरभ्य मुदान्वितः
मेने स्त्रियास्तदा धर्मौ मूर्तिमंतावुपस्थितौ ॥१३९॥
सभापि रामसुतयोर्वीक्ष्य वक्त्रे मनोरमे
जानकीपतिभक्तित्वं सत्यं मेने मुनीश्वर ॥१४०॥
इति शेषमुखप्रोक्तं श्रुत्वा वात्स्यायनोऽब्रवीत्
रामायणं श्रोतुमनाः सर्वधर्मसमन्वितम् ॥१४१॥
वात्स्यायन उवाच
कस्मिन्काले कृतं स्वामिन्रामायणमिदं महत्
कस्माच्चकार किन्तत्र वर्णनं तद्वदस्व मे ॥१४२॥
शेष उवाच-
एकदा गतवान्विप्रो वाल्मीकिर्विपिनं महत्
यत्र तालास्तमालाश्च किंशुका यत्र पुष्पिताः ॥१४३॥
केतकी यत्र रजसा कुर्वती सौरभं वनम्
शशिप्रभेव महती दृश्यते शुभ्रकर्णभृत्
चंपकोबकुलश्चापि कोविदारः कुरंटकः ॥१४४॥
अनेके पुष्पिता यत्र पादपाः शोभने वने
कोकिलानां विरावेण षट्पदानां च शब्दितैः ॥१४५॥
संघुष्टं सर्वतो रम्यं मनोहरवयोन्वितम्
तत्र क्रौंचयुगं रम्यं कामबाणप्रपीडितम् ॥१४६॥
परस्परं प्रहृषितं रेमे स्निग्धतया स्थितम्
तदा व्याधः समागत्य तयोरेकं मनोहरम् ॥१४७॥
अवधीन्निर्दयः कश्चिन्मांसास्वादनलोलुपः
तदा क्रौंची व्याधहतं स्वपतिं वीक्ष्य दुःखिता ॥१४८॥
विललाप भृशं दुःखान्मुंचंती रावमुच्चकैः
तदा मुनिः प्रकुपितो निषादं क्रौंचघातकम् ॥१४९॥
शशाप वार्युपस्पृश्य सरितः पावनं शुभम्
मा निषाद प्रतिष्ठां त्वमगमः शाश्वतीः समाः ॥१५०॥
यत्क्रौंचपक्षिणोरेकमवधीः काममोहितम्
तदा प्रबंधं श्लोकस्य जातं मत्वा ह्यनुद्विजाः ॥१५१॥
ऊचुर्मुनिं प्रहृष्टास्ते शंसंतः साधुसाध्विति
स्वामिञ्छापोदिते वाक्ये भारतीश्लोकमातनोत् ॥१५२॥
अत्यंतं मोहनो जातः श्लोकोऽयं मुनिसत्तम
तदा मुनिः प्रहृष्टात्मा बभूव वाडवर्षभ
तस्मिन्काले समागत्य ब्रह्मा पुत्रैः समन्वितः ॥१५३॥
वचो जगाद वाल्मीकिं धन्योसि त्वं मुनीश्वर
भारती त्वन्मुखे स्थित्वा श्लोकत्वं समपद्यत ॥१५४॥
तस्माद्रामायणं रम्यं कुरुष्व मधुराक्षरम्
येन ते विमला कीर्तिराकल्पांतं भविष्यति ॥१५५॥
धन्या सैव मुखे वाणी रामनाम्ना समन्विता
अन्या कामकथा नॄणां जनयत्येव पातकम् ॥१५६॥
तस्मात्कुरुष्व रामस्य चरितं लोकविश्रुतम्
येन स्यात्पापिनां पापहानिरेव पदेपदे ॥१५७॥
इत्युक्त्वांतर्दधे स्रष्टा सर्वदेवैः समन्वितः
ततः सचिंतयामास कथं रामायणं भवेत् ॥१५८॥
तदा ध्यानपरो जातो नदीतीरे मनोरमे
तस्य चेतस्यथो रामः प्रादुर्भूतो मनोहरः ॥१५९॥
नीलोत्पलदलश्यामं रामं राजीवलोचनम्
निरीक्ष्य तस्य चरितं भूतंभाविभवच्च यत् ॥१६०॥
तदात्यंतं मुदं प्राप्तो रामायणमथासृजत्
मनोरमपदैर्युक्तं वृत्तैर्बहुविधैरपि ॥१६१॥
षट्कांडानि सुरम्याणि यत्र रामायणेऽनघ
बालमारण्यकं चान्यत्किष्किंधा सुंदरं तथा ॥१६२॥
युद्धमुत्तरमन्यच्च षडेतानि महामते
शृणुयाद्यो नरः पुण्यात्सर्वपापैः प्रमुच्यते ॥१६३॥
तत्र बाले तु संतुष्टः पुत्रेष्ट्या चतुरस्सुतान्
प्राप पंक्तिरथः साक्षाद्धरिं ब्रह्मसनातनम् ॥१६४॥
स कौशिकमखं गत्वा सीतामुद्वाह्य भार्गवम्
आगत्य पुरमुत्कृष्टो यौवराज्यप्रकल्पनम् ॥१६५॥
मातृवाक्याद्वनं प्रागाद्गंगामुत्तीर्य पर्वतम्
चित्रकूटं महिलया लक्ष्मणेन समन्वितः ॥१६६॥
भरतस्तं वने श्रुत्वा जगाम भ्रातरं नयी
तमप्राप्य स्वयं नंदिग्रामे वासमचीकरत् ॥१६७॥
बालमेतच्छृणुष्वान्यदारण्यकसमुद्भवम्
मुनीनामाश्रमे वासस्तत्र तत्रोपवर्णनम् ॥१६८॥
नासाच्छेदः शूर्पणख्याः खरदूषणनाशनम्
मायामारीचहननं दैत्याद्रामापहारणम् ॥१६९॥
वने विरहिणा भ्रांतं मनुष्यचरितं भृतम्
कबंधप्रेक्षणं तत्र पम्पायां गमनं तथा ॥१७०॥
हनूमता संगमनमित्येतद्वनसंज्ञितम्
अपरं च शृणु मुने संक्षिप्य कथयाम्यहम् ॥१७१॥
सप्ततालप्रभेदश्च वालेर्मारणमद्भुतम्
सुग्रीवे राज्यदानं च नगवर्णनमित्युत ॥१७२॥
लक्ष्मणात्कर्मसंदेशः सुग्रीवस्य विवासनम्
तथा सैन्यसमुद्देशः सीतान्वेषणमप्युत ॥१७३॥
संपातिप्रेक्षणं तत्र वारिधेर्लंघनं तथा
परतीरे कपिप्राप्तिः कैष्किंधं कांडमद्भुतम् ॥१७४॥
सुंदरं शृणु कांडं वै यत्र रामकथाद्भुता
प्रतिगेहे प्रति भ्रांतिः कपेश्चित्रस्य दर्शनम् ॥१७५॥
सीतासंदर्शनं तत्र जानक्याभाषणं तथा
वनभंगः प्रकुपितैर्बंधनं वानरस्य च ॥१७६॥
ततो लंकाप्रज्वलनं वानरैः संगतिस्ततः
रामाभिज्ञानदानं च सैन्यप्रस्थानमेव च ॥१७७॥
समुद्रे सेतुकरणं शुकसारणसंगतिः
इति सुंदरमाख्यातं युद्धे सीतासमागमः ॥१७८॥
उत्तरे ऋषिसंवादो यज्ञप्रारंभ एव च
तत्रानेका रामकथाः शृण्वतां पापनाशकाः ॥१७९॥
इति षट्कांडमाख्यातं ब्रह्महत्यापनोदनम्
संक्षेपतो मया तुभ्यमाख्यातं सुमनोहरम् ॥१८०॥
चतुर्विंशतिसाहस्रं षट्कांडपरिचिह्नितम्
तद्वै रामायणं प्रोक्तं महापातकनाशनम् ॥१८१॥
तच्छ्रुत्वा राघवः प्रीतः पुत्रावाधाय चासने
दृढं तौ परिरभ्याथ सीतां सस्मार वल्लभाम् ॥१८२॥
इति श्रीपद्मपुराणे पातालखण्डे शेषवात्स्यायनसंवादे रामाश्वमेधे
रामायणगानंनाम षट्षष्टितमोऽध्यायः ॥६६॥

N/A

References : N/A
Last Updated : November 06, 2020

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP