संस्कृत सूची|शास्त्रः|वास्तुशास्त्रः|समराङ्गणसूत्रधार| ५१ ते १०० समराङ्गणसूत्रधार ८३ अध्यायांची नांवे महासमागमनो नाम प्रथमोऽध्यायः पुत्रसंवादो नाम द्वितीयोऽध्यायः प्रश्नो नाम तृतीयोऽध्यायः महदादिसर्गश्चतुर्थोऽध्यायः १ ते ५० ५१ ते १०५ सहदेवाधिकारो नाम षष्ठोऽध्यायः वर्णाश्रमप्रविभागो नाम सप्तमोऽध्यायः भूमिपरीक्षा नामाष्टमोऽध्यायः हस्तलक्षणं नाम नवमोऽध्यायः १ ते ५० ५१ ते १०० १०१ ते १४८ वास्तुत्रयविभागो नामैकादशोऽध्यायः नाड्यादिसिरादिविकल्पो नाम द्वादशोऽध्यायः मर्मवेधस्त्रयोदशोऽध्यायः पुरुषाङ्गदेवतानिघण्ट्वादिनिर्णयश्चतुर्दशोऽध्यायः राजनिवेशो नाम पञ्चदशोऽध्यायः वनप्रवेशो नाम षोडशोऽध्यायः १ ते ५० ५१ ते १०० १०१ ते १५० १५१ ते २१२ नगरादिसंज्ञा नामाष्टादशोऽध्यायः १ ते ५० ५१ ते १०० १०१ ते १५० १५१ ते २०० २०१ ते २२४ निम्नोच्चादिफलानि नाम विंशोऽध्यायः द्वासप्ततित्रिशाललक्षणं नामैकविंशोऽध्यायः द्विशालगृहलक्षणं नाम द्वाविंशोध्यायः एकशालालक्षणफलादि नाम त्रयोविंशोऽध्यायः द्वारपीठभित्तिमानादिकं नाम चतुर्विंशोऽध्यायः १ ते ५० ५१ ते १०० १०१ ते १५० १५१ ते १६४ १ ते ५० ५१ ते ८० सभाष्टकं नाम सप्तविंशोऽध्यायः गृहद्र व्यप्रमाणानि नामाष्टाविंशोऽध्यायः शयनासनलक्षणं नाम एकोनत्रिंशोऽध्यायः १ ते ५० ५१ ते १०० १०१ ते १४० १ ते ५० ५१ ते १०० १०१ ते १५० १५१ ते २०० २०१ ते २२३ गजशाला नाम द्वात्रिंशोऽध्यायः १ ते ५० ५१ ते ७९ अथाप्रयोज्यप्रयोज्यं नाम चतुस्त्रिंशोऽध्यायः शिलान्यासविधिर्नाम पञ्चत्रिंशोऽध्यायः बलिदानविधिर्नाम षट्त्रिंशोऽध्यायः १ ते ५० ५१ ते ८१ वास्तुसंस्थानमातृका नामाष्टात्रिंशोऽध्यायः द्वारगुणदोषो नामैकोनचत्वारिंशोऽध्यायः पीठमानं नाम चत्वारिंशोऽध्यायः चयविधिर्नामैकचत्वारिंशोऽध्यायः शान्तिकर्मविधिर्नाम द्विचत्वारिंशोऽध्यायः द्वारभङ्गफलं नाम त्रिचत्वारिंशोऽध्यायः स्थपतिलक्षणं नाम चतुश्चत्वारिंशोऽध्यायः अष्टङ्गलक्षणं नाम पञ्चचत्वारिंशोऽध्यायः तोरणभङ्गादिशान्तिको नाम षट्चत्वारिंशोऽध्यायः वेदीलक्षणं नाम सप्तचत्वारिंशोऽध्यायः १ ते ५० ५१ ते १०० १०१ ते १४० १ ते ५० ५१ ते १०० १०१ ते १५० १५१ ते २०३ प्रासादशुभाशुभलक्षणं नाम पञ्चाशोऽध्यायः अथायतननिवेशो नामैकपञ्चाशोऽध्यायः प्रासादजातिर्नाम द्विपञ्चाशोऽध्यायः जघन्यवास्तुद्वारं नाम त्रिपञ्चाशोऽध्यायः १ ते ५० ५१ ते १०० १०१ ते १२३ १ ते ५० ५१ ते १०० १०१ ते १६० १ ते ५० ५१ ते १०० १०१ ते १५० १५१ ते २०० २०१ ते २५० २५१ ते ३१२ १ ते ५० ५१ ते १०० १०१ ते १५० १५१ ते २१० मेर्वादिविंशिका नाम सप्तपञ्चाशोऽध्यायः प्रासादस्तवनं नाम अष्टपञ्चाशोऽध्यायः १ ते ५० ५१ ते १०० १०१ ते १५० १५१ ते २०० २०१ ते २४५ १ ते ५० ५१ ते ९९ पीठपञ्चकलक्षणं नामैकषष्टितमोऽध्यायः १ ते ५० ५१ ते १०० १०१ ते १५० १५१ ते २२० १ ते ५० ५१ ते ११७ १ ते ५० ५१ ते १२० १ ते ५० ५१ ते १०० १०१ ते १५० १५१ ते २०१ मण्डपलक्षणं नाम षट्षष्टितमोऽध्यायः १ ते ५० ५१ ते ११४ जगत्यङ्गसमुदायाधिकारो नामाष्टषष्टितमोऽध्यायः १ ते ५० ५१ ते १०० १०१ ते १५० १५१ ते २२० १ ते ५० ५१ ते १०० १०१ ते १५७ चित्रोद्देशो नामैकसप्ततितमोऽध्यायः भूमिबन्धो नाम द्विसप्ततितमोऽध्यायः लेप्यकर्मादिकं नाम त्रिसप्ततितमोऽध्यायः अथाण्डकप्रमाणं नाम चतुःसप्ततितमोऽध्यायः मानोत्पत्तिर्नाम पञ्चसप्ततितमोऽध्यायः प्रतिमालक्षणं नाम षट्सप्ततितमोऽध्यायः देवादिरूपप्रहरणसंयोगलक्षणं नाम सप्तसप्ततितमोऽध्यायः दोषगुणनिरूपणं नामाष्टसप्ततितमोऽध्यायः १ ते ५० ५१ ते १०० १५१ ते १७० वैष्णवादिस्थानकलक्षणं नामाशीतितमोऽध्यायः पञ्चपुरुषस्त्रीलक्षणं नामैकाशीतितमोऽध्यायः रसदृष्टिलक्षणं नाम द्व्यशीतितमोऽध्यायः १ ते ५० ५१ ते १०० १०१ ते १५० १५१ ते २०० २०१ ते २५४ भूमिजप्रासादलक्षणं नाम पञ्चषष्टितमोऽध्यायः - ५१ ते १०० समराङ्गणसूत्रधार भारतीय वास्तुशास्त्र से सम्बन्धित ज्ञानकोशीय ग्रन्थ है जिसकी रचना धार के परमार राजा भोज (1000–1055 ई) ने की थी। Tags : bhojsamarangansanskritvastu shastraभोजवास्तुशास्त्रसंस्कृतसमराङ्गणसूत्रधार भूमिजप्रासादलक्षणं नाम पञ्चषष्टितमोऽध्यायः - ५१ ते १०० Translation - भाषांतर द्वौ बालपञ्जरकस्यैतौ मध्ये प्रतिरथस्य च ।प्रतीरथः पञ्जो वा बालपञ्जरकस्तथा ॥५१॥शालापल्लविकां यावदेतानि तु पृथक्पृथक् ।भागार्धनिर्गमानि स्युर्भागा येऽष्टादशोदिताः ॥५२॥विभाजयेत्तान् दशभिर्विभागैर्वास्तुतत्त्ववित् ।गर्भो भित्तिः समुच्छ्रायो वेदिकाजङ्घयोरपि ॥५३॥आद्यभूम्युच्छ्रितिस्तद्वदुच्छ्रायः शिखरस्य च ।प्रासादेऽस्मिन्निदं सर्वं पूर्ववत् कथितं बुधैः ॥५४॥तत्पञ्चत्रिंशता भागैः पादोनैः शिखरं भवेत् ।द्वितीया भूमिका कार्या ततः पञ्चपदोच्छ्रिता ॥५५॥पदपादविहीनास्तु शेषाः स्युः सप्त भूमयः ।पादोनभागद्वितयं वेदिकायाः समुच्छ्रितिः ॥५६॥स्कन्धस्य विस्तृती रेखा घण्टाथ कलशस्तथा ।शालायां शूरसेनाश्च स्तम्भकूटादिकल्पना ॥५७॥शुकनासोच्छ्रितिर्भूमिप्रवेशश्चेह पूर्ववत् ।य इमं कारयेद्भक्त्या प्रासादं नवमालिकम् ॥५८॥तुष्यन्ति देवतास्तस्य भवन्ति च समृद्धयः ।नवमालिकः ।इदानीमभिधीयन्ते प्रासादा वृक्षजातयः ॥५९॥वल्लभाः सर्वदेवानां भूमिजाः पुरभूषणम् ।आश्रयः श्रेयसामेको यशसामपि राशयः ॥६०॥भुक्तिमुक्तिप्रदातारः समागते कृता नृणाम् ।तत्राद्यः कुमुदो नाम कमलः कमलोद्भवः ॥६१॥किरणः शतशृङ्गश्च निरवद्यस्तथापरः ।सर्वाङ्गसुन्दरश्चेति प्रासादा वृक्षजातयः ॥६२॥न विस्तरान्न संक्षेपाल्लक्ष्मैषामथ कीर्त्यते ।तत्राद्यः कुमुदो नाम सर्वानन्दकृदुच्यते ॥६३॥चतुरश्रीकृते क्षेत्रे विस्तारायामतः समे ।विभक्ते दशभिर्भागैर्भवेद्गर्भस्त्रिषट्पदः ॥६४॥तत्र शेषेण कुर्वीत --- चतुष्टयम् ।--- ततः कर्णसूत्रेण तत्र वृत्तं समालिखेत् ॥६५॥दिग्विदिक्ष्वष्ट कर्णाः स्युः सलिलान्तरभूषिताः ।समन्त भूमिपर्यन्तं दशभिः स्यादयं पदैः ॥६६॥वेदीबन्धो विधातव्यः सार्धांशस्य पदद्वयम् ।--- सार्धचतुर्भिर्विभजेत्पदैः ॥६७॥कुम्भकं द्वि --- ।भागार्धेनान्तरं पत्रं कपोताली च भागिका ॥६८॥वेदीबन्धोऽयमित्युक्तो जङ्घोत्सेध --- ।स्यादर्धपञ्चमैर्भागैः सोच्छालस्तलकुम्भकः ॥६९॥आद्यभूमौ भवेत्कूटं भागत्रितयलक्षितम् ।प्रासादे पञ्चदशभिर्विभजेत समुच्छ्रयम् ॥७०॥द्वितीया भूमिका तत्र कार्या पञ्चांशकोच्छ्रिताः ।अर्धेनोच्छालकस्तम्भैः कूटोच्छ्रायस्तथोर्ध्वतः ॥७१॥पादोनैः पञ्चभिर्भूमिं तृतीयां परिकल्पयेत् ।चतुर्थीं रचयेद्भागैर्भूमिकामर्धपञ्चमैः ॥७२॥द्वितीयभूमिकावत्स्यात्कूटस्तम्भादिकल्पना ।वेदिकाभागोच्छ्रिता कार्या षट्पदा स्कन्धविस्तृतिः ॥७३॥षड्गुणेन च सूत्रेण वेणुकोशं समालिखेत् ।प्रासादपञ्चमांशेन कार्या घण्टासमुच्छ्रितिः ॥७४॥घण्टोत्सेधं ततस्तस्य त्रिभिर्भागैर्विभाजयेत् ।कण्ठग्रीवाण्डकान्यस्य भागेन नैकेन कारयेत् ॥७५॥षड्भागभक्तघण्टायाः समन्ताद्भागविच्युतेः ।भागैश्चतुर्भिः कर्तव्ये घण्टे कण्ठस्य विस्तरम् ॥७६॥घण्टोत्सेधार्धतः कुर्याद्घण्टार्धे पद्मशीर्षकम् ।घण्टोत्सेधसमा कुम्भे बीजपूरवितो समुच्छ्रितिः ॥७७॥चतुरश्रांजितोच्छ्रायो विस्तारः कलशः स्मृताः ।य इमं कारयेत्प्रीत्या प्रासादं कुमुदाभिधम् ॥७८॥स मोदते जगद्भर्तुः शिवस्य भवने शुभे ।कुमुदप्रासादः ।अथातः सम्प्रवक्ष्यामः प्रासादं कमलाभिधम् ॥७९॥चतुरश्रीकृते क्षेत्रे दशभागविभाजिते ।ततः कर्णार्धसूत्रेण वृत्तं तत्र समालिखेत् ॥८०॥विस्तीर्णं पञ्चभिर्भागैः कुर्याद्भद्र चतुष्टयम् ।सुरेन्द्र समतायसकुबेराशास्वनुक्रमात् ॥८१॥भवेत्पल्लविकायास्तु विस्तारो भागपादिकः ।भागेन कार्या भद्रा णां निर्गमा वृत्तबाह्यतः ॥८२॥शालायाः प्रतिभद्रं स्यात्कर्णिकाधेन निर्गतापादोनभागत्रितयात्कार्या वृत्तस्य विस्तृतिः ॥८३॥द्विभागविस्तरायामौ रशुकं द्वयमतोध्यगौ ।परिवर्तनया कार्यौ द्वौ कोणौ सोदकान्तरौ ॥८४॥पूर्वप्रासादवद्गर्भो विधेयो भित्तयोऽपि च ।वेदीबन्धादिकुम्भान्तं सर्वमेतस्य पूर्ववत् ॥८५॥द्वितीयभूमिपर्यन्तमूर्ध्वं प्रथमभूमितः ।शूरसेनं विधातव्यं शालासु श्लिष्टमुत्तमम् ॥८६॥कूटस्तम्भादिकन्यासाः कोणप्रतिरथादिषु ।शाला स्याम्रागरास्तले पञ्चांशा द्व्यंशकोपरि ॥८७॥शिखरस्य त्रिभागोना शुकाघ्रायाः समुच्छ्रितिः ।य एनं कमलं नाम प्रासादं कारयेन्नृपः ॥८८॥त्रैलोक्ये कमलाधीशविजये स भवेन्नृपः ।कमलप्रासादः ।अथातः कथ्यते सम्यक्प्रासादः कमलोद्भवः ॥८९॥सदा लक्ष्मीपतिर्यत्र देवो विश्राम्यति स्वयम् ।चतुरश्रीकृते क्षेत्रे चतुर्दशभिरंशिते ॥९०॥---स्तारो भद्रं पञ्चपदं भवेत्द्विभागायामविस्तारौ कार्याः प्रतिरथास्तथा ॥९१॥कोण --- ।कार्या पल्लविकायाश्च निर्गमो वृत्तमध्यतः ॥९२॥शालाविभक्तिश्चैतस्य कर्त --- ।--- न्तरेषु स्याज्जलान्तरम् ॥९३॥द्व्यङ्गुलं त्र्यङ्गुलं वापि तद्विधेयं विपश्चिता ।भागा --- ल्पयेत् ॥९४॥प्रासादस्यास्य --- भाजयेद्दशभिः पदैः ।गर्भश्च पूर्ववत्कार्यः पूर्ववद्भित्तयोऽपि च ॥९५॥प्राग्वत्खुरवरण्डी स्याज्जङ्घाकूटाद्यभूमिका ।शिखरस्योच्छ्रितिः प्राग्वत्तां सार्धैकानुविंशतिम् ॥९६॥भागान्कुर्यात्ततः कार्या भूर्द्वितीयांशपञ्चकम् ।कार्यास्तिस्रो भुवः शेषाः पादपादपरिच्युताः ॥९७॥भागं वेदी भूप्रवेशः कार्यो रेखावशादितः ।पूर्ववच्चार्थ विस्तारः स्याद्घण्टाकलशादि वा ॥९८॥कूटस्तम्भादिकं प्राग्वच्छुकनासोच्छ्रयोऽपि च ।य इमं कारयेत्कान्तं प्रासादं कमलोद्भवम् ॥९९॥स समस्तजगन्नाथः प्रतिजन्म प्रजायते ।कमलोद्भवप्रासादः ।लक्षणं किरणस्याथ ब्रूमः सम्यक्क्रमागतम् ॥१००॥ N/A References : N/A Last Updated : November 26, 2017 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP