संस्कृत सूची|शास्त्रः|वास्तुशास्त्रः|समराङ्गणसूत्रधार| १ ते ५० समराङ्गणसूत्रधार ८३ अध्यायांची नांवे महासमागमनो नाम प्रथमोऽध्यायः पुत्रसंवादो नाम द्वितीयोऽध्यायः प्रश्नो नाम तृतीयोऽध्यायः महदादिसर्गश्चतुर्थोऽध्यायः १ ते ५० ५१ ते १०५ सहदेवाधिकारो नाम षष्ठोऽध्यायः वर्णाश्रमप्रविभागो नाम सप्तमोऽध्यायः भूमिपरीक्षा नामाष्टमोऽध्यायः हस्तलक्षणं नाम नवमोऽध्यायः १ ते ५० ५१ ते १०० १०१ ते १४८ वास्तुत्रयविभागो नामैकादशोऽध्यायः नाड्यादिसिरादिविकल्पो नाम द्वादशोऽध्यायः मर्मवेधस्त्रयोदशोऽध्यायः पुरुषाङ्गदेवतानिघण्ट्वादिनिर्णयश्चतुर्दशोऽध्यायः राजनिवेशो नाम पञ्चदशोऽध्यायः वनप्रवेशो नाम षोडशोऽध्यायः १ ते ५० ५१ ते १०० १०१ ते १५० १५१ ते २१२ नगरादिसंज्ञा नामाष्टादशोऽध्यायः १ ते ५० ५१ ते १०० १०१ ते १५० १५१ ते २०० २०१ ते २२४ निम्नोच्चादिफलानि नाम विंशोऽध्यायः द्वासप्ततित्रिशाललक्षणं नामैकविंशोऽध्यायः द्विशालगृहलक्षणं नाम द्वाविंशोध्यायः एकशालालक्षणफलादि नाम त्रयोविंशोऽध्यायः द्वारपीठभित्तिमानादिकं नाम चतुर्विंशोऽध्यायः १ ते ५० ५१ ते १०० १०१ ते १५० १५१ ते १६४ १ ते ५० ५१ ते ८० सभाष्टकं नाम सप्तविंशोऽध्यायः गृहद्र व्यप्रमाणानि नामाष्टाविंशोऽध्यायः शयनासनलक्षणं नाम एकोनत्रिंशोऽध्यायः १ ते ५० ५१ ते १०० १०१ ते १४० १ ते ५० ५१ ते १०० १०१ ते १५० १५१ ते २०० २०१ ते २२३ गजशाला नाम द्वात्रिंशोऽध्यायः १ ते ५० ५१ ते ७९ अथाप्रयोज्यप्रयोज्यं नाम चतुस्त्रिंशोऽध्यायः शिलान्यासविधिर्नाम पञ्चत्रिंशोऽध्यायः बलिदानविधिर्नाम षट्त्रिंशोऽध्यायः १ ते ५० ५१ ते ८१ वास्तुसंस्थानमातृका नामाष्टात्रिंशोऽध्यायः द्वारगुणदोषो नामैकोनचत्वारिंशोऽध्यायः पीठमानं नाम चत्वारिंशोऽध्यायः चयविधिर्नामैकचत्वारिंशोऽध्यायः शान्तिकर्मविधिर्नाम द्विचत्वारिंशोऽध्यायः द्वारभङ्गफलं नाम त्रिचत्वारिंशोऽध्यायः स्थपतिलक्षणं नाम चतुश्चत्वारिंशोऽध्यायः अष्टङ्गलक्षणं नाम पञ्चचत्वारिंशोऽध्यायः तोरणभङ्गादिशान्तिको नाम षट्चत्वारिंशोऽध्यायः वेदीलक्षणं नाम सप्तचत्वारिंशोऽध्यायः १ ते ५० ५१ ते १०० १०१ ते १४० १ ते ५० ५१ ते १०० १०१ ते १५० १५१ ते २०३ प्रासादशुभाशुभलक्षणं नाम पञ्चाशोऽध्यायः अथायतननिवेशो नामैकपञ्चाशोऽध्यायः प्रासादजातिर्नाम द्विपञ्चाशोऽध्यायः जघन्यवास्तुद्वारं नाम त्रिपञ्चाशोऽध्यायः १ ते ५० ५१ ते १०० १०१ ते १२३ १ ते ५० ५१ ते १०० १०१ ते १६० १ ते ५० ५१ ते १०० १०१ ते १५० १५१ ते २०० २०१ ते २५० २५१ ते ३१२ १ ते ५० ५१ ते १०० १०१ ते १५० १५१ ते २१० मेर्वादिविंशिका नाम सप्तपञ्चाशोऽध्यायः प्रासादस्तवनं नाम अष्टपञ्चाशोऽध्यायः १ ते ५० ५१ ते १०० १०१ ते १५० १५१ ते २०० २०१ ते २४५ १ ते ५० ५१ ते ९९ पीठपञ्चकलक्षणं नामैकषष्टितमोऽध्यायः १ ते ५० ५१ ते १०० १०१ ते १५० १५१ ते २२० १ ते ५० ५१ ते ११७ १ ते ५० ५१ ते १२० १ ते ५० ५१ ते १०० १०१ ते १५० १५१ ते २०१ मण्डपलक्षणं नाम षट्षष्टितमोऽध्यायः १ ते ५० ५१ ते ११४ जगत्यङ्गसमुदायाधिकारो नामाष्टषष्टितमोऽध्यायः १ ते ५० ५१ ते १०० १०१ ते १५० १५१ ते २२० १ ते ५० ५१ ते १०० १०१ ते १५७ चित्रोद्देशो नामैकसप्ततितमोऽध्यायः भूमिबन्धो नाम द्विसप्ततितमोऽध्यायः लेप्यकर्मादिकं नाम त्रिसप्ततितमोऽध्यायः अथाण्डकप्रमाणं नाम चतुःसप्ततितमोऽध्यायः मानोत्पत्तिर्नाम पञ्चसप्ततितमोऽध्यायः प्रतिमालक्षणं नाम षट्सप्ततितमोऽध्यायः देवादिरूपप्रहरणसंयोगलक्षणं नाम सप्तसप्ततितमोऽध्यायः दोषगुणनिरूपणं नामाष्टसप्ततितमोऽध्यायः १ ते ५० ५१ ते १०० १५१ ते १७० वैष्णवादिस्थानकलक्षणं नामाशीतितमोऽध्यायः पञ्चपुरुषस्त्रीलक्षणं नामैकाशीतितमोऽध्यायः रसदृष्टिलक्षणं नाम द्व्यशीतितमोऽध्यायः १ ते ५० ५१ ते १०० १०१ ते १५० १५१ ते २०० २०१ ते २५४ मेर्वादिविंशिका नाम सप्तपञ्चाशोऽध्यायः - १ ते ५० समराङ्गणसूत्रधार भारतीय वास्तुशास्त्र से सम्बन्धित ज्ञानकोशीय ग्रन्थ है जिसकी रचना धार के परमार राजा भोज (1000–1055 ई) ने की थी। Tags : bhojsamarangansanskritvastu shastraभोजवास्तुशास्त्रसंस्कृतसमराङ्गणसूत्रधार मेर्वादिविंशिका नाम सप्तपञ्चाशोऽध्यायः - १ ते ५० Translation - भाषांतर अथान्यान् कथयिष्यामः समासात्सूक्ष्मलक्षणान् ।पञ्चाशतमिहोत्कृष्टान् प्रासादाञ्श्रीधरादिकान् ॥१॥श्रीधरो हेमकूटश्च सुभद्रो रिपुकेसरी ।पुष्पो विजयभद्र श्च श्रीनिवासः सुदर्शनः ॥२॥भगवत्याः प्रिया ह्येते तथा कुसुमशेखरः ।देवस्य शम्भोर्दयितः प्रासादः सुरसुन्दरः ॥३॥नन्द्यावर्तश्च पूर्णश्च सिद्धार्थः सिरववर्धनः ।त्रैलोक्यभूषणश्चेति पद्मसु ब्रह्मणः प्रियः ॥४॥पक्षबाहुर्विशालश्च तथान्यः कमलोद्भवः ।हंसध्वज इति ख्याताः प्रासादा ब्रह्मणः प्रियाः ॥५॥लक्ष्मीधराक्षः प्रासादो वस्ततौ मधुवद्विषः ।महावज्रो रतितनुः सिद्धकामस्तथापरः ॥६॥पञ्चचामरसंज्ञश्च नन्दिघोषाख्य एव च ।अनुकीर्णः सुप्रभश्च सुरानन्दोऽथ हर्षणः ॥७॥दुर्धरो दुर्जयश्चैव त्रिकूटो नवशेखरः ।पुण्डरीकः सुनाभश्च महेन्द्रः शिखिशेखरः ॥८॥वराठः सुमुखः शुद्धश्चत्वारिंशादितीरिताः ।मिश्रकास्तु दश प्रोक्ता मिथः कर्मप्रभेदतः ॥९॥विज्ञेयो नन्दसंज्ञश्च महाघोषस्तथापरः ।वृद्धिरामाभिधानश्च प्रासादोऽन्यो वसुन्धरः ॥१०॥मुद्गकोऽथ बृहच्छालस्तथैव च सुधाधरः ।संवराख्यः शुकनिभस्तथा सर्वाङ्गसुन्दरः ॥११॥पञ्चाशदेवं कथिता प्रासादानां यथाक्रमम् ।इदानीं लक्ष्मतो ब्रूमः श्रीधरं सर्वकामिकम् ॥१२॥वल्लभं सर्वदेवानां पुण्यानां कारणं परम् ।चतुरश्रीकृते क्षेत्रे चतुर्विंशतिभाजिते ॥१३॥द्वादशाखिलकोणेषु कर्णशृङ्गाणि योजयेत् ।विस्तारं च चतुर्भागमेकैकस्य विनिर्दिशेत् ॥१४॥परस्परं च निष्कोऽसा द्विपदोऽत्र विधीयते ।द्व्यंशानि कर्णिभद्रा णि निर्गमश्चार्धभागिकः ॥१५॥कर्णकर्णपदेन्यस्यात्पदार्धाधेत विस्तृतः ।वारिमग्नो विधातव्यो मध्यगः दशभागिकम् ।निर्गमश्च त्रिभिर्भागैः समसूत्रसमाहितः ॥१७॥द्विपादा बाह्यभित्तिस्तु द्विपादा चान्धकारिका ।भवेच्छतपदः कन्दो गर्भः षड्विंशदंशकः ॥१८॥द्विपदः कर्णकन्दश्च प्रत्यङ्गं पदिकं स्मृतम् ।निर्गतं चार्धभागेन चतुर्दिक्षु व्यवस्थितम् ॥१९॥भागेन निर्गता कार्या शाला चास्य चतुष्पदा ।अभ्यन्तरं बाह्यभित्तेः कन्दस्य च तथा बहिः ॥२०॥उभयोरन्तरं कार्यं विस्तारात्पञ्चभागिकम् ।अन्तरालं च कुर्वीत शृङ्गं तच्च चतुष्पदम् ॥२१॥विभागस्तादृशोऽस्य स्याद्बाह्यशृङ्गस्य यादृशः ।भित्तिकन्दान्तराले च कार्यं षड्दारुकं बुधैः ॥२२॥इतिकातोरणयुतं चतुर्दिक्षु मनोरमम् ।पुरतो मण्डपं कुर्यात्सर्वलक्षणसंयुतम् ॥२३॥भागैः पञ्चाशता कुर्यादस्य मानमिहोर्ध्वगम् ।एषां मध्ये सविंशत्या प्रविधेयास्तुलोदयाः ॥२४॥तेषां मध्येंऽशकैः षड्भिर्वेदीबन्धो विधीयते ।नवधा भाजिते तत्र वेदीबन्धे समैः पदैः ॥२५॥कुम्भश्चतुष्पदस्तत्र द्विपदस्तु मसूरकः ।भागेनान्तरपत्रं स्यान्मेखला द्विपदाः स्मृताः ॥२६॥मूलभागास्तु ये तैः स्याज्जङ्घा दशभिरुच्छ्रिताः ।द्विपदा मेखला प्रोक्ता द्व्यंशे चान्तरपत्रके ॥२७॥अधस्तादूर्ध्वपक्षस्य तलपट्टस्य चोपरि ।षोडशांशा विधातव्यास्तत्रैतत् कर्म वार्चयेत् ॥२८॥भागेन रूपधारा स्यात्सार्धा सार्धा च सेनकम् ।वेदी भागत्रयोत्सेधा द्वेनासनपट्टकः ॥२९॥सोर्ध्वभागेन कर्तव्यमूर्ध्वचन्द्रा वलोकनम् ।आसनस्योर्ध्वतः स्तम्भाः सार्धपञ्चपदाः स्मृताः ॥३०॥भागेनोच्छालकं कार्यं शीर्षं सार्धपदोन्नतम् ।पट्टः स्याद्द्विपदोत्सेधस्त्रिपदश्छाद्यविस्तरः ॥३१॥लम्बनं तु तदर्धेन यथाशोभमथापि वा ।ऊर्ध्वनानतरः पत्रस्य कक्प्यतेऽप्ययथाक्रमम् ।कोणेषु कूटः कर्तव्यो विविधैः कर्मसम्भ्रमैः ।विस्तारः स्याच्चतुर्भागस्तेषां षड्भाग उच्छ्रयः ॥३३॥कर्णा घण्टासमायुक्ताः कूटमानं विधीयते ।तत्र मृत्युक्रमात् कुर्यादेकैकं तदूर्ध्वतः ॥३४॥तेषां च तुल्यता कार्या विस्तारादुच्छ्रयादपि ।चत्वार एककर्णे स्युरेवं सर्वेषु षोडश ॥३५॥सिंहकर्णस्य विस्तारामानं स्यादष्टभागिकम् ।षड्भागस्तु तथोत्सेधो रथिकैश्च विभूषणम् ॥३६॥गुणद्वारसमायुक्तः शूरसेनाभिधानकः ।सिंहकर्णो विधातव्यः सर्वकर्मसमाकुलः ॥३७॥सिंहकर्णोदयादूर्ध्वमुरोमञ्जरिका भवेत् ।विस्तारादष्टभागासावुच्छ्रायान्नवभागिका ॥३८॥लतापञ्चकसंयुक्ता मञ्जरी स्यात्सुशोभिता ।ग्रीवा पादोनभागा स्यादण्डकं भागमुच्छ्रितम् ॥३९॥चन्द्रि का चार्धभागेन कलशश्चैव भागिकः ।कूटमूर्ध्वे द्वितीया स्यादुरोमञ्जरिका तथा ॥४०॥भागात्तद्वादशविस्तीर्णा तु सार्धा न त्रिदशावाच्छ्रिता ।भागमेकं भवेद्ग्रीवा सार्धभागेन चाण्डकम् ॥४१॥कपरिं चार्धभागेन कलशश्च द्विभागिकः ।उरःशिखरकान्यष्टौ भवन्त्येवं चतुर्दशम् ॥४२॥द्वितीयकूटकस्योर्ध्वे कर्तव्या मूलमञ्जरी ।भागषोडशविस्तारा पदाष्टादशकोदयः ॥४३॥स्कन्धमानं हि सर्वेषां यथोक्तं शतवास्तुनि ।ग्रीवा सार्धपदांशा स्यादण्डकं द्विपदान्वितम् ॥४४॥कङ्कतीफलतुल्यानि कुर्यात् सर्वाण्डकानि च ।द्विपदं चण्डिकायुग्मं कार्यं सामलसारकम् ॥४५॥तस्योपरि स्यात्कलशो वर्तुलस्त्रिपदोच्छ्रितः ।तोरणैर्मकरैः पत्रैः साग्रैश्च सवरालकैः ॥४६॥हस्तिमुण्डैः समाकीर्णमधरोगणभूषितम् ।ईदृशं श्रीधरं कुर्यात्सर्वालङ्कारभूषितम् ॥४७॥श्रीधरं कारयेद्यस्तु किर्त्त्यर्थमपि मानवः ।इहैव लभते सौख्यममुत्रेन्द्र त्वमाप्नुयात् ॥४८॥भोगान् भुक्त्वा पुमान् स्वर्गं नीयते च परे पदे ।सर्वपापविनिर्मुक्तः शान्तश्च स्यान्न संशयः ॥४९॥श्रीधरः ।हेमकूटमथ ब्रूमः शुभलक्षणसंयुतम् ।सर्वविद्याधरस्थानमाश्रयः स पिनाकिनः ॥५०॥ N/A References : N/A Last Updated : November 26, 2017 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP