संस्कृत सूची|संस्कृत साहित्य|पुराण|पद्मपुराणम्|पातालखण्डः| अध्यायः २६ पातालखण्डः वि्षयानुक्रमणिका अध्यायः १ अध्यायः २ अध्यायः ३ अध्यायः ४ अध्यायः ५ अध्यायः ६ अध्यायः ७ अध्यायः ८ अध्यायः ९ अध्यायः १० अध्यायः ११ अध्यायः १२ अध्यायः १३ अध्यायः १४ अध्यायः १५ अध्यायः १६ अध्यायः १७ अध्यायः १८ अध्यायः १९ अध्यायः २० अध्यायः २१ अध्यायः २२ अध्यायः २३ अध्यायः २४ अध्यायः २५ अध्यायः २६ अध्यायः २७ अध्यायः २८ अध्यायः २९ अध्यायः ३० अध्यायः ३१ अध्यायः ३२ अध्यायः ३३ अध्यायः ३४ अध्यायः ३५ अध्यायः ३६ अध्यायः ३७ अध्यायः ३८ अध्यायः ३९ अध्यायः ४० अध्यायः ४१ अध्यायः ४२ अध्यायः ४३ अध्यायः ४४ अध्यायः ४५ अध्यायः ४६ अध्यायः ४७ अध्यायः ४८ अध्यायः ४९ अध्यायः ५० अध्यायः ५१ अध्यायः ५२ अध्यायः ५३ अध्यायः ५४ अध्यायः ५५ अध्यायः ५६ अध्यायः ५७ अध्यायः ५८ अध्यायः ५९ अध्यायः ६० अध्यायः ६१ अध्यायः ६२ अध्यायः ६३ अध्यायः ६४ अध्यायः ६५ अध्यायः ६६ अध्यायः ६७ अध्यायः ६८ अध्यायः ६९ अध्यायः ७० अध्यायः ७१ अध्यायः ७२ अध्यायः ७३ अध्यायः ७४ अध्यायः ७५ अध्यायः ७६ अध्यायः ७७ अध्यायः ७८ अध्यायः ७९ अध्यायः ८० अध्यायः ८१ अध्यायः ८२ अध्यायः ८३ अध्यायः ८४ अध्यायः ८५ अध्यायः ८६ अध्यायः ८७ अध्यायः ८८ अध्यायः ८९ अध्यायः ९० अध्यायः ९१ अध्यायः ९२ अध्यायः ९३ अध्यायः ९४ अध्यायः ९५ अध्यायः ९६ अध्यायः ९७ अध्यायः ९८ अध्यायः ९९ अध्यायः १०० अध्यायः १०१ अध्यायः १०२ अध्यायः १०३ अध्यायः १०४ अध्यायः १०५ अध्यायः १०६ अध्यायः १०७ अध्यायः १०८ अध्यायः १०९ अध्यायः ११० अध्यायः १११ अध्यायः ११२ अध्यायः ११३ अध्यायः ११४ अध्यायः ११५ अध्यायः ११६ अध्यायः ११७ पातालखण्डः - अध्यायः २६ भगवान् नारायणाच्या नाभि-कमलातून, सृष्टि-रचयिता ब्रह्मदेवाने उत्पन्न झाल्यावर सृष्टि-रचना संबंधी ज्ञानाचा विस्तार केला, म्हणून ह्या पुराणास पद्म पुराण म्हणतात. Tags : padma puranpuransanskritपद्म पुराणपुराणसंस्कृत अध्यायः २६ Translation - भाषांतर शेष उवाचशत्रुघ्नस्तद्बलं दृष्ट्वा भीषणाकृतिमेघवत्हस्त्यश्वरथपादातैर्बहुभिः परिवारितम् ॥१॥सुमतिं प्रत्युवाचेदं वचोगंभीरशब्दयुक्नानावाक्यविचारज्ञैः पंडितैः परिसेवितः ॥२॥शत्रुघ्न उवाचसुमते कस्य नगरं प्राप्तो मे हयसत्तमःबलमेतन्निरीक्षेहं पयोदधितरंगवत् ॥३॥कस्यैतद्बलमुद्धर्षं चतुरंगसमन्वितम्पुरतो भाति युद्धाय समुपस्थितमादरात् ॥४॥एतत्सर्वं समाचक्ष्व यथावत्पृच्छतो ममयज्ज्ञात्वा युद्धसंस्थायै निर्दिशामि स्वकान्भटान् ॥५॥इति वाक्यं समाकर्ण्य सुमतिः शुभबुद्धिमान्उवाच वचनं प्रीतः शत्रुघ्नं वैरितापनम् ॥६॥सुमतिरुवाचचक्रांका नगरी राजन्वर्तते सविधे शुभायस्यां संति नराः पापरहिता विष्णुभक्तितः ॥७॥तस्याः पुर्याः पतिरयं सुबाहुर्धर्मवित्तमःतवायं पुरतो भाति पुत्रपौत्रसमावृतः ॥८॥स्वदारनिरतो नित्यं परदारपराङ्मुखःविष्णोः कथास्य कर्णस्थाना परार्थप्रकाशिनी ॥९॥परस्वं न समादत्ते षष्ठांशादधिकं नृपःब्राह्मणा विष्णुभक्त्यैव पूज्यंते तेन धर्मिणा ॥१०॥नित्यं सेवारतो विष्णुपादपद्ममधुव्रतःएष स्वधर्मनिरतः परधर्मपराङ्मुखः ॥११॥एतस्य बलतुल्यं हि न वीराणां बलं क्वचित्पुत्रस्य पतनं श्रुत्वा रोषशोकसमाकुलः ॥१२॥चतुरंगसमेतोऽयं युद्धाय समुपस्थितःतवापि वीरा बहवो लक्ष्मीनिधिमुखा अमून् ॥१३॥जेष्यंति शस्त्रसंघेन निर्दिशाशु परं हि तान्शत्रुघ्नस्तद्वचः श्रुत्वा प्रोवाच स्वभटान्वरान् ॥१४॥रणप्राप्तिभवोद्धर्षपूरपूरितमानसान्क्रौंचव्यूहोऽद्य रचितः सुबाहुपरिसैनिकैः ॥१५॥मुखपक्षस्थिता योधास्तान्को भेत्स्यति शस्त्रवित्यस्य भेदे निजा शक्तिर्यो वीर विजयोद्यतः ॥१६॥स गृह्णातु मदीयाद्धि पाणिपद्माच्च वीटकम्तदा लक्ष्मीनिधिर्वीरो जग्राह क्रौंचभेदने ॥१७॥सर्वशस्त्रास्त्रविद्वीरैर्बहुभिः परिवारितःउवाच वचनं राजन्यास्येऽहं क्रौंचभेदने ॥१८॥भार्गवः पूर्वमेवासीत्क्रौंचभेत्ता तथा ह्यहम्तथान्यं वीरमावोचत्कोऽस्य सार्धं गमिष्यति ॥१९॥पुष्कलः पृष्ठतस्तस्य यातुं चक्रे मतिं ततःरिपुतापो नीलरत्न उग्राश्वो वीरमर्दनः ॥२०॥सर्वे शत्रुघ्नसंदेशाद्ययुस्तत्क्रौंचभेदनेशत्रुघ्नोऽपि रथस्थश्च सर्वायुधधरः परः ॥२१॥पृष्ठतोऽस्य परीयाय बहुभिः सैनिकैर्वृतःतदा प्रचलितौ दृष्टावन्योन्यबलवारिधी ॥२२॥प्रलयं कर्तुमुद्युक्तौ जगतः सुतरंगिणौतदा भेर्यः समाजघ्नुरुभयोः सेनयोर्दृढाः ॥२३॥रणभेर्यः शंखनादाः श्रूयंते तत्र तत्र हहेषंते वाजिनस्तत्र गर्जंति द्विरदा भृशम् ॥२४॥हुं हुं कुर्वंति वीराग्र्या नदंति रथनेमयःतत्र प्रकुपिताः शूराः सुबाहुबलदर्पिताः ॥२५॥छिंधि भिंधीति भाषंतो दृश्यंते बहवो रणेएवंभूते रणोद्युक्ते सैन्ये शत्रुघ्नवैरिणोः ॥२६॥मुखसंस्थं सुकेतुं तं लक्ष्मीनिधिरुवाच हलक्ष्मीनिधिरुवाचजनकस्य सुतं विद्धि लक्ष्मीनिधिरिति स्मृतम् ॥२७॥सर्वशस्त्रास्त्रकुशलं सर्वयुद्धविशारदम्मुंचाश्वं रामचंद्रस्य सर्वदानवदंशितुः ॥२८॥नोचेन्मद्बाणनिर्भिन्नो यास्यसे यमसादनम्इति ब्रुवंतं वीराग्र्यं सुकेतुः सहसा त्वरन् ॥२९॥सज्यं चापं विधायाशु बाणान्मुंचन्स्थिरोऽभवत्ते बाणाः शितपर्वाणः स्वर्णपुंखाः समंततः ॥३०॥दृश्यंते व्यापिनस्तत्र रणमध्ये सुदुर्भराःतद्बाणजालं तरसा निहत्यलक्ष्मीनिधिश्चापमथा ततज्यम्विधाय तस्योरसि बाणषट्कंमुमोच तीक्ष्णं शितपर्वशोभितम् ॥३१॥तद्बाणाः सुभुजभ्रातुर्हृदयं संविदार्य चगतास्ते भुवि दृश्यंते रुधिराक्ता मलीमसाः ॥३२॥तद्बाणभिन्नहृदयः सुकेतुः कोपपूरितःजघानशरविंशत्या तीक्ष्णया नतपर्वया ॥३३॥उभौ बाणविभिन्नांगावुभौ क्षतजविप्लुतौसैनिकैः परिदृश्यंते किंशुकाविव पुष्पितौ ॥३४॥मुंचंतौ बाणकोटीश्च संदधंतौ त्वरा शरान्न केनापि विलक्ष्येते लघुहस्तौ महाबलौ ॥३५॥कुंडलीकृत सच्चापौ वर्षंतौ बाणधारयानवांबुदाविव दिवि शक्रनिर्देशकारिणौ ॥३६॥तयोर्बाणा गजान्वाहान्नराञ्छूरान्विमस्तकान्कुर्वंतः केवलं दृष्टा न च संधानमोक्षयोः ॥३७॥पृथिवी सुभटैः पूर्णा सकिरीटैः सकुंडलैःधनुर्बाणकरै रोषसंदष्टाधरयुग्मकैः ॥३८॥तयोः प्रयुद्ध्यतोर्दर्पात्सर्वशस्त्रास्त्रवेदिनोःयुद्धं समभवद्घोरं देवविस्मापनं महत् ॥३९॥संमर्दोऽभवदत्यंतं वीरकोटिविदारणःन केनचित्क्वचिद्दृष्टं शरजालांतरेंऽबरम् ॥४०॥तस्मिंस्तु समये लक्ष्मीनिधिर्वीरोऽरिमर्दनःबाणांश्चापे समाधत्त वसुसंख्यान्दृढाञ्छितान् ॥४१॥चतुर्भिस्तुरगान्वीरः सुकेतोरनयत्क्षयम्एकेन ध्वजमत्युग्रं चिच्छेद तरसा हसन् ॥४२॥एकेन सारथेः कायाच्छिरोभूमावपातयत्एकेन चापं सगुणमच्छिनद्रोषपूरितः ॥४३॥एकेन हृदि विव्याध सुकेतोर्वेगवान्नृपःतत्कर्माद्भुतमुद्वीक्ष्य वीरा विस्मयमाययुः ॥४४॥सच्छिन्नधन्वा विरथो हताश्वो हतसारथिःमहतीं स गदां धृत्वा योद्घुकामोऽभ्युपेयिवान् ॥४५॥तमायांतं समालक्ष्य गदायुद्धविशारदम्महत्या गदया युक्तं रथादवततार सः ॥४६॥गदामादाय महतीं सर्वायसविनिर्मिताम्जातरूपविचित्रांगीं सर्वशोभापुरस्कृताम् ॥४७॥लक्ष्मीनिधिर्भृशं क्रुद्धः सुकेतोर्वक्षसि त्वरन्ताडयामास हृदये गदां वज्राग्निसन्निभाम् ॥४८॥गदया ताडितो वीरो नाकंपत महामुनेमदोन्मत्तो यथा दंती बालेन स्रग्भिराहतः ॥४९॥उवाच तं स वीराग्र्यो नृपं लक्ष्मीनिधिं तदासहस्वैकं प्रहारं मे यदि शूरः परंतप ॥५०॥इत्युक्त्वा ताडयामास ललाटे गदया भृशम्गदया ताडितो भालेऽसृग्वमन्कुपितो भृशम् ॥५१॥मूर्ध्नि तं ताडयामास गदया कालरूपयासुकेतुरपि तं स्कंधे ताडयामास धर्मवित् ॥५२॥एवं भृशं प्रकुपितौ गदायुद्धविशारदौगदायुद्धं प्रकुर्वाणौ परस्परजयैषिणौ ॥५३॥अन्योन्याघातविमतौ परस्परवधोद्यतौन कोपि तत्र हीयेत न को जीयेत संयुगे ॥५४॥मूर्ध्नि भाले तथा स्कंधे हृदि गात्रेषु सर्वतःरुधिरौघ परिक्लिन्नौ महाबलपराक्रमौ ॥५५॥तदा लक्ष्मीनिधिः क्रुद्धो गदामुद्यम्य वेगवान्जगाम प्रबलं हंतुं हृदि राजानुजं बली ॥५६॥तमायांतमथालोक्य स्वगदां महतीं दधत्ययौ तं तरसा हंतुं राजभ्राता बलाद्बलम् ॥५७॥गदां तेन विनिक्षिप्तां स्वकरे धृतवानयम्तयैव गदया तस्य हृदि जघ्ने महाबलः ॥५८॥स्वगदां तेन वै नीतां दृष्ट्वा लक्ष्मीनिधिर्नृपःबाहुयुद्धेन तं योद्धुमियेष बलवत्तमम् ॥५९॥तदा राजानुजः क्रुद्धो बाहुभ्यामुपगृह्य तम्युयुधे सर्वयुद्धस्य ज्ञातावीरेषु सत्तमः ॥६०॥तदा लक्ष्मीनिधिस्तस्य हृदि जघ्ने स्वमुष्टिनातदा सोपि शिरस्येनं मुष्टिमुद्यम्य चाहनत् ॥६१॥मुष्टिभिर्वज्रसंकाशैस्तलस्फोटैश्च दारुणैःअन्योन्यं जघ्नतुः क्रुद्धौ संदष्टाधरपल्लवौ ॥६२॥मुष्टी मुष्टि दंता दंति कचा कचि नखा नखिउभयोरभवद्युद्धं तुमुलं रोमहर्षणम् ॥६३॥तदा प्रकुपितो भ्राता नृपतेश्च रणे नृपम्गृहीत्वा भ्रामयित्वाथ पातयामास भूतले ॥६४॥लक्ष्मीनिधिः करे गृह्य तं नृपानुजमुच्चकैःभ्रामयित्वा शतगुणं गजोपस्थे जघान तम् ॥६५॥स तदा पतितो भूमौ संज्ञां प्राप्य क्षणादनुतथैव भ्रामयामास व्योम्नि वेगेन विक्रमी ॥६६॥एवं प्रयुध्यमानौ तौ बाहुयुद्धं गतौ पुनःपादे पादं करे पाणिं हृदि हृद्वदने मुखम् ॥६७॥एवं परस्परं श्लिष्टौ परस्परवधैषिणौउभावपि पराक्रांतावुभावपि मुमूर्च्छतुः ॥६८॥तद्दृष्ट्वा विस्मयं प्राप्ताः प्रशशंसुः सहस्रशःधन्यो लक्ष्मीनिधिर्भूपो धन्यो राजानुजो बली ॥६९॥इति श्रीपद्मपुराणे पातालखंडे शेषवात्स्यायनसंवादे रामाश्वमेधेगदायुद्धंनाम षड्विंशतितमोऽध्यायः ॥२६॥ N/A References : N/A Last Updated : November 04, 2020 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP