संस्कृत सूची|शास्त्रः|वास्तुशास्त्रः|समराङ्गणसूत्रधार| नगरादिसंज्ञा नामाष्टादशोऽध्यायः समराङ्गणसूत्रधार ८३ अध्यायांची नांवे महासमागमनो नाम प्रथमोऽध्यायः पुत्रसंवादो नाम द्वितीयोऽध्यायः प्रश्नो नाम तृतीयोऽध्यायः महदादिसर्गश्चतुर्थोऽध्यायः १ ते ५० ५१ ते १०५ सहदेवाधिकारो नाम षष्ठोऽध्यायः वर्णाश्रमप्रविभागो नाम सप्तमोऽध्यायः भूमिपरीक्षा नामाष्टमोऽध्यायः हस्तलक्षणं नाम नवमोऽध्यायः १ ते ५० ५१ ते १०० १०१ ते १४८ वास्तुत्रयविभागो नामैकादशोऽध्यायः नाड्यादिसिरादिविकल्पो नाम द्वादशोऽध्यायः मर्मवेधस्त्रयोदशोऽध्यायः पुरुषाङ्गदेवतानिघण्ट्वादिनिर्णयश्चतुर्दशोऽध्यायः राजनिवेशो नाम पञ्चदशोऽध्यायः वनप्रवेशो नाम षोडशोऽध्यायः १ ते ५० ५१ ते १०० १०१ ते १५० १५१ ते २१२ नगरादिसंज्ञा नामाष्टादशोऽध्यायः १ ते ५० ५१ ते १०० १०१ ते १५० १५१ ते २०० २०१ ते २२४ निम्नोच्चादिफलानि नाम विंशोऽध्यायः द्वासप्ततित्रिशाललक्षणं नामैकविंशोऽध्यायः द्विशालगृहलक्षणं नाम द्वाविंशोध्यायः एकशालालक्षणफलादि नाम त्रयोविंशोऽध्यायः द्वारपीठभित्तिमानादिकं नाम चतुर्विंशोऽध्यायः १ ते ५० ५१ ते १०० १०१ ते १५० १५१ ते १६४ १ ते ५० ५१ ते ८० सभाष्टकं नाम सप्तविंशोऽध्यायः गृहद्र व्यप्रमाणानि नामाष्टाविंशोऽध्यायः शयनासनलक्षणं नाम एकोनत्रिंशोऽध्यायः १ ते ५० ५१ ते १०० १०१ ते १४० १ ते ५० ५१ ते १०० १०१ ते १५० १५१ ते २०० २०१ ते २२३ गजशाला नाम द्वात्रिंशोऽध्यायः १ ते ५० ५१ ते ७९ अथाप्रयोज्यप्रयोज्यं नाम चतुस्त्रिंशोऽध्यायः शिलान्यासविधिर्नाम पञ्चत्रिंशोऽध्यायः बलिदानविधिर्नाम षट्त्रिंशोऽध्यायः १ ते ५० ५१ ते ८१ वास्तुसंस्थानमातृका नामाष्टात्रिंशोऽध्यायः द्वारगुणदोषो नामैकोनचत्वारिंशोऽध्यायः पीठमानं नाम चत्वारिंशोऽध्यायः चयविधिर्नामैकचत्वारिंशोऽध्यायः शान्तिकर्मविधिर्नाम द्विचत्वारिंशोऽध्यायः द्वारभङ्गफलं नाम त्रिचत्वारिंशोऽध्यायः स्थपतिलक्षणं नाम चतुश्चत्वारिंशोऽध्यायः अष्टङ्गलक्षणं नाम पञ्चचत्वारिंशोऽध्यायः तोरणभङ्गादिशान्तिको नाम षट्चत्वारिंशोऽध्यायः वेदीलक्षणं नाम सप्तचत्वारिंशोऽध्यायः १ ते ५० ५१ ते १०० १०१ ते १४० १ ते ५० ५१ ते १०० १०१ ते १५० १५१ ते २०३ प्रासादशुभाशुभलक्षणं नाम पञ्चाशोऽध्यायः अथायतननिवेशो नामैकपञ्चाशोऽध्यायः प्रासादजातिर्नाम द्विपञ्चाशोऽध्यायः जघन्यवास्तुद्वारं नाम त्रिपञ्चाशोऽध्यायः १ ते ५० ५१ ते १०० १०१ ते १२३ १ ते ५० ५१ ते १०० १०१ ते १६० १ ते ५० ५१ ते १०० १०१ ते १५० १५१ ते २०० २०१ ते २५० २५१ ते ३१२ १ ते ५० ५१ ते १०० १०१ ते १५० १५१ ते २१० मेर्वादिविंशिका नाम सप्तपञ्चाशोऽध्यायः प्रासादस्तवनं नाम अष्टपञ्चाशोऽध्यायः १ ते ५० ५१ ते १०० १०१ ते १५० १५१ ते २०० २०१ ते २४५ १ ते ५० ५१ ते ९९ पीठपञ्चकलक्षणं नामैकषष्टितमोऽध्यायः १ ते ५० ५१ ते १०० १०१ ते १५० १५१ ते २२० १ ते ५० ५१ ते ११७ १ ते ५० ५१ ते १२० १ ते ५० ५१ ते १०० १०१ ते १५० १५१ ते २०१ मण्डपलक्षणं नाम षट्षष्टितमोऽध्यायः १ ते ५० ५१ ते ११४ जगत्यङ्गसमुदायाधिकारो नामाष्टषष्टितमोऽध्यायः १ ते ५० ५१ ते १०० १०१ ते १५० १५१ ते २२० १ ते ५० ५१ ते १०० १०१ ते १५७ चित्रोद्देशो नामैकसप्ततितमोऽध्यायः भूमिबन्धो नाम द्विसप्ततितमोऽध्यायः लेप्यकर्मादिकं नाम त्रिसप्ततितमोऽध्यायः अथाण्डकप्रमाणं नाम चतुःसप्ततितमोऽध्यायः मानोत्पत्तिर्नाम पञ्चसप्ततितमोऽध्यायः प्रतिमालक्षणं नाम षट्सप्ततितमोऽध्यायः देवादिरूपप्रहरणसंयोगलक्षणं नाम सप्तसप्ततितमोऽध्यायः दोषगुणनिरूपणं नामाष्टसप्ततितमोऽध्यायः १ ते ५० ५१ ते १०० १५१ ते १७० वैष्णवादिस्थानकलक्षणं नामाशीतितमोऽध्यायः पञ्चपुरुषस्त्रीलक्षणं नामैकाशीतितमोऽध्यायः रसदृष्टिलक्षणं नाम द्व्यशीतितमोऽध्यायः १ ते ५० ५१ ते १०० १०१ ते १५० १५१ ते २०० २०१ ते २५४ नगरादिसंज्ञा नामाष्टादशोऽध्यायः समराङ्गणसूत्रधार भारतीय वास्तुशास्त्र से सम्बन्धित ज्ञानकोशीय ग्रन्थ है जिसकी रचना धार के परमार राजा भोज (1000–1055 ई) ने की थी। Tags : bhojsamarangansanskritvastu shastraभोजवास्तुशास्त्रसंस्कृतसमराङ्गणसूत्रधार नगरादिसंज्ञा नामाष्टादशोऽध्यायः Translation - भाषांतर नगरं मन्दिरं दुर्गं पुष्करं साम्परायिकम् ।निवासः सदनं सद्म क्षयः क्षितिलयस्तथा ॥१॥यत्रास्ते नगरे राजा राजधानीं तु तां विदुः ।शाखानगरसंज्ञानि ततोऽन्यानि प्रचक्षते ॥२॥शाखानगरमेवाहुः कर्वटं नगरोपमम् ।ऊनं कर्वटमेवेह गुणैर्निगम उच्यते ॥३॥ग्रामः स्यान्निगमादूनो ग्रामकल्पो गृहस्त्वसौ ।गोकुलावासमिच्छन्ति गोष्ठमल्पं तु गोष्ठकम् ॥४॥उपस्थानं भवेद् राज्ञां यत्र तत्पत्तनं विदुः ।बहुस्फीतवणिग्युक्तं तदुक्तं पुटभेदनम् ॥५॥विधाय कुटिका यत्र पत्रशाखातृणोपलैः ।पुलिन्दाः कुर्वते वासं पल्ली स्वल्पा तु पल्लिका ॥६॥नगरं वर्जयित्वान्यत्सर्वं जनपदः स्मृतः ।नगरेण समं कृत्स्नं राष्ट्रं देशोऽथ मण्डलम् ॥७॥आवासः सदनं सद्म निकेतो मन्दिरं मतम् ।संस्थानं निधनं धिष्ण्यं भवनं वसतिः क्षयः ॥८॥अगारं संश्रयो नीडं गेहं शरणमालयः ।निलयो लयनं वेश्म गृहमोकः प्रतिश्रयः ॥९॥गृहस्योपरिभूमिर्या हर्म्यं तत्परिकीर्तितम् ।तस्यारोहणमार्गो यः सोपानं तत्प्रचक्षते ॥१०॥काष्ठकैर्यत्र रचितं स्थूणयोरधिरोहणम् ।सा निःश्रेणिरिति प्रोक्ता सोपानैर्विपुलैः पदैः ॥११॥स्मृतः काष्ठविटङ्कोऽसौ यत्काष्ठैः संवृतं गृहम् ।सुधालिप्ततलं हर्म्यं सौधं स्यात्कुट्टिमं च तत् ॥१२॥वर्षाभयेन या छन्न तालशाकदलादिभिः ।स्मृताभिगुप्तिरन्तस्था सर्वोपरि गृहस्य सा ॥१३॥वातायनं तु भित्तीनामवलोकनमुच्यते ।लघुर्वातयनो यः स्यादवलोकनकं हि तत् ॥१४॥हर्म्यस्य मध्ये यच्छिद्रं स उ लोक इति स्मृतः ।हर्म्यप्राकारकः स स्यात्कण्ठा हर्म्यतलस्य या ॥१५॥वितर्दिकाष्ठमाला स्यात्सर्वतश्छदमूलगा ।तत्स्तम्भेषु मृगा ये तु ते स्युरीहामृगा इति ॥१६॥निर्यूहो हर्म्यदेशाद्यः काष्ठानामुपनिर्गमः ।वलीकमिति विज्ञेयं काष्ठं छेदाद्विनिर्गतम् ॥१७॥छन्नैश्चतुर्भिः पार्श्वैर्यत्तच्चतुश्शालमुच्यते ।त्रिभिस्त्रिशालं तत्प्राहुर्द्वाभ्यां तत्स्याद्द्विशालकम् ॥१८॥एकशालकमेकेन च्छन्नेन गृहमुच्यते ।गृहमेकं तु यच्छन्नं सर्वं शालेति सा स्मृता ॥१९॥शालानां यत्पुनर्मध्यं वापी पुष्करिणी च सा ।संछन्ना चापि यस्य स्यात्तद्गर्भगृहमुच्यते ॥२०॥गृहे महाजनस्थानं त्रिकुड्यं यत्प्रकल्पितम् ।उपस्थानं तदत्राहुः स्याच्चोपस्थानकं लघु ॥२१॥प्रासादस्तु स एव स्यादल्पा प्रासादिका स्मृता ।दीर्घप्रासादिका यासौ वलभीत्यभिधीयते ॥२२॥शालाग्रे वलभी या स्यादलिन्देति वदन्ति ताम् ।शालां विना तु वलभी वलभेति निगद्यते ॥२३॥अल्पाल्पास्तु चतुष्कुड्या ये तेऽपवरका मताः ।गृहे चाभ्यन्तरस्थानं शुद्धान्त इति कीर्त्यते ॥२४॥प्रतोलीं तां विदुर्लोकः सुरङ्गामिव यां वसेत् ।सा कक्षेत्युदिता तज्ज्ञैर्यदवस्थान्तरं गृहे ॥२५॥यदुपस्थानकं नाम ये चापवरकास्तथा ।ते कोष्ठका या तु कण्ठा कुड्यं भित्तिश्चयश्च सा ॥२६॥भक्तशाला भवेद्या तु तन्महानसमुच्यते ।यच्छन्नं द्वारदेशे तु तमाहुर्द्वारकोष्ठकम् ॥२७॥प्रवेशनमिति प्राहुर्द्वारनिर्गमनं तथा ।जलनिर्गमनस्थानं विज्ञेयमुदकभ्रमः ॥२८॥भवनस्याङ्गणं यत्तु तदाहुर्भवनाजिरम् ।वनाजिरं वनमही त्वाश्रमाजिरमाश्रमे ॥२९॥उत्तरोदुम्बरस्याधः श्लिष्टां मध्ये च कुड्ययोः ।तज्ज्ञास्तां देहलीत्याहुः कपाटाश्रयमेव च ॥३०॥कपाटं द्वारपक्षः स्यात्कपाटपुटमेव च ।पक्षः पिधानावरणो द्वारसंवरणं तथा ॥३१॥कपाटं संपुटस्ते द्वे कपाटयुगलं च तत् ।कलिका द्वारबन्धार्था या स्यात्तामर्गलां विदुः ॥३२॥सा स्यादर्गलसूचीति यदि दीर्घा प्रमाणतः ।पुराणां सा तु परिघः फलिहो गजवारणम् ॥३३॥छिद्रै र्गवाक्षप्रतिमैश्छिद्रि तं सर्वतस्तु यत् ।फलकं तद्गवाक्षः स्याज्जालमित्यपि कथ्यते ॥३४॥हर्म्यद्वारे गृहद्वारे तथा हर्म्यावलोकने ।प्राकारान्तरपृष्ठे तु या च प्रासादिका भवेत् ॥३५॥पार्श्वयोरुभयोरेषां फलकद्वयमुच्छ्रितम् ।उपर्युपरि संक्षिप्तमर्धचन्द्र द्वयाकृति ॥३६॥आनने द्वे यथा चास्मिन् श्लिष्टैरग्र्यैर्महाधरैः ।तयोरुपरि सन्धौ च तारकाकृति मण्डलम् ॥३७॥तत्तोरणमिति प्रोक्तं यच्च तेन परिष्कृतम् ।सुवर्णतोरणं च स्यान्मणितोरणमेव च ॥३८॥पुष्पतोरणमप्येतत्क्रियते पुष्पकादिभिः ।तोरणाग्रे ठकारो यः सिंहकणः स उच्यते ॥३९॥नाम्ना संयमनानीति गृहसञ्चरभूमयः ।गृहस्य पार्श्वे यद्यस्मिंस्तत्तत्संयमनं विदुः ॥४०॥भित्तेर्यद्वाथ दारूणां तरङ्गाग्रवदानतम् ।मरालपाली सा हर्म्यात्प्रणाली निर्गमोऽम्भसः ॥४१॥स चा प्राकार इत्युक्तः कण्ठः स्यादङ्गणस्य यः ।द्वारस्य तु समीपं यत्प्रद्वारं तदिहोच्यते ॥४२॥यदिष्टकचितं मूले द्वारस्य भवति स्थलम् ।दीर्घं वा ह्रस्वमथवा तदास्थलकमिष्यते ॥४३॥मूत्रभूमिरमेध्येति वर्चस्कोऽवस्करस्तथा ।गृहाच्च भित्तिसामान्यं बाह्यं परिसरो मतः ॥४४॥विस्तीर्णमुच्छ्रितं यत्स्याद्वेश्म सोऽट्ट उदाहृतः ।संक्षिप्तमेतदेवोक्तं तज्ज्ञैरट्टालकाख्यया ॥४५॥तदेवात्यन्तसंक्षिप्तमट्टालीति निगद्यते ।अट्टाली या तु नात्युच्चा तामत्राट्टालिकां विदुः ॥४६॥एकनाडीगतच्छिद्रैः काष्ठनालैः परिश्रितम् ।यत्र काष्ठप्रणालीति छदपृष्ठेऽम्बु धावति ॥४७॥स्तम्भशीर्षकरूपाणि काष्ठमूलाश्रितानि च ।सुषिराणि प्रयत्नेन काष्ठनाडीमुखान्तरैः ॥४८॥रूपाणामथ तेषां तु स्तननासामुखाक्षिभिः ।नानास्थानस्थितानां च वृषवानरदंष्ट्रिणाम् ॥४९॥कृतसूक्ष्मान्तरच्छिद्रैः प्रवर्षति समन्ततः ।तद्धारागृहमित्युक्तं धारागारादिनामभृत् ॥५०॥कांस्यैर्लोहैस्तथा पट्टैर्निर्मृष्टादर्शनिर्मलैः ।निचिता यस्य भित्तिः स्यात्तद्दर्पणगृहं विदुः ॥५१॥पक्षद्वारं तदत्राहुर्यन्महाद्वारतोऽपरम् ।यत्प्राकाराश्रितं द्वारं पुरे तद्गोपुरं विदुः ॥५२॥निर्गताश्चोच्छ्रिताश्चैव प्राकारस्यान्तरान्तरा ।उपकार्या इति प्रोक्ताः क्षेमाश्चाट्टालका मताः ॥५३॥चयप्रकारशालाः स्युः पुरीसंवरणाभिधाः ।प्राकारादनुपालास्तु प्राकार उपनिष्कलाः ॥५४॥क्रीडागृहं यदारामे तदुद्यानं प्रचक्षते ।तीरेऽम्भसो जलोद्यानं जलवेश्माम्बुमध्यगम् ॥५५॥क्रीडागृहं यदत्रोक्तं क्रीडागारं तदुच्यते ।विहारभूमिराक्रीडभूमिरित्यभिधीयते ॥५६॥देवधिष्ण्यं सुरस्थानं चैत्यमर्चागृहं च तत् ।देवतायतनं प्राहुर्विबुधागारमित्यपि ॥५७॥छन्नं भवेद्यत्तु महाजनस्य स्थानं सभा सा कथिता च शाला ।गवां पुनर्मन्दिरमत्र गोष्ठमाचक्षते वास्तुनिवेशविज्ञाः ॥५८॥इति महाराजाधिराजश्रीभोजदेवविरचिते समराङ्गणसूत्रधारापरनाम्नि वास्तुशास्त्रे नगरकर्वटग्रामगृहायतनसंज्ञा नामाष्टादशोऽध्यायः । N/A References : N/A Last Updated : November 26, 2017 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP