संस्कृत सूची|शास्त्रः|वास्तुशास्त्रः|समराङ्गणसूत्रधार| प्रतिमालक्षणं नाम षट्सप्ततितमोऽध्यायः समराङ्गणसूत्रधार ८३ अध्यायांची नांवे महासमागमनो नाम प्रथमोऽध्यायः पुत्रसंवादो नाम द्वितीयोऽध्यायः प्रश्नो नाम तृतीयोऽध्यायः महदादिसर्गश्चतुर्थोऽध्यायः १ ते ५० ५१ ते १०५ सहदेवाधिकारो नाम षष्ठोऽध्यायः वर्णाश्रमप्रविभागो नाम सप्तमोऽध्यायः भूमिपरीक्षा नामाष्टमोऽध्यायः हस्तलक्षणं नाम नवमोऽध्यायः १ ते ५० ५१ ते १०० १०१ ते १४८ वास्तुत्रयविभागो नामैकादशोऽध्यायः नाड्यादिसिरादिविकल्पो नाम द्वादशोऽध्यायः मर्मवेधस्त्रयोदशोऽध्यायः पुरुषाङ्गदेवतानिघण्ट्वादिनिर्णयश्चतुर्दशोऽध्यायः राजनिवेशो नाम पञ्चदशोऽध्यायः वनप्रवेशो नाम षोडशोऽध्यायः १ ते ५० ५१ ते १०० १०१ ते १५० १५१ ते २१२ नगरादिसंज्ञा नामाष्टादशोऽध्यायः १ ते ५० ५१ ते १०० १०१ ते १५० १५१ ते २०० २०१ ते २२४ निम्नोच्चादिफलानि नाम विंशोऽध्यायः द्वासप्ततित्रिशाललक्षणं नामैकविंशोऽध्यायः द्विशालगृहलक्षणं नाम द्वाविंशोध्यायः एकशालालक्षणफलादि नाम त्रयोविंशोऽध्यायः द्वारपीठभित्तिमानादिकं नाम चतुर्विंशोऽध्यायः १ ते ५० ५१ ते १०० १०१ ते १५० १५१ ते १६४ १ ते ५० ५१ ते ८० सभाष्टकं नाम सप्तविंशोऽध्यायः गृहद्र व्यप्रमाणानि नामाष्टाविंशोऽध्यायः शयनासनलक्षणं नाम एकोनत्रिंशोऽध्यायः १ ते ५० ५१ ते १०० १०१ ते १४० १ ते ५० ५१ ते १०० १०१ ते १५० १५१ ते २०० २०१ ते २२३ गजशाला नाम द्वात्रिंशोऽध्यायः १ ते ५० ५१ ते ७९ अथाप्रयोज्यप्रयोज्यं नाम चतुस्त्रिंशोऽध्यायः शिलान्यासविधिर्नाम पञ्चत्रिंशोऽध्यायः बलिदानविधिर्नाम षट्त्रिंशोऽध्यायः १ ते ५० ५१ ते ८१ वास्तुसंस्थानमातृका नामाष्टात्रिंशोऽध्यायः द्वारगुणदोषो नामैकोनचत्वारिंशोऽध्यायः पीठमानं नाम चत्वारिंशोऽध्यायः चयविधिर्नामैकचत्वारिंशोऽध्यायः शान्तिकर्मविधिर्नाम द्विचत्वारिंशोऽध्यायः द्वारभङ्गफलं नाम त्रिचत्वारिंशोऽध्यायः स्थपतिलक्षणं नाम चतुश्चत्वारिंशोऽध्यायः अष्टङ्गलक्षणं नाम पञ्चचत्वारिंशोऽध्यायः तोरणभङ्गादिशान्तिको नाम षट्चत्वारिंशोऽध्यायः वेदीलक्षणं नाम सप्तचत्वारिंशोऽध्यायः १ ते ५० ५१ ते १०० १०१ ते १४० १ ते ५० ५१ ते १०० १०१ ते १५० १५१ ते २०३ प्रासादशुभाशुभलक्षणं नाम पञ्चाशोऽध्यायः अथायतननिवेशो नामैकपञ्चाशोऽध्यायः प्रासादजातिर्नाम द्विपञ्चाशोऽध्यायः जघन्यवास्तुद्वारं नाम त्रिपञ्चाशोऽध्यायः १ ते ५० ५१ ते १०० १०१ ते १२३ १ ते ५० ५१ ते १०० १०१ ते १६० १ ते ५० ५१ ते १०० १०१ ते १५० १५१ ते २०० २०१ ते २५० २५१ ते ३१२ १ ते ५० ५१ ते १०० १०१ ते १५० १५१ ते २१० मेर्वादिविंशिका नाम सप्तपञ्चाशोऽध्यायः प्रासादस्तवनं नाम अष्टपञ्चाशोऽध्यायः १ ते ५० ५१ ते १०० १०१ ते १५० १५१ ते २०० २०१ ते २४५ १ ते ५० ५१ ते ९९ पीठपञ्चकलक्षणं नामैकषष्टितमोऽध्यायः १ ते ५० ५१ ते १०० १०१ ते १५० १५१ ते २२० १ ते ५० ५१ ते ११७ १ ते ५० ५१ ते १२० १ ते ५० ५१ ते १०० १०१ ते १५० १५१ ते २०१ मण्डपलक्षणं नाम षट्षष्टितमोऽध्यायः १ ते ५० ५१ ते ११४ जगत्यङ्गसमुदायाधिकारो नामाष्टषष्टितमोऽध्यायः १ ते ५० ५१ ते १०० १०१ ते १५० १५१ ते २२० १ ते ५० ५१ ते १०० १०१ ते १५७ चित्रोद्देशो नामैकसप्ततितमोऽध्यायः भूमिबन्धो नाम द्विसप्ततितमोऽध्यायः लेप्यकर्मादिकं नाम त्रिसप्ततितमोऽध्यायः अथाण्डकप्रमाणं नाम चतुःसप्ततितमोऽध्यायः मानोत्पत्तिर्नाम पञ्चसप्ततितमोऽध्यायः प्रतिमालक्षणं नाम षट्सप्ततितमोऽध्यायः देवादिरूपप्रहरणसंयोगलक्षणं नाम सप्तसप्ततितमोऽध्यायः दोषगुणनिरूपणं नामाष्टसप्ततितमोऽध्यायः १ ते ५० ५१ ते १०० १५१ ते १७० वैष्णवादिस्थानकलक्षणं नामाशीतितमोऽध्यायः पञ्चपुरुषस्त्रीलक्षणं नामैकाशीतितमोऽध्यायः रसदृष्टिलक्षणं नाम द्व्यशीतितमोऽध्यायः १ ते ५० ५१ ते १०० १०१ ते १५० १५१ ते २०० २०१ ते २५४ प्रतिमालक्षणं नाम षट्सप्ततितमोऽध्यायः समराङ्गणसूत्रधार भारतीय वास्तुशास्त्र से सम्बन्धित ज्ञानकोशीय ग्रन्थ है जिसकी रचना धार के परमार राजा भोज (1000–1055 ई) ने की थी। Tags : bhojsamarangansanskritvastu shastraभोजवास्तुशास्त्रसंस्कृतसमराङ्गणसूत्रधार प्रतिमालक्षणं नाम षट्सप्ततितमोऽध्यायः Translation - भाषांतर प्रतिमानामथ ब्रूमो लक्षणं द्र व्यमेव च ।सुवर्णरूप्यताम्राः स्युर्दारुलेखानि शक्तितः ॥१॥चित्रं चेति विनिर्दिष्टं द्र व्यमर्चासु सप्तधा ।सुवर्णं पुष्टिकृद्विद्याद्र जतं कीर्तिवर्धनम् ॥२॥प्रजाविवृद्धिजं ताम्रं शैलेयं भूजयावहम् ।आयुष्यं दावरवं द्र व्यं लेख्यचित्रे धनावहे ॥३॥प्रारभेद् विधिना प्राज्ञो ब्रह्मचारी जितेन्द्रि यः ।हविष्यनियताहारो जपहोमपरायणः ॥४॥शयानो धरणीपृष्ठे कुशास्तरणे तदन्तरम् ।अप्राप्ताया द्वयोर्मध्यं भवेत्पञ्चाक्षिसम्मितम् ॥५॥नेत्रश्रवणयोर्मध्यं भवेदङ्गुलपञ्चकम् ।कर्णौ चाक्षिसमौ ज्ञेयावुत्सेधाद्द्विगुणायतौ ॥६॥साकर्णपाली स्यान्मध्यं पत्पिष्यल्यकृकूटयोः ।द्विभागोलकायता पिष्पल्याश्रिताङ्गुलविस्तृता ॥७॥अरोमप्रभवा ज्ञेया व्याकृष्टधनुराकृतिः ।एवम्प्रमाणं स्यादेषां कर्णपृष्ठाश्रयोऽपि च ॥८॥ऊर्ध्वबन्धादधोबन्धः कर्णमूलसमाश्रितः ।अध्यर्धं गोलकं ज्ञेयः पृष्ठतश्चैवमेव सः ॥९॥निष्पावसदृशाकारा कर्तव्या कर्णपिप्पली ।आयामेनाङ्गुलं सा स्याद्विस्तारेण चतुर्यवा ॥१०॥पिप्पल्याधातयोर्मध्ये लकार इति संज्ञितः ।स्यादध्यर्धाङ्गुलायामो विस्तारेण च सोऽङ्गुलम् ॥११॥मध्ये लकारो निम्नः स्यान्मानाद्यवचतुष्टयम् ।मूले पिप्पलिकायाः स्याच्छ्रोत्रच्छिद्रं चतुर्यवम् ॥१२॥या गोलकारपीगूष्मो स्तूतिकेति प्रकीर्तिता ।अर्धाङ्गुलायता सा स्याद्यवद्वितयविस्तृता ॥१३॥लकारावर्तयोर्मध्ये पीयुषी सा प्रकीर्तिता ।अङ्गुलद्वितयायामा विस्तृता साधमङ्गुलम् ॥१४॥कर्णस्य बाह्या रेखा या तामावर्तं प्रचक्षते ।षडङ्गुलप्रमाणः स्याद्वक्रो वृत्तायतश्च सः ॥१५॥मूलांशोऽर्धाङ्गुलः कार्यः क्रमान्मध्ये यवद्वयम् ।अग्रे यवप्रमाणश्च विस्तारेण विधीयते ॥१६॥लकारावर्तयोर्मध्यमुद्धात इति कीर्तितम् ।अधोभागे --- पीयूष्या विस्तारेण यवत्रयम् ॥१७॥ऊर्ध्वतः कर्णविस्तारो गोलकाद् द्वियवान्वितः ।मध्ये च द्विगुणं नालं मूले मात्रा सषड्यवा ॥१८॥समुदायप्रमाणे णोलकद्वितयायतः ।कर्णप्रसप्तः कर्तव्यो निम्नोच्चूमतविभागवान् ॥१९॥अङ्गुलं पश्चिमं नालं पूर्वमर्धाङ्गुलं भवेत् ।कुर्वीत कोमले नाले कला द्वितयमायते ॥२०॥श्रवणस्य विभागोऽयं पर्वायथावत् परिकीर्तितः ।अन्यूनाधिकमानः स्यात्प्रशस्तो दूषितोऽन्यथा ॥२१॥चिबुकं द्व्यङ्गुलायामं तस्यार्धमधरं विदुः ।तदर्धमुत्तरोष्ठः स्याद्भाजी चार्धाङ्गुलोच्छ्रया ॥२२॥नासापुटौ तु विज्ञेयौ चतुर्थं भागमोष्ठयोः ।तयोः प्रान्तौ तु कर्तव्यौ करवीरसमौ शुभौ ॥२३॥तारकान्तःसमे चैव सृक्वणी परिचक्षते ।नासिका स्यात्प्रमाणेन चतुरङ्गुलमायता ॥२४॥पुटप्रान्ते च विस्तारो नासाग्रस्याङ्गुलद्वयम् ।विस्तारेणाङ्गुलान्यष्टौ तदर्थमपि चायतम् ॥२५॥प्रमाणगुणसंयुक्तं ललाटं परिकीर्तितम् ।आरभ्य चिबूकाद्यावत् केशान्तं पश्चिमात्तथा ॥२६॥गणिकन्तं शिरसो मानं भवेद्द्वात्रिंशदङ्गुलम् ।--- कर्णयोर्मध्ये मष्टकोऽष्टादशाङ्गुलः ॥२७॥--- ग्रीवयोः परीणाहो विंशतिश्चतुरन्विता ।ग्रीवातः स्यादुरोभाग उरसो नाभिरेव च ॥२८॥नामेन्द्रं भवेद्भागौ द्वावुभयमेव च ।ऊर्वोः समे मते जङ्घे जानुनी चतुरङ्गुले ॥२९॥चतुर्दशाङ्गुलौ पादौ स्मृतावायाममानतः ।षडङ्गुलौ तु विस्तारादुत्सेधाच्चतुरङ्गुलौ ॥३०॥पञ्चाङ्गुलपरीणाह अङ्गुलौ त्र्यङ्गुलायतः ।अङ्गुष्ठकसमा चैव स्यादायामात्प्रदेशिनी ॥३१॥तस्याः षोडशभागेन हीना स्यान्मध्यमाङ्गुलिः ।अष्टभागेन मध्याया हीनां विद्यादनामिकाम् ॥३२॥तस्याश्चैवाष्टभागेन हीना ज्ञेया कनिष्ठिका ।पादोनमङ्गुलं कुर्यादङ्गुष्ठस्य नखं बुधः ॥३३॥अङ्गुलीनां नखान् कुर्यात् खं पञ्चत्र्यंशसंमितान् ।कुर्वीताङ्गुलकोत्सेधं त्रिभ्यन्वित्तमङ्गुलाम् ॥३४॥प्रदेशिन्यङ्गुलोत्सेधा हीना शेषा यथाक्रमम् ।जङ्घामध्ये परीणाहो भवेदष्टादशाङ्गुलः ॥३५॥जानुमध्ये परीणाहस्त्वङ्गुलान्येकविंशतिः ।तस्यैव सप्तमं भागं विद्याज्जानुकपालकम् ॥३६॥ऊरुमध्ये परीणाहो भवेद्द्वात्रिंशदङ्गुलः ।भागार्धमाशै वृषणौ मेढ्रं वृषणसंस्थितम् ॥३७॥षडङ्गुलपरीणाहं कोशस्तु चतुरङ्गुलः ।अष्टादशाङ्गुलमिता विस्तारेण कटिर्भवेत् ॥३८॥अङ्गुलार्धं भवेन्नारीरोधोवश्वाङ्गुलं भवेत् ।नाभिमध्ये परीणाहः षट्चत्वारिंशदङ्गुलः ॥३९॥द्वादशाङ्गुलमात्रं तु स्तनयोरन्तरं विदुः ।स्तनयोरुपरिष्टात्तु कक्षप्रान्तौ षडङ्गुलौ ॥४०॥उत्सेधात्पृष्ठविस्तारो विंशतिश्चतुरन्विता ।उरसः सह पृष्ठेन परीणाहः प्रकीर्तितः ॥४१॥षडङ्गात्परीमाणादङ्गुलानीति निश्चयः ।परीणाहाच्चतुर्विंशत्यङ्गुलाष्टौ च विस्तृता ॥४२॥ग्रीवा कार्या भुजायामः षट्चत्वारिंशदङ्गुलः ।पर्वोपरितनं बाहोः कार्यमष्टादशाङ्गुलम् ॥४३॥षोडशाङ्गुलमात्रं तु द्वितीयं पर्व कथ्यते ।बाहुमध्ये परीणाहो भवेदष्टादशाङ्गुलः ॥४४॥प्रवाहोस्तु परीणाहो भवति द्वादशाङ्गुलः ।आयामेन तलत्वापि कीर्तितो द्वादशाङ्गुलः ॥४५॥अङ्गुलीरहितः प्राज्ञैः सप्ताङ्गुल उदाहृतः ।पञ्चाङ्गुलानि विस्तीर्णो लेखालक्षणलक्षितः ॥४६॥पञ्चाङ्गुलानि मानेन कर्तव्या मध्यमाङ्गुलिः ।पर्वणोऽर्धं तु मध्याया हीनां विद्यात्प्रदेशिनीम् ॥४७॥प्रदेशिनीसमा चैव स्यादायामादनामिका ।पर्वार्धमानहीना च प्रमाणेन कनिष्ठिका ॥४८॥अङ्गुलीनां नखाः कार्याः सर्वे पर्वार्धसंमिताः ।आयाममात्रमेतासां परीणाहं प्रचक्षते ॥४९॥अङ्गुष्ठकस्य दैर्घ्यं स्यादङ्गुलानां चतुष्टयम् ।पञ्चाङ्गुलं परीणाहं स्पष्टचारुयवाङ्कितं ॥५०॥तुङ्गास्थमानपर्यन्तात् किञ्चिद्धीना नखा मताः ।अङ्गुष्ठकप्रदेशिन्योरन्तरं द्व्यङ्गुलं भवेत् ॥५१॥स्त्रीणामप्येवमेतत्स्यात्स्तनोरुजघनाधिकम् ।त्रीणि चत्वारि चत्वारि त्रीणि चत्वार्यथापि च ॥५२॥एकादशैकाडश वा दशधा विंशतिस्त्रयम् ।विंशतिस्त्रीणि च स्त्रीणां मानमेतत् प्रकीर्तितम् ॥५३॥कनिष्ठं मानमेतत्स्यान्मध्यं सत्र्यंशमष्टकम् ।पलानाष्टमकं सार्धमुत्तमं परिकीर्तितम् ॥५४॥उरसश्च भवेत्तासां विस्तारोऽष्टादशाङ्गुलः ।कर्तव्यः कटिविस्तारो विंशति चतुरुताः ।एतत्प्रमाणमुद्दिष्टं प्रतिमानां समासतः ॥५५॥प्रमाणमेतत् सकलाशराणामर्धास्तु निर्दिष्टमनुक्रमेण ।कार्यं सदा शिल्पिभिरंशुमतैर्यथोचितद्र व्यसमुद्भवासु ॥५६॥इति महाराजाधिराजश्रीभोजदेवविरचिते समराङ्गणसूत्रधारनाम्नि वास्तुशास्त्रे प्रतिमालक्षणं नाम षट्सप्ततितमोऽध्यायः । N/A References : N/A Last Updated : November 26, 2017 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP