संस्कृत सूची|संस्कृत साहित्य|पुराण|पद्मपुराणम्|पातालखण्डः|
अध्यायः ९९

पातालखण्डः - अध्यायः ९९

भगवान् नारायणाच्या नाभि-कमलातून, सृष्टि-रचयिता ब्रह्मदेवाने उत्पन्न झाल्यावर सृष्टि-रचना संबंधी ज्ञानाचा विस्तार केला, म्हणून ह्या पुराणास पद्म पुराण म्हणतात.


यम उवाच-
बभूव भूपतिः पूर्वं ख्यातो नाम्ना महीरथः
पूर्वपुण्यफलावाप्त प्रभूतैश्वर्यसंपदः ॥१॥
केवलं कामकलना ललना ललितस्थितः
तदेकव्यसनासक्तिर्न धर्मार्थ व्यवस्थितः ॥२॥
मंत्रिणि न्यस्य राज्यश्रीर्बुभुजे विषयान्नृपः
स कामिनी सहचरो राज्यकार्यपराङ्मुखः ॥३॥
न प्रजा न धनं धर्मं नार्थं कार्यं च पश्यति
केवलं कामिनीकेलि कलनोचितवासनः ॥४॥
अथ कालेन महता पुरोधास्तस्य कश्यपः
वचः प्रोवाच तं धर्म्यमिति चेतस्यचिंतयत् ॥५॥
न वारयति यो मोहादधर्मान्नृपतिं गुरुः
सोपि तत्पापभुक्तस्माद्बोधनीयः पुरोधसा ॥६॥
बोधितोऽप्यवजानाति स चेद्वाक्यं पुरोधसः
पुरोधास्तत्र निर्दोषो राजा स्यात्सर्वदोषभाक् ॥७॥
शृणु राजन्मम गुरोर्वचो धर्मार्थसंहितम्
अभिन्नार्थमुपेतार्थमिच्छारागादि वर्जितम् ॥८॥
अयमेव परो धर्मो यद्गुरोर्वचसि स्थितिः
गुर्वाज्ञायालवो राज्ञामायुः श्री सौख्यवर्द्धनः ॥९॥
न विप्रास्तर्पिता दानैर्विष्णुर्नाराधितस्त्वया
न व्रतं न तपः किंचिन्न तीर्थं हि कृतं त्वया ॥१०
हरिनाम त्वया कामवशगेन न चिंतितम्
हा त्वया भीरुसंगत्या न विद्वत्संगतिः कृता ॥११॥
स्मरचामरवाहिन्यो वल्लभाः कस्य न प्रियाः
किंतु ताः पवनोल्लोलकदलीदलवच्चलाः ॥१२॥
तरंगतरलैरर्थैर्भोगैर्भ्रूभंगभंगुरैः
मुहूर्तपेयैस्तारुण्यैर्न तृप्यंते महाशयाः ॥१३॥
किं विद्यया च तपसा किं त्यागेन नयेन वा
किं विविक्तेन मनसा स्त्रीभिर्यस्य हृतं मनः ॥१४॥
एक एव सुहृद्धर्मो निधनेष्वनुयाति यः
सर्वमन्यच्छरीरेण समं नाशं गमिष्यति ॥१५॥
धर्मं शनैः संचिनुयाद्वल्मीकमिव पुत्तिकाः
धर्मेण हि सहायेन तमस्तरति दुस्तरम् ॥१६॥
अनिलोल्लासितोत्ताल जलकल्लोल चंचलम्
किं न जानासि राजेंद्र नृणां जीवित विभ्रमम् ॥१७॥
विनयो रत्नमुकुटः सत्यधर्मौ च कुंडले
त्यागश्च कंकणो येषां किं तेषां जडमंडनैः ॥१८॥
मृतं शरीरमुत्सृज्य काष्ठलोष्टसमं भुवि
विमुखा बांधवा यांति धर्मस्तमनुगच्छति ॥१९॥
गम्यमानेषु सर्वेषु क्षीयमाणे तथायुषि
जीविते लुप्यमाने च किमुत्थाय न धावसि ॥२०॥
कुटुंबं पुत्रदारादि शरीरं द्रव्यसंचयः
पारक्यमध्रुवं किंतु स्वीये सुकृतदुष्कृते ॥२१॥
यदा सर्वं परित्यज्य गंतव्यमवशेन ते
अनर्थे किं प्रसक्तस्त्वं स्वधर्मं नानुतिष्ठसि ॥२२॥
अविश्राममनालंबमपाथेयमदेशिकम्
मृतः कांतारमध्वानं कथमेको गमिष्यसि ॥२३॥
न हि त्वां प्रस्थितं कश्चित्पृष्ठतोऽनुगमिष्यति
सुकृतं दुष्कृतं च त्वां यास्यंतमनुयास्यति ॥२४॥
श्रुतिस्मृत्युदितं कर्म कुलदेशोचितं हितम्
धर्ममूलं निषेवस्व सदाचारमतंद्रितः ॥२५॥
परित्यजेदर्थकामौ स्यातां चेद्धर्मवर्जितौ
धर्मेण प्राप्यते सर्वमर्थकामादिकं सुखम् ॥२६॥
इंद्रियाणां जयं योगं समातिष्ठेद्दिवानिशम्
जितेंद्रियो हि शक्नोति पथि स्थापयितुं प्रजाः ॥२७॥
अतिप्रगल्भ ललना कटाक्ष चपलाश्रियः
विनये प्रणिधानेन चिरं तिष्ठंति भूभुजाम् ॥२८॥
कामदर्पादिशीलानामविचारित कारिणाम्
आयुषा सह नश्यंति संपदो मूढचेतसाम् ॥२९॥
भूतिभिर्नष्टदृष्टाभिर्नृत्यंते न महाशयाः
नागताभिर्न याताभिर्नदीभिश्चीयतेंबुधिः ॥३०॥
व्यसनस्य च मृत्योश्च व्यसनं कष्टमुच्यते
व्यसन्यधोधो व्रजति स्वर्गाम्यव्यसनी नृपः ॥३१॥
व्यसनानि दुरंतानि कामजानि विशेषतः
त्यज तस्मान्महाराज कामं धर्मविरोधिनम् ॥३२॥
जडानामविवेकानामसुराणां दुरात्मनाम्
भाग्यभोग्यानि राज्यानि संत्यनीतिमतामपि ॥३३॥
नैव स्थिराणि तानीह दुरितैरनुसेवितैः
विलीयंते यथा वह्निसंसर्गेणेंधनानि च ॥३४॥
गच्छतस्तिष्ठतो वापि जाग्रतः स्वपतोऽपि वा
न विचारपरं चेतो यस्यासौ मृत एव सः ॥३५॥
उपदेष्टा श्रुतवतां गुरुरित्युच्यते यतः
किंतु त्वासन्नविपदामुपदेशाः शिरोरुहाः ॥३६॥
विषयज्वरमुत्सृज्य समया स्वस्थया धिया
युक्त्या च व्यवहारिण्या स्वार्थः प्राज्ञेन साध्यते ॥३७॥
अशुभाच्चलितं याति शुभं तस्मादपीतरम्
जंतोश्चित्तं च शिशुवत्तस्मात्तच्चालयेद्बलात् ॥३८॥
उपधार्य मतिं राजन्वृद्धानां धर्मदर्शिनाम्
नियच्छेत्परया बुद्ध्या चित्तमुत्पथगामि यत् ॥३९॥
न धनान्युपकुर्वंति न मित्राणि न बांधवाः
न हस्तपादचलनं न देशांतरसंगतम् ॥४०॥
न कायक्लेशवैधुर्यं न तीर्थायतनाश्रयः
केवलं तन्मनस्कस्य जपेनासाद्यते पदम् ॥४१॥
विषये वर्तमानस्य तस्माच्चित्तस्य संयमे
यत्नं कुर्याद्बुधो राजन्ध्रुवं यंतेव वाजिनाम् ॥४२॥
तत्तत्कुर्याद्यतो राजन्भवता येन वंचितः
मुनिभिश्च फलैस्तैस्तैरतोप्याकर्णयाधुना ॥४३॥
मुह्यतापि मनुष्येण प्रष्टव्याः सुहृदो बुधाः
ते च पृष्टा यथा ब्रूयुस्तत्कर्त्तव्यं यथोचितम् ॥४४॥
सर्वोपायेन कर्त्तव्यो निग्रहः कामकोपयोः
श्रेयोऽर्थिना यतस्तौ हि श्रेयोघातार्थमुद्यतौ ॥४५॥
कामो हि बलवान्राजञ्छरीरस्थो रिपुर्महान्
न तस्य वशगो भूयाज्जनः श्रेयोभिलाषुकः ॥४६॥
यः कामो देवदेवेन पुरा तेनैव शूलिना
ललाटवह्निना दग्धः कृतोनंग इति स्थितिः ॥४७॥
यदा वांछत्यसौ नारीं निहंतुं समनोभवः
पुंसां कायं समाश्रित्य स्वरूपं दर्शयत्यसौ ॥४८॥
चिंत्यमानस्य वै पुंसो नार्या रूपं पुनःपुनः
तमदृष्टं समाश्रित्य नरमुन्मादयत्यसौ ॥४९॥
तथैवोन्मादयत्येष योषिदंगं न संशयः
स्मरः संस्मरणान्नाम जातं तस्य ततो नृप ॥५०॥
यादृशस्तादृशो रंगो वस्त्रं वीरसमाश्रयेत्
आत्मतेजः प्रकाशात्सोऽश्रुधारा पेयतां व्रजेत् ॥५१॥
नार्यारूपं समारुह्य धीरं तमपि मोहयेत्
पुरुषं तु समाश्रित्य द्रावयत्येष योषितम् ॥५२॥
स एव सहजो राजन्नशरीरी शरीरगः
शरीरकस्यापि विभो कथं पापं विधीयते ॥५३॥
यं प्राप्यातिपवित्राणि पंचगव्यहवींषि च
अशुचित्वं क्षणं यांति कोऽन्य स्यादशुचिस्ततः ॥५४॥
जिघ्रन्नपि स्वदुर्गंधं पश्यन्नपि मलं स्वकम्
न विरज्यति लोकोऽयं पीडयन्नपि नासिकाम् ॥५५॥
हृद्यान्नमन्नपानानि यं प्राप्य सुरभीणि च
अशुचित्वं प्रयांत्याशु कोऽन्यस्यादशुचिस्ततः ॥५६॥
यस्योदरगतं चान्नं स्वं हि रूपं परित्यजेत्
कृमिमिश्रममेध्यत्वं शीघ्रं प्रज्ञायते किल ॥५७॥
तथापि देहे भूपाल निजरूपं परित्यजेत्
शुनतां याति वै पश्चात्कृमिदुर्गंधिसंकुले ॥५८
जायंते तत्र वै यूकाः कृमयो वा न संशयः
सकृमिः कुरुते स्फोटं कंडूश्च परिदारुणः ॥५९॥
व्यथामुत्पादयेद्भूयः सर्वांगं परिचालयेत्
नखाग्रैर्घृष्यमाणा सा कंडूः शांता प्रजायते ॥६०॥
तद्वत्सुखं भवत्येव सुरतस्य न संशयः
भुंजत्येवं रसान्मर्त्यः सुभक्षान्पिबते पुनः ॥६१॥
तत्रस्थं पचते वह्निरपाने पातयेन्मलम्
सारभूतो रसस्तत्र उद्रिक्तस्तु प्रजायते ॥६२॥
निर्मलः शुद्धवीर्यस्तु ब्रह्मस्थानं प्रयाति च
आकृष्टः स समानेन नीतस्तेनापि वायुना ॥६३॥
स्थानं न लभते वीर्यं चंचलत्वेन वर्तते
प्राणिनां हि कपालेषु कृमयः संति पंच वै ॥६४॥
द्वावेतौ कर्णमूले तु नेत्रस्थाने ततः पुनः
कनिष्ठांगुलिमानेन रक्तपुच्छाश्च भूपते ॥६५॥
नवनीतस्य वर्णेन कृष्णपुच्छा न संशयः
तेषां नामानि भद्रं ते मत्तो निगदतः शृणु ॥६६॥
पिङ्गली शृंगली नाम द्वौ कृमी कर्णमूलयोः
शृंगली जंगली चान्यौ नेत्रयोरंतरस्थितौ ॥६७॥
कृमीणां शतपंचाशत्तादृग्भूता न संशयः
ललाटांतः स्थिताः सर्वे राजिकायाः प्रमाणतः ॥६८॥
कपालरोगिणः सर्वे कुर्वंति न संशयः
अन्यमेवं प्रवक्ष्यामि प्राजापत्यो महाकृमिः ॥६९॥
सतंडुलप्रमाणेन तद्वद्वर्णेन संशयः
केशद्वयं मुखे तस्य विद्यते शृणु भूपते ॥७०॥
प्राणिनां संक्षयाबुद्धिस्तत्क्षणाद्धि न संशयः
स्वस्थाने संस्थितस्यापि प्राजापत्यस्य वै मुखे ॥७१॥
तद्वीर्यं रसरूपेण पतते नात्र संशयः
सुखेन पिबते वीर्यं तेन मत्तः प्रजायते ॥७२॥
तालुस्थानं प्रभेद्यैव चंचलत्वेन वर्त्तते
इडा च पिंगला नाडी सुषुम्ना तत्र संस्थिताः ॥७३॥
स्वबलेनापि तस्यैव कंपिता नाडिका क्षणम्
कामकंडूर्भवेद्राजन्सर्वेषां प्राणिनां किल ॥७४॥
नरस्य स्फुटते लिगं नार्या योनिश्च भूपते
स्त्रीनरौ च प्रमत्तौ तौ गच्छतः संगमं ततः ॥७५॥
कायेन कायं संघृष्य मैथुनेन हि जायते
क्षणमात्रं सुखं तत्र पुनः कंडूश्च तादृशी ॥७६॥
सर्वत्र दृश्यते वीर भाव एवंविधः किल
विरसः परिपाकोऽयं विषयस्य न संशयः ॥७७॥
धर्म एव पुनः श्रेयान्विधिना समनुष्ठितः
धैर्यमालंब्य च ततो धर्ममेव समाचर ॥७८॥
श्वास एष चपलः क्षणमध्ये यो गतागत शतानि विधत्ते
जीवितं तनुभृतां तदधीनं कः समाचरति धर्मविलंबम् ॥७९॥
दशमीमपि यातस्य चेतो नाद्यापि भूपते
विषयेभ्यो निषिद्धेभ्यो हाहा न विरमेच्चलम् ॥८०॥
न जातुकामः कामानामुपभोगेन शाम्यति
हविषा कृष्णवर्त्मेव भूय एवाभिवर्द्धते ॥८१॥
पुंश्चल्यापहृतं चित्तं कश्चान्यो मोचितुं क्षमः
आत्मारामेश्वरमृते भगवंतं च माधवम् ॥८२॥
तस्मात्सर्वं निष्फलत्वं प्रयातं कामकश्मलात्
वयस्तेऽप्यधुना भूप समाचर हितं निजम् ॥८३॥
वदाम्यहं तव नृपहितं सर्वोत्तमोत्तमम्
पुरोहितो यतस्तेऽहं सदसत्कर्मभागपि ॥८४॥
एकतः सर्वपुण्यानि पापनाशाय पापिनाम्
एकतो माधवे मासो माधवस्यप्रियः सदा ॥८५॥
ब्रह्महत्या सुरापानं स्तेयं गुर्वंगनागमः
महांति पातकान्येव कीर्तितानि मुनीश्वरैः ॥८६॥
तत्र यन्मनसा काये व्रतेनापि कृतं नरैः
नाशयेन्माधवो मासः सर्वं पापतमो महत् ॥८७॥
दिवाकर इव ध्वांतं नाशयेन्नृपसर्वशः
तथा श्री माधवोमासस्तमाचर विधानतः ॥८८॥
आजन्मनोऽपि विहितानि महांति राजन्घोराणि तानि दुरितानि विहाय मर्त्याः
वैशाखमासविहिताचरणप्रभाव पुण्येन ते हरिपुरं मुदिता लभंते ॥८९॥
यद्येकमपि वैशाखमाचरंति विधानतः
भावतः पापिनोऽप्यंते प्रयांति हरिमंदिरम् ॥९०॥
तस्मात्त्वमपि राजेंद्र मासेऽस्मिन्माधवेधुना
प्रातःस्नात्वा विधानेन समर्चय मधुद्विषम् ॥९१॥
तंडुलस्य यथा चर्म यथा ताम्रस्य कालिमा
नश्यंति क्रियया वीर पुरुषस्य तथा मलः ॥९२॥
जीवस्य तंडुलस्येव सहजोऽपि मलो महान्
नश्यत्येव न संदेहस्तस्मात्कर्मोदितं कुरु ॥९३॥
इति श्रीपद्मपुराणे पातालखंडे वैशाखमाहात्म्ये नवनवतितमोऽध्यायः ॥९९॥

N/A

References : N/A
Last Updated : November 13, 2020

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP