संस्कृत सूची|शास्त्रः|वास्तुशास्त्रः|समराङ्गणसूत्रधार| १ ते ५० समराङ्गणसूत्रधार ८३ अध्यायांची नांवे महासमागमनो नाम प्रथमोऽध्यायः पुत्रसंवादो नाम द्वितीयोऽध्यायः प्रश्नो नाम तृतीयोऽध्यायः महदादिसर्गश्चतुर्थोऽध्यायः १ ते ५० ५१ ते १०५ सहदेवाधिकारो नाम षष्ठोऽध्यायः वर्णाश्रमप्रविभागो नाम सप्तमोऽध्यायः भूमिपरीक्षा नामाष्टमोऽध्यायः हस्तलक्षणं नाम नवमोऽध्यायः १ ते ५० ५१ ते १०० १०१ ते १४८ वास्तुत्रयविभागो नामैकादशोऽध्यायः नाड्यादिसिरादिविकल्पो नाम द्वादशोऽध्यायः मर्मवेधस्त्रयोदशोऽध्यायः पुरुषाङ्गदेवतानिघण्ट्वादिनिर्णयश्चतुर्दशोऽध्यायः राजनिवेशो नाम पञ्चदशोऽध्यायः वनप्रवेशो नाम षोडशोऽध्यायः १ ते ५० ५१ ते १०० १०१ ते १५० १५१ ते २१२ नगरादिसंज्ञा नामाष्टादशोऽध्यायः १ ते ५० ५१ ते १०० १०१ ते १५० १५१ ते २०० २०१ ते २२४ निम्नोच्चादिफलानि नाम विंशोऽध्यायः द्वासप्ततित्रिशाललक्षणं नामैकविंशोऽध्यायः द्विशालगृहलक्षणं नाम द्वाविंशोध्यायः एकशालालक्षणफलादि नाम त्रयोविंशोऽध्यायः द्वारपीठभित्तिमानादिकं नाम चतुर्विंशोऽध्यायः १ ते ५० ५१ ते १०० १०१ ते १५० १५१ ते १६४ १ ते ५० ५१ ते ८० सभाष्टकं नाम सप्तविंशोऽध्यायः गृहद्र व्यप्रमाणानि नामाष्टाविंशोऽध्यायः शयनासनलक्षणं नाम एकोनत्रिंशोऽध्यायः १ ते ५० ५१ ते १०० १०१ ते १४० १ ते ५० ५१ ते १०० १०१ ते १५० १५१ ते २०० २०१ ते २२३ गजशाला नाम द्वात्रिंशोऽध्यायः १ ते ५० ५१ ते ७९ अथाप्रयोज्यप्रयोज्यं नाम चतुस्त्रिंशोऽध्यायः शिलान्यासविधिर्नाम पञ्चत्रिंशोऽध्यायः बलिदानविधिर्नाम षट्त्रिंशोऽध्यायः १ ते ५० ५१ ते ८१ वास्तुसंस्थानमातृका नामाष्टात्रिंशोऽध्यायः द्वारगुणदोषो नामैकोनचत्वारिंशोऽध्यायः पीठमानं नाम चत्वारिंशोऽध्यायः चयविधिर्नामैकचत्वारिंशोऽध्यायः शान्तिकर्मविधिर्नाम द्विचत्वारिंशोऽध्यायः द्वारभङ्गफलं नाम त्रिचत्वारिंशोऽध्यायः स्थपतिलक्षणं नाम चतुश्चत्वारिंशोऽध्यायः अष्टङ्गलक्षणं नाम पञ्चचत्वारिंशोऽध्यायः तोरणभङ्गादिशान्तिको नाम षट्चत्वारिंशोऽध्यायः वेदीलक्षणं नाम सप्तचत्वारिंशोऽध्यायः १ ते ५० ५१ ते १०० १०१ ते १४० १ ते ५० ५१ ते १०० १०१ ते १५० १५१ ते २०३ प्रासादशुभाशुभलक्षणं नाम पञ्चाशोऽध्यायः अथायतननिवेशो नामैकपञ्चाशोऽध्यायः प्रासादजातिर्नाम द्विपञ्चाशोऽध्यायः जघन्यवास्तुद्वारं नाम त्रिपञ्चाशोऽध्यायः १ ते ५० ५१ ते १०० १०१ ते १२३ १ ते ५० ५१ ते १०० १०१ ते १६० १ ते ५० ५१ ते १०० १०१ ते १५० १५१ ते २०० २०१ ते २५० २५१ ते ३१२ १ ते ५० ५१ ते १०० १०१ ते १५० १५१ ते २१० मेर्वादिविंशिका नाम सप्तपञ्चाशोऽध्यायः प्रासादस्तवनं नाम अष्टपञ्चाशोऽध्यायः १ ते ५० ५१ ते १०० १०१ ते १५० १५१ ते २०० २०१ ते २४५ १ ते ५० ५१ ते ९९ पीठपञ्चकलक्षणं नामैकषष्टितमोऽध्यायः १ ते ५० ५१ ते १०० १०१ ते १५० १५१ ते २२० १ ते ५० ५१ ते ११७ १ ते ५० ५१ ते १२० १ ते ५० ५१ ते १०० १०१ ते १५० १५१ ते २०१ मण्डपलक्षणं नाम षट्षष्टितमोऽध्यायः १ ते ५० ५१ ते ११४ जगत्यङ्गसमुदायाधिकारो नामाष्टषष्टितमोऽध्यायः १ ते ५० ५१ ते १०० १०१ ते १५० १५१ ते २२० १ ते ५० ५१ ते १०० १०१ ते १५७ चित्रोद्देशो नामैकसप्ततितमोऽध्यायः भूमिबन्धो नाम द्विसप्ततितमोऽध्यायः लेप्यकर्मादिकं नाम त्रिसप्ततितमोऽध्यायः अथाण्डकप्रमाणं नाम चतुःसप्ततितमोऽध्यायः मानोत्पत्तिर्नाम पञ्चसप्ततितमोऽध्यायः प्रतिमालक्षणं नाम षट्सप्ततितमोऽध्यायः देवादिरूपप्रहरणसंयोगलक्षणं नाम सप्तसप्ततितमोऽध्यायः दोषगुणनिरूपणं नामाष्टसप्ततितमोऽध्यायः १ ते ५० ५१ ते १०० १५१ ते १७० वैष्णवादिस्थानकलक्षणं नामाशीतितमोऽध्यायः पञ्चपुरुषस्त्रीलक्षणं नामैकाशीतितमोऽध्यायः रसदृष्टिलक्षणं नाम द्व्यशीतितमोऽध्यायः १ ते ५० ५१ ते १०० १०१ ते १५० १५१ ते २०० २०१ ते २५४ रुचकादिप्रासादलक्षणं नामैकोनपञ्चाशोऽध्यायः - १ ते ५० समराङ्गणसूत्रधार भारतीय वास्तुशास्त्र से सम्बन्धित ज्ञानकोशीय ग्रन्थ है जिसकी रचना धार के परमार राजा भोज (1000–1055 ई) ने की थी। Tags : bhojsamarangansanskritvastu shastraभोजवास्तुशास्त्रसंस्कृतसमराङ्गणसूत्रधार रुचकादिप्रासादलक्षणं नामैकोनपञ्चाशोऽध्यायः - १ ते ५० Translation - भाषांतर त्रिदशानां नृपाणां च वर्णिनां च विशेषतः ।उत्पत्तिप्रसृतिं ब्रूमः प्रासादा यस्य ये मताः ॥१॥पुरा ब्रह्मासृजत्पञ्च विमानान्यसुरद्विषाम् ।वियद्वर्त्मविचारीणि श्रीमन्ति च महान्ति च ॥२॥तानि वैराजकैलासे पुष्पकं मणिकाभिधम् ।हैमानि मणिचित्राणि पञ्चमं च त्रिविष्टपम् ॥३॥आत्मनः शूलहस्तस्य धनाध्यक्षस्य पाशिनः ।सुरेशिने च विश्वेशो विमानानि यथाक्रमम् ॥४॥बहून्यन्यानि चैवं स सूर्यादीनामकल्पयत् ।विशेषाय यथोक्तैस्तान्याकारैः प्रतिदैवतम् ॥५॥प्रासादांश्च तदाकाराञ्शिलापक्वेष्टकादिभिः ।नगराणामलङ्कारहेतवे समकल्पयत् ॥६॥वैराजं चतुरश्रं स्याद्वृत्तं कैलाससंज्ञितम् ।चतुरश्रायताकारं विमानं पुष्पकं भवेत् ॥७॥वृत्तायतं च मणिकमष्टाश्रि स्यात्त्रिविष्टपम् ।तद्भेदाञ्श्रीमतोऽन्यांश्च विविधानसृजत्प्रभुः ॥८॥ये यत्र विहिता भेदाः पूर्वं कमलयोनिना ।सर्वांस्तानभिधास्यामो नामसंस्थानमानतः ॥९॥रुचकश्चित्रकूटश्च तृतीयः सिंहपञ्जरः ।भद्रः श्रीकूट उष्णीषः शालाक्षो गजयूथपः ॥१०॥नन्द्यावर्तोऽवतंसाह्वः स्वस्तिकः क्षितिभूषणः ।भूजयो विजयो नन्दी श्रीतरुः प्रमदाप्रियः ॥११॥व्यामिश्रो हस्तिजातीयः कुबेरो वसुधाधरः ।सर्वभद्रो विमानाख्यो मुक्तकोणश्च नामतः ॥१२॥चतुर्विंशतिरुद्दिष्टा चतुरश्राः समासतः ।वृत्तांस्तथाभिधास्यामः प्रासादानपरानपि ॥१३॥वलयो दुन्दुभिः प्रान्तः पद्मः कान्तश्चतुर्मुखः ।माण्डूकाख्योऽथ कूर्मश्च तालीगृह उलूपिकः ॥१४॥इति वृत्ताः समासेन प्रासादा दश कीर्तिताः ।चतुरश्रायता ये स्युः कथ्यन्ते तेऽपि नामतः ॥१५॥भवो विशालः साम्मुख्यः प्रभवः शिबिरागृहः ।मुखशालो द्विशालश्च गृहराजोऽमलो विभुः ॥१६॥एवमेते समुद्दिष्टाश्चतुरश्रायता दश ।अथ वृत्तायतान्ब्रूमः प्रासादानभिधानतः ॥१७॥आमोदो रैतिकस्तुङ्गश्चारुर्भूतिर्निषेवकः ।सदा निषेधः सिंहाख्यः सुप्रभो लोचनोत्सवः ॥१८॥एते वृत्तायताः प्रोक्ताः प्रासादा नामतो दश ।अष्टाश्रीणां च नामानि कथयामि समासतः ॥१९॥वज्रको नन्दनः शङ्कुर्मेखलो वामनो लयः ।महापद्मश्च हंसश्च व्योमचन्द्रो दयाविति ॥२०॥अष्टाश्रय इमे प्रोक्ताः प्रासादा दश संख्यया ।भवन्त्येवं चतुष्षष्टिर्लक्ष्मैषामधुनोच्यते ॥२१॥संस्थानमानविन्यासैर्भद्र स्तम्भादिसङ्ख्यया ।एषां विशेषा वक्ष्यन्ते पृथक्पृथगनुक्रमात् ॥२२॥ज्येष्ठो भागश्चतुर्हस्तः सार्धहस्तत्रयोऽपरः ।कल्पनीयः कनीयांस्तु हस्तत्रितयसम्मितः ॥२३॥ज्येष्ठमध्यकनीयोभिरेवं भागैर्विभाजिताः ।भवन्ति सर्वप्रासादा ज्येष्ठमध्याधमक्रमात् ॥२४॥चतुरश्रीकृते क्षेत्रे चतुर्भागविभाजिते ।कुर्यात्स्वारोहकाश्वासं पीठमंशसमुद्धृतम् ॥२५॥तथा तस्योपरि स्थाप्या हंसपृष्ठी समन्ततः ।हस्तमात्रोच्छ्रिता वृत्ता जलनिर्गमभूषिता ॥२६॥ततः पीठस्य तस्यान्तर्द्विभागायमविस्तृतिः ।प्रासादो रुचकः कार्यो भागत्रितयमुच्छ्रितः ॥२७॥सार्धभागेन संछा स्यात्सार्धभागस्तु योऽपरः ।छायत्रयं सकण्ठं स्यात्तेन सामलसारकम् ॥२८॥द्वारं भागोच्छ्रितं तस्य कार्यं भागार्धविस्तृतम् ।सप्राग्रीवः स कर्तव्यश्चतुर्दशधरावृतः ॥२९॥ससौधालिन्दकश्चारुरूर्ध्वच्छाद्योपकर्षवान् ।क्रियतेऽत्र यदा स्तम्भाद्वाविंशत्या समावृतः ॥३०॥सप्राग्रीवपरिष्कारो भागिकालिन्दशोभितः ।मध्यप्रदेशे रुचकः प्रासादः परिकीर्तितः ॥३१॥रुचकः ।कर्णप्राग्रीवकैश्चित्रैः सप्राग्रीवश्च यो वृतः ।द्वाभ्यां द्वाभ्यां गवाक्षाभ्यां चतुर्दिशमलङ्कृतः ॥३२॥कपोतालीपरिक्षिप्तः शोभितो द्वारसम्पदा ।तदानीं चित्रकुटाख्यः प्रासादः सोऽभिधीयते ॥३३॥चित्रकूटः ।अयमेव पुनः षड्भिः स्तम्भैरपि चितो यदा ।प्राग्रीवकविहीनश्च स भवेज्जालरूपकः ॥३४॥सिंहपञ्जर इत्युक्तः प्रासादः स तदा शुभः ।सिंहपञ्जरः ।कर्णप्राग्रीवकौ द्वौद्वावस्यैव भवतो यदा ॥३५॥अलिन्दकगतिस्थित्या तदा भद्रः प्रकीर्तितः ।भद्रः ।स्याच्चित्रकूट प्राग्रीवैश्चतुर्भिर्दिक्चतुष्टये ॥३६॥बहिरन्तश्चतुर्द्वारः श्रीकूट इति नामतः ।श्रीकूटः ।षड्दारुकसमायुक्तप्राग्द्वारस्त्वयमेव चेत् ॥३७॥प्रासादस्तम्भगर्भः स्यात्तदोष्णीषोऽभिधीयते ।उष्णीषः ।चतुरंशकविस्तीर्णं षडंशविहितायति ॥३८॥पीठं शालागृहस्योक्तं सशालानिर्गमं शुभम् ।मध्यादपरतस्तस्य द्विभागायतविस्तृतम् ॥३९॥विधेयं गर्भभवनमलिन्दकपरिष्कृतम् ।कार्या तस्याग्रतः सीमा भागद्वितयमायता ॥४०॥भागमेकं च विस्तीर्णा चतुःस्तम्भोपशोभिता ।तदग्रतोऽपरा सीमा कार्या भागान्षडायता ॥४१॥तिर्यक्स्था भागविस्तीर्णा प्रवेशद्वयशोभिता ।एष शालागृहः स्तम्भैर्द्वाविंशत्या समावृतः ॥४२॥प्राग्रीववेदिकाजालपक्षसोपानकैः शुभैः ।शालाख्यः ।पञ्चभागोन्मितव्यासे क्षेत्रभागाष्टकायते ॥४३॥पीठं कुर्यादुभयतः ससोपानं शिलाचितम् ।मध्यादपरभागेऽस्य देवागारं निवेशयेत् ॥४४॥विभागायामविस्तारं चतुरश्रं सुसंहितम् ।पादोनभागविस्तारमध्यर्धं भागमुच्छ्रितम् ॥४५॥तस्य कार्यं मुखं मध्ये पार्श्वतश्चयशोभितम् ।सचया निर्गता सीमा द्वौ भागौ त्रींस्तथायथा ॥४६॥चतुरश्रा चतुःस्तम्भा तदग्रे भागविस्तृता ।पञ्चभागायता तिर्यक्कार्या सीमा तथापरा ॥४७॥द्वात्रिंशदत्र कर्तव्याः स्तम्भाः सर्वैक्यसङ्ख्यया ।बहिःपरिसरो गर्भात्ससीम्नो भागविस्तृतः ॥४८॥एवं स्याद्वेदिकाजालरूपादिभिरलङ्कृतः ।बहिर्वयोच्छ्रितश्चैष प्रासादो गजयूथपः ॥४९॥गजयूथपः ।षड्भागभाजिते क्षेत्रे चतुरश्रे समन्ततः ।गर्भो द्विभागिकः कार्यो द्वारं भागसमुच्छ्रितम् ॥५०॥ N/A References : N/A Last Updated : November 26, 2017 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP