संस्कृत सूची|शास्त्रः|वास्तुशास्त्रः|समराङ्गणसूत्रधार| १ ते ५० समराङ्गणसूत्रधार ८३ अध्यायांची नांवे महासमागमनो नाम प्रथमोऽध्यायः पुत्रसंवादो नाम द्वितीयोऽध्यायः प्रश्नो नाम तृतीयोऽध्यायः महदादिसर्गश्चतुर्थोऽध्यायः १ ते ५० ५१ ते १०५ सहदेवाधिकारो नाम षष्ठोऽध्यायः वर्णाश्रमप्रविभागो नाम सप्तमोऽध्यायः भूमिपरीक्षा नामाष्टमोऽध्यायः हस्तलक्षणं नाम नवमोऽध्यायः १ ते ५० ५१ ते १०० १०१ ते १४८ वास्तुत्रयविभागो नामैकादशोऽध्यायः नाड्यादिसिरादिविकल्पो नाम द्वादशोऽध्यायः मर्मवेधस्त्रयोदशोऽध्यायः पुरुषाङ्गदेवतानिघण्ट्वादिनिर्णयश्चतुर्दशोऽध्यायः राजनिवेशो नाम पञ्चदशोऽध्यायः वनप्रवेशो नाम षोडशोऽध्यायः १ ते ५० ५१ ते १०० १०१ ते १५० १५१ ते २१२ नगरादिसंज्ञा नामाष्टादशोऽध्यायः १ ते ५० ५१ ते १०० १०१ ते १५० १५१ ते २०० २०१ ते २२४ निम्नोच्चादिफलानि नाम विंशोऽध्यायः द्वासप्ततित्रिशाललक्षणं नामैकविंशोऽध्यायः द्विशालगृहलक्षणं नाम द्वाविंशोध्यायः एकशालालक्षणफलादि नाम त्रयोविंशोऽध्यायः द्वारपीठभित्तिमानादिकं नाम चतुर्विंशोऽध्यायः १ ते ५० ५१ ते १०० १०१ ते १५० १५१ ते १६४ १ ते ५० ५१ ते ८० सभाष्टकं नाम सप्तविंशोऽध्यायः गृहद्र व्यप्रमाणानि नामाष्टाविंशोऽध्यायः शयनासनलक्षणं नाम एकोनत्रिंशोऽध्यायः १ ते ५० ५१ ते १०० १०१ ते १४० १ ते ५० ५१ ते १०० १०१ ते १५० १५१ ते २०० २०१ ते २२३ गजशाला नाम द्वात्रिंशोऽध्यायः १ ते ५० ५१ ते ७९ अथाप्रयोज्यप्रयोज्यं नाम चतुस्त्रिंशोऽध्यायः शिलान्यासविधिर्नाम पञ्चत्रिंशोऽध्यायः बलिदानविधिर्नाम षट्त्रिंशोऽध्यायः १ ते ५० ५१ ते ८१ वास्तुसंस्थानमातृका नामाष्टात्रिंशोऽध्यायः द्वारगुणदोषो नामैकोनचत्वारिंशोऽध्यायः पीठमानं नाम चत्वारिंशोऽध्यायः चयविधिर्नामैकचत्वारिंशोऽध्यायः शान्तिकर्मविधिर्नाम द्विचत्वारिंशोऽध्यायः द्वारभङ्गफलं नाम त्रिचत्वारिंशोऽध्यायः स्थपतिलक्षणं नाम चतुश्चत्वारिंशोऽध्यायः अष्टङ्गलक्षणं नाम पञ्चचत्वारिंशोऽध्यायः तोरणभङ्गादिशान्तिको नाम षट्चत्वारिंशोऽध्यायः वेदीलक्षणं नाम सप्तचत्वारिंशोऽध्यायः १ ते ५० ५१ ते १०० १०१ ते १४० १ ते ५० ५१ ते १०० १०१ ते १५० १५१ ते २०३ प्रासादशुभाशुभलक्षणं नाम पञ्चाशोऽध्यायः अथायतननिवेशो नामैकपञ्चाशोऽध्यायः प्रासादजातिर्नाम द्विपञ्चाशोऽध्यायः जघन्यवास्तुद्वारं नाम त्रिपञ्चाशोऽध्यायः १ ते ५० ५१ ते १०० १०१ ते १२३ १ ते ५० ५१ ते १०० १०१ ते १६० १ ते ५० ५१ ते १०० १०१ ते १५० १५१ ते २०० २०१ ते २५० २५१ ते ३१२ १ ते ५० ५१ ते १०० १०१ ते १५० १५१ ते २१० मेर्वादिविंशिका नाम सप्तपञ्चाशोऽध्यायः प्रासादस्तवनं नाम अष्टपञ्चाशोऽध्यायः १ ते ५० ५१ ते १०० १०१ ते १५० १५१ ते २०० २०१ ते २४५ १ ते ५० ५१ ते ९९ पीठपञ्चकलक्षणं नामैकषष्टितमोऽध्यायः १ ते ५० ५१ ते १०० १०१ ते १५० १५१ ते २२० १ ते ५० ५१ ते ११७ १ ते ५० ५१ ते १२० १ ते ५० ५१ ते १०० १०१ ते १५० १५१ ते २०१ मण्डपलक्षणं नाम षट्षष्टितमोऽध्यायः १ ते ५० ५१ ते ११४ जगत्यङ्गसमुदायाधिकारो नामाष्टषष्टितमोऽध्यायः १ ते ५० ५१ ते १०० १०१ ते १५० १५१ ते २२० १ ते ५० ५१ ते १०० १०१ ते १५७ चित्रोद्देशो नामैकसप्ततितमोऽध्यायः भूमिबन्धो नाम द्विसप्ततितमोऽध्यायः लेप्यकर्मादिकं नाम त्रिसप्ततितमोऽध्यायः अथाण्डकप्रमाणं नाम चतुःसप्ततितमोऽध्यायः मानोत्पत्तिर्नाम पञ्चसप्ततितमोऽध्यायः प्रतिमालक्षणं नाम षट्सप्ततितमोऽध्यायः देवादिरूपप्रहरणसंयोगलक्षणं नाम सप्तसप्ततितमोऽध्यायः दोषगुणनिरूपणं नामाष्टसप्ततितमोऽध्यायः १ ते ५० ५१ ते १०० १५१ ते १७० वैष्णवादिस्थानकलक्षणं नामाशीतितमोऽध्यायः पञ्चपुरुषस्त्रीलक्षणं नामैकाशीतितमोऽध्यायः रसदृष्टिलक्षणं नाम द्व्यशीतितमोऽध्यायः १ ते ५० ५१ ते १०० १०१ ते १५० १५१ ते २०० २०१ ते २५४ यन्त्रविधानं नामैकत्रिंशोऽध्यायः - १ ते ५० समराङ्गणसूत्रधार भारतीय वास्तुशास्त्र से सम्बन्धित ज्ञानकोशीय ग्रन्थ है जिसकी रचना धार के परमार राजा भोज (1000–1055 ई) ने की थी। Tags : bhojsamarangansanskritvastu shastraभोजवास्तुशास्त्रसंस्कृतसमराङ्गणसूत्रधार यन्त्रविधानं नामैकत्रिंशोऽध्यायः - १ ते ५० Translation - भाषांतर भ्राम्यद्दिनेशशशिमण्डलचक्रशत्सं ।मेतज्जगत्त्रितययन्त्रमलक्ष्यमध्यम् ।भूतानि बीजमखिलान्यपि सम्प्रकल्प्य ।यः सन्ततं भ्रमयति स्मरजित्स वोऽव्यात् ॥१॥यन्त्राध्यायमथ ब्रूमो यथावत्प्रक्रमागतम् ।धर्मार्थकाममोक्षाणां यदेकमिह कारणम् ॥२॥यदृच्छया प्रवृत्तानि भूतानि स्वेन वर्त्मना ।नियम्यास्मिन् नयति यत्तद्यन्त्रमिति कीर्तितम् ॥३॥स्वरसेन प्रवृत्तानि भूतानि स्वमनीषया ।कृतं यस्माद्यमयति तद्वा यन्त्रमिति स्मृतम् ॥४॥तस्य बीजं चतुर्धा स्यात् क्षितिरापोऽनलोऽनिलः ।आश्रयत्वेन चैतेषां विजयदप्युपयुज्यते ॥५॥भिन्नः सूतश्चकैरुक्तस्ते च सम्यङ् न जानते ।प्रकृत्या पार्थिवः सूतस्नायात् तत्र क्रिया भवेत् ॥६॥पार्थिवत्वादयमतो न कदाचिद्विभिद्यते ।द्र व्यत्वादग्निजत्वं हि यद्यस्य परिकल्प्यते ॥७॥तदा विरोधो नैवास्य पावकेनोपपद्यते ।गन्धाद् वह्नेर्विरोधाच्च स्थिता पार्थिवता बलात् ॥८॥आत्मैव बीजं सर्वेषां प्रत्येकमपराण्यपि ।एवं भेदा भवन्त्येषां भूयांसः सङ्करान्मिथः ॥९॥स्वयंवाहकमेकं स्यात्सकृत्प्रेर्यं तथापरम् ।अन्यदन्तरित वाह्यं वाह्यमन्यत् त्वदूरतः ॥१०॥स्वयंबाह्यमिहोत्कृष्टं हीनं स्यादितरत्त्रयम् ।तेषु शंसन्ति दूरस्थमलक्ष्यं निकटस्थितम् ॥११॥यद्युत्पन्नमलक्ष्यं यदेकं बहुषु साधकम् ।तदन्यदपि शंसन्ति यस्माद्विस्मयकृन्नृणाम् ॥१२॥एका स्वीया गतिश्चित्रे वाह्येऽन्या वाहकाश्रिता ।अरघट्टाश्रिते कीटे दृश्यते द्वयमप्यदः ॥१३॥इत्थं गतिद्वयवशाद्वैचित्र्यं कल्पयेत्स्वयम् ।अलक्षता विचित्रत्वं यस्माद्यन्त्रेषु शस्यते ॥१४॥अन्यत्स्यादन्तरात्प्रेर्यं द्वितीयं मध्यमं त्विदम् ।द्वयत्रयादियोगेन चतुर्णामपि योगतः ॥१५॥अंशांशिभावाद्भूतानां सङ्ख्यैषामतिरिच्यते ।यः सम्यगेतज्जानाति स पुमान्भवति प्रियः ॥१६॥प्रमदानां नृपाणां च प्रज्ञानां च मतस्य च ।लाभं ख्यातिं च पूजां च यशो मानं धनानि च ॥१७॥प्राप्नोति किं किं न पुमान् य इदं वेत्ति तत्त्वतः ।गृहमेकं विलासानामाश्चर्यस्य परं पदम् ॥१८॥रतेरावासभवनं विस्मयस्यैकमास्पदम् ।यथावद्देवतादीनां रूपचेष्टादिदर्शनात् ॥१९॥तास्तुष्यन्त्यथ तत्तुष्टिः पूर्वैर्धर्मः प्रकीर्तितः ।नृपादितोषादर्थः स्यादर्थे कामः प्रतिष्ठितः ॥२०॥वित्तैक्यादस्य निष्पत्तिर्मोक्षश्चास्मान्न दुर्लभः ।पार्थिवं पार्थिवैर्बीजैः पार्थिवं जलजन्मभिः ॥२१॥तदेव तेजोजनितैस्तदेव मरुदुद्भवैः ।आप्यमाप्यैस्तथा बीजैरानलैरानिलैरपि ॥२२॥वह्निजैश्च मरुज्जातैः पार्थिवैर्वारुणैरपि ।मारुतं मारुतैराप्यैः पार्थिवैरानलैस्तथा ॥२३॥वह्निजातेऽपि बीजं स्यात्सूतः सोऽपि च वानले ।पार्थिवानां भवेद्बीजमाप्यानामपि वारणे ॥२४॥इति बीजानि सर्वेषां कीर्तितान्यखिलान्यपि ।कुड्यंकरणसूत्राणि भारगोलकपीडनम् ॥२५॥लम्बनं लम्बकारे च चक्राणि विविधान्यपि ।अयस्ताम्रं च तारं च त्रपु संवित्प्रमर्दने ॥२६॥काष्ठं च चर्म वस्त्रं च स्वबीजेषु प्रयुज्यते ।उर्दकः कर्तरो यष्टिश्चक्रं भ्रमरकस्तथा ॥२७॥शृङ्गावली च नाराचः स्वबीजान्यौर्वरे विदुः ।ताप उत्तेजनं स्तोभः क्षोभश्च जलसङ्गजः ॥२८॥एवमाद्यग्निबीजानि पार्थिवस्य प्रचक्षते ।धारा च जलभारश्च पयसो भ्रमणं तथा ॥२९॥एवमादीनि भूजस्य जलजानि प्रचक्षते ।यथोच्छ्रायो यथाधिक्यं यथा नीरन्ध्रतापि च ॥३०॥अत्यन्तमूर्ध्वगामित्वं स्वबीजान्ययसस्तथा ।मरुत्स्वभावजो गाढैर्ग्राहकैश्च प्रतीप्सितः ॥३१॥दृत्याद्यैर्वीजनाद्यैश्च गजकर्णादिभिः कृतः ।चाणितो गालितश्चायं बीजं भवति भूभवे ॥३२॥काष्टंभृत्तिश्च लोहं च जलजे पार्थिवं भवेत् ।अन्यदम्भस्तदप्यस्तु तिर्यगूर्ध्वमधस्तथा ॥३३॥बीजं स्वकीयं भवति यन्त्रेषु जलजन्मसु ।तापाद्यं पूर्वकथितं वह्निजं जलजे भवेत् ॥३४॥सङ्गृहीतश्च दत्तश्च पूरितः प्रतिनोदितः ।मरुद्बीजत्वमायाति यन्त्रेषु जलजन्मसु ॥३५॥वह्निजातेषु मृत्ताम्रलोहरुक्मादि तद्ग्रहे ।पार्थिवं कथयन्तीह बीजं बीजविचक्षणाः ॥३६॥वह्नेर्वह्निर्भवेद्बीजमाप आपस्तथा भवेत् ।आद्यैर्दृत्यादिभिः प्रोक्तैर्मरुद् गच्छति बीजताम् ॥३७॥प्रत्येषकं च जनकं प्रेरकं ग्राहकं तथा ।सङ्ग्राहकं च भूजातं बीजं स्यादनिलोद्भवैः ॥३८॥प्रेरणं चाभिघाटश्च विवर्तो भ्रमणं तथा ।जलजं मारुतोत्थेषु बीजं स्यादिति सम्मतम् ॥३९॥सङ्गृहीतस्य तापाद्यैर्यानि पावकजन्मनि ।प्रकीर्तितानि तान्येव भवन्ति पवनोद्भवैः ॥४०॥प्रेरितः सङ्गृहीतश्च जनितश्च समीरणः ।आत्मनो बीजतां गच्छत्येवमन्यत् प्रकल्पयेत् ॥४१॥भूतमेकमिहोद्रि क्तमन्यद्धीनं ततोऽधिकम् ।अन्यद्धीनतरं चान्यदेवंप्रायैर्विकल्पितैः ॥४२॥नाना भेदा भवन्त्येषां कस्तान् कार्त्स्न्येन वक्ष्यति ।निष्क्रिया भूः क्रिया त्वंशे शेषेषु सहजा त्रिषु ॥४३॥अतः प्रायेण सा जन्या क्षितावेव जयत्नतः ।साध्यस्य रूपवशतः सन्निवेशो यत्क्षे भवेत् ॥४४॥यन्त्राणामाकृतिस्तेन निर्णेतुं नैव शक्यते ।यथावद्बीजसंयोगः सौश्लिष्ट्यं श्लक्ष्णतापि च ॥४५॥अलक्षाता निर्वहणं लघुत्वं शब्दहीनता ।शब्दे साध्ये तदाधिक्यमशैथिल्यमगाढता ॥४६॥वहनीषु समस्तासु सौश्लिष्ट्यं चास्खलद्गति ।यथाभीष्टार्थकारित्वं लयतालानुगामिता ॥४७॥इष्टकालेऽर्धदर्शित्वं पुनः सम्यक्त्वसंवृतिः ।अनुल्बणत्वं ताद्रू प्यं दार्ढ्ये मसृणता तथा ॥४८॥चिरकालसहत्वं च यन्त्रस्यैते गुणः स्मृताः ।एकं बहूनि चलयेद्बहुभिश्चाल्यतेऽपरम् ॥४९॥सुश्लिष्टत्वमलक्षत्वं यन्त्राणां परमो गुणः ।अथ कर्माणि यन्त्राणां विचित्राणि यथाविधि ॥५०॥ N/A References : N/A Last Updated : November 26, 2017 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP