पातालखण्डः - अध्यायः ७१
भगवान् नारायणाच्या नाभि-कमलातून, सृष्टि-रचयिता ब्रह्मदेवाने उत्पन्न झाल्यावर सृष्टि-रचना संबंधी ज्ञानाचा विस्तार केला, म्हणून ह्या पुराणास पद्म पुराण म्हणतात.
श्रीदेव्युवाच-
भगवन्सर्वभूतेश सर्वात्मन्सर्वसंभव
देवेश्वर महादेव सर्वज्ञ करुणाकर ॥१॥
त्वयानुकंपितैवाहं भूयोऽप्याहानुकंपया
त्रैलोक्यमोहना मंत्रास्त्वया मे कथिताः प्रभो ॥२॥
तेन देवेन गोपीभिर्महामोहनरूपिणा
केन केन विशेषण चिक्रीडे तद्वदस्व मे ॥३॥
महादेव उवाच
एकदा वादयन्वीणां नारदो मुनिपुंगवः
कृष्णावतारमाज्ञाय प्रययौ नंदगोकुलम् ॥४॥
गत्वा तत्र महायोगमयेशं विभुमच्युतम्
बालनाट्यधरं देवदर्शनं नंदवेश्मनि ॥५॥
सुकोमलपटास्तीर्णहेमपर्यंकिकोपरि
शयानं गोपकन्याभिः प्रेक्षमाणं सदा मुदम् ॥६॥
अतीव सुकुमारांगं मुग्धं मुग्धविलोकनम्
विस्रस्तनीलकुटिलकुंतलावनिमंडलम् ॥७॥
किंचित्स्मितांकुरव्यंजदेकद्विरदकुड्मलम्
स्वप्रभाभिर्भासयंतं समंताद्भवनोदरम् ॥८॥
दिग्वाससं समालोक्य सोऽतिहर्षमवाप ह
संभाष्य गोपतिं नंदमाह सर्वप्रभुप्रियः ॥९॥
नारायणपराणां तु जीवनं ह्यतिदुर्लभम्
अस्य प्रभावमतुलं न जानंतीह केचन ॥१०॥
भव ब्रह्मादयोऽप्यस्मिन्रतिं वांच्छन्ति शाश्वतीम्
चरितं चास्य बालस्य सर्वेषामेव हर्षणम् ॥११॥
मुदा गायंति शृण्वंति चाभिनंदंति तादृशाः
अस्मिंस्तव सुतेऽचिंत्यप्रभावे स्निग्धमानसाः ॥१२॥
नराः संति न तेषां वै भवबाधा भविष्यति
मुंचेह परलोकेच्छाः सर्वा बल्लवसत्तम ॥१३॥
एकांतेनैकभावेन बालेऽस्मिन्प्रीतिमाचर
इत्युक्त्वा नंदभवनान्निष्क्रांतो मुनिपुंगवः ॥१४॥
तेनार्चितो विष्णुबुद्ध्या प्रणम्य च विसर्जितः
अथासौ चिंतयामास महाभागवतो मुनिः ॥१५॥
अस्य कांता भगवती लक्ष्मीर्नारायणे हरौ
विधाय गोपिकारूपं क्रीडार्थं शार्ङ्गधन्वनः ॥१६॥
अवश्यमवतीर्णा सा भविष्यति न संशयः
तामहं विचिनोम्यद्य गेहेगेहे व्रजौकसाम् ॥१७॥
विमृश्यैवं मुनिवरो गेहानि व्रजवासिनाम्
प्रविवेशातिथिर्भूत्वा विष्णुबुद्ध्या सुपूजितः ॥१८॥
सर्वेषां बल्लवादीनां रतिं नंदसुते पराम्
दृष्ट्वा मुनिवरः सर्वान्मनसा प्रणनाम ह ॥१९॥
गोपालानां गृहे बालां ददर्श श्वेतरूपिणीम्
स दृष्ट्वा तर्कयामास रमा ह्येषा न संशयः ॥२०॥
प्रविवेश ततो धीमान्नंदसख्युर्महात्मनः
कस्यचिद्गोपवर्य्यस्य भानुनाम्नो गृहं महत् ॥२१॥
अर्चितो विधिवत्तेन सोऽप्यपृच्छन्महामनाः
साधो त्वमसि विख्यातो धर्मनिष्ठतया भुवि ॥२२॥
तवाहं धनधान्यादि समृद्धिं संविभावये
कच्चित्ते योग्यः पुत्रोऽस्ति कन्या वा शुभलक्षणा ॥२३॥
यतस्ते कीर्तिरखिलं लोकं व्याप्य भविष्यति
इत्युक्तो मुनिवर्य्येण भानुरानीय पुत्रकम् ॥२४॥
महातेजस्विनं दृप्तं नारदायाभ्यवादयत्
दृष्ट्वा मुनिवरस्तं तु रूपेणाप्रतिमं भुवि ॥२५॥
पद्मपत्रविशालाक्षं सुग्रीवं सुंदरभ्रुवम्
चारुदंतं चारुकर्णं सर्वावयवसुंदरम् ॥२६॥
तं समाश्लिष्य बाहुभ्यां स्नेहाश्रूणि विमुच्य च
ततः स गद्गद प्राह प्रणयेन महामुनिः ॥२७॥
नारद उवाच-
अयं शिशुस्ते भविता सुसखा रामकृष्णयोः
विहरिष्यति ताभ्यां च रात्रिंदिवमतंद्रितः ॥२८॥
तत आभाष्य तं गोपप्रवरं मुनिपुंगवः
यदा गंतुं मनश्चक्रे तत्रैवं भानुरब्रवीत् ॥२९॥
एकास्ति पुत्रिका देव देवपत्न्युपमा मम
कनीयसी शिशोरस्य जडांधबधिराकृतिः ॥३०॥
उत्साहाद्वृद्धये याचे त्वां वरं भगवत्तम
प्रसन्नदृष्टिमात्रेण सुस्थिरां कुरु बालिकाम् ॥३१॥
श्रुत्वैवं नारदो वाक्यं कौतुकाकृष्टमानसः
अथ प्रविश्य भवनं लुठंतीं भूतले सुताम् ॥३२॥
उत्थाप्यांके निधायातिस्नेहविह्वलमानसः
भानुरप्याययौ भक्तिनम्रो मुनिवरांतिकम् ॥३३॥
अथ भागवतश्रेष्ठः कृष्णस्यातिप्रियो मुनिः
दृष्ट्वा तस्याः परं रूपमदृष्टाश्रुतमद्भुतम् ॥३४॥
अभूत्पूर्वसमं मुग्धो हरिप्रेमा महामुनिः
विगाह्य परमानंदसिंधुमेकरसायनम् ॥३५॥
मुहूर्त्तद्वितयं तत्र मुनिरासीच्छिलोपमः
मुनींद्रः प्रतिबुद्धस्तु शनैरुन्मील्य लोचने ॥३६॥
महाविस्मयमापन्नस्तूष्णीमेव स्थितोऽभवत्
अंतर्हृदि महाबुद्धिरेवमेवं व्यचिंतयत् ॥३७॥
भ्रांतं सर्वेषु लोकेषु मया स्वच्छंदचारिणा
अस्या रूपेण सदृशी दृष्ट्वा नैव च कुत्रचित् ॥३८॥
ब्रह्मलोके रुद्रलोक इंद्रलोके च मे गतिः
न कोपि शोभाकोट्यंशः कुत्राप्यस्या विलोकितः ॥३९॥
महामाया भगवती दृष्टा शैलेंद्रनंदिनी
यस्या रूपेण सकलं मुह्यते सचराचरम् ॥४०॥
साप्यस्याः सुकुमारांगी लक्ष्मीं नाप्नोति कर्हिचित्
लक्ष्मीः सरस्वती कांति विद्याद्याश्च वरस्त्रियः ॥४१॥
छायामपि स्पृशंत्यस्याः कदाचिन्नैव दृश्यते
विष्णोर्यन्मोहिनीरूपं हरो येन विमोहितः ॥४२॥
मया दृष्टं च तदपि कुतोऽस्यासदृशं भवेत्
ततोऽस्यास्तत्त्वमाज्ञातुं न मे शक्तिः कथंचन ॥४३॥
अन्ये चापि न जानंति प्रायेणैनां हरेः प्रियाम्
अस्याः संदर्शनादेव गोविंदचरणांबुजे ॥४४॥
या प्रेमर्द्धिरभूत्सा मे भूतपूर्वा न कर्हिचित्
एकांते नौमि भवतीं दर्शयित्वातिवैभवम् ॥४५॥
कृष्णस्य संभवत्यस्या रूपं परमतुष्टये
विमृश्यैवं मुनिर्गोपप्रवरं प्रेष्य कुत्रचित् ॥४६॥
निभृते परितुष्टाव बालिकां दिव्यरूपिणीम्
अपि देवि महायोगमायेश्वरि महाप्रभे ॥४७॥
महामोहनदिव्यांगि महामाधुर्यवर्षिणि
महाद्भुतरसानंदशिथिलीकृतमानसे ॥४८॥
महाभाग्येन केनापि गतासि मम दृक्पथम्
नित्यमंतर्मुखादृष्टिस्तव देवि विभाव्यते ॥४९॥
अंतरेव महानंदपरितृप्तैव लक्ष्यसे
प्रसन्नं मधुरं सौम्यमिदं सुमुखमंडनम् ॥५०॥
व्यनक्तिपरमाश्चर्यं कमप्यंतः सुखोदयम्
रजः संबंधिकलिका शक्तिस्तत्वातिशोभने ॥५१॥
सृष्टिस्थितिसमाहाररूपिणी त्वमधिष्ठिता
तत्त्वं विशुद्धसत्वाशु शक्तिर्विद्यात्मिका परा ॥५२॥
परमानंदसंदोहं दधती वैष्णवं परम्
का त्वयाश्चर्यविभवे ब्रह्मरुद्रादिदुर्गमे ॥५३॥
योगींद्राणां ध्यानपथं न त्वं स्पृशसि कर्हिचित्
इच्छाशक्तिर्ज्ञानशक्तिः क्रियाशक्तिस्तवेशितुः ॥५४॥
तवांशमात्रमित्येवं मनीषा मे प्रवर्त्तते
मायाविभूतयोऽचिंत्यास्तन्मायार्भकमायिनः ॥५५॥
परेशस्य महाविष्णोस्ताः सर्वास्ते कलाकलाः
आनंदरूपिणी शक्तिस्त्वमीश्वरि न संशयः ॥५६॥
त्वया च क्रीडते कृष्णो नूनं वृंदावने वने
कौमारेणैव रूपेण त्वं विश्वस्य च मोहिनी ॥५७॥
तारुण्यवयसा स्पृष्टं कीदृक्ते रूपमद्भुतम्
कीदृशं तव लावण्यं लीलाहासेक्षणान्वितम् ॥५८॥
हरि मानुषलोभेन वपुराश्चर्यमंडितम्
द्रष्टुं तदहमिच्छामि रूपं ते हरिवल्लभे ॥५९॥
येन नंदसुतः कृष्णो मोहं समुपयास्यति
इदानीं मम कारुण्यान्निजं रूपं महेश्वरि ॥६०॥
प्रणताय प्रपन्नाय प्रकाशयितुमर्हसि
इत्युक्ता मुनिवर्य्येण तदनुव्रतचेतसा ॥६१॥
महामाहेश्वरीं नत्वा महानंदमयीं पराम्
महाप्रेमतरोत्कंठा व्याकुलांगीं शुभेक्षणाम् ॥६२॥
ईक्षमाणेन गोविंदमेवं वर्णयतास्थितम्
जयकृष्ण मनोहारिञ्जय वृंदावनप्रिय ॥६३॥
जयभ्रूभंगललित जयवेणुरवाकुल
जय बर्हकृतोत्तंस जयगोपीविमोहन ॥६४॥
जय कुंकुमलिप्तांग जय रत्नविभूषण
कदाहं त्वत्प्रसादेन अनया दिव्यरूपया ॥६५॥
सहितं नवतारुण्य मनोहारि वपुःश्रिया
विलोकयिष्ये कैशोरे मोहनं त्वां जगत्पते ॥६६॥
एवं कीर्त्तयतस्तस्य तत्क्षणादेव सा पुनः
बभूव दधती दिव्यं रूपमत्यंतमोहनम् ॥६७॥
चतुर्दशाब्दवयसा संमितं ललितं परम्
समानवयसश्चान्यास्तदैव व्रजबालिकाः ॥६८॥
आगत्य वेष्टयामासुर्दिव्यभूषांबरस्रजः
मुनींद्रः स तु निश्चेष्टो बभूवाश्चर्यमोहितः ॥६९॥
बालायास्तास्तदा सख्यश्चरणांबुकणैर्मुनिम्
निषिच्य बोधयामासुरूचुश्च कृपयान्विताः ॥७०॥
मुनिवर्य महाभाग महायोगेश्वरेश्वर
त्वयैव परया भक्त्या भगवान्हरिरीश्वरः ॥७१॥
नूनमाराधितो देवो भक्तानां कामपूरकः
यदियंब्रह्मरुद्राद्यैर्देवैः सिद्धमुनीश्वरैः ॥७२॥
महाभागवतैश्चान्यैर्दुर्दर्शा दुर्गमापि च
अत्यद्भुतवयोरूपमोहिनी हरिवल्लभा ॥७३॥
केनाप्यचिंत्य भाग्येन तवदृष्टिपथं गता
उत्तिष्ठोत्तिष्ठ विप्रर्षे धैर्यमालंब्य सत्वरम् ॥७४
एनां प्रदक्षिणीकृत्य नमस्कुरु पुनःपुनः
किं न पश्यसि चार्वंगीमत्यंतव्याकुलामिव ॥७५॥
अस्मिन्नेव क्षणे नूनमंतर्धानं गमिष्यति
नानया सह संलापः कथंचित्ते भविष्यति ॥७६॥
दर्शनं च पुनर्नास्याः प्राप्स्यसि ब्रह्मवित्तम
किंतु वृंदावने कापि भात्यशोकलता शुभा ॥७७॥
सर्वकालेऽपि पुष्पाढ्या सर्वदिग्व्यापि सौरभा
गोवर्द्धनाददूरेण कुसुमाख्यसरस्तटे ॥७८॥
तन्मूले ह्यर्द्धरात्रे च द्रक्ष्यस्यस्मानशेषतः
श्रुत्वैवं वचनं तासां स्नेहविह्वलचेतसाम् ॥७९॥
यावत्प्रदक्षिणीकृत्य प्रणमेद्दंडवन्मुनिः
मुहूर्त्तद्वितयं बालां नानानिर्माणशोभनाम् ॥८०॥
आहूय भानुं प्रोवाच नारदः सर्वशोभनाम्
एवं प्रभावा बालेयं न साध्या दैवतैरपि ॥८१॥
किंतु यद्गृहमेतस्याः पदचिह्नविभूषितम्
तत्र नारायणो देवः स्वयं वसति माधवः ॥८२॥
लक्ष्मीश्च वसते नित्यं सर्वाभिः सर्वसिद्धिभिः
अद्य एनां वरारोहां सर्वाभरणभूषणाम् ॥८३॥
देवीमिव परां गेहे रक्ष यत्नेन सत्तम
इत्युक्त्वा मनसैवैनां महाभागवतोत्तमः ॥८४॥
तद्रूपमेव संस्मृत्य प्रविष्टो गहनं वनम्
अशोकलतिकामूलमासाद्य मुनिसत्तमः ॥८५॥
प्रतीक्षमाणो देवीं तां तत्रैवागमनं निशि
स्थितोऽत्र प्रेमविकलश्चिंतयन्कृष्णवल्लभाम् ॥८६॥
अथ मध्यनिशाभागे युवत्यः परमाद्भुताः
पूर्वं दृष्ट्वास्तथान्याश्च विचित्राभरणस्रजः ॥८७॥
दृष्ट्वा मनसि संभ्रांतो दंडवत्पतितो भुवि
परिवार्य मुनिं सर्वास्ताः प्रविविशुः शुभाः ॥८८॥
प्रष्टुकामोऽपि स मुनिः किंचित्स्वाभिमतं प्रियम्
नाशकत्प्रेमलावण्यप्रियभाषाप्रधर्षितः ॥८९॥
अथागता मुनिश्रेष्ठं कृतांजलिमवस्थितम्
भक्तिभारानतग्रीवं सविस्मयं ससंभ्रमम् ॥९०॥
सुविनीततमं प्राह तत्रैव करुणान्विता
अशोकमालिनी नाम्ना अशोकवनदेवता ॥९१॥
अशोकमालिन्युवाच
अशोककलिकायां तु वसाम्यस्यां महामुने
रक्तांबरधरा नित्यं रक्तमालानुलेपना ॥९२॥
रक्तसिंदूरकलिका रक्तोत्पलवतंसिनी
रक्तमाणिक्यकेयूर मुकुटादिविभूषिता ॥९३॥
एकदा प्रियया सार्द्धं विहरंत्यो मधूत्सवे
तत्रैव मिलिता गोपबालिकाश्चित्रवाससः ॥९४॥
अहं चाशोकमालाभिर्गोपवेषधरं हरिम्
रमारूपाश्च ताः सर्वा भक्त्या सम्यगपूजयम् ॥९५॥
ततः प्रभृति चैतासां मध्ये तिष्ठामि सर्वदा
भूषाभिर्विविधाभिश्च तोषयित्वा रमापतिम् ॥९६॥
परात्परमहं सर्वं विजानामीह सर्वतः
गोगोपगोपिकादीनां रहस्यं चापि वेद्म्यहम् ॥९७॥
तव जिज्ञासितं सर्वं हृदि प्रत्यभिभाषितम्
तां देवीमद्भुताकारामद्भुतानंददायिनीम् ॥९८॥
हरेः प्रियां हिरण्याभां हीरकोज्ज्वलमुद्रिकाम्
कथं पश्यामि लोलाक्षीं कथं वा तत्पदांबुजम् ॥९९॥
आराध्यतेऽतिभक्त्येति त्वया ब्रह्मन्विमर्शितम्
तत्र ते कथयिष्यामि वृत्तांतं सुमहात्मनाम् ॥१००॥
मानसे सरसि स्थित्वा तपस्तीव्रमुपेयुषाम्
जपतां सिद्धमंत्रांश्च ध्यायतां हरिमीश्वरम् ॥१०१॥
मुनीनां कांक्षतां नित्यं तस्या एव पदांबुजम्
एकसप्ततिसाहस्रं संख्यातानां महौजसाम् ॥१०२॥
तत्तेऽहं कथयाम्यद्य तद्रहस्यं परं वने ॥१०३॥
इति श्रीपद्मपुराणे पातालखंडे श्रीराधाकृष्ण-
माहात्म्ये एकसप्ततितमोऽध्यायः ॥७१॥
N/A
References : N/A
Last Updated : November 06, 2020

TOP