संस्कृत सूची|शास्त्रः|वास्तुशास्त्रः|समराङ्गणसूत्रधार| २५१ ते ३१२ समराङ्गणसूत्रधार ८३ अध्यायांची नांवे महासमागमनो नाम प्रथमोऽध्यायः पुत्रसंवादो नाम द्वितीयोऽध्यायः प्रश्नो नाम तृतीयोऽध्यायः महदादिसर्गश्चतुर्थोऽध्यायः १ ते ५० ५१ ते १०५ सहदेवाधिकारो नाम षष्ठोऽध्यायः वर्णाश्रमप्रविभागो नाम सप्तमोऽध्यायः भूमिपरीक्षा नामाष्टमोऽध्यायः हस्तलक्षणं नाम नवमोऽध्यायः १ ते ५० ५१ ते १०० १०१ ते १४८ वास्तुत्रयविभागो नामैकादशोऽध्यायः नाड्यादिसिरादिविकल्पो नाम द्वादशोऽध्यायः मर्मवेधस्त्रयोदशोऽध्यायः पुरुषाङ्गदेवतानिघण्ट्वादिनिर्णयश्चतुर्दशोऽध्यायः राजनिवेशो नाम पञ्चदशोऽध्यायः वनप्रवेशो नाम षोडशोऽध्यायः १ ते ५० ५१ ते १०० १०१ ते १५० १५१ ते २१२ नगरादिसंज्ञा नामाष्टादशोऽध्यायः १ ते ५० ५१ ते १०० १०१ ते १५० १५१ ते २०० २०१ ते २२४ निम्नोच्चादिफलानि नाम विंशोऽध्यायः द्वासप्ततित्रिशाललक्षणं नामैकविंशोऽध्यायः द्विशालगृहलक्षणं नाम द्वाविंशोध्यायः एकशालालक्षणफलादि नाम त्रयोविंशोऽध्यायः द्वारपीठभित्तिमानादिकं नाम चतुर्विंशोऽध्यायः १ ते ५० ५१ ते १०० १०१ ते १५० १५१ ते १६४ १ ते ५० ५१ ते ८० सभाष्टकं नाम सप्तविंशोऽध्यायः गृहद्र व्यप्रमाणानि नामाष्टाविंशोऽध्यायः शयनासनलक्षणं नाम एकोनत्रिंशोऽध्यायः १ ते ५० ५१ ते १०० १०१ ते १४० १ ते ५० ५१ ते १०० १०१ ते १५० १५१ ते २०० २०१ ते २२३ गजशाला नाम द्वात्रिंशोऽध्यायः १ ते ५० ५१ ते ७९ अथाप्रयोज्यप्रयोज्यं नाम चतुस्त्रिंशोऽध्यायः शिलान्यासविधिर्नाम पञ्चत्रिंशोऽध्यायः बलिदानविधिर्नाम षट्त्रिंशोऽध्यायः १ ते ५० ५१ ते ८१ वास्तुसंस्थानमातृका नामाष्टात्रिंशोऽध्यायः द्वारगुणदोषो नामैकोनचत्वारिंशोऽध्यायः पीठमानं नाम चत्वारिंशोऽध्यायः चयविधिर्नामैकचत्वारिंशोऽध्यायः शान्तिकर्मविधिर्नाम द्विचत्वारिंशोऽध्यायः द्वारभङ्गफलं नाम त्रिचत्वारिंशोऽध्यायः स्थपतिलक्षणं नाम चतुश्चत्वारिंशोऽध्यायः अष्टङ्गलक्षणं नाम पञ्चचत्वारिंशोऽध्यायः तोरणभङ्गादिशान्तिको नाम षट्चत्वारिंशोऽध्यायः वेदीलक्षणं नाम सप्तचत्वारिंशोऽध्यायः १ ते ५० ५१ ते १०० १०१ ते १४० १ ते ५० ५१ ते १०० १०१ ते १५० १५१ ते २०३ प्रासादशुभाशुभलक्षणं नाम पञ्चाशोऽध्यायः अथायतननिवेशो नामैकपञ्चाशोऽध्यायः प्रासादजातिर्नाम द्विपञ्चाशोऽध्यायः जघन्यवास्तुद्वारं नाम त्रिपञ्चाशोऽध्यायः १ ते ५० ५१ ते १०० १०१ ते १२३ १ ते ५० ५१ ते १०० १०१ ते १६० १ ते ५० ५१ ते १०० १०१ ते १५० १५१ ते २०० २०१ ते २५० २५१ ते ३१२ १ ते ५० ५१ ते १०० १०१ ते १५० १५१ ते २१० मेर्वादिविंशिका नाम सप्तपञ्चाशोऽध्यायः प्रासादस्तवनं नाम अष्टपञ्चाशोऽध्यायः १ ते ५० ५१ ते १०० १०१ ते १५० १५१ ते २०० २०१ ते २४५ १ ते ५० ५१ ते ९९ पीठपञ्चकलक्षणं नामैकषष्टितमोऽध्यायः १ ते ५० ५१ ते १०० १०१ ते १५० १५१ ते २२० १ ते ५० ५१ ते ११७ १ ते ५० ५१ ते १२० १ ते ५० ५१ ते १०० १०१ ते १५० १५१ ते २०१ मण्डपलक्षणं नाम षट्षष्टितमोऽध्यायः १ ते ५० ५१ ते ११४ जगत्यङ्गसमुदायाधिकारो नामाष्टषष्टितमोऽध्यायः १ ते ५० ५१ ते १०० १०१ ते १५० १५१ ते २२० १ ते ५० ५१ ते १०० १०१ ते १५७ चित्रोद्देशो नामैकसप्ततितमोऽध्यायः भूमिबन्धो नाम द्विसप्ततितमोऽध्यायः लेप्यकर्मादिकं नाम त्रिसप्ततितमोऽध्यायः अथाण्डकप्रमाणं नाम चतुःसप्ततितमोऽध्यायः मानोत्पत्तिर्नाम पञ्चसप्ततितमोऽध्यायः प्रतिमालक्षणं नाम षट्सप्ततितमोऽध्यायः देवादिरूपप्रहरणसंयोगलक्षणं नाम सप्तसप्ततितमोऽध्यायः दोषगुणनिरूपणं नामाष्टसप्ततितमोऽध्यायः १ ते ५० ५१ ते १०० १५१ ते १७० वैष्णवादिस्थानकलक्षणं नामाशीतितमोऽध्यायः पञ्चपुरुषस्त्रीलक्षणं नामैकाशीतितमोऽध्यायः रसदृष्टिलक्षणं नाम द्व्यशीतितमोऽध्यायः १ ते ५० ५१ ते १०० १०१ ते १५० १५१ ते २०० २०१ ते २५४ रुचकादिचतुष्षष्टिप्रासादकः षट्पञ्चाशोऽध्यायः - २५१ ते ३१२ समराङ्गणसूत्रधार भारतीय वास्तुशास्त्र से सम्बन्धित ज्ञानकोशीय ग्रन्थ है जिसकी रचना धार के परमार राजा भोज (1000–1055 ई) ने की थी। Tags : bhojsamarangansanskritvastu shastraभोजवास्तुशास्त्रसंस्कृतसमराङ्गणसूत्रधार रुचकादिचतुष्षष्टिप्रासादकः षट्पञ्चाशोऽध्यायः - २५१ ते ३१२ Translation - भाषांतर पदपादविहीनाः स्युः क्रमेणोपरिभूमयः ।दिक्सूत्रेषु सकर्णेषु क्रिया प्राग्वद्विधीयते ॥२५१॥शिखरं दशविस्तारं भागैर्द्वा दशकोच्छ्रितम् ।चतुर्गुणेन सूत्रेण वेणुकोशं समालिखेत् ॥२५२॥स्कन्धकोशान्तरं चास्य त्रिभिर्भागैर्विभाजयेत् ।ग्रीवा च पद्मशीर्षं च तावद्भागार्धमुच्छ्रयात् ॥२५३॥भागमामालसारं स्यात् कलशो भागमेव च ।सातशृङ्गावृतो मेरुरयं प्रासाद ईरितः ॥२५४॥प्रदक्षिणीकृते तस्या तत्पुण्यं कनकाद्रि णा ।शैलेष्टकामये तत्स्यात्कृतेऽस्मिन्नधिकं ततः ॥२५५॥मेरुः ।नन्दिशालस्य संस्थाने तद्रू पे समवस्थिते ।द्वितीया रथिका कार्या भागद्वयविनिर्गता ॥२५६॥शेषो भद्र स्य विस्तारः स्वविस्तारोऽर्धनिर्गतः ।अष्टांशायामविस्तारः स्वविस्तारोर्धनिर्गतः ॥२५७॥अष्टांशायामविस्तारः शाला स्यात्पुरतः पुनः ।तस्या मध्ये भवेद्गर्भो द्विभागायामविस्तरः ॥२५८॥गर्भभित्तिर्भवेच्चास्य भागेनैकेन निर्गता ।बाह्यभित्तिस्तथैव स्यात्तत्समा चान्धकारिका ॥२५९॥द्विभागा रथिकास्तस्य सलिलान्तरभूषिताः ।शेषो भद्र स्य विस्तारो भागेनैकेन निर्गमः ॥२६०॥०=गङ्घोत्सेधं पीठं च विदध्यान्नन्दिसारवत् ।रथिकास्तत्र कर्तव्याः कर्ण भागत्रयोच्छ्रिताः ॥२६१॥षडंशान् विस्तृतः कुर्याच्छिखरं सप्तचोच्छ्रितम् ।कार्या केसरिवच्चास्य रेखा सामलसारिका ॥२६२॥एभिर्गुणैर्युतं चैनं पार्श्वयोरपि योजयेत् ।प्रासादोऽयं लताख्यः स्यात्कर्तव्यो दानवद्विषः ॥२६३॥लताख्यः ।अग्रेतनं यदा पश्चान्न्यस्येत सरिणं तदा ।भवेत्त्रिपुष्कराख्योऽयं प्रासादस्त्रिदशालयः ॥२६४॥त्रिपुष्कराख्यः ।नन्दिशालस्य सर्वासु दिक्षुयं केसरी यदा ।स्यात्तदा पञ्चवक्त्रोऽसौ विधेयः पद्मजन्मनः ॥२६५॥पञ्चवक्त्रः ।यदा च पञ्चवक्त्रस्य मध्ये गर्भा न दीयते ।बाह्यलेखादिकं प्राग्वद्दिक्षु सर्वासु कल्पते ॥२६६॥चतुःस्तम्भसमा कार्या मध्ये चास्य चतुष्किका ।वितानं चोपरि न्यस्येन्मध्यतस्तस्य भूषणम् ॥२६७॥हरो हिरण्यगर्भश्च हरिर्दिनकरस्तथा ।एते चतुर्मुखे स्थाप्या नापरेषां भवत्ययम् ॥२६८॥चतुर्मुखः ।चतुःषष्टिकरे कुर्यात्क्षेत्रे मानैकविंशतिः ।सप्तवर्गपदो गर्भो भित्त्या सह विधीयते ॥२६९॥स्याद्गर्भभित्तिर्भागेन भागेनैवान्धकारिका ।षड्भागं कर्णविस्तारं दशधा प्रविभाजयेत् ॥२७०॥षड्भिर्भागैर्भवेदस्य गर्भो भित्त्या समन्वितः ।बाह्या भित्तिर्भवेद्भागाद्भागश्चैवान्धकारिका ॥२७१॥द्विभागं कर्णवैपुल्यमुदकान्तरभूषितम् ।शेषो भद्र स्य विस्तारश्चतुर्थांशविनिर्गतः ॥२७२॥क्षोभयेदर्धभागे तु तदर्धेन जलान्तरम् ।मत्तवारणकैर्विद्यात्स्तम्भैरुपरि शोभिताः ॥२७३॥रथिकैका त्रिभागेन पुनः सार्धद्विभागिका ।तासां परस्परक्षेपो भागो भागो विधीयते ॥२७४॥शेषं शिखरविस्तारः सार्धषट्कं तदुच्छ्रयः ।पृथक्सूत्रैस्त्रिगुणितैर्वेणुकोशं समालिखेत् ॥२७५॥स्कन्धकोशान्तरं भागैश्चतुर्भिस्तस्य भाजयेत् ।ग्रीवार्धभागमुत्सेधो भागेनामलसारकम् ॥२७६॥पद्मशीर्षस्तथा भागं कलशो भागसंमितः ।अर्धभागसमोत्सेधं कारयेद्बीजपूरकम् ॥२७७॥सर्वकर्णेषु कर्तव्याः क्रियाश्चैवं विचक्षणैः ।दिक्सूत्रबाह्यभागेषु वलभीं संन्निवेशयेत् ॥२७८॥निर्गमे पञ्चभागः स्यात्तिर्यक्प्रक्षिप्तभागिकाः ।अस्या द्विभागिको गर्भो मध्ये भागत्रयोच्छ्रितः ॥२७९॥भगार्धभागं भित्तिः स्यात्तत्समा चान्धकारिका ।तस्याश्चाग्रे विधातव्यः षड्दारुकसमन्वितम् ॥२८०॥एकैकां रथिकां सार्धभागां कर्णेषु योजयेत् ।शेषं भद्र स्य विस्तारो भागः स्यादस्य निर्गमः ॥२८१॥एवं भद्रं विभागं स्यात्स्तम्भद्वयसमन्वितम् ।वलभावर्तयोर्मध्ये भागमेकं च विस्तृतम् ॥२८२॥तत्रोदकान्तरं कुर्याद्गणद्वरविभूषितम् ।नवभागोच्छ्रिता जङ्घा पीठमस्य तदर्धतः ॥२८३॥मेखलान्तरपत्रे च कुर्याद्भागद्वयोन्मिते ।रथिका स्याद्द्विभागा च ततः सार्धैकभागिका ॥२८४॥शेषं शिखरविस्तारः पञ्चांशं शिखरोच्छ्रयः ।उपर्युपरि कर्तव्यं सर्वतोभद्र कद्वयम् ॥२८५॥द्वे द्वे च सर्वतोभद्रे कर्णे कर्णे निवेशयेत् ।दिकसूत्रेषु समस्तेषु क्रियामेवं प्रकल्पयेत् ॥२८६॥विस्तार शिखरस्याष्टौ भागात्स्यार्धसमुच्छ्रयः ।पञ्चव्यासेन सूत्रेण --- ॥२८७॥वेणुकोशान्तरं चास्य त्रिभिर्भागैर्विभाजयेत् ।ग्रीवा च पद्मशीर्षं च भागेन स्यादिदं द्वयम् ॥२८८॥प्रत्येकं भागिकौ कार्यौ कलशामलसारकौ ।तवात्मकोऽयं कथितः प्रासादस्त्रिदशालयः ॥२८९॥नवात्मकः ।विन्यसेद्दीशमैशान्यामाग्नेय्यां पुरुषोत्तमम् ।ब्रह्माणं वायुदिग्भागे नैरृते च दिवाकरम् ॥२९०॥मध्यगर्भे शिवः स्थाप्यः प्राच्यामपि पुरन्दरः ।धर्मोयमां प्रतीच्यां च वरुणः सोम उत्तरे ॥२९१॥शक्तिसम्पन्नः पूर्वायतनसन्निधौ ।प्रासादं कारयेद्यत्नात्तदाद्यं नैव पीडयेत् ॥२९२॥उत्कृष्टमपकृष्टं वा यत्र स्थाने निवेशयेत् ।प्रासादं तत्र कर्माणि यानि तान्यभिदध्महे ॥२९३॥सम्मुखं नैव कुर्वीत हीनं वा यदि वाधिकम् ।वेदभागास्तं तव सश्रितस्तंस्या स्यात्प्रासादोऽतिविगर्हितः ॥२९४॥अन्योन्यं दक्षिणे वेधो हीन इत्यभिधीयते ।वेधभागामृते मृत्युं हीने हानिं विनिर्दिशेत् ॥२९५॥हरो हिरण्यगर्भश्च हरिर्दिनकरस्तथा ।एते देवाः समाख्याताः परस्परविरोधिनः ॥२९६॥एता न दक्षिणापार्श्वे स्थापयेत्पुरमाश्रितान् ।वामतो नान्यदेवानां नापि हीनालयेषु च ॥२९७॥नैतेषां दक्षिणे कुर्यादन्येषामपि चालयम्हीनं वा यदि वाहीनं यदीच्छेच्छ्रिय आत्मनः ॥२९८॥तेषामुत्तरतो नूनं यदि च्छेद्देवतालयम् ।प्रासादपदमानेन नवषट्त्रिंशदान्तरे ॥२९९॥प्रासादं कारयेदन्यं मर्मवेधविवर्जितान् ।पुरतः पृष्ठतो वापि पार्श्वयोरुभयोरपि ॥३००॥महामर्माणि चत्वारि कुर्याद्यत्ताघतोत्तरे ।क्षणमध्येषु सर्वेषु द्र व्यमेकं न दापयेत् ॥३०१॥तदा युग्म --- वेधमर्म विवर्जयेत् ।क्षणमध्ये यदा द्र व्यमेकं मोहात्प्रदीयते ॥३०२॥कर्तृकारकयोः पीडा भवेत्पूजा न तादृशी ।तस्मात्सर्वप्रयत्नेन स्थपतिः कारकोऽपि च ॥३०३॥मर्माणि वर्जयेद्यत्नात्प्रासादस्य समीपतः ।अथ मर्मवियुक्तो यः प्रासादं कर्तुमिच्छति ॥३०४॥प्रासादतः सदा तेन विधेयं महदन्तरम् ।प्रासादां तुत्तरं कवः कार्यं फलपुष्पैर्विभूषितम् ॥३०५॥य एतैर्लक्षणैर्युक्तं कारयेद्देवतालयम् ।धनधान्यमवाप्नोति मोदते सुखमेव च ॥३०६॥हरो हिरण्यगर्भश्च हरिर्दिनकरोऽपि च ।एते देवाः समाख्याता देवनामपि पूजिताः ॥३०७॥पृथक्त्वेन च कर्तव्या एकरूपसमन्विताः ।अष्टबाहुश्चतुर्वक्त्रः कुण्डली मुकुटोज्ज्वलः ॥३०८॥हारकेयूरसंयुक्तो रत्नमालोपशोभितः ।ऋष्यागतपुरः कार्यः पद्महस्तो दिवाकरः ॥३०९॥शङ्खचक्रधरो देवो वामे च मधुसूदनः ।कण्ठाभरणसंयुक्तो मूर्धा च मुकुटोज्ज्वलः ॥३१०॥ब्रह्मा पश्चिमतः कार्यो बृहज्जठरमण्डलः ।कुण्डिकामक्षसूत्रं च दधत्कूर्चविभूषितः ॥३११॥प्रासादा रुचकादयोऽत्र ललिताः प्राग्विंशतिः पञ्चयुक् ।तावन्तश्च ततोऽनु केसरिमुखाः सन्धारकाः कीर्तिताः ।मिश्राख्या नव पञ्च चानुकथितास्तद्वन्निगूढाख्यया ।षष्टिः स्याच्चतुरन्वितेति विदिता सैषा भवेत्सम्पदे ॥३१२॥इति महाराजाधिराजश्रीभोजदेवविरचिते समराङ्गणसूत्रधारापरनाम्नि वास्तुशास्त्रे रुचकादिचतुःषष्टिप्रासादको नाम षट्पञ्चाशोऽध्यायः । N/A References : N/A Last Updated : November 26, 2017 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP