संस्कृत सूची|शास्त्रः|वास्तुशास्त्रः|समराङ्गणसूत्रधार| १५१ ते २०० समराङ्गणसूत्रधार ८३ अध्यायांची नांवे महासमागमनो नाम प्रथमोऽध्यायः पुत्रसंवादो नाम द्वितीयोऽध्यायः प्रश्नो नाम तृतीयोऽध्यायः महदादिसर्गश्चतुर्थोऽध्यायः १ ते ५० ५१ ते १०५ सहदेवाधिकारो नाम षष्ठोऽध्यायः वर्णाश्रमप्रविभागो नाम सप्तमोऽध्यायः भूमिपरीक्षा नामाष्टमोऽध्यायः हस्तलक्षणं नाम नवमोऽध्यायः १ ते ५० ५१ ते १०० १०१ ते १४८ वास्तुत्रयविभागो नामैकादशोऽध्यायः नाड्यादिसिरादिविकल्पो नाम द्वादशोऽध्यायः मर्मवेधस्त्रयोदशोऽध्यायः पुरुषाङ्गदेवतानिघण्ट्वादिनिर्णयश्चतुर्दशोऽध्यायः राजनिवेशो नाम पञ्चदशोऽध्यायः वनप्रवेशो नाम षोडशोऽध्यायः १ ते ५० ५१ ते १०० १०१ ते १५० १५१ ते २१२ नगरादिसंज्ञा नामाष्टादशोऽध्यायः १ ते ५० ५१ ते १०० १०१ ते १५० १५१ ते २०० २०१ ते २२४ निम्नोच्चादिफलानि नाम विंशोऽध्यायः द्वासप्ततित्रिशाललक्षणं नामैकविंशोऽध्यायः द्विशालगृहलक्षणं नाम द्वाविंशोध्यायः एकशालालक्षणफलादि नाम त्रयोविंशोऽध्यायः द्वारपीठभित्तिमानादिकं नाम चतुर्विंशोऽध्यायः १ ते ५० ५१ ते १०० १०१ ते १५० १५१ ते १६४ १ ते ५० ५१ ते ८० सभाष्टकं नाम सप्तविंशोऽध्यायः गृहद्र व्यप्रमाणानि नामाष्टाविंशोऽध्यायः शयनासनलक्षणं नाम एकोनत्रिंशोऽध्यायः १ ते ५० ५१ ते १०० १०१ ते १४० १ ते ५० ५१ ते १०० १०१ ते १५० १५१ ते २०० २०१ ते २२३ गजशाला नाम द्वात्रिंशोऽध्यायः १ ते ५० ५१ ते ७९ अथाप्रयोज्यप्रयोज्यं नाम चतुस्त्रिंशोऽध्यायः शिलान्यासविधिर्नाम पञ्चत्रिंशोऽध्यायः बलिदानविधिर्नाम षट्त्रिंशोऽध्यायः १ ते ५० ५१ ते ८१ वास्तुसंस्थानमातृका नामाष्टात्रिंशोऽध्यायः द्वारगुणदोषो नामैकोनचत्वारिंशोऽध्यायः पीठमानं नाम चत्वारिंशोऽध्यायः चयविधिर्नामैकचत्वारिंशोऽध्यायः शान्तिकर्मविधिर्नाम द्विचत्वारिंशोऽध्यायः द्वारभङ्गफलं नाम त्रिचत्वारिंशोऽध्यायः स्थपतिलक्षणं नाम चतुश्चत्वारिंशोऽध्यायः अष्टङ्गलक्षणं नाम पञ्चचत्वारिंशोऽध्यायः तोरणभङ्गादिशान्तिको नाम षट्चत्वारिंशोऽध्यायः वेदीलक्षणं नाम सप्तचत्वारिंशोऽध्यायः १ ते ५० ५१ ते १०० १०१ ते १४० १ ते ५० ५१ ते १०० १०१ ते १५० १५१ ते २०३ प्रासादशुभाशुभलक्षणं नाम पञ्चाशोऽध्यायः अथायतननिवेशो नामैकपञ्चाशोऽध्यायः प्रासादजातिर्नाम द्विपञ्चाशोऽध्यायः जघन्यवास्तुद्वारं नाम त्रिपञ्चाशोऽध्यायः १ ते ५० ५१ ते १०० १०१ ते १२३ १ ते ५० ५१ ते १०० १०१ ते १६० १ ते ५० ५१ ते १०० १०१ ते १५० १५१ ते २०० २०१ ते २५० २५१ ते ३१२ १ ते ५० ५१ ते १०० १०१ ते १५० १५१ ते २१० मेर्वादिविंशिका नाम सप्तपञ्चाशोऽध्यायः प्रासादस्तवनं नाम अष्टपञ्चाशोऽध्यायः १ ते ५० ५१ ते १०० १०१ ते १५० १५१ ते २०० २०१ ते २४५ १ ते ५० ५१ ते ९९ पीठपञ्चकलक्षणं नामैकषष्टितमोऽध्यायः १ ते ५० ५१ ते १०० १०१ ते १५० १५१ ते २२० १ ते ५० ५१ ते ११७ १ ते ५० ५१ ते १२० १ ते ५० ५१ ते १०० १०१ ते १५० १५१ ते २०१ मण्डपलक्षणं नाम षट्षष्टितमोऽध्यायः १ ते ५० ५१ ते ११४ जगत्यङ्गसमुदायाधिकारो नामाष्टषष्टितमोऽध्यायः १ ते ५० ५१ ते १०० १०१ ते १५० १५१ ते २२० १ ते ५० ५१ ते १०० १०१ ते १५७ चित्रोद्देशो नामैकसप्ततितमोऽध्यायः भूमिबन्धो नाम द्विसप्ततितमोऽध्यायः लेप्यकर्मादिकं नाम त्रिसप्ततितमोऽध्यायः अथाण्डकप्रमाणं नाम चतुःसप्ततितमोऽध्यायः मानोत्पत्तिर्नाम पञ्चसप्ततितमोऽध्यायः प्रतिमालक्षणं नाम षट्सप्ततितमोऽध्यायः देवादिरूपप्रहरणसंयोगलक्षणं नाम सप्तसप्ततितमोऽध्यायः दोषगुणनिरूपणं नामाष्टसप्ततितमोऽध्यायः १ ते ५० ५१ ते १०० १५१ ते १७० वैष्णवादिस्थानकलक्षणं नामाशीतितमोऽध्यायः पञ्चपुरुषस्त्रीलक्षणं नामैकाशीतितमोऽध्यायः रसदृष्टिलक्षणं नाम द्व्यशीतितमोऽध्यायः १ ते ५० ५१ ते १०० १०१ ते १५० १५१ ते २०० २०१ ते २५४ पताकादिचतुष्षष्टिहस्तलक्षणं नाम त्र्यशीतितमोऽध्यायः - १५१ ते २०० समराङ्गणसूत्रधार भारतीय वास्तुशास्त्र से सम्बन्धित ज्ञानकोशीय ग्रन्थ है जिसकी रचना धार के परमार राजा भोज (1000–1055 ई) ने की थी। Tags : bhojsamarangansanskritvastu shastraभोजवास्तुशास्त्रसंस्कृतसमराङ्गणसूत्रधार पताकादिचतुष्षष्टिहस्तलक्षणं नाम त्र्यशीतितमोऽध्यायः - १५१ ते २०० Translation - भाषांतर कार्यं तद्देशवर्तिभ्यां सभ्रूक्षेपं विचक्षणैः ।उत्तानेन युतेनाथ पत्राकारं प्रदर्शयेत् ॥१५१॥हस्तेन चतुरा खे विनमय्य भ्रुवं मनाक् ।लीलां रतिं स्मृतिं बुद्धिं संज्ञामायाविचारणा ॥१५२॥सङ्गतं प्रणयं शौचमावर्त्य भावमक्षमम् ।पुष्टिं सविच शीलं च चातुर्यं मार्दवं सुखम् ॥१५३॥प्रश्नं वार्तां च वेषं च युक्तिं दाक्षिण्ययौवने ।विभवाविभवौ स्तोकं सुरतं सद्वरं मृदु ॥१५४॥गुणागुणौ गृहा दारा वर्णा नानाविधाश्रयाः ।चतुरेणाभिनेतव्यास्ते सर्वेऽपि यथोचितम् ॥१५५॥क्वचित्प्रभावता क्वापि भ्रमता मृदुता क्वचित् ।प्रतीतिर्जायतेऽर्थस्य यस्य यस्य यथा यथा ॥१५६॥प्राज्ञैस्तथा तथा शीर्षेऽभिनेयान्युक्तपाणिना ।भ्रूदृष्टिचकुरगोश्च कार्यास्तदनुसारतः ॥१५७॥मण्डलस्थेन हस्तेन पीतं रक्तं च दर्शयेत् ।किञ्चिन्नतभ्रूः शिरसा परिमण्डलितेन च ॥१५८॥तेन द्भूप्रदर्शयेत् कृष्णं नीलं च परिमृद्गता ।चतुरेण कपोतादीन् वर्णान् स्वाभाविकेन च ॥१५९॥इति चतुरः ।मध्यमाङ्गुष्ठसन्दंशो वक्रा चैव प्रदेशिनी ।ऊर्ध्वमन्ये प्रकीर्णो --- अङ्गुल्यो भ्रमरे करे ॥१६०॥कुमुदोत्पलपद्मानां ग्रहणं तेन पाणिना ।तथैव दीर्घवृन्तानामन्येषामपि रूपयेत् ॥१६१॥कर्णपूरो विधातव्यः कर्णदेशे स्थितेन च ।दृष्टिभ्रुवौ चाभिन्ना तेषां कार्ये करानुगे ॥१६२॥इति भ्रमरः ।तर्जनीमध्यमाङ्गष्ठाभूताग्निस्था निरन्तरा ।भवेयुर्हंसवक्त्रस्य शेष सम्प्रसारिता ॥१६३॥किञ्चित् प्रस्पन्दिताङ्गुष्ठेनामुनोत्क्षिप्य च भ्रुवौ ।निस्सारमल्पं सूक्ष्मं च दर्शयेन्मृदुलं लघु ॥१६४॥कर्तव्येऽभिनये चैषां दृग्भ्रुवौ च करानुगे ।इति हंसवक्त्रः ।अङ्गुल्यः प्रसृतास्तिस्रस्तथा चोर्ध्वा कनीयसी ॥१६५॥अङ्गुष्ठः कुञ्चितश्चैव संसपक्ष इति स्मृतः ।उत्तानेन बहिस्तिर्यग्ग्रीवायजलभूषणम् ॥१६६॥कर्तव्यं तेन गण्डस्य रूपस्य गण्डवर्तनम् ।कुर्वीत चैनमुत्तानं भोजने च प्रतिग्रहे ॥१६७॥तथाचमनकार्ये च कर्तव्योऽयं द्विजन्मनाम् ।अधस्तादन्तयोरेनं कुर्यात् स्वस्तिकयोगिनम् ॥१६८॥किञ्चिन्नतेन शिरसा य परि यथारसम् ।उभाभ्यां पार्श्वयोस्तिर्यग्वैताभ्यां स्तम्भदर्शनम् ॥१६९॥कुर्वीतैकेन रोमाञ्च वामबाहुप्रसर्पिणा ।संवाहनेऽनुलेपे च स्पर्शे तद्देशवर्तिनम् ॥१७०॥विषादे विभ्रमे स्त्रीणां स्तन्यं तत्स्थं यथा रसः ।अधस्तलं प्रयुञ्जीत तथैनं हनुधारणे ॥१७१॥अस्यानुयायिनीं दृष्टिं पाणेः कुर्याद् भ्रुवौ तथा ।इति हंसपक्षः ।तर्जन्यङ्गुष्ठसन्दंशस्व रोदनस्य यदा भवेत् ॥१७२॥आभुग्नतलमध्यश्च सन्दंश इति स स्मृतः ।स चाग्रमुखपार्श्वानां भेदेन त्रिविधो भवेत् ॥१७३॥तं पुष्पावचये पुष्पर्माग्रथने च प्रयोजयेत् ।तृणपर्णग्रहे केशसूत्रादिस्तथापरे ॥१७४॥शिल्पैकादेशग्रहणे त्वग्रसंदंशकं स्थिरम् ।आकर्षणे तथा कृष्णे वृन्तात्पुष्पस्य चोद्धृतौ ॥१७५॥विदध्यादेवमेवैनं शलाकारनिरूपणे ।रोषे धिगिति वाक्ये च बहिर्भागप्रसर्पिणम् ॥१७६॥यज्ञोपचितं तत्प्रदेशे स्थितेन च ।उत्तानेनोरसोऽग्रे तु संयुतेन च तिर्द्वतम् ॥१७७॥वचनं वलहा किञ्चित्समध्येनाधोमुखेन च ।ग्रहणं गुणसूत्रस्य बाणलक्षनिरूपणम् ॥१७८॥ध्यानं योगं च हृद्देशवर्तिना संप्रदर्शयेत् ।स्तोकतिभिन्ना ये कर्तव्यः संयुतस्तूरसः पुरः ॥१७९॥कुत्सास्तयाकोमलेषु सदोषवचनेषु च ।विवर्तिताग्रः कर्तव्यो वामो विघटितो मनाक् ॥१८०॥प्रवालरचने वर्तिग्रहणे नेत्ररञ्जने ।आलेख्ये चैष कर्तव्यस्तथालक्तकपीडने ॥१८१॥अस्य भ्रुवौ च दृष्टिं च कुर्यादनुगतां ततः ।इति सन्दंशः ।समागताग्रसहिता यस्याङ्गुल्यो भवन्ति हि ॥१८२॥ऊर्ध्वं हंसमुखस्येव स भवेन्मुकुलः करः ।कर्तव्यः संहतोऽत्रातो मुकुलाम्भोरुहादिषु ॥१८३॥पुरः प्रसर्प्योच्चलितः कर्तव्यो विटचुम्बकः ।इति मुकुलः ।पद्मकोशस्य हस्तस्य त्वङ्गुल्यः कुञ्चिता यदा ॥१८४॥ऊर्णनाभः स विज्ञेयश्चौर्यकेशग्रहादिषु ।चौर्यकेशग्रहे चैष कर्तव्योऽधोमुखः करः ॥१८५शिरःकण्डूयने मूर्ध्नः प्रदेशे प्रचलन्मुहुः ।तर्यकवर्ती विधातव्यः कुष्ठव्याधेर्निरूपणे ॥१८६॥अधोमुखः स्थितेनाधः सिंहव्याघ्रादिरूपणे ।कार्यो भ्रुकुटिवक्त्रेण संयतोऽस्य ग्रहस्तथा ॥१८७॥अत्रापि दृष्टिभ्रूकर्म प्राग्वदेव विधीयते ।इत्यूर्णनाभः ।मध्यमाङ्गुष्ठसन्दंशो वक्रा चैव प्रदेशिनी ॥१८८॥मृगव्यालादिविश्वासं बालसन्धारणे तथा ।अयं हस्तो विधातव्यो भर्त्सने भ्रुकुटीयुतः ॥१८९॥सिंहव्याघ्रादियोगे च विच्युतः शब्दवान् भवेत् ।दृष्टिभ्रुवौ च कर्तव्यौ न्यत्यमस्यानुगे बुधैः ॥१९०॥अपरैः छिदितासंज्ञो हस्तोऽयं परिकीर्तितः ।इति ताम्रचूडः ।असंयुतानां हस्तानां चतुर्विंशतिरीरिता ॥१९१॥त्रयोदशाथ कथ्यन्ते संयुता नामलक्षणैः ।अञ्जलिश्च कपोतश्च कर्कटः स्वस्तिकस्तथा ॥१९२॥खटकावर्धमानश्चाप्युत्सङ्गनिषधावपि ।डोलः पुष्पपुटस्तद्वन्मकरो गजदन्तकः ॥१९३॥वरित्थादश कथ्यन्ते संयता नामलक्षणैः ।अञ्जलिश्च कपोतस्य कर्कटः स्वस्तिकस्तथा ॥१९४॥त्रयोदशैते कथिता हस्ताः संयुक्तसंज्ञिताः ।पताकाभ्यां तु हस्ताभ्यां संश्लेषात्सोऽञ्जलिः स्मृतः ॥१९५॥शिरश्च विनतं किञ्चित्तत्र कार्यं विपश्चिता ।कार्यो गुरुनमस्कारो मुखस्यासन्नवर्तिना ॥१९६॥पेक्षते न मित्राणां न स्थाननियमः कृधे ।इत्यञ्जलिः ।उभाभ्यामपि हस्ताभ्यामन्योन्यं पार्श्वसङ्ग्रहात् ॥१९७॥स हस्तः कपोतनामा स्यात्कर्म चास्याभिधीयते ।कुर्यात्प्रणमनं वक्षःस्थितेन तु न मच्छिराः ॥१९८॥गुरुसंभाषणं कुर्यात्तेन शीतं भयं तथा ।विनयस्याभ्युपगमे चायमित्यभिधीयते ॥१९९॥तेनैवाङ्गुलिसंघृष्यमाणमुक्तेन पाणिना ।एतान् वदति नेदानीं कृत्यंधो चेति प्रदर्शयेत् ॥२००॥ N/A References : N/A Last Updated : November 26, 2017 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP