संस्कृत सूची|शास्त्रः|वास्तुशास्त्रः|समराङ्गणसूत्रधार| ५१ ते १०० समराङ्गणसूत्रधार ८३ अध्यायांची नांवे महासमागमनो नाम प्रथमोऽध्यायः पुत्रसंवादो नाम द्वितीयोऽध्यायः प्रश्नो नाम तृतीयोऽध्यायः महदादिसर्गश्चतुर्थोऽध्यायः १ ते ५० ५१ ते १०५ सहदेवाधिकारो नाम षष्ठोऽध्यायः वर्णाश्रमप्रविभागो नाम सप्तमोऽध्यायः भूमिपरीक्षा नामाष्टमोऽध्यायः हस्तलक्षणं नाम नवमोऽध्यायः १ ते ५० ५१ ते १०० १०१ ते १४८ वास्तुत्रयविभागो नामैकादशोऽध्यायः नाड्यादिसिरादिविकल्पो नाम द्वादशोऽध्यायः मर्मवेधस्त्रयोदशोऽध्यायः पुरुषाङ्गदेवतानिघण्ट्वादिनिर्णयश्चतुर्दशोऽध्यायः राजनिवेशो नाम पञ्चदशोऽध्यायः वनप्रवेशो नाम षोडशोऽध्यायः १ ते ५० ५१ ते १०० १०१ ते १५० १५१ ते २१२ नगरादिसंज्ञा नामाष्टादशोऽध्यायः १ ते ५० ५१ ते १०० १०१ ते १५० १५१ ते २०० २०१ ते २२४ निम्नोच्चादिफलानि नाम विंशोऽध्यायः द्वासप्ततित्रिशाललक्षणं नामैकविंशोऽध्यायः द्विशालगृहलक्षणं नाम द्वाविंशोध्यायः एकशालालक्षणफलादि नाम त्रयोविंशोऽध्यायः द्वारपीठभित्तिमानादिकं नाम चतुर्विंशोऽध्यायः १ ते ५० ५१ ते १०० १०१ ते १५० १५१ ते १६४ १ ते ५० ५१ ते ८० सभाष्टकं नाम सप्तविंशोऽध्यायः गृहद्र व्यप्रमाणानि नामाष्टाविंशोऽध्यायः शयनासनलक्षणं नाम एकोनत्रिंशोऽध्यायः १ ते ५० ५१ ते १०० १०१ ते १४० १ ते ५० ५१ ते १०० १०१ ते १५० १५१ ते २०० २०१ ते २२३ गजशाला नाम द्वात्रिंशोऽध्यायः १ ते ५० ५१ ते ७९ अथाप्रयोज्यप्रयोज्यं नाम चतुस्त्रिंशोऽध्यायः शिलान्यासविधिर्नाम पञ्चत्रिंशोऽध्यायः बलिदानविधिर्नाम षट्त्रिंशोऽध्यायः १ ते ५० ५१ ते ८१ वास्तुसंस्थानमातृका नामाष्टात्रिंशोऽध्यायः द्वारगुणदोषो नामैकोनचत्वारिंशोऽध्यायः पीठमानं नाम चत्वारिंशोऽध्यायः चयविधिर्नामैकचत्वारिंशोऽध्यायः शान्तिकर्मविधिर्नाम द्विचत्वारिंशोऽध्यायः द्वारभङ्गफलं नाम त्रिचत्वारिंशोऽध्यायः स्थपतिलक्षणं नाम चतुश्चत्वारिंशोऽध्यायः अष्टङ्गलक्षणं नाम पञ्चचत्वारिंशोऽध्यायः तोरणभङ्गादिशान्तिको नाम षट्चत्वारिंशोऽध्यायः वेदीलक्षणं नाम सप्तचत्वारिंशोऽध्यायः १ ते ५० ५१ ते १०० १०१ ते १४० १ ते ५० ५१ ते १०० १०१ ते १५० १५१ ते २०३ प्रासादशुभाशुभलक्षणं नाम पञ्चाशोऽध्यायः अथायतननिवेशो नामैकपञ्चाशोऽध्यायः प्रासादजातिर्नाम द्विपञ्चाशोऽध्यायः जघन्यवास्तुद्वारं नाम त्रिपञ्चाशोऽध्यायः १ ते ५० ५१ ते १०० १०१ ते १२३ १ ते ५० ५१ ते १०० १०१ ते १६० १ ते ५० ५१ ते १०० १०१ ते १५० १५१ ते २०० २०१ ते २५० २५१ ते ३१२ १ ते ५० ५१ ते १०० १०१ ते १५० १५१ ते २१० मेर्वादिविंशिका नाम सप्तपञ्चाशोऽध्यायः प्रासादस्तवनं नाम अष्टपञ्चाशोऽध्यायः १ ते ५० ५१ ते १०० १०१ ते १५० १५१ ते २०० २०१ ते २४५ १ ते ५० ५१ ते ९९ पीठपञ्चकलक्षणं नामैकषष्टितमोऽध्यायः १ ते ५० ५१ ते १०० १०१ ते १५० १५१ ते २२० १ ते ५० ५१ ते ११७ १ ते ५० ५१ ते १२० १ ते ५० ५१ ते १०० १०१ ते १५० १५१ ते २०१ मण्डपलक्षणं नाम षट्षष्टितमोऽध्यायः १ ते ५० ५१ ते ११४ जगत्यङ्गसमुदायाधिकारो नामाष्टषष्टितमोऽध्यायः १ ते ५० ५१ ते १०० १०१ ते १५० १५१ ते २२० १ ते ५० ५१ ते १०० १०१ ते १५७ चित्रोद्देशो नामैकसप्ततितमोऽध्यायः भूमिबन्धो नाम द्विसप्ततितमोऽध्यायः लेप्यकर्मादिकं नाम त्रिसप्ततितमोऽध्यायः अथाण्डकप्रमाणं नाम चतुःसप्ततितमोऽध्यायः मानोत्पत्तिर्नाम पञ्चसप्ततितमोऽध्यायः प्रतिमालक्षणं नाम षट्सप्ततितमोऽध्यायः देवादिरूपप्रहरणसंयोगलक्षणं नाम सप्तसप्ततितमोऽध्यायः दोषगुणनिरूपणं नामाष्टसप्ततितमोऽध्यायः १ ते ५० ५१ ते १०० १५१ ते १७० वैष्णवादिस्थानकलक्षणं नामाशीतितमोऽध्यायः पञ्चपुरुषस्त्रीलक्षणं नामैकाशीतितमोऽध्यायः रसदृष्टिलक्षणं नाम द्व्यशीतितमोऽध्यायः १ ते ५० ५१ ते १०० १०१ ते १५० १५१ ते २०० २०१ ते २५४ प्रासादद्वारमानादि नाम चतुष्पञ्चाशोऽध्यायः - ५१ ते १०० समराङ्गणसूत्रधार भारतीय वास्तुशास्त्र से सम्बन्धित ज्ञानकोशीय ग्रन्थ है जिसकी रचना धार के परमार राजा भोज (1000–1055 ई) ने की थी। Tags : bhojsamarangansanskritvastu shastraभोजवास्तुशास्त्रसंस्कृतसमराङ्गणसूत्रधार प्रासादद्वारमानादि नाम चतुष्पञ्चाशोऽध्यायः - ५१ ते १०० Translation - भाषांतर क्रियन्ते तुम्बिकाः पञ्च यत्र सुस्थाः सुसंवृताः ।मार्ग्र स्तलेऽधःसूत्रस्य तद्भवेन्नयनोत्सवम् ॥५१॥कोलाविलं समे क्षेत्र भागाष्टकविभाजिते ।मध्ये द्विभागे विलिखेद्वृत्तं तुम्बिकयान्विते ॥५२॥तत्र भ्रमान्ते च सूत्रे भ्रमान् षोडश कारयेत् ।ऋजूनि यानि सूत्राणि लुमास्ताः परिकल्पयेत् ॥५३॥यानि शेषाणि सूत्राणि वलिनीस्ताः प्रकल्पयेत् ।तुम्बिन्यां कारयेद्वृत्तं गजतालुकमुच्यते ॥५४॥अष्टपत्रे चतुष्षष्टिभागं क्षेत्रं प्रकल्पयेत् ।लुमास्थानेषु पत्राणि खण्डितान्यन्तरैस्तथा ॥५५॥सम्पाटेषु समस्तेषु तुम्बिकाः सन्निवेशयेत् ।वृत्ताकारं शरावं स्याद्विन्यासं च धरैश्च तत् ॥५६॥चतुरश्रेऽथवा वृत्ते भागत्रयविभाजिते ।निवेशयेन्नागबन्धं सम्पाते वलिसूत्रयोः ॥५७॥वितानमेतत्कथितं यश्चिकीर्षति मानवः ।ऊर्ध्वतिर्यग्गतैर्नालैः क्रियते यन्निरन्तरम् ॥५८॥पुष्पमालाकुलं श्रीमत्पुष्पकं तदुदाहृतम् ।अशोकपल्लवाकीर्णलुमाभ्रमनिबन्धनम् ॥५९॥चतुरश्रक्रियायुक्तं सा प्रोक्ता भ्रमरावली ।आध्माता कर्णमायाता तुम्बिकास्थानसंश्रया ॥६०॥तुम्बिनी यत्र मध्ये तु हंसपक्षं तदुच्यते ।अस्यैव पक्षे तु यदा सम्बध्येत मनोरमा ॥६१॥तुम्बिनी च विपक्षेषु करालं तदुदाहृतम् ।कोला लुमा स्याद्विकटे शङ्खे शान्ता प्रकीर्तिता ॥६२॥शङ्खनाभिसमं सूत्रं तुम्बिकायाः प्रवर्तते ।सर्वेष्वपि लुमास्थानेष्वेकरेखान्वितं भवेत् ॥६३॥शङ्खनाभिरिति प्रोक्तं वितानमिदमुत्तमम् ।एतस्यैव लुमास्थाने तुम्बिका पद्मकावृता ॥६४॥वलयैर्भूषिता यत्स्यात्सपुष्पमिति तद्विदुः ।क्षेत्रे वृत्तायताकारे कारयेच्छुक्तिसंज्ञकम् ॥६५॥वृत्ताकारे भवेत्क्षेत्रे वृत्तं वलयकर्मणा ।चतुरश्रे समे क्षेत्रे यल्लुमार्धलुमर्धते ॥६६॥वृत्तक्षोभणभङ्गानि तन्मन्दारकमुच्यते ।कुमुदं कुमुदस्येव लुमाक्षेपादिहार्धतः ॥६७॥पद्मके स्यादधःक्षिप्ता विकासे मध्यमा लुमा ।गरुडे गरुडो मध्ये नागाभरणशोभितः ॥६८॥पुरोगतं तद्यदधो गत्वा स्यादूर्ध्वगं पुनः ।अधो गत्वा पुरारोहमूर्ध्वमूर्ध्वं ततोप्यधः ॥६९॥विचित्रक्षोभणाकीर्णमन्ते वृत्तं मुहुर्मुहुः ।अष्टभिश्चाश्रिभिर्मध्ये विद्युन्मन्दारकं भवेत् ॥७०॥मानोन्मानमथ ब्रूमः प्रासादच्छाद्यसंश्रयम् ।अर्धेनच्छाद्यविस्तारस्योर्ध्वे वंशं प्रकल्पयेत् ॥७१॥अयमर्धोदयः प्रोक्त आवन्त्यो नामतः परः ।त्र्यंशेनच्छाद्यविस्तारस्योदयो वामनो भवेत् ॥७२॥वामनावन्त्ययोर्मध्ये नवधा प्रविभाजयेत् ।भागोत्तरोदयात्तेऽष्टौ वामनादुदयाः स्मृताः ॥७३॥वातपत्रोऽथ कौबेरः शमनाख्यस्तथावली ।हंसपृष्ठो महाभोगी नारदः शम्बुकस्तथा ॥७४॥वामनः प्रथमस्तेषामावन्त्योते दशेत्यमी ।छाद्यानामथ वृत्तानामुदयः प्रोच्यतेऽधुना ॥७५॥तलसूत्रसमं कृत्वा कुर्याद्द्वादशधोदयम् ।षष्ठादारभ्य भागात्स्युः सप्त भागोत्तरोदयाः ॥७६॥कुबेरशेखरी चन्द्री नागश्चातु गणाधिपः ।मुख्यश्चाच्छः सुभद्र श्च वृत्ते सप्तोदयाः स्मृताः ॥७७॥कृत्वा त्रिकर्करपदं लुमापृष्ठं लिखेत्ततः ।भागार्धमधिकं ज्ञेत्रे भवेच्छाद्यकवर्तना ॥७८॥भागार्धवर्धिते क्षेत्रे तलसूत्रक्रमान्विते ।लुमामाद्यां लिखेद्भूयः षट्क्रमेणातुसन्ततम् ॥७९॥रिक्षा यथाद्विहस्ताय लुमायाः स्यादनन्तरम् ।लुमा त्रिभागहीनेन परिवृद्धाङ्गुलेन सा ॥८०॥तस्याश्चानन्तरा लक्ष्म्या साधं वृद्धाङ्गुलत्रयम् ।त्र्यंशोनैः षड्भिरपरा त्र्यंशोनैर्दशभिः परा ॥८१॥चतुर्दशभिरन्या स्यात्सार्धैर्वृद्धा ततोऽङ्गुलैः ।विंशत्यङ्गुलवृद्धा तु सप्तमी कोणसंश्रिता ॥८२॥क्रमेणानेन मानानि लुमानां वृद्धिह्रासयोः ।अनुपातेन कार्याणि च्छाद्यक्षेत्रानुसारतः ॥८३॥कुबेरवल्लरीचन्द्री पन्नगा गणनायकः ।मुग्धा सुभद्रे त्येताः स्युर्लुमाकर्मार्धमादितः ॥८४॥एतासां गण्डिकाछेदाश्चत्वारः परिकीर्तिताः ।ऊर्ध्वस्तिर्यग्गतिस्त्र्यंशस्तथार्धत्र्यंश एव च ॥८५॥छाद्यकोदयविस्तारं तन्निर्गमसमायति ।कृत्वा षोढा भजेत्क्षेत्रं विस्तारायामतः समम् ॥८६॥तत्रोर्ध्वद्र व्यमानेनच्छिन्द्यात्प्रागेव गण्डिकाम् ।तस्यां छेदानुसारेण दापयेदेव लम्बकम् ॥८७॥अधस्ताद्गण्डिकायाश्च कण्टकानि प्रकल्पयेत् ।अवपातोच्छ्रयौ ज्ञात्वा त्रीणि स्थानानि चिह्नयेत् ॥८८॥गर्भे तथोर्ध्वे प्रान्ते च तृतीयं मध्यतस्तयोः ।यत्र स्थाने स्थितं सूत्रं स्पृशति स्थानकत्रये ॥८९॥तस्मात्प्रसार्य तत्सूत्रं भ्रमयेत्कर्कटं ततः ।लुमार्धस्यैवमुपरि संस्थानमुपजायते ॥९०॥उपरि स्थितेन सूत्रेण तत्तुल्येनैव कर्कटम् ।प्रान्तावलम्बकस्थाने भ्रमयेत्खल्वसिद्धये ॥९१॥प्रागक्षे भागयुगलावच्छिन्नं फलके पुनः ।कल्पयेत्सममेवैषा लुमापार्ष्णिर्निगद्यते ॥९२॥शेषां लुमां तु दीर्घांशैश्चतुर्भिः प्रविभाजयेत् ।चतुर्धातः परं तस्याः कर्तव्यं वृत्तवर्तनम् ॥९३॥अर्धोदये लुमोच्छ्रायो विस्तारांशद्वयोन्मितः ।मूलेऽग्रतश्च भागार्धमुदयोऽस्या विधीयते ॥९४॥अधःक्षेत्रे स विस्तारात्सूत्रमालम्ब्य तद्यथा ।विस्तारात्सदृशे क्षेत्रे सार्धतद्भागमाश्रितः ॥९५॥लुमाग्रभागत्र्यंशं च तयोर्मध्यं च यत्स्थितम् ।सूत्रं स्पृशेत्तत्र धृत्वा कर्कटं भ्रमयेद्बुधः ॥९६॥भागभागोत्तरक्षेत्रापेक्षया चतसृष्वपि ।गण्डिकासु विधातव्यं विधिवद्वृत्तवर्तनम् ॥९७॥मूलाल्लुमायाः क्षेत्रस्य पञ्चमांशत्रयेऽथवा ।पृथुत्वार्धे लुमापृष्ठलेखावृत्तद्वयं यथा ॥९८॥संपतत्येवमालिख्य शेषं पूर्ववदाचरेत् ।लुमाया मूलतः क्षेत्रसप्तमांशचतुष्टये ॥९९॥पृथुत्वार्धे लुमापृष्ठलेखावृत्तद्वयं यथा ।संपतत्येवमालिख्य षड्भागैः शेषमाचरेत् ॥१००॥ N/A References : N/A Last Updated : November 26, 2017 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP