संस्कृत सूची|शास्त्रः|वास्तुशास्त्रः|समराङ्गणसूत्रधार| ५१ ते १०० समराङ्गणसूत्रधार ८३ अध्यायांची नांवे महासमागमनो नाम प्रथमोऽध्यायः पुत्रसंवादो नाम द्वितीयोऽध्यायः प्रश्नो नाम तृतीयोऽध्यायः महदादिसर्गश्चतुर्थोऽध्यायः १ ते ५० ५१ ते १०५ सहदेवाधिकारो नाम षष्ठोऽध्यायः वर्णाश्रमप्रविभागो नाम सप्तमोऽध्यायः भूमिपरीक्षा नामाष्टमोऽध्यायः हस्तलक्षणं नाम नवमोऽध्यायः १ ते ५० ५१ ते १०० १०१ ते १४८ वास्तुत्रयविभागो नामैकादशोऽध्यायः नाड्यादिसिरादिविकल्पो नाम द्वादशोऽध्यायः मर्मवेधस्त्रयोदशोऽध्यायः पुरुषाङ्गदेवतानिघण्ट्वादिनिर्णयश्चतुर्दशोऽध्यायः राजनिवेशो नाम पञ्चदशोऽध्यायः वनप्रवेशो नाम षोडशोऽध्यायः १ ते ५० ५१ ते १०० १०१ ते १५० १५१ ते २१२ नगरादिसंज्ञा नामाष्टादशोऽध्यायः १ ते ५० ५१ ते १०० १०१ ते १५० १५१ ते २०० २०१ ते २२४ निम्नोच्चादिफलानि नाम विंशोऽध्यायः द्वासप्ततित्रिशाललक्षणं नामैकविंशोऽध्यायः द्विशालगृहलक्षणं नाम द्वाविंशोध्यायः एकशालालक्षणफलादि नाम त्रयोविंशोऽध्यायः द्वारपीठभित्तिमानादिकं नाम चतुर्विंशोऽध्यायः १ ते ५० ५१ ते १०० १०१ ते १५० १५१ ते १६४ १ ते ५० ५१ ते ८० सभाष्टकं नाम सप्तविंशोऽध्यायः गृहद्र व्यप्रमाणानि नामाष्टाविंशोऽध्यायः शयनासनलक्षणं नाम एकोनत्रिंशोऽध्यायः १ ते ५० ५१ ते १०० १०१ ते १४० १ ते ५० ५१ ते १०० १०१ ते १५० १५१ ते २०० २०१ ते २२३ गजशाला नाम द्वात्रिंशोऽध्यायः १ ते ५० ५१ ते ७९ अथाप्रयोज्यप्रयोज्यं नाम चतुस्त्रिंशोऽध्यायः शिलान्यासविधिर्नाम पञ्चत्रिंशोऽध्यायः बलिदानविधिर्नाम षट्त्रिंशोऽध्यायः १ ते ५० ५१ ते ८१ वास्तुसंस्थानमातृका नामाष्टात्रिंशोऽध्यायः द्वारगुणदोषो नामैकोनचत्वारिंशोऽध्यायः पीठमानं नाम चत्वारिंशोऽध्यायः चयविधिर्नामैकचत्वारिंशोऽध्यायः शान्तिकर्मविधिर्नाम द्विचत्वारिंशोऽध्यायः द्वारभङ्गफलं नाम त्रिचत्वारिंशोऽध्यायः स्थपतिलक्षणं नाम चतुश्चत्वारिंशोऽध्यायः अष्टङ्गलक्षणं नाम पञ्चचत्वारिंशोऽध्यायः तोरणभङ्गादिशान्तिको नाम षट्चत्वारिंशोऽध्यायः वेदीलक्षणं नाम सप्तचत्वारिंशोऽध्यायः १ ते ५० ५१ ते १०० १०१ ते १४० १ ते ५० ५१ ते १०० १०१ ते १५० १५१ ते २०३ प्रासादशुभाशुभलक्षणं नाम पञ्चाशोऽध्यायः अथायतननिवेशो नामैकपञ्चाशोऽध्यायः प्रासादजातिर्नाम द्विपञ्चाशोऽध्यायः जघन्यवास्तुद्वारं नाम त्रिपञ्चाशोऽध्यायः १ ते ५० ५१ ते १०० १०१ ते १२३ १ ते ५० ५१ ते १०० १०१ ते १६० १ ते ५० ५१ ते १०० १०१ ते १५० १५१ ते २०० २०१ ते २५० २५१ ते ३१२ १ ते ५० ५१ ते १०० १०१ ते १५० १५१ ते २१० मेर्वादिविंशिका नाम सप्तपञ्चाशोऽध्यायः प्रासादस्तवनं नाम अष्टपञ्चाशोऽध्यायः १ ते ५० ५१ ते १०० १०१ ते १५० १५१ ते २०० २०१ ते २४५ १ ते ५० ५१ ते ९९ पीठपञ्चकलक्षणं नामैकषष्टितमोऽध्यायः १ ते ५० ५१ ते १०० १०१ ते १५० १५१ ते २२० १ ते ५० ५१ ते ११७ १ ते ५० ५१ ते १२० १ ते ५० ५१ ते १०० १०१ ते १५० १५१ ते २०१ मण्डपलक्षणं नाम षट्षष्टितमोऽध्यायः १ ते ५० ५१ ते ११४ जगत्यङ्गसमुदायाधिकारो नामाष्टषष्टितमोऽध्यायः १ ते ५० ५१ ते १०० १०१ ते १५० १५१ ते २२० १ ते ५० ५१ ते १०० १०१ ते १५७ चित्रोद्देशो नामैकसप्ततितमोऽध्यायः भूमिबन्धो नाम द्विसप्ततितमोऽध्यायः लेप्यकर्मादिकं नाम त्रिसप्ततितमोऽध्यायः अथाण्डकप्रमाणं नाम चतुःसप्ततितमोऽध्यायः मानोत्पत्तिर्नाम पञ्चसप्ततितमोऽध्यायः प्रतिमालक्षणं नाम षट्सप्ततितमोऽध्यायः देवादिरूपप्रहरणसंयोगलक्षणं नाम सप्तसप्ततितमोऽध्यायः दोषगुणनिरूपणं नामाष्टसप्ततितमोऽध्यायः १ ते ५० ५१ ते १०० १५१ ते १७० वैष्णवादिस्थानकलक्षणं नामाशीतितमोऽध्यायः पञ्चपुरुषस्त्रीलक्षणं नामैकाशीतितमोऽध्यायः रसदृष्टिलक्षणं नाम द्व्यशीतितमोऽध्यायः १ ते ५० ५१ ते १०० १०१ ते १५० १५१ ते २०० २०१ ते २५४ इन्द्र ध्वजनिरूपणं नाम सप्तदशोऽध्यायः - ५१ ते १०० समराङ्गणसूत्रधार भारतीय वास्तुशास्त्र से सम्बन्धित ज्ञानकोशीय ग्रन्थ है जिसकी रचना धार के परमार राजा भोज (1000–1055 ई) ने की थी। Tags : bhojsamarangansanskritvastu shastraभोजवास्तुशास्त्रसंस्कृतसमराङ्गणसूत्रधार इन्द्र ध्वजनिरूपणं नाम सप्तदशोऽध्यायः - ५१ ते १०० Translation - भाषांतर प्राचि मध्ये मैत्रपदे तन्मध्यान्मरुतो दिशि ।मल्लं निम्नप्रमाणेन पादकोणे निवेशयेत् ॥५१॥भृङ्गमुख्यपदद्वन्द्वमध्ययोर्वायुकोणयोः ।न्यस्येत्स्तम्भौ तयोः पीठीं मल्ले च विनिवेशयेत् ॥५२॥पीठिका निर्गता बाहुयुग्मात्तत्राग्रयोगतः ।स्तम्भिन्यौ रोपयेद्ब्राह्मं पृथक्पदयुगं श्रिते ॥५३॥प्रतिक्षोभाविह द्वौ द्वौ बाहुद्वितयमाश्रितौ ।बाह्यतः प्रान्तपदयोर्मैत्रयोर्विनिवेशयेत् ॥५४॥प्राच्यां मल्लाग्रतो ज्ञात्वा शक्रस्योर्ध्वगतिं क्रमात् ।योजयेद्भ्रमणोपेतौ भ्रमपादावभङ्गुरौ ॥५५॥मल्लात्पश्चिमदिग्भागे वरुणस्याश्रितां पदम् ।भद्रां निवेशयेन्निम्नमानतः शक्रमातरम् ॥५६॥स्युः पर्जन्यान्तरिक्षद्वार्यक्ष्मणां पदमाश्रिताः ।क्रमान्नन्दोपनन्दाख्यजयाख्यविजयाभिधाः ॥५७॥विन्यस्तास्वथ सर्वासु कुमारीषु विभागशः ।त्रयस्त्रयः प्रतिक्षोभा योज्या दार्ढ्याय बाह्यतः ॥५८॥निक्षिपन्नखिलं द्र व्यं भावयेत् पददेवताः ।प्राप्नोति तत्तदाख्यां तद्द्रव्यं पूजां च तद्गताम् ॥५९॥पीठीपृष्ठसमं कन्यापार्श्वयोरुभयोरपि ।कुर्यादनुसरद्वन्द्वं कीलकैर्बद्धमायसैः ॥६०॥संश्रित्यानुसरद्वन्द्वं पीठीं चोपरि सङ्ग्रहात् ।बध्नीयात्कीलकैर्लौहैर्यन्त्रनिश्चलताकृते ॥६१॥यन्त्रकर्मणि निर्वृत्त इति शास्त्रविधानतः ।प्रवेशयीत स्वस्थाने त्रिदशाधिपमैन्द्र भे ॥६२॥स्नातस्य विधिवद्वस्त्रच्छन्नस्यालेपितस्य च ।श्रीखण्डाद्यैः सुरभिभिः कुसुमैरर्चितस्य च ॥६३॥रौहिणादिमुहूर्तेषु त्रिषु मैत्रेऽथ वज्रिणः ।प्रवेशमभिनन्दन्ति करणेष्वर्चितेषु च ॥६४॥स्थपतिर्वा पुरोधा वा शुचिः स्नातः समाहितः ।गन्धमाल्यार्चितान् विप्रांस्तर्पयेद्दक्षिणादिभिः ॥६५॥ततो मङ्गलघोषेण वादित्रनिनदेन च ।पुण्याहजयशब्दैस्तमुत्क्षिपेयुः समाहिताः ॥६६॥अलङ्कारभृतः पौराः प्रहृष्टमनसोऽखिलाः ।नीरुजो बलिनः शक्ताः प्रकृत्यभिमताश्च ये ॥६७॥स्तुवीरन् पुण्यमनसः स्तुतिभिः सूतमागधाः ।वन्देरन्वन्दिनश्चैनं सेवेरन् गणिका अपि ॥६८॥प्रविशन्तं निजं स्थानमनुगच्छेन्नराधिपः ।सुराधिपं बलामात्यपौरजानपदान्वितः ॥६९॥प्रोद्यत्कलकलारावसुस्वराः पुरुषा यदि ।उत्क्षिपेयुः प्रहृष्टा वा वहेयुर्वा सुराधिपम् ॥७०॥तदा भवति भूपालो जयी नन्दन्ति च प्रजाः ।राष्ट्रे सुखं पुरे हर्षो भवेन्नश्यन्ति चेतयः ॥७१॥मुञ्चत्युत्थापितः कृच्छ्राद्यदि शय्यां स गौरवात् ।तदा नृपतिरभ्येति महतीं विमनस्कताम् ॥७२॥स्खलन्तो दुःखिता दीना निःश्वसन्तः पदे पदे ।वैचित्त्यभाजो गच्छेयुर्देशहानिस्तदा ध्रुवम् ॥७३॥भूमौ यदैकदेशेन ह्रसितः पतति ध्वजः ।न सुभिक्षं न च क्षेमो न राज्ञो विजयस्तदा ॥७४॥दीर्णे भग्नेऽथ पतिते कृत्स्ने चास्मिन् समुद्धृते ।स्यान्नृपस्यावनिच्छेदः सुतध्वंसोऽथवा मृतिः ॥७५॥वस्त्रालङ्कृतिमाल्यानां हरणात् पतनादुत ।तादृशद्र व्यविध्वंसः पौराणां भवति ध्रुवम् ॥७६॥पुरं भवति निःशब्दं निष्प्रभं वा प्रवेशने ।समुच्छ्रये वा शक्रस्य तदा तन्नाशमृच्छति ॥७७॥शक्रं स्वस्थानमानीतं शीघ्रं सुखमविघ्नतः ।प्राग्वत्प्रदक्षिणं न्यस्येत्प्रागग्रं शयने निजे ॥७८॥कुर्यात्तत्रैव नक्षत्रे शय्यास्थस्यामरेशितुः ।भ्रमे कुष्ये च संयोगं यथाभागविकल्पितम् ॥७९॥कुष्ये संयोज्यमानश्चेद्ध्वजो निपतति क्षितौ ।तदा नरपतेः स्थानभ्रंशो भवति निश्चितः ॥८०॥कुष्ययोगे यदा शक्रो वामतः परिवर्तते ।तदा स्यात्स्थपतेर्मृत्युर्भवेद्भङ्गश्च दक्षिणे ॥८१॥स्ववेधं प्रतिपद्येत तद्यष्टिर्यदि कृच्छ्रतः ।प्रमादिनस्तदा राज्ञो जायते व्यसनं महत् ॥८२॥निष्कुष्य योजितः शक्रध्वजो विघटते यदि ।विश्लिष्यति तदा सन्धिः सामन्तैः सह भूपतेः ॥८३॥स्फुटेद्भज्येत वा कुष्ये योज्यमानोऽथ सर्वतः ।तदा भङ्गे नृपव्याधिः स्फुटनादङ्गनावधः ॥८४॥अविदीर्णमपर्यस्तमव्यङ्गमविलम्बितम् ।यथावन्न्यासमायाति योगं चेद्वासवध्वजः ॥८५॥धनभृत्याङ्गनापत्यैः सामन्तैश्चान्वितोऽनुगैः ।निरातङ्को बलाङ्गश्च वृद्धिमेति तदा नृपः ॥८६॥यत्नतो रक्ष्यमाणस्य शय्यास्थस्यैव वज्रिणः ।तस्याङ्गान्यखिलान्येव कुटन्यादीनि योजयेत् ॥८७॥ऐन्द्रं बलाकं यक्षेशं सर्पमादं दिगाह्वयम् ।मयूरं चेन्द्र शीर्षं च पिटकाष्टकमित्यदः ॥८८॥स्वप्रमाणेन कर्तव्यं स्पष्टरूपसमन्वितम् ।तदाख्याश्चान्तरेष्वेषां सन्धयो वस्त्रनिर्मिताः ॥८९॥मूलादन्वग्रमायातैः स्ववंशैर्विदलैर्दृढैः ।गुणैश्च वेष्टयेदेनं घनैरशिथिलैर्ध्वजम् ॥९०॥साङ्घ्रिणा ध्वजनाहेन सत्र्यंशेनाथ विस्तृतिः ।विधेया शक्रपिटकस्योच्छ्रयस्तु तदर्धतः ॥९१॥अस्मिन्नष्टौ दिशः कृत्वा वंशव्यवहिते ततः ।न्यस्येद्दिगीशांश्चतुरस्तस्योपरि यथादिशम् ॥९२॥पञ्चमांशगते कुष्याद्वज्रिणः पिटके कृते ।शेषाण्यप्यष्टभागोनान्यस्मिन्न्यस्येद्यथाक्रमम् ॥९३॥बलाकादीनि विस्तृत्या चरणोनानि चोच्छ्रितौ ।स्ववर्णवन्ति वृत्तानि रामणीयकवन्ति च ॥९४॥भङ्गपातविपर्या ससिद्धयः पिटकोद्भवाः ।पीडार्त्तिमृत्यवेऽत्यर्थमेकैकस्य प्रकीर्तिताः ॥९५॥शुद्धान्तामात्यचित्तानां बलस्य यशसोऽपि च ।वसुमत्याश्च धाम्नां च नृपते राष्ट्रस्य च ॥९६॥केतुषड्भागविस्तारा रज्जवोऽष्टौ सुवर्तिताः ।विधेयाः स्युर्ध्वजायामत्रिगुणायतयो दृढाः ॥९७॥छादितं छदिभिः पूर्वं कुट्टनीसहितं शुभम् ।यत्नेनासन्नदिवसे विदध्यादमरध्वजम् ॥९८॥अर्केन्दुग्रहताराङ्कं वेणुगुल्मेन्द्र शीर्षकम् ।साष्टकण्ठगुणं दण्डसूत्रादर्शान्वितं शुभम् ॥९९॥ससस्यफलपुष्पाढ्यं शुभवस्त्रमलङ्कृतम् ।दृढमन्वितमष्टाभिः सन्तताभिश्च रज्जुभिः ॥१००॥ N/A References : N/A Last Updated : November 26, 2017 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP