संस्कृत सूची|शास्त्रः|वास्तुशास्त्रः|समराङ्गणसूत्रधार| १५१ ते १७० समराङ्गणसूत्रधार ८३ अध्यायांची नांवे महासमागमनो नाम प्रथमोऽध्यायः पुत्रसंवादो नाम द्वितीयोऽध्यायः प्रश्नो नाम तृतीयोऽध्यायः महदादिसर्गश्चतुर्थोऽध्यायः १ ते ५० ५१ ते १०५ सहदेवाधिकारो नाम षष्ठोऽध्यायः वर्णाश्रमप्रविभागो नाम सप्तमोऽध्यायः भूमिपरीक्षा नामाष्टमोऽध्यायः हस्तलक्षणं नाम नवमोऽध्यायः १ ते ५० ५१ ते १०० १०१ ते १४८ वास्तुत्रयविभागो नामैकादशोऽध्यायः नाड्यादिसिरादिविकल्पो नाम द्वादशोऽध्यायः मर्मवेधस्त्रयोदशोऽध्यायः पुरुषाङ्गदेवतानिघण्ट्वादिनिर्णयश्चतुर्दशोऽध्यायः राजनिवेशो नाम पञ्चदशोऽध्यायः वनप्रवेशो नाम षोडशोऽध्यायः १ ते ५० ५१ ते १०० १०१ ते १५० १५१ ते २१२ नगरादिसंज्ञा नामाष्टादशोऽध्यायः १ ते ५० ५१ ते १०० १०१ ते १५० १५१ ते २०० २०१ ते २२४ निम्नोच्चादिफलानि नाम विंशोऽध्यायः द्वासप्ततित्रिशाललक्षणं नामैकविंशोऽध्यायः द्विशालगृहलक्षणं नाम द्वाविंशोध्यायः एकशालालक्षणफलादि नाम त्रयोविंशोऽध्यायः द्वारपीठभित्तिमानादिकं नाम चतुर्विंशोऽध्यायः १ ते ५० ५१ ते १०० १०१ ते १५० १५१ ते १६४ १ ते ५० ५१ ते ८० सभाष्टकं नाम सप्तविंशोऽध्यायः गृहद्र व्यप्रमाणानि नामाष्टाविंशोऽध्यायः शयनासनलक्षणं नाम एकोनत्रिंशोऽध्यायः १ ते ५० ५१ ते १०० १०१ ते १४० १ ते ५० ५१ ते १०० १०१ ते १५० १५१ ते २०० २०१ ते २२३ गजशाला नाम द्वात्रिंशोऽध्यायः १ ते ५० ५१ ते ७९ अथाप्रयोज्यप्रयोज्यं नाम चतुस्त्रिंशोऽध्यायः शिलान्यासविधिर्नाम पञ्चत्रिंशोऽध्यायः बलिदानविधिर्नाम षट्त्रिंशोऽध्यायः १ ते ५० ५१ ते ८१ वास्तुसंस्थानमातृका नामाष्टात्रिंशोऽध्यायः द्वारगुणदोषो नामैकोनचत्वारिंशोऽध्यायः पीठमानं नाम चत्वारिंशोऽध्यायः चयविधिर्नामैकचत्वारिंशोऽध्यायः शान्तिकर्मविधिर्नाम द्विचत्वारिंशोऽध्यायः द्वारभङ्गफलं नाम त्रिचत्वारिंशोऽध्यायः स्थपतिलक्षणं नाम चतुश्चत्वारिंशोऽध्यायः अष्टङ्गलक्षणं नाम पञ्चचत्वारिंशोऽध्यायः तोरणभङ्गादिशान्तिको नाम षट्चत्वारिंशोऽध्यायः वेदीलक्षणं नाम सप्तचत्वारिंशोऽध्यायः १ ते ५० ५१ ते १०० १०१ ते १४० १ ते ५० ५१ ते १०० १०१ ते १५० १५१ ते २०३ प्रासादशुभाशुभलक्षणं नाम पञ्चाशोऽध्यायः अथायतननिवेशो नामैकपञ्चाशोऽध्यायः प्रासादजातिर्नाम द्विपञ्चाशोऽध्यायः जघन्यवास्तुद्वारं नाम त्रिपञ्चाशोऽध्यायः १ ते ५० ५१ ते १०० १०१ ते १२३ १ ते ५० ५१ ते १०० १०१ ते १६० १ ते ५० ५१ ते १०० १०१ ते १५० १५१ ते २०० २०१ ते २५० २५१ ते ३१२ १ ते ५० ५१ ते १०० १०१ ते १५० १५१ ते २१० मेर्वादिविंशिका नाम सप्तपञ्चाशोऽध्यायः प्रासादस्तवनं नाम अष्टपञ्चाशोऽध्यायः १ ते ५० ५१ ते १०० १०१ ते १५० १५१ ते २०० २०१ ते २४५ १ ते ५० ५१ ते ९९ पीठपञ्चकलक्षणं नामैकषष्टितमोऽध्यायः १ ते ५० ५१ ते १०० १०१ ते १५० १५१ ते २२० १ ते ५० ५१ ते ११७ १ ते ५० ५१ ते १२० १ ते ५० ५१ ते १०० १०१ ते १५० १५१ ते २०१ मण्डपलक्षणं नाम षट्षष्टितमोऽध्यायः १ ते ५० ५१ ते ११४ जगत्यङ्गसमुदायाधिकारो नामाष्टषष्टितमोऽध्यायः १ ते ५० ५१ ते १०० १०१ ते १५० १५१ ते २२० १ ते ५० ५१ ते १०० १०१ ते १५७ चित्रोद्देशो नामैकसप्ततितमोऽध्यायः भूमिबन्धो नाम द्विसप्ततितमोऽध्यायः लेप्यकर्मादिकं नाम त्रिसप्ततितमोऽध्यायः अथाण्डकप्रमाणं नाम चतुःसप्ततितमोऽध्यायः मानोत्पत्तिर्नाम पञ्चसप्ततितमोऽध्यायः प्रतिमालक्षणं नाम षट्सप्ततितमोऽध्यायः देवादिरूपप्रहरणसंयोगलक्षणं नाम सप्तसप्ततितमोऽध्यायः दोषगुणनिरूपणं नामाष्टसप्ततितमोऽध्यायः १ ते ५० ५१ ते १०० १५१ ते १७० वैष्णवादिस्थानकलक्षणं नामाशीतितमोऽध्यायः पञ्चपुरुषस्त्रीलक्षणं नामैकाशीतितमोऽध्यायः रसदृष्टिलक्षणं नाम द्व्यशीतितमोऽध्यायः १ ते ५० ५१ ते १०० १०१ ते १५० १५१ ते २०० २०१ ते २५४ ऋज्वागतादिस्थानलक्षणं नामैकोनाशीतितमोऽध्यायः - १५१ ते १७० समराङ्गणसूत्रधार भारतीय वास्तुशास्त्र से सम्बन्धित ज्ञानकोशीय ग्रन्थ है जिसकी रचना धार के परमार राजा भोज (1000–1055 ई) ने की थी। Tags : bhojsamarangansanskritvastu shastraभोजवास्तुशास्त्रसंस्कृतसमराङ्गणसूत्रधार ऋज्वागतादिस्थानलक्षणं नामैकोनाशीतितमोऽध्यायः - १५१ ते १७० Translation - भाषांतर मूले नासापुटः साद्रः सूत्रं गोज्याश्च मध्यगम् ।यवार्धमात्रा गोजी स्यादुत्तरोष्ठः परस्य यः ॥१०१॥स ब्रह्मसूत्रादारभ्य विज्ञेयो द्वियवोन्मितः ।परे त्वधस्तान्नासाया रेखा चार्धाङ्गुलैर्भवेत् ॥१०२॥परभागेऽधरोष्ठस्य प्रमाणं --- यवं मतम् ।हनुपर्यन्तलेखाया मध्ये सूत्रं प्रतिष्ठितम् ॥१०३॥सूत्रात्प्राक्करवीरः स्याद् द्वियवोनाङ्गुलद्वयम् ।यवार्धं स च दृश्येत श्वैत्यं सार्धयवं ततः ॥१०४॥--- तारा त्रियवा ज्ञेया शेषमुक्तप्रमाणतः ।कर्णावर्तादधः कर्णमध्यभागेन संमितम् ॥१०५॥द्व्यङ्गुलः कर्णविस्तारः कर्णावर्ताच्चतुर्यवे ।शिरःपृष्ठस्य लेखा स्यादिति ज्ञात्वोक्तमाचरेत् ॥१०६॥कर्णसूत्राद् बहिर्ग्रीवा विधातव्यैकमङ्गुलम् ।गलो ग्रीवा च हिक्का च सूत्राद् प्रागङ्गुलोत्तरे ॥१०७॥हिक्कासूत्राद्भवेदूर्ध्वमंसलेखा तथाङ्गुलम् ।ब्रह्मसूत्रात्परे भागे स्यादंसोऽङ्गुलसंमिते ॥१०८॥वक्षोऽङ्गुलं ब्रह्मासूत्रां --- नस्ति कालान्तरे ।भागमात्रे भवेत्कक्षासूत्रात्पूर्वः स्तनस्य च ॥१०९॥कक्षातिस्त्रिकलं यावत्पार्श्वलेखा विधीयते ।दूराग्रभुजस्तस्यादग्रे कर्मानुसारतः ॥११०॥प्रासादमध्यः सूत्रः स्यादेकादशभिरङ्गुलैः ।परभागस्य मध्यस्त सूत्रात्स्यादङ्गुलैस्त्रिभिः ॥१११॥अङ्गुलेन परे भागे सूत्रतो नाभिरिष्यते ।नाभेरुदरलेखा तु विज्ञातव्याङ्गुलत्रये ॥११२॥श्रोणी कर्णो भवेन्नाभे मुखमर्धाङ्गुलान्वितम् ।ब्रह्मसूत्रात्कटिः पूर्वे त्रिभागा त्र्यङ्गुला परे ॥११३॥ब्रह्मसूत्राश्रित मेढ्रस्तले चा परतो भवेत् ।पूर्वोक्तः मध्यभेखास्यात्सूत्रात्प्रत्यङ्गुल्यन्तरे ॥११४॥तस्यैव मूलरेखा च सूत्रात्प्राग् द्व्यङ्गुलेन्तरे ।मूललेखा परस्योरोः सूत्रात्स्याद्द्विकलेऽन्तरे ॥११५॥पर्यन्तजानुनो भागे पर्यन्तोपरा जानुतः ।परभागिका जातर्द्वे सूत्रस्य सम्यक्प्रतिष्ठितम् ॥११६॥जानुमध्ये गता लेखा बाह्यलेखाश्रिता भवेत् ।अध्यर्धमात्रं जानु स्यादधोलेखा तु तस्य या ॥११७॥अर्धाङ्गुलेन सा सूत्रात्पूर्वतः प्रविधीयते ।सूत्रात्परे पराङ्गुष्ठं मूलपादोनमङ्गुलम् ॥११८॥मूलादङ्गुष्ठकस्याग्रं सार्धैः स्यादङ्गुलैस्त्रिभिः ।सूत्रात्परं स्याज्जङ्घाया लेखाङ्गुलचतुष्टये ॥११९॥तस्यास्तु पूर्वजङ्घाया लेखा स्यादङ्गुलद्वये ।पूर्वजानु कलामानं शेषं कुर्याद्यथोदितम् ॥१२०॥परपादतले स्तम्भं यत्तिर्यक्सुप्रतिष्ठितम् ।तत्प्राक्प्रदेलस्योर्ध्व सार्धया कलया भवेत् ॥१२१॥प्राग्भङ्गोऽङ्गुष्ठमूलेच्छस्तत्रास्वीया कनिष्ठिका ।कलामात्रं निजाङ्गुष्ठादंधासागं प्रपद्यते ॥१२२॥यत्पराङ्गुलम्बसूत्रं प्रतिपद्यते ।यत्पराङ्गुष्ठमूलोत्थं लम्बसूत्रं प्रपद्यते ।मध्येन पूर्वभागाप्ति सबन्धाङ्गुष्ठकस्य तत् ॥१२३॥पूर्वपाष्णितलादूर्ध्वं विदध्यादङ्गुलत्रये ।पाष्णेः परस्य पादस्य पूर्वपादं तिरस्कृतम् ॥१२४॥अध्यर्धाक्षं यथाशास्त्रमेवं स्थानकमालिखेत् ।अथ पार्श्वागतं नामस्थानं पञ्चममुच्यते ॥१२५॥व्यावर्तितमुखस्यान्ते ब्रह्मसूत्रं विधीयते ।ललाटबाह्यलेखां च सूत्रस्पृष्टां प्रदर्शयेत् ॥१२६॥सूत्रात्तु नासिकावंशः संवृद्ध्य द्वाक्षमानतः ।अपाङ्गो द्विकले सूत्रात्कर्णो यंशात् कलाद्वये ॥१२७॥कर्णो द्व्यङ्गुलविस्तारः शिरःपृष्ठं कला ततः ।अस्य मध्यगतं सूत्रमास्यार्धं स्थापयेत् ततः ॥१२८॥अङ्गुले चिबुकं सूत्राद्धनुमध्यं चतुर्यवे ।सार्धाङ्गुले ततः कण्ठवर्तिग्रीवाङ्गले नतः ॥१२९॥अङ्गुलेन ततो हिक्का चतुर्भिर्ब्रह्मसूत्रतः ।मूर्ध्ना श्रवणपाल्यन्तेनैति सूत्रं तदुच्यते ॥१३०॥ग्रीवायाङ्गुल्यमध्येन मध्यसूत्रं तदुच्यते ।भागे हिक्कामध्यसूत्रादण्डमूलं कलाद्वये ॥१३१॥मात्राष्टके च पृष्ठं तो हृल्लेखाप्येवमेव हि ।स्तनस्य मण्डलं तस्मादङ्गुलेन विधीयते ॥१३२॥कक्षा च पूर्वभागे स्यात्सूत्रात् पश्चभिरङ्गुलैः ।मात्रात्रयेणापरस्मिन् भागे कक्षा विधीयते ॥१३३॥उभयोरन्तयोः प्राहुर्मध्यमष्टाङ्गुलं बुधाः ।अङ्गुलैर्दशभिर्मध्यं पर्यन्तो मध्यसूत्रतः ॥१३४॥मध्यपृष्ठं चतुर्भिः स्यान्नाभिपृष्ठं च पञ्चभिः ।नाभ्यन्तरेखा नवभिः कटिपृष्ठं कलात्रये ॥१३५॥उदरप्रान्तलेखा च ज्ञेया दशभिरङ्गुलैः ।मां मा भ्रात्रयेणाभिरष्टाभि सूत्रात् स्फिजो मध्यं प्रचक्षते ॥१३६॥वस्तिशीर्षे च नवभिः स्फिगन्तोऽष्टभिरङ्गुलैः ।अष्टभिर्मेढ्रमूलं स्यादूरुमध्यं च सप्तभिः ॥१३७॥अङ्गुलैः पञ्चभिर्मूलमूरोः पार्श्वात्यमुच्यते ।चतुर्भिरङ्गुलैः सार्धैः करमध्यं च पृष्ठतः ॥१३८॥अग्रतः पञ्चभिः सार्धैस्तदेव प्राहुरङ्गुलैः ।करमध्याङ्गुलैर्मध्यं सूत्रमध्ये विधीयते ॥१३९॥जान्वर्धे मध्यसूत्रं स्याद्भागो लेखा च जानुतः ।भवेदुभयतः सूत्रं जङ्घा मध्ये च कीर्तता ॥१४०॥जङ्घ षडङ्गुला सूत्रं मध्ये स्यान्नलकस्य च ।उभयोः पार्श्वयोः कार्यो नलकश्चाङ्गुलद्वयम् ॥१४१॥चतुर्भिरङ्गुलैः पार्ष्णिर्मध्यसूत्राद्विधीयते ।यथोक्तमानेनाङ्गुल्यस्तथा पादतलं भवेत् ॥१४२॥पार्श्वागतमिदं प्रोक्तं स्थानं भित्तिकसंज्ञकम् ।पार्श्वागतस्थानम् ।अतः परं परावृत्तस्थानकान्यभिदध्महे ॥१४३॥ऋज्वा गतपरावृत्तं तत्रादावभिधीयते ।तत्राङ्गुलद्वयं कर्णौ विधातव्यौ पृथक्पृथक् ॥१४४॥पार्ष्णिपर्यन्तयोर्मध्यं तथा सप्ताङ्गुलं भवेत् ।अङ्गुलत्रितयं सार्धं पार्ष्णी कार्यौ पृथक्पृथक् ॥१४५॥कनिष्ठानामिकामध्या दर्शयेच्चतुरङ्गुली ।अङ्गुष्ठानामिकामध्याकनिष्ठावलिखेन्तरे ॥१४६॥परावृत्तमिदं शेषमृज्वागतवदादिशेत् ।अध्यर्धाक्षादिकाद्रू यानि स्थानानि तेषु यत् ॥१४७॥भवेद्यस्य परावृत्तं तद्वशात्तस्य तद्भवेत् ।--- यस्य हि यद्दृश्यं स्थानकस्याङ्गमीरितम् ॥१४८॥तददृश्यं परावृत्ते तस्यादृश्यं च दृश्यते ।स्थानानी भवितानि --- जीवेषु द्विपदेषु च ॥१४९॥निर्जीवेष्वपि जानीयाद्यानासनगृहादिषु ।स्थानानि मूलभूतानि नवैवैतानि वस्तुतः ॥१५०॥यानि निविशतभक्तानि तद्भेदानि च तान् विदुः ।मूर्धस्थिता यदा दृष्टा ऋज्वादीनि विलोकयेत् ॥१५१॥स्थानानि तेषां यन्मानं तदस्मात् तदिहोच्यते ।विस्तृत्याष्टादश न्यस्येदायत्या द्विगुणानि च ॥१५२॥अङ्गुल्यन्यादारासूत्रं यथाभागं यथोचितम् ।आयामस्यार्धदेशे च विस्तारोऽस्याग्रतोऽष्टभिः ॥१५३॥--- पृष्ठप्रदेशार्द्र --मङ्कयेत् ।तन्मध्यगामिनी सूत्रे न्यस्येदायतविस्तृते ॥१५४॥अङ्गानां स्यात्तदवधिर्निर्गमो वष्टमाणकः ।सूनत्योगतो गर्भसूत्रादित्यादि ॥१५५॥स्तनगर्भो गर्भसूत्राद्विस्तृतौ स्यात्षडङ्गुलः ।षडङ्गुलः स्यात्स्तनयोस्तिर्यग्गर्भविनिर्गमः ॥१५६॥तिर्यग्गर्भात्पृष्ठपक्षौ स्फिजावपि दशाङ्गुले ।नवाङ्गुले पृष्ठवंशः स्फिजो सप्ताङ्गुलेऽन्तरे ॥१५७॥कक्षाया मूलमायामाद्गर्भतश्च दशाङ्गुलम् ।निर्गमोऽग्रेऽङ्गुलं तस्य सूत्रात्सप्त च पृष्ठतः ॥१५८॥गर्भसूत्रात्ततस्तिर्यक्पादांशोऽष्टादशाङ्गुलः ।गर्भाद्यवप्रदेशश्च भवेत्पञ्चभिरङ्गुलैः ॥१५९॥अष्टाभिर्जठरं गर्भात्पार्श्वयोः पुरतोऽपि च ।उदरस्य --- मं पृष्ठं पश्चात्सप्तभिरङ्गुलैः ॥१६०॥सार्धैर्द्वादशभिर्मूलमूर्वोरथो मतोऽङ्गुलैः ।पञ्चाङ्गुलं निर्गमस्तत् --- स्यात्सप्त च पृष्ठतः ॥१६१॥ऊरुमूलस्य पृष्ठात्तु स्फिजौ त्र्यङ्गुलनिर्गतौ ।मेढ्रमग्रे ततो ज्ञेयं गर्भसूत्रात्षडङ्गुले ॥१६२॥तिर्यक्सूत्राज्जानुपार्श्वं सार्धैर्नवभिरङ्गुलै ।आयामसूत्राज्जान्वन्तपृष्ठेऽग्रे चतुरङ्गुलः ॥१६३॥नलकश्च भवेद्गर्भात्तिर्यगस्य षडङ्गुलः ।गर्भसूत्रात्तु नलकः पृष्ठतश्चतुरङ्गुलः ॥१६४॥सूत्रान्ताङ्गुल्यपर्यन्तः स्यात्सार्धैः षड्भिरङ्गुलैः ।अक्षः सार्धाङ्गुले सूत्राद्भवेद्विस्तृतिदर्शनात् ॥१६५॥चतुर्दशाङ्गुलाः पादो दैर्घ्येणात्र प्रकीर्तितः ।गर्भादष्टाङ्गुलाग्रोऽसौ पश्चादपि षडङ्गुलः ॥१६६॥जानुनोरक्षश्च स्यादन्तरमङ्गुलं मिथः ।ऊर्वोरङ्गुलमुद्दिष्टं न भलयोश्चतुरङ्गुलम् ॥१६७॥ऋज्वागतमिति प्रोक्तमद्वजौ मध्यसूत्रतः ।परिवर्ततगुलगं सावावप्यङ्गुलद्वयम् ॥१६८॥तस्मात्सावेस्त सार्धांक्ष्ये त्वङ्गुले परिवर्तनी ।--- भित्तिकं प्रोक्तं परावृत्तेऽप्ययं विधिः ॥१६९॥ऋज्वागतार्धर्जुकसाचिसंज्ञाध्यर्धाक्षपार्श्वागतसंज्ञकानि ।तेषां परावृत्तचतुष्ट्यं च प्रोक्तान्यथो विंशतिरन्तराणि ॥१७०॥इति महाराजाधिराजश्रीभोजदेवविरचिते समराङ्गणसूत्रधारनाम्नि वास्तुशास्त्रे ऋज्वागतादिस्थानलक्षणं नामैकोनाशीतितमोऽध्यायः । N/A References : N/A Last Updated : November 26, 2017 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP