संस्कृत सूची|शास्त्रः|वास्तुशास्त्रः|समराङ्गणसूत्रधार| ५१ ते १०५ समराङ्गणसूत्रधार ८३ अध्यायांची नांवे महासमागमनो नाम प्रथमोऽध्यायः पुत्रसंवादो नाम द्वितीयोऽध्यायः प्रश्नो नाम तृतीयोऽध्यायः महदादिसर्गश्चतुर्थोऽध्यायः १ ते ५० ५१ ते १०५ सहदेवाधिकारो नाम षष्ठोऽध्यायः वर्णाश्रमप्रविभागो नाम सप्तमोऽध्यायः भूमिपरीक्षा नामाष्टमोऽध्यायः हस्तलक्षणं नाम नवमोऽध्यायः १ ते ५० ५१ ते १०० १०१ ते १४८ वास्तुत्रयविभागो नामैकादशोऽध्यायः नाड्यादिसिरादिविकल्पो नाम द्वादशोऽध्यायः मर्मवेधस्त्रयोदशोऽध्यायः पुरुषाङ्गदेवतानिघण्ट्वादिनिर्णयश्चतुर्दशोऽध्यायः राजनिवेशो नाम पञ्चदशोऽध्यायः वनप्रवेशो नाम षोडशोऽध्यायः १ ते ५० ५१ ते १०० १०१ ते १५० १५१ ते २१२ नगरादिसंज्ञा नामाष्टादशोऽध्यायः १ ते ५० ५१ ते १०० १०१ ते १५० १५१ ते २०० २०१ ते २२४ निम्नोच्चादिफलानि नाम विंशोऽध्यायः द्वासप्ततित्रिशाललक्षणं नामैकविंशोऽध्यायः द्विशालगृहलक्षणं नाम द्वाविंशोध्यायः एकशालालक्षणफलादि नाम त्रयोविंशोऽध्यायः द्वारपीठभित्तिमानादिकं नाम चतुर्विंशोऽध्यायः १ ते ५० ५१ ते १०० १०१ ते १५० १५१ ते १६४ १ ते ५० ५१ ते ८० सभाष्टकं नाम सप्तविंशोऽध्यायः गृहद्र व्यप्रमाणानि नामाष्टाविंशोऽध्यायः शयनासनलक्षणं नाम एकोनत्रिंशोऽध्यायः १ ते ५० ५१ ते १०० १०१ ते १४० १ ते ५० ५१ ते १०० १०१ ते १५० १५१ ते २०० २०१ ते २२३ गजशाला नाम द्वात्रिंशोऽध्यायः १ ते ५० ५१ ते ७९ अथाप्रयोज्यप्रयोज्यं नाम चतुस्त्रिंशोऽध्यायः शिलान्यासविधिर्नाम पञ्चत्रिंशोऽध्यायः बलिदानविधिर्नाम षट्त्रिंशोऽध्यायः १ ते ५० ५१ ते ८१ वास्तुसंस्थानमातृका नामाष्टात्रिंशोऽध्यायः द्वारगुणदोषो नामैकोनचत्वारिंशोऽध्यायः पीठमानं नाम चत्वारिंशोऽध्यायः चयविधिर्नामैकचत्वारिंशोऽध्यायः शान्तिकर्मविधिर्नाम द्विचत्वारिंशोऽध्यायः द्वारभङ्गफलं नाम त्रिचत्वारिंशोऽध्यायः स्थपतिलक्षणं नाम चतुश्चत्वारिंशोऽध्यायः अष्टङ्गलक्षणं नाम पञ्चचत्वारिंशोऽध्यायः तोरणभङ्गादिशान्तिको नाम षट्चत्वारिंशोऽध्यायः वेदीलक्षणं नाम सप्तचत्वारिंशोऽध्यायः १ ते ५० ५१ ते १०० १०१ ते १४० १ ते ५० ५१ ते १०० १०१ ते १५० १५१ ते २०३ प्रासादशुभाशुभलक्षणं नाम पञ्चाशोऽध्यायः अथायतननिवेशो नामैकपञ्चाशोऽध्यायः प्रासादजातिर्नाम द्विपञ्चाशोऽध्यायः जघन्यवास्तुद्वारं नाम त्रिपञ्चाशोऽध्यायः १ ते ५० ५१ ते १०० १०१ ते १२३ १ ते ५० ५१ ते १०० १०१ ते १६० १ ते ५० ५१ ते १०० १०१ ते १५० १५१ ते २०० २०१ ते २५० २५१ ते ३१२ १ ते ५० ५१ ते १०० १०१ ते १५० १५१ ते २१० मेर्वादिविंशिका नाम सप्तपञ्चाशोऽध्यायः प्रासादस्तवनं नाम अष्टपञ्चाशोऽध्यायः १ ते ५० ५१ ते १०० १०१ ते १५० १५१ ते २०० २०१ ते २४५ १ ते ५० ५१ ते ९९ पीठपञ्चकलक्षणं नामैकषष्टितमोऽध्यायः १ ते ५० ५१ ते १०० १०१ ते १५० १५१ ते २२० १ ते ५० ५१ ते ११७ १ ते ५० ५१ ते १२० १ ते ५० ५१ ते १०० १०१ ते १५० १५१ ते २०१ मण्डपलक्षणं नाम षट्षष्टितमोऽध्यायः १ ते ५० ५१ ते ११४ जगत्यङ्गसमुदायाधिकारो नामाष्टषष्टितमोऽध्यायः १ ते ५० ५१ ते १०० १०१ ते १५० १५१ ते २२० १ ते ५० ५१ ते १०० १०१ ते १५७ चित्रोद्देशो नामैकसप्ततितमोऽध्यायः भूमिबन्धो नाम द्विसप्ततितमोऽध्यायः लेप्यकर्मादिकं नाम त्रिसप्ततितमोऽध्यायः अथाण्डकप्रमाणं नाम चतुःसप्ततितमोऽध्यायः मानोत्पत्तिर्नाम पञ्चसप्ततितमोऽध्यायः प्रतिमालक्षणं नाम षट्सप्ततितमोऽध्यायः देवादिरूपप्रहरणसंयोगलक्षणं नाम सप्तसप्ततितमोऽध्यायः दोषगुणनिरूपणं नामाष्टसप्ततितमोऽध्यायः १ ते ५० ५१ ते १०० १५१ ते १७० वैष्णवादिस्थानकलक्षणं नामाशीतितमोऽध्यायः पञ्चपुरुषस्त्रीलक्षणं नामैकाशीतितमोऽध्यायः रसदृष्टिलक्षणं नाम द्व्यशीतितमोऽध्यायः १ ते ५० ५१ ते १०० १०१ ते १५० १५१ ते २०० २०१ ते २५४ भुवनकोशः पञ्चमोऽध्यायः - ५१ ते १०५ समराङ्गणसूत्रधार हा भारतीय वास्तुशास्त्र सम्बन्धित ज्ञानकोशीय ग्रन्थ आहे, ज्याची रचना धार राज्याचे परमार राजा भोज (1000–1055 इ.स.) यांनी केली होती. Tags : bhojsamarangansanskritvastu shastraभोजवास्तुशास्त्रसंस्कृतसमराङ्गणसूत्रधार भुवनकोशः पञ्चमोऽध्यायः - ५१ ते १०५ Translation - भाषांतर उद्भिज्जाद्भिर्नदीभिश्च तैस्तैस्तुङ्गैश्च पादपैः ।उदञ्चद्वीचिमालेन लावणेनाब्धिना बहिः ॥५१॥प्रक्षितोऽयमुक्तस्ते जम्बूद्वीपो मयालिः ।द्वादशाम्बुनिधावत्र पृथग्भूमिभृतः स्थिताः ॥५२॥त्रयस्त्रयो दिशि दिशि स्फारोर्मिस्थगितोपलाः ।मैनाकश्च बलाहश्च चक्रनामा च दक्षिणे ॥५३॥नारदाख्यो वराहाख्यः सौमकाख्यश्च पश्चिमे ।उदग्भागेऽपि च द्रो णकङ्कचन्द्रा इति त्रयः ॥५४॥धूम्रको दुन्दुभिश्चैव सार्द्र कश्चेति पूर्वतः ।सहस्रं योजनानां ते दीर्घास्तस्यार्धमुच्छ्रिताः ॥५५॥मग्नास्तदर्धमम्भोधौ विस्तृताश्च धराधराः ।जुष्टाः सर्वे सुरैः शृङ्गप्रौढिलीढविहायसः ॥५६॥ज्वलितौषधयः कान्तविचित्रद्रुमवीरुधः ।द्वीपाः शाककुशक्रौञ्चशाल्मल्य इति च क्रमात् ॥५७॥गोमेदः पुष्कराख्यश्च षडमी बाह्यतः स्थिताः ।क्षीराज्यदधिमद्येक्षुरसस्वाद्वम्भसोऽर्णवाः ॥५८॥द्वीपान् शाकादिकानेते परिवार्य स्थिताः क्रमात् ।स्वद्वीपतुल्याः सर्वे ते प्रमाणेन यथाक्रमम् ॥५९॥अमी शाकादयो द्वीपा जम्बूद्वीपप्रमाणतः ।यथाक्रमं स्युर्द्विगुणास्तथाम्भोनिधयोऽपिच ॥६०॥शाके सप्ताद्र यस्तेषूदयो जलधरस्तथा ।नारको रैवतः श्यामो राजतोऽथाम्बिकेयकः ॥६१॥चतुःसाहस्त्रिकस्तेषां विष्कम्भोऽर्धं समुच्छ्रयः ।तदर्धं भूप्रदेशश्च सेवितानां सुरर्षिभिः ॥६२॥वृत्तानां द्वीपवत्तेषां बाह्यतोऽमून्यनुक्रमात् ।वर्षाणि सन्निविष्टानि सप्त तानि ब्रवीमि ते ॥६३॥जलदाख्यं कुमारं च सुकुमारं मणीचकम् ।कुसुमोत्तरमोदाकीमहाद्रुमवनानि च ॥६४॥कुशे विद्रुमहेमाख्यौ द्युतिमानथ पुष्पवान् ।कुशेशयो हरिक्ष्माभृन्मन्दरश्च कुलाचलाः ॥६५॥विष्कम्भोऽष्टसहस्राणि तेषां प्रत्येकमीरितः ।तदर्धमुच्छ्रयस्तद्वदुच्छ्रयार्धमधोगमः ॥६६॥उद्भिदं वेणुवत्संज्ञं सरालमथ लम्बनम् ।वर्षं श्रीमत्प्रभाकृच्च कपिलं पन्नगाभिधम् ॥६७॥क्रौञ्चे क्रौञ्चोऽन्धकारश्च देवो गोविन्दवामनौ ।द्विविदः पुण्डरीकश्चेत्यस्मिन् सप्त कुलाद्र यः ॥६८॥विष्कम्भोऽयुतमेतेषां विष्कम्भार्धं समुच्छ्रयः ।अधोगतिस्तदर्धं च वर्षाण्येषां तु बाह्यतः ॥६९॥कुसलाख्याष्टवर्षाख्ये परापतमनोनुगे ।मुनिवर्षान्धकाराख्ये सप्तमं दुन्दुभीति च ॥७०॥गिरयः शाल्मलिद्वीपे रक्तः पीतः सितस्तथा ।वैपुल्यमेषां द्वात्रिंशत्सहस्राणि प्रचक्षते ॥७१॥वैपुल्यार्धं समुच्छ्रायस्तदर्धमवनौ गतिः ।वर्षे शान्तभयं वीतभयं चेत्यत्र संस्थिते ॥७२॥गोमेदे तु सुरश्चेति कुमुदश्चेति भूधरौ ।योजनानां चतुःषष्टिस्तौ सहस्राणि विस्तृतौ ॥७३॥उच्छ्रायो विस्तरस्यार्धं तदर्धं चाप्यधोगतिः ।धातकीखण्डनामास्य मध्ये वर्षमुदीरितम् ॥७४॥अस्त्यद्रिः पुष्करद्वीपे मानसोत्तरसंज्ञितः ।बाह्यतो वर्षमेतस्य महावीतमिति स्मृतम् ॥७५॥विस्तृतोऽष्टौ सहस्राणि शैलोऽयं द्वे तथायुते ।सहस्रशतमन्यच्च सुरसिद्धर्षिसेवितः ॥७६॥व्यासार्धेनोच्छ्रयस्तस्य तदर्धेनाप्यधोगमः ।सुरेशानां नगर्योऽस्मिन् मया वत्स निवेशिताः ॥७७॥ऐन्द्री वस्वोकसारा प्राग् याम्या संयमनी ततः ।प्राचेनसी सुखा पश्चात्तथा सौम्युत्तरे विभा ॥७८॥धर्मरक्षार्थमेतासु चत्वारश्चतसृष्वपि ।तथा लोकव्यवस्थार्थं पृथग्लोकभृतः स्थिताः ॥७९॥लोकालोकाचलः स्वादुसलिलाद्द्विगुणो बहिः ।स्वादूदाब्धिप्रमाणात्सविस्ताराद्द्विगुणोऽपि च ॥८०॥समुच्छ्रितोऽसौ नियुतं नियुतार्धमधो गतः ।पञ्च क्रोशाः प्रतिदिशं नियुतानि तथा नव ॥८१॥तद्वच्च नियुतस्यार्धं मेरुमध्यात्तदन्तरम् ।समुद्भासितदेहार्धस्तिग्मांशोः किरणैरयम् ॥८२॥तत्समेन च भूम्यर्धेनावृतः परतः पुनः ।भौतान्यावरणान्युर्व्या यस्यैतानि स्थितान्यधः ॥८३॥बाह्यतोऽपि च भूम्यूर्ध्वं निविष्टानि तथानघ ।इति वत्स तव प्रोक्तः सन्निवेशोऽखिलः क्षितेः ॥८४॥स्थितिं गतिं च कथयाम्यर्कादीनामतःपरम् ।सूर्येन्दुधिष्ण्यज्ञसितभौमार्कित्रिदशार्चिताः ॥८५॥सप्तर्षयो ध्रुवश्चेति भूमेरूर्ध्वं क्रमात् स्थिताः ।चत्वारि द्वे तथा भूमेरूर्ध्वमा सूर्यनन्दनात् ॥८६॥षडेवमन्तराणि स्युः सहस्राणां शतं शतम् ।ग्रहान्तराणि यान्यन्यान्यवशिष्टान्यनुक्रमात् ॥८७॥तानि चत्वार्यपि द्वे द्वे लक्षे प्रोक्तानि मानतः ।धरित्रीध्रुवयोर्मध्ये योजनानां चतुर्दश ॥८८॥नियुतानि समुत्सेधस्त्रैलोक्यस्य प्रकीर्त्तितः ।एकाथ द्वे चतस्रोऽष्टावन्तरं कोटयः क्रमात् ॥८९॥महोजनस्तपःसत्यलोकानामुपरि ध्रुवात् ।ये स्थिताः सत्यलोकोर्ध्वमधस्तादण्डकर्परात् ॥९०॥एका कोटिर्भवेत्तेषां पञ्चाशन्नियुतान्विता ।अथावरणयोगोऽस्य विहितः पद्मजन्मना ॥९१॥यथैवाधस्तथा निर्यक्तथैवोर्ध्वमपि क्रमात् ।वहेऽब्दाः प्रवहे सूर्यः स्थितः शीतांशुरुद्वहे ॥९२॥संवहस्थानि नक्षत्राण्यावहस्थाः पुनर्ग्रहाः ।सप्तर्षयः परिवहे ध्रुवश्चापि परावहे ॥९३॥प्रदक्षिणममी सप्त मरुतो भ्रमयन्त्यमून् ।मेघीभूतः स्थितो मध्ये सुमेरुक्ष्माभृति ध्रुवः ॥९४॥समस्तमपि तद्बद्धं ज्योतिश्चक्रं भ्रमत्यदः ।सप्ताश्वेनैकचक्रेण रथेन रथिनां वरः ॥९५॥तेजोमयेन सततं भ्राम्यति ज्योतिषां पतिः ।केतुमालेरजन्यर्धं करोत्यस्तं कुरुष्वपि ॥९६॥मध्यन्दिनं च भद्रा श्वेस्तं गच्छन् भारते रविः ।रसाब्धिपक्षसङ्ख्यानि योजनानि निमेषतः ॥९७॥सप्तविंशतिकां चाष्टौ भागान्सर्पत्यहर्पतिः ।योजनान्यध्विनन्दर्नु गुणसङ्ख्यानि काष्ठया ॥९८॥नवांशकचतुष्कं च क्रामत्यहिमदीधितिः ।वह्न्यग्निवसुखेन्द्र क्ष्मासङ्ख्यातान्यब्जिनीपतिः ॥९९॥योजनस्य त्रिभागं च प्रयाति कलयैकया ।वियत्खव्योमभूताश्विगुणपावकसङ्ख्यया ॥१००॥योजनान्युष्णकिरणो मुहूर्तेन प्रसर्पति ।रात्र्यहेण सहस्राणि पञ्चाशन्नवकोटयः ॥१०१॥लक्षाणि सप्तनवतिर्गतिः स्यात् तिग्मरोचिषः ।मध्येन पुष्करद्वीपस्यार्को गत्यानया व्रजन् ॥१०२॥नभस्तलेन पुनरप्युदयादुदयं श्रयेत् ।इत्थं गतिरियं सम्यक्तिग्मभानोर्निरूपिता ॥१०३॥गतिं चन्द्र ग्रहर्क्षाणां भोगं चार्काद्विभावयेत् ।प्रोक्तं तवेत्यहोरात्रप्रमाणमधुनानघ ।पक्षमासर्तुवर्षादीन्व्यवहाराय कल्पयेत् ॥१०४॥इति निगदित एष द्वीपशैलाम्बुधीना ।मवनिवलयवर्त्ती कार्त्स्न्यतः सन्निवेशः ।गतिरपि दिनभर्त्तुः कीर्त्तिता विश्वमानं ।पुनरिह युगधर्मं कीर्त्त्यमानं निबोध ॥१०५॥इति महाराजाधिराजश्रीभोजदेवविरचिते समराङ्गणसूत्रधारापरनाम्नि वास्तुशास्त्रे भुवनकोशाध्यायः पञ्चमः । N/A References : N/A Last Updated : November 26, 2017 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP