संस्कृत सूची|संस्कृत साहित्य|पुराण|पद्मपुराणम्|पातालखण्डः|
अध्यायः १०७

पातालखण्डः - अध्यायः १०७

भगवान् नारायणाच्या नाभि-कमलातून, सृष्टि-रचयिता ब्रह्मदेवाने उत्पन्न झाल्यावर सृष्टि-रचना संबंधी ज्ञानाचा विस्तार केला, म्हणून ह्या पुराणास पद्म पुराण म्हणतात.


शुचिस्मितोवाच-
कश्यपं जमदग्निं च देवानां च पुरा कथम्
ररक्ष भस्म तद्ब्रह्मन्समाचक्ष्व मुने मम ॥१॥
दधीच उवाच-
कश्यपादियुता देवाः पूर्वमभ्यागमन्गिरिम्
शोकरं नाम विख्यातं गिरिमध्ये सुशोभनम् ॥२॥
नानाविहंगसंकीर्णं नानामुनिगणाश्रयम्
वासुदेवाश्रयं रम्यमप्सरोगणसेवितम् ॥३॥
विचित्रवृक्षसंवीतं सर्वर्तुकुसुमोज्ज्वलम्
तथाविधं प्रविश्यैते गिरिं वयमथापरे ॥४॥
स्तुवंतः केशवं तत्र गताः स्म गिरिशेश्वरम्
दृष्ट्वा तत्र महाज्वालां प्रविष्टाश्च वयं च ताम् ॥५॥
मामेकं तु तिरस्कृत्य ह्यदहद्देवता मुनीन्
मां ददाह ततः पश्चाद्भस्मीभूता वयं शुभे ॥६॥
अस्मानेतादृशान्दृष्ट्वा वीरभद्रः प्रतापवान्
केनापिकारणेनासौ गतवान्पर्वतं च तम् ॥७॥
भस्मोद्धूलितसर्वांगो मस्तकस्थशिवः शुचिः
एकाकी निःस्पृहः शान्तो हाहाशब्दमथाशृणोत् ॥८॥
अथ चिंतापरश्चासीन्म्रियमाण शवध्वनिः
शवानामिवगंधश्च दृश्यते तन्निरीक्षणे ॥९॥
इति निश्चित्य मनसा जगामाग्निमतिप्रभम्
स वह्निर्वीरभद्रं च दग्धुमारब्धवानथ ॥१०॥
तृणाग्निरिव शांतोऽभूदासाद्य सलिलं यथा
ततोऽपरां महाज्वालां वीरभद्रस्तु दृष्टवान् ॥११॥
खं गच्छंतीं महाकालो ज्वालां निपतितामपि
मनसा चिंतयच्चापि वीरभद्रः प्रतापवान् ॥१२॥
सर्वेषां नाशिनी ज्वाला प्राणिनां शतकोटिशः
तत्सर्वं रक्षणार्थं हि पिपासुश्चाप्यहं त्विमाम् ॥१३॥
प्राश्नामि महतीं ज्वालां सलिलं तृषितो यथा
एतस्मिन्नंतरे वीरं वागाह चाशरीरिणी ॥१४॥
भारत्युवाच-
वीर मा साहसं कार्षीः क्व तृषा क्वाशुशुक्षणिः
तृषितानां जलेनार्थो विपरीतो वनाग्निना ॥१५॥
निकामं योजनशिराः प्रणष्टो राक्षसेश्वरः
शतयोजनवक्त्रश्च शतबाहुस्तथापरः ॥१६॥
अगस्त्यश्च महाभागो निःशेषं पीतसागरः
एतानन्यानसंख्याताञ्ज्वालेयं तानमारयत् ॥१७॥
वीरभद्र उवाच-
भीषिकेयं महाज्वाला त्वदुक्ता न हि जायते
सरस्वति भवत्यां च ममरोषश्च जायते ॥१८॥
सर्वदेवार्चितपदं वीरभद्रमवेहि माम्
भारत्युवाच-
मयोक्तं हितभावेन न द्वेषान्नान्यतो मुने ॥१९॥
कोपमुत्सृज वीर त्वमात्मनोहितमाचर
इत्युक्त्वांतर्दधे देवी भारती वीरभीतितः ॥२०॥
अथ वीरो महाज्वालामपासील्लीलयैव तु
क्षणेन महती ज्वाला शतयोजनविस्तृता ॥२१॥
एकेन वीरभद्रेण पीता परमदुःसहा
अथ चेंद्रमुखानां च मुनीनां भस्मराशयः ॥२२॥
दृष्टा वै वीरभद्रेण आहूताश्च महात्मना
न चाब्रुवन्प्रतिवचो मृता मुनिदिवौकसः ॥२३॥
वीरभद्रस्तु विज्ञाय नाशं मुनिदिवौकसाम्
दध्यावमून्कथं सर्वाञ्जीवयाम्यद्य कोविदः ॥२४॥
ध्यानेन दृष्टवांश्चापि जीवितं भस्मदेहिनाम्
अथाचम्य मृतानां तु भस्मान्यथ च भस्मना ॥२५॥
मृत्युंजयेन मंत्रेण मंत्रितेन ह्यमंत्रयत्
अथोत्थिता मुनिवराः स्वं स्वं रूपमुपाश्रिताः ॥२६॥
अथ ते गतवंतश्च गिरिपार्श्वं महाप्रभम्
तत्रापि भक्षिताः सर्वे सर्पेणातिशरीरिणा ॥२७॥
अथ वीरो महासर्पसमीपमगमत्प्रभुः
वीरमागतमालोक्य भुजगो योद्धुमारभत् ॥२८॥
युयुधे वर्षमेकं तु नानारूपधरः फणी
अथ वीरः प्रगृह्यौष्ठयुगं करयुगेन च ॥२९॥
द्विधा चक्रे समस्तांगं देवांस्तत्र गतायुषः
दृष्ट्वाथ भस्मनैवैताञ्जीवयामास शंकरः ॥३०॥
अथ देवाः समुनयो वीरभद्रं प्रणम्य तु
गतवंतो यथामार्गं ददृशू रक्ष आगतम् ॥३१॥
पंचमेढ्रं महाकायं दोर्भिश्च दशभिर्युतम्
पंचपादसमोपेतं शिरोभिर्युतमष्टभिः ॥३२॥
कांक्षमाणं महाहारं युध्यमानो हि वालिना
महावराहवपुषो वासुदेवस्य यद्बलम् ॥३३॥
तादृशं द्विगुणीभूतं कपौ वालिनि निश्चितम्
तादृशं वानरश्रेष्ठं ससुग्रीवं सराक्षसः ॥३४॥
मुष्टियुद्धे पंचपादैः सहसा हत्य वालिनम्
सुग्रीवं च कराभ्यां स हंतुमेव प्रचक्रमे ॥३५॥
आस्ये निक्षिप्य सुग्रीवमग्रसत्कवलं यथा
वालिसुग्रीवग्रसनं दृष्ट्वा चिंतामवाप ह ॥३६॥
कथमेनं हनिष्यामि रक्षयिष्ये कथं कपिम्
एवं हि चिंतयानं तं वानरं राक्षसेश्वरः ॥३७॥
अग्रसीदेकयत्नेन तथाभूतं च राक्षसम्
दृष्ट्वा देवर्षयः सर्वे पलायनपरास्तथा ॥३८॥
पलायमानांस्तान्दृष्ट्वा पंचमेढ्रः स राक्षसः
हस्तैः समस्तैस्तान्सर्वानादायाभक्षयत्तदा ॥३९॥
वीरभद्रस्ततो दृष्ट्वा वानरर्षिसुरादनम्
पंचाशद्योजनशिलां करेणादाय तं रुषा ॥४०॥
निजघान शिरोमध्ये मध्यमं पतितं शिरः
तत आदाय शैलस्य शृंगं तच्छतयोजनम् ॥४१॥
स्थापयित्वा दृढतरं राक्षसेंद्रं तथाहरत्
राक्षसोऽथ बभाषे तं वीरभद्रं त्रिलोचनम् ॥४२॥
मम बाहुबलं पश्य वीक्षितं त्वद्बलं मया
असिद्वयं तैलधौतं पंचाशद्योजनोन्नतम् ॥४३॥
एकयोजनविस्तारं सुदृढं लक्षणान्वितम्
एकं गृहाणाभिमतं विशिष्टं तन्ममप्रियम् ॥४४॥
वीरभद्रस्तथेत्युक्त्वा गृहीत्वासिं महाबलः
करेणाचालयत्तीक्ष्णं क्ष्वेलीं चक्रे ततः क्रुधा ॥४५॥
गृहीतासिस्तथा क्ष्वेलद्यं चक्रे राक्षसपुंगवः
वीरभद्रं समभ्येत्य कंठं प्रतिसमर्पयत् ॥४६॥
तद्गात्रं भिन्नमभवच्छोणितं निर्गतं बहु
राक्षसस्त्वेकहस्तेन पपौ तच्छोणितं ततः ॥४७॥
वीरभद्रः कंठदेशे राक्षसं प्राहरद्रुषा
शिरोद्वयं तथाच्छिन्नं पतमानं ततोऽग्रहीत् ॥४८॥
न्यभक्षयदमेयात्मा सिंहनादं चकार ह
तेन नादेन महता क्षुब्धमासीज्जगत्त्रयम् ॥४९॥
अन्योन्यमसिघातेन भिन्नगात्रौ विकस्वरौ
किंशुकाविव दृश्येते पुष्पितौ रुधिरोक्षितौ ॥५०॥
वर्षमेकं तु संयुध्य सासीदेवासुरौ तदा
अतःपरं वर्षमेकं गदायुद्धमभूत्तयोः ॥५१॥
असिपुत्रिकया पश्चाद्वर्षमेकमभूद्रणः
पुनर्गृहीत्वासियुगं युयुधाते परस्परम् ॥५२॥
शं ब्रुवाणो महाखड्गं दंष्ट्राकारो गणेश्वरः
सरोषरक्तनयनश्चालयित्वासिमग्रतः ॥५३॥
तस्य कंठवनं सर्वं चिच्छेद कदलद्यं यथा
शिरांसि सर्वाण्यादाय बभक्ष भगनेत्रहा ॥५४॥
तस्य गात्रं कररुहैर्विदार्याहृत्य देवताः
कपींद्रौ च तथा चान्या अद्राक्षीत्परमेश्वरीम् ॥५५॥
एतद्युद्धं महाघोरं नारदो वीक्ष्य चाभ्यगात्
ब्रह्मणे वासुदेवाय शंकराय व्यजिज्ञपत् ॥५६॥
मुनयो रक्षिता देवा वालिसुग्रीव वानरौ
एतौ संजीवयामास ब्रह्मविष्णुशिवात्मकः ॥५७॥
रक्षसे शंभुना दत्तो वरः परमदारुणः
हिरण्यकशिपोराज्ये बलवानेक राक्षसः ॥५८॥
देवैः सार्द्धं तु युयुधे वर्षाणां शतमद्भुतम्
पलायिताश्च बहुधा मृताश्च शतशोसुराः ॥५९॥
शुक्रेण रक्षितः सोऽथ गुरुणाचिंतयत्त्विदम्
मृतोऽस्मि शतशः शुक्र जीवितोऽस्मि त्वयैव हि ॥६०॥
अमृत्यवे त्वमेतस्मादुदरस्थमृताय च
अन्यथा मरणं मह्यं भविष्यति न संशयः ॥६१॥
गुरो यमेन साकं मे युद्धमासीत्सुदारुणम्
मयासौ ग्रसितो युद्धे यमराजः प्रतापवान् ॥६२॥
ममोदरं प्रविश्यासौ बिभेद च ननाद च
अहं मृतस्तदा चासं त्वया संजीवितः पुनः ॥६३॥
तस्मादुदरसंस्थानां मरणाय तपे तपः
शुक्र उवाच-
एवमेतन्न संदेहो यथावत्त्वं समाचर ॥६४॥
स्यमंतपंचकं तीर्थं तत्र त्वं तप्तुमर्हसि
राक्षस उवाच-
तपे महत्तपो घोरं यन्न चीर्णं सुरासुरैः ॥६५॥
गुल्फप्रदेशे पादान्ते त्वयःपाशैः प्रबध्य च
अयःस्तंभयुगं कृत्वा अयःपट्टिकयान्वितम् ॥६६॥
पट्टिकायां पादबंधं कृत्वाधः शीर्षतां तथा
विवृतास्यं तथा कल्पं कृत्वाधोमुखमुच्चकैः ॥६७॥
स्तंभोत्तरेण ज्वालायां चक्रिकायामितस्ततः
अधःशिरास्तथा तिष्ठन्नुन्मील्यैव विलोचने ॥६८॥
एवं तपश्चरिष्यामि वरदः कोपि मे भवेत्
ब्रह्मा वा वरदः सोऽस्तु शंकरो विष्णुरेव च ॥६९॥
वरदे न तु मे भाव्यं यो वा कोवा वरप्रदः
इत्थमाभाष्य मुनिना गुरुणा भार्गवेण सः ॥७०॥
तथातपच्च षण्मासं पुनरन्यच्चकार ह
नखाभ्यां स्वशिरश्छित्त्वा जुहावाग्नौ समंत्रकम् ॥७१॥
नमो भद्राय मंत्रेण चत्वारि च शिरांसि सः
पंचमं तु शिरो हातुं यतमाने च राक्षसे ॥७२॥
वह्निमध्यात्समुत्तस्थौ भगवानंबिकापतिः
शुद्धस्फटिकसंकाशो बालचन्द्र विभूषणः ॥७३॥
अधःशिरस्कं तद्रक्ष इदमाह महेश्वरः
मा साहसं कृथा रक्षो वरदोऽस्मि वरं वृणु ॥७४॥
राक्षस उवाच-
बहूनां च वराणां त्वं दाता नूनं महेश्वरः
हतशीर्षसमुत्पत्तिं ग्रस्तजीवमृतिं तथा ॥७५॥
वराहवपुषो विष्णोरस्तु शक्तिश्चतुर्गुणा
मयि तेन हि रोषः स्यात्संनिधिस्तु सदा मम ॥७६॥
त्वज्जटोत्पाटनेनैकः पुरुषः संभविष्यति
तेनैव मरणं नान्यैरिदमस्तु वृतं मम ॥७७॥
भविष्यत्येवमेवैतदित्युक्त्वांतर्हितोहरः
एवंलब्धवरः पापी राक्षसो निहतस्त्वया ॥७८॥
अथालिंग्य हरिर्वीरं शंकरश्च पितामहः
यथागतमथोजग्मुरथ देवादियोषितः ॥७९॥
निपत्य दंडवद्भूमौ वीरभद्रमथाब्रुवन्
नमस्ते देवदेवेश नमस्ते करुणाकर ॥८०॥
नमस्ते शाश्वतानंत नमस्ते वरदो भव
वीरभद्र उवाच-
भस्मना जीवयिष्यामि सुरान्समुनि वानरान् ॥८१॥
भवतीभिः प्रतोष्टव्यं शोकः कार्यो न चाधुना
इत्युक्त्वा वीरभद्रस्तु भस्मनाजीवयत्सतान् ॥८२॥
उत्थिता मुनिदेवाश्च वानरौ चोत्थितौ ततः
इदमूचुर्वचो हृष्टाः शिरःस्थांजलयो नमन् ॥८३॥
त्वयात्र जीवितास्तात पिता त्वं धर्मतो हि नः
अस्माकं शरणं नित्यं भव शंकरसंभव ॥८४॥
शिशूनां दुष्टचरितं दृष्ट्वा शिक्षेस्तथा च तान्
रक्षेः परकृता बाधा व्याधिभ्यश्च यथौरसान् ॥८५॥
दक्षाध्वरे कृतागस्काः शिक्षिता भवतानघ
इदानीं रक्षितास्तात वयं शिशुवदेव ते ॥८६॥
वीरभद्र उवाच-
सत्यमेतन्न संदेहो यत्र बाधा भवेत्तु वः
तत्र मां स्मरत क्षिप्रं बाधानाशं गमिष्यति ॥८७॥
वीरभद्रं पदं येपि पठंत्यष्टशतं ततः
प्रणवादि नमोंऽतं च चतुर्थीसहितं तथा ॥८८॥
तेषां राक्षसपीडानां नाशनं च भविष्यति
ब्रह्मराक्षसपीडासु पिशाचादिभयेषु च ॥८९॥
नामानुस्मरणात्सर्वबाधानां च विनाशनम् ॥९०॥
विद्युत्प्रभालोचनमुग्रमीशं बालेंदुदंष्ट्रारुणशोभिताधरम्
सुनीलगात्रं च जटाकृतस्रजं दधानमंगे भसितत्रिपुंड्रकम् ॥९१॥
ब्रह्मराक्षसमुक्त्यर्थं स्मरणं त्विदमीरितम्
मंत्रे च वीरभद्रस्य सर्वमेतदुदीरितम् ॥९२॥
दधीच उवाच-
अथैवं विदधे वीरो मुनिदेवास्तथागताः
एतत्त्रियायुषं प्रोक्तं भस्ममाहात्म्यमुत्तमम् ॥९३॥
पठतः शृण्वतो वापि स्मरतोऽघविनाशनम्
शिवभक्तिप्रदं पुण्यमायुरारोग्यवर्द्धनम् ॥९४॥
शुचिस्मितोवाच-
अहं कृतार्था धन्या च नारीणामुत्तमास्म्यहम्
हतपापा तथा चास्मि नमस्ते मुनिपुंगव ॥९५॥
इति श्रीपद्मपुराणे पातालखंडे शिवराघवसंवादे सप्तोत्तरशततमोऽध्यायः ॥१०७॥

N/A

References : N/A
Last Updated : November 13, 2020

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP