संस्कृत सूची|शास्त्रः|वास्तुशास्त्रः|समराङ्गणसूत्रधार| १ ते ५० समराङ्गणसूत्रधार ८३ अध्यायांची नांवे महासमागमनो नाम प्रथमोऽध्यायः पुत्रसंवादो नाम द्वितीयोऽध्यायः प्रश्नो नाम तृतीयोऽध्यायः महदादिसर्गश्चतुर्थोऽध्यायः १ ते ५० ५१ ते १०५ सहदेवाधिकारो नाम षष्ठोऽध्यायः वर्णाश्रमप्रविभागो नाम सप्तमोऽध्यायः भूमिपरीक्षा नामाष्टमोऽध्यायः हस्तलक्षणं नाम नवमोऽध्यायः १ ते ५० ५१ ते १०० १०१ ते १४८ वास्तुत्रयविभागो नामैकादशोऽध्यायः नाड्यादिसिरादिविकल्पो नाम द्वादशोऽध्यायः मर्मवेधस्त्रयोदशोऽध्यायः पुरुषाङ्गदेवतानिघण्ट्वादिनिर्णयश्चतुर्दशोऽध्यायः राजनिवेशो नाम पञ्चदशोऽध्यायः वनप्रवेशो नाम षोडशोऽध्यायः १ ते ५० ५१ ते १०० १०१ ते १५० १५१ ते २१२ नगरादिसंज्ञा नामाष्टादशोऽध्यायः १ ते ५० ५१ ते १०० १०१ ते १५० १५१ ते २०० २०१ ते २२४ निम्नोच्चादिफलानि नाम विंशोऽध्यायः द्वासप्ततित्रिशाललक्षणं नामैकविंशोऽध्यायः द्विशालगृहलक्षणं नाम द्वाविंशोध्यायः एकशालालक्षणफलादि नाम त्रयोविंशोऽध्यायः द्वारपीठभित्तिमानादिकं नाम चतुर्विंशोऽध्यायः १ ते ५० ५१ ते १०० १०१ ते १५० १५१ ते १६४ १ ते ५० ५१ ते ८० सभाष्टकं नाम सप्तविंशोऽध्यायः गृहद्र व्यप्रमाणानि नामाष्टाविंशोऽध्यायः शयनासनलक्षणं नाम एकोनत्रिंशोऽध्यायः १ ते ५० ५१ ते १०० १०१ ते १४० १ ते ५० ५१ ते १०० १०१ ते १५० १५१ ते २०० २०१ ते २२३ गजशाला नाम द्वात्रिंशोऽध्यायः १ ते ५० ५१ ते ७९ अथाप्रयोज्यप्रयोज्यं नाम चतुस्त्रिंशोऽध्यायः शिलान्यासविधिर्नाम पञ्चत्रिंशोऽध्यायः बलिदानविधिर्नाम षट्त्रिंशोऽध्यायः १ ते ५० ५१ ते ८१ वास्तुसंस्थानमातृका नामाष्टात्रिंशोऽध्यायः द्वारगुणदोषो नामैकोनचत्वारिंशोऽध्यायः पीठमानं नाम चत्वारिंशोऽध्यायः चयविधिर्नामैकचत्वारिंशोऽध्यायः शान्तिकर्मविधिर्नाम द्विचत्वारिंशोऽध्यायः द्वारभङ्गफलं नाम त्रिचत्वारिंशोऽध्यायः स्थपतिलक्षणं नाम चतुश्चत्वारिंशोऽध्यायः अष्टङ्गलक्षणं नाम पञ्चचत्वारिंशोऽध्यायः तोरणभङ्गादिशान्तिको नाम षट्चत्वारिंशोऽध्यायः वेदीलक्षणं नाम सप्तचत्वारिंशोऽध्यायः १ ते ५० ५१ ते १०० १०१ ते १४० १ ते ५० ५१ ते १०० १०१ ते १५० १५१ ते २०३ प्रासादशुभाशुभलक्षणं नाम पञ्चाशोऽध्यायः अथायतननिवेशो नामैकपञ्चाशोऽध्यायः प्रासादजातिर्नाम द्विपञ्चाशोऽध्यायः जघन्यवास्तुद्वारं नाम त्रिपञ्चाशोऽध्यायः १ ते ५० ५१ ते १०० १०१ ते १२३ १ ते ५० ५१ ते १०० १०१ ते १६० १ ते ५० ५१ ते १०० १०१ ते १५० १५१ ते २०० २०१ ते २५० २५१ ते ३१२ १ ते ५० ५१ ते १०० १०१ ते १५० १५१ ते २१० मेर्वादिविंशिका नाम सप्तपञ्चाशोऽध्यायः प्रासादस्तवनं नाम अष्टपञ्चाशोऽध्यायः १ ते ५० ५१ ते १०० १०१ ते १५० १५१ ते २०० २०१ ते २४५ १ ते ५० ५१ ते ९९ पीठपञ्चकलक्षणं नामैकषष्टितमोऽध्यायः १ ते ५० ५१ ते १०० १०१ ते १५० १५१ ते २२० १ ते ५० ५१ ते ११७ १ ते ५० ५१ ते १२० १ ते ५० ५१ ते १०० १०१ ते १५० १५१ ते २०१ मण्डपलक्षणं नाम षट्षष्टितमोऽध्यायः १ ते ५० ५१ ते ११४ जगत्यङ्गसमुदायाधिकारो नामाष्टषष्टितमोऽध्यायः १ ते ५० ५१ ते १०० १०१ ते १५० १५१ ते २२० १ ते ५० ५१ ते १०० १०१ ते १५७ चित्रोद्देशो नामैकसप्ततितमोऽध्यायः भूमिबन्धो नाम द्विसप्ततितमोऽध्यायः लेप्यकर्मादिकं नाम त्रिसप्ततितमोऽध्यायः अथाण्डकप्रमाणं नाम चतुःसप्ततितमोऽध्यायः मानोत्पत्तिर्नाम पञ्चसप्ततितमोऽध्यायः प्रतिमालक्षणं नाम षट्सप्ततितमोऽध्यायः देवादिरूपप्रहरणसंयोगलक्षणं नाम सप्तसप्ततितमोऽध्यायः दोषगुणनिरूपणं नामाष्टसप्ततितमोऽध्यायः १ ते ५० ५१ ते १०० १५१ ते १७० वैष्णवादिस्थानकलक्षणं नामाशीतितमोऽध्यायः पञ्चपुरुषस्त्रीलक्षणं नामैकाशीतितमोऽध्यायः रसदृष्टिलक्षणं नाम द्व्यशीतितमोऽध्यायः १ ते ५० ५१ ते १०० १०१ ते १५० १५१ ते २०० २०१ ते २५४ भुवनकोशः पञ्चमोऽध्यायः - १ ते ५० समराङ्गणसूत्रधार हा भारतीय वास्तुशास्त्र सम्बन्धित ज्ञानकोशीय ग्रन्थ आहे, ज्याची रचना धार राज्याचे परमार राजा भोज (1000–1055 इ.स.) यांनी केली होती. Tags : bhojsamarangansanskritvastu shastraभोजवास्तुशास्त्रसंस्कृतसमराङ्गणसूत्रधार भुवनकोशः पञ्चमोऽध्यायः - १ ते ५० Translation - भाषांतर अथो यथाक्रमं भूमेः कृत्स्नायाः कथयामि ते ।विष्कम्भपरिधी वत्स बाहुल्यमपि च स्फुटम् ॥१॥विष्कम्भोऽस्याः समुद्दिष्टो दशयोजनकोटयः ।लक्षाण्यपि च मेदिन्यास्तद्वदेकोनविंशतिः ।विष्कम्भत्रिगुणो यावद्विष्कम्भांशश्च पञ्चमः ॥२॥मेदिन्याः परिधिस्तावद्योजनैः परिकीर्त्तितः ।द्वात्रिंशत्कोटयः षष्टिर्लक्षाणि परिधिः क्षितेः ॥३॥अशीतिश्च सहस्राणि योजनानां प्रकीर्त्तितः ।योजनानां सहस्राणि विंशतिर्लक्षयोर्द्वयम् ॥४॥इति बाहुल्यमेतस्याः क्षितेर्वत्स तवोदितम् ।चतुर्णां सलिलादीनां भूतादेर्महतोऽपि च ॥५॥उत्तरोत्तरमुर्वीतो मानं शतगुणं विदुः ।तोयादिषु स्थितेयं भूश्चक्रवद्वृत्तशालिनी ॥६॥पात्रस्थापरपात्रश्रीहारीण्यन्यान्यपि क्रमात् ।प्रमाणमिदमेतेषां क्षित्यादीनां तवोदितम् ॥७॥द्वीपादीनां तु पाथोधिनिवेशः पुनरुच्यते ।द्वीपानामम्बुधीनां च सप्तानामपि मध्यगः ॥८॥जम्बूद्वीपो भवेद्वृत्तः सहस्रशतविस्तृतः ।हिमाद्रि र्हेमकूटाख्यो निषधो नीलसंज्ञितः ॥९॥श्वेतः शृङ्गी च षडमी भवन्त्यस्मिन् कुलाचलाः ।एतस्मादुत्तरेणाद्रे स्तुषाराङ्कितमेखलात् ॥१०॥पूर्वापरायताः सर्वेऽप्यद्र यो यावदम्बुधि ।अन्तरा नीलनिषधौ जम्बूद्वीपस्य नाभिगः ॥११॥वृत्तः पुण्यजनाकीर्णः श्रीमान् मेरुर्महाचलः ।उदग्याम्यायते मेरोः प्राग्भागे माल्यवान् गिरिः ॥१२॥सेवितः सिद्धनारीभिरानीलनिषधायतः ।सुमेरोः पश्चिमेनाद्रि र्गन्धर्वकुलसङ्कुलः ॥१३॥माल्यवत्सदृशायामो महीभृद्गन्धमादनः ।पर्वताबुभयान्तस्थौ हिमवान् शृङ्गवांस्तथा ॥१४॥योजनानां सहस्रे द्वे सार्धे स्यादुच्छ्रयस्तयोः ।श्वेतश्च हेमकूटश्चेत्यन्तयोः पृथिवीधरौ ॥१५॥योजनानां सहस्रार्धमेकैकस्योच्छ्रयस्तयोः ।निषधाचलनीलाद्रि माल्यवद्गन्धमादनाः ॥१६॥सहस्रयोजनोच्छ्रायाश्चत्वारोऽमी पृथक्पृथक् ।एतेऽष्टावपि शैलेन्द्राः सहस्रद्वयविस्तृताः ॥१७॥उच्छ्रयार्धमधश्चापि विलग्नाः सह मेरुणा ।मेरोः समुच्छ्रयोऽशीतिः सहस्राणि चतुर्युता ॥१८॥षोडशाधः सहस्राणि द्वात्रिंशन्मूर्ध्नि विस्तृतिः ।जम्बूतरुर्महान् मध्ये सुमेरोर्निषधस्य च ॥१९॥द्वीपस्यामुष्य यद्योगाज्जम्बूद्वीप इति श्रुतिः ।शृङ्गैर्हिमशिलानद्धैः सर्वतो हिमवानयम् ॥२०॥महान्तो निवसन्त्यत्र पिशाचा यक्षराक्षसाः ।कूटैर्हेममयैर्हेमकूट इत्यवनीधरः ॥२१॥यं सर्वतो निषेवन्ते सदा चारणगुह्यकाः ।तरुणार्कप्रभाजालप्रतिमो निषधाचलः ॥२२॥निवसन्ति सुखं तत्र शेषवासुकितक्षकाः ।हेमाब्जकर्णिकाकारः सुमेरुर्मणिकन्दरः ॥२३॥अत्रामराः साप्सरसस्त्रयस्त्रिंशद्वसन्ति ते ।वैडूर्यनद्धैः शिखरैर्नीलो नीलमहीधरः ॥२४॥कलयन्ति तपोनित्या यत्र ब्रह्मर्षयः स्थितिम् ।श्वेतः स काञ्चनैः शृङ्गैर्गगनोल्लेखिभिर्वृतः ॥२५॥दोर्दर्पशालिनां यत्र निवासस्त्रिदशद्विषाम् ।महानीलमयो बर्हिपिच्छच्छायो बहिर्महान् ॥२६॥पितॄणामालयः शृङ्गैरुच्छ्रितैः शृङ्गवान् गिरिः ।हिमाचलस्य याम्येन क्षाराब्धिवृतमन्यतः ॥२७॥वर्षं स्याद्भारतं नाम प्रथमं कार्मुकाकृति ।तुषारनिलयस्याद्रे र्हेमकूटाचलस्य च ॥२८॥मध्ये किंपुरुषं नाम द्वितीयं वर्षमीरितम् ।अन्तरे हेमकूटस्य निषधस्य च भूभृतः ॥२९॥हरिवर्षमिति प्रोक्तं तृतीयं वर्षमुत्तमम् ।निषधाचलनीलाद्रि माल्यवद्गन्धभूभृताम् ॥३०॥चतुर्णां मध्यगं वर्षं तुर्यमस्मिन्निलावृतम् ।उत्तरे नीलशैलस्य याम्ये च श्वेतभूभृतः ॥३१॥पञ्चमं वर्षमत्यर्थरम्यं रम्यकसंज्ञितम् ।श्वेतशृङ्गवतोः शैलराजयोरनयोरिह ॥३२॥मध्ये षष्ठं हिरण्यांशुरम्यं हैरण्यकाद्वयम् ।अस्योत्तरे शृङ्गवतो याम्ये च क्षारवारिधेः ॥३३॥कुरुवर्षाभिधं वर्षमुत्तरेण प्रचक्षते ।अन्तरा नीलनिषधौ प्राग्भागे माल्यवद्गिरेः ॥३४॥भद्रा श्वमष्टमं वर्षं प्राक्समुद्रा न्तमीरितम् ।गन्धमादनशैलस्य प्रत्यक् प्राक्चापराम्बुधेः ॥३५॥नवमं वर्षमाचार्याः केतुमालं प्रचक्षते ।इति प्रोक्तानि वर्षाणि नवामूनि मया तव ॥३६॥साम्प्रतं पुनरेतेषां प्रमाणमवधारय ।प्रमाणेन सहस्राणि चतुस्त्रिंशच्चतुर्दिशम् ॥३७॥योजनानामिहेच्छन्ति चतुरश्रमिलावृतम् ।प्राक्प्रत्यग्भागगे वर्षे तस्योदग्याम्यतः समे ॥३८॥एकत्रिंशत्सहस्राणि किञ्चित् प्राक्प्रत्यगायते ।यान्युक्तानि षडन्यानि वर्षाण्येभ्योऽवराणि ते ॥३९॥तेषां नवसहस्राणि प्रत्येकं विस्तृतिर्मता ।वर्षे किम्पुरुषे नार्यो नराश्च प्लक्षभोजनाः ॥४०॥जीवन्त्ययुतमब्दानां जात्यजाम्बूनदत्विषः ।हरिवर्षे नरा नार्यो वसन्तीक्षुरसाशिनः ॥४१॥सायुतं च सहस्रं ते जीवन्ति रजतत्विषः ।इलावृते नराः पद्मरागभासोद्गतास्तथा ॥४२॥जम्बूफलरसाहाराः सपादायुतजीविनः ।नास्मिन् मेरुतटच्छन्ने तारकार्केन्दुरश्मयः ॥४३॥स्वाङ्गप्रभाभिः किन्त्वत्र कृतोद्योता वसन्त्यमी ।कैरवोदरसच्छाया भद्रा श्वे साङ्गना नराः ॥४४॥नीलाम्रकफलाहारा भवन्त्यत्रायुतायुषः ।दलत्कुवलयश्यामाः केतुमाले शरीरिणः ॥४५॥शरदामयुतं तेषामायुः पनसभोजिनाम् ।श्वेताभो रम्यके रम्ये न्यग्रोधफलभुग्जनः ॥४६॥हरिवर्ष इव प्रोक्तमेतस्मिन् मानमायुषः ।श्यामत्विषः स्त्रियो वर्षे पुमांसश्च हिरण्यके ॥४७॥जीवन्त्ययुतमब्दानां सर्वेऽपि लकुचाशिनः ।कुरुष्वभीष्टदैर्वृक्षैर्जीवन्ति स्त्रीयुता नराः ॥४८॥सपादमयुतं देवगर्भभा गौरकान्तयः ।पुण्यकर्मा वसत्येषु वर्षेषु निखिलो जनः ॥४९॥शोकव्याधिजरातङ्कशङ्कोन्मुक्तः सदा सुखी ।वनैः कीर्णानि सर्वाणि कुसुमस्तबकानतैः ॥५०॥ N/A References : N/A Last Updated : November 26, 2017 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP