संस्कृत सूची|शास्त्रः|वास्तुशास्त्रः|समराङ्गणसूत्रधार| हस्तलक्षणं नाम नवमोऽध्यायः समराङ्गणसूत्रधार ८३ अध्यायांची नांवे महासमागमनो नाम प्रथमोऽध्यायः पुत्रसंवादो नाम द्वितीयोऽध्यायः प्रश्नो नाम तृतीयोऽध्यायः महदादिसर्गश्चतुर्थोऽध्यायः १ ते ५० ५१ ते १०५ सहदेवाधिकारो नाम षष्ठोऽध्यायः वर्णाश्रमप्रविभागो नाम सप्तमोऽध्यायः भूमिपरीक्षा नामाष्टमोऽध्यायः हस्तलक्षणं नाम नवमोऽध्यायः १ ते ५० ५१ ते १०० १०१ ते १४८ वास्तुत्रयविभागो नामैकादशोऽध्यायः नाड्यादिसिरादिविकल्पो नाम द्वादशोऽध्यायः मर्मवेधस्त्रयोदशोऽध्यायः पुरुषाङ्गदेवतानिघण्ट्वादिनिर्णयश्चतुर्दशोऽध्यायः राजनिवेशो नाम पञ्चदशोऽध्यायः वनप्रवेशो नाम षोडशोऽध्यायः १ ते ५० ५१ ते १०० १०१ ते १५० १५१ ते २१२ नगरादिसंज्ञा नामाष्टादशोऽध्यायः १ ते ५० ५१ ते १०० १०१ ते १५० १५१ ते २०० २०१ ते २२४ निम्नोच्चादिफलानि नाम विंशोऽध्यायः द्वासप्ततित्रिशाललक्षणं नामैकविंशोऽध्यायः द्विशालगृहलक्षणं नाम द्वाविंशोध्यायः एकशालालक्षणफलादि नाम त्रयोविंशोऽध्यायः द्वारपीठभित्तिमानादिकं नाम चतुर्विंशोऽध्यायः १ ते ५० ५१ ते १०० १०१ ते १५० १५१ ते १६४ १ ते ५० ५१ ते ८० सभाष्टकं नाम सप्तविंशोऽध्यायः गृहद्र व्यप्रमाणानि नामाष्टाविंशोऽध्यायः शयनासनलक्षणं नाम एकोनत्रिंशोऽध्यायः १ ते ५० ५१ ते १०० १०१ ते १४० १ ते ५० ५१ ते १०० १०१ ते १५० १५१ ते २०० २०१ ते २२३ गजशाला नाम द्वात्रिंशोऽध्यायः १ ते ५० ५१ ते ७९ अथाप्रयोज्यप्रयोज्यं नाम चतुस्त्रिंशोऽध्यायः शिलान्यासविधिर्नाम पञ्चत्रिंशोऽध्यायः बलिदानविधिर्नाम षट्त्रिंशोऽध्यायः १ ते ५० ५१ ते ८१ वास्तुसंस्थानमातृका नामाष्टात्रिंशोऽध्यायः द्वारगुणदोषो नामैकोनचत्वारिंशोऽध्यायः पीठमानं नाम चत्वारिंशोऽध्यायः चयविधिर्नामैकचत्वारिंशोऽध्यायः शान्तिकर्मविधिर्नाम द्विचत्वारिंशोऽध्यायः द्वारभङ्गफलं नाम त्रिचत्वारिंशोऽध्यायः स्थपतिलक्षणं नाम चतुश्चत्वारिंशोऽध्यायः अष्टङ्गलक्षणं नाम पञ्चचत्वारिंशोऽध्यायः तोरणभङ्गादिशान्तिको नाम षट्चत्वारिंशोऽध्यायः वेदीलक्षणं नाम सप्तचत्वारिंशोऽध्यायः १ ते ५० ५१ ते १०० १०१ ते १४० १ ते ५० ५१ ते १०० १०१ ते १५० १५१ ते २०३ प्रासादशुभाशुभलक्षणं नाम पञ्चाशोऽध्यायः अथायतननिवेशो नामैकपञ्चाशोऽध्यायः प्रासादजातिर्नाम द्विपञ्चाशोऽध्यायः जघन्यवास्तुद्वारं नाम त्रिपञ्चाशोऽध्यायः १ ते ५० ५१ ते १०० १०१ ते १२३ १ ते ५० ५१ ते १०० १०१ ते १६० १ ते ५० ५१ ते १०० १०१ ते १५० १५१ ते २०० २०१ ते २५० २५१ ते ३१२ १ ते ५० ५१ ते १०० १०१ ते १५० १५१ ते २१० मेर्वादिविंशिका नाम सप्तपञ्चाशोऽध्यायः प्रासादस्तवनं नाम अष्टपञ्चाशोऽध्यायः १ ते ५० ५१ ते १०० १०१ ते १५० १५१ ते २०० २०१ ते २४५ १ ते ५० ५१ ते ९९ पीठपञ्चकलक्षणं नामैकषष्टितमोऽध्यायः १ ते ५० ५१ ते १०० १०१ ते १५० १५१ ते २२० १ ते ५० ५१ ते ११७ १ ते ५० ५१ ते १२० १ ते ५० ५१ ते १०० १०१ ते १५० १५१ ते २०१ मण्डपलक्षणं नाम षट्षष्टितमोऽध्यायः १ ते ५० ५१ ते ११४ जगत्यङ्गसमुदायाधिकारो नामाष्टषष्टितमोऽध्यायः १ ते ५० ५१ ते १०० १०१ ते १५० १५१ ते २२० १ ते ५० ५१ ते १०० १०१ ते १५७ चित्रोद्देशो नामैकसप्ततितमोऽध्यायः भूमिबन्धो नाम द्विसप्ततितमोऽध्यायः लेप्यकर्मादिकं नाम त्रिसप्ततितमोऽध्यायः अथाण्डकप्रमाणं नाम चतुःसप्ततितमोऽध्यायः मानोत्पत्तिर्नाम पञ्चसप्ततितमोऽध्यायः प्रतिमालक्षणं नाम षट्सप्ततितमोऽध्यायः देवादिरूपप्रहरणसंयोगलक्षणं नाम सप्तसप्ततितमोऽध्यायः दोषगुणनिरूपणं नामाष्टसप्ततितमोऽध्यायः १ ते ५० ५१ ते १०० १५१ ते १७० वैष्णवादिस्थानकलक्षणं नामाशीतितमोऽध्यायः पञ्चपुरुषस्त्रीलक्षणं नामैकाशीतितमोऽध्यायः रसदृष्टिलक्षणं नाम द्व्यशीतितमोऽध्यायः १ ते ५० ५१ ते १०० १०१ ते १५० १५१ ते २०० २०१ ते २५४ हस्तलक्षणं नाम नवमोऽध्यायः समराङ्गणसूत्रधार भारतीय वास्तुशास्त्र से सम्बन्धित ज्ञानकोशीय ग्रन्थ है जिसकी रचना धार के परमार राजा भोज (1000–1055 ई) ने की थी। Tags : bhojsamarangansanskritvastu shastraभोजवास्तुशास्त्रसंस्कृतसमराङ्गणसूत्रधार हस्तलक्षणं नाम नवमोऽध्यायः Translation - भाषांतर हेतुः समस्तवास्तूनामाधारः सर्वकर्मणाम् ।मानोन्मानविभागादिनिर्णयैकनिबन्धनम् ॥१॥परिध्युदयविस्तारदैर्घ्याणां स्युरमी यतः ।ज्येष्ठमध्याधमा भेदा यं च ज्ञात्वा न मुह्यति ॥२॥इदानीं तस्य हस्तस्य सम्यङ् निश्चयसंयुतम् ।कथ्यते त्रिविधस्यापि लक्षणं शास्त्रदर्शितम् ॥३॥रेण्वष्टकेन वालाग्रं लिक्षा स्यादष्टभिस्तु तैः ।भवेद् यूकाष्टभिस्ताभिर्यवमध्यं तदष्टकात् ॥४॥अष्टाभिः सप्तभिः षड्भिरङ्गुलानि यवोदरैः ।ज्येष्ठमध्यकनिष्ठानि तच्चतुर्विंशतिः करः ॥५॥सोऽष्टभिः पर्वभिर्युक्तः करः कार्यो विजानता ।करस्यार्धं चतुःपर्व शेषं स्याद्भक्तमङ्गुलैः ॥६॥तत्राग्रे पर्वरेखाः स्युस्तिस्रः पुष्पकभूषिताः ।शेषास्वङ्गुलरेखासु पुष्पाणि विदधीत न ॥७॥अत्रार्धे मध्यतः कार्यं द्वेधा पञ्चममङ्गुलम् ।मध्यं त्रिधाष्टमं कार्यं चतुर्धा द्वादशं ततः ॥८॥हस्तः स्वाङ्गुलमानेन विधेयाङ्गुलमिष्यते ।तत्साधं द्विगुणं वापि बाहुल्यं तु तदर्धतः ॥९॥कथितः करभेदोऽयमङ्गुलानां विभेदतः ।तस्य निर्माणदारूणि देवताश्च प्रचक्ष्महे ॥१०॥खदिराञ्जनवंशादि श्लक्ष्णं हीरं मनोरमम् ।सारवच्च भवेदिष्टं दारु हस्तप्रकल्पने ॥११॥ग्रन्थिलं लघु निर्दग्धं जीर्णं विस्फुटितं तथा ।अदृढं कोटराक्रान्तं दारु हस्ताय नेष्यते ॥१२॥त्रिविधस्याप्यथैतस्य पर्वरेखासु देवताः ।मध्यादारभ्य विज्ञेयाः क्रमेण नव वच्मि ताः ॥१३॥ब्रह्मा वह्निर्यमो विश्वकर्मा नाथश्च पाथसाम् ।वायुर्धनाधिपो रुद्रो विष्णुश्चाग्रे जगत्पतिः ॥१४॥वास्तुद्र व्यविभागेषु यानेषु च विशेषतः ।प्रारभेत यतो मानं कल्पयेद्देवतास्ततः ॥१५॥विद्धैश्च द्र व्यमध्यैश्च देवताभिश्च पीडिते ।प्रत्येकं त्रिदशस्थाने यथोक्तं फलमादिशेत् ॥१६॥शिरोर्त्तिरनलप्लोषो मरणं स्थपतेर्वधः ।अतिसारो मरुद्व्याधिरर्थभ्रंशो भयं नृपात् ॥१७॥कुलपीडा च महती कर्तृकारकयोरिति ।यथाक्रमममी दोषा ब्रह्मादीनां निपीडनात् ॥१८॥ब्रह्मानलकयोर्मध्ये यदा हस्तं तु धारयेत् ।कर्मस्वधिगतस्तेषां पुत्रलाभो भविष्यति ॥१९॥कर्मणः सुष्ठुनिष्पत्तिस्तिष्टतेभोगमक्षयम् ।ब्रह्मा यमस्तयोर्मध्ये यदा हस्तं तु धारयेत् ॥२०॥कर्ता सशिल्पिकश्चैव नचिरेण विनश्यति ।विश्वानलकयोर्मध्ये हस्तसूत्रं यदा धृतम् ॥२१॥सुकर्मणि मध्यान्तं निष्पन्ने पुरवृद्धिता ।यमजलदयोर्मध्ये मध्यमं च विनिर्दिशेत् ॥२२॥पवनो विश्वकर्मा चोभयोर्मध्ये च धारणम् ।यदा तु तत्र कर्मान्तं शुभं तत्सर्वकामदम् ॥२३॥नीरधनदयोर्मध्ये मध्यमं च विनिर्दिशेत् ।एषां मध्ये यदा वत्सहस्तं तत्र यदा धृतम् ॥२४॥अनावृष्टिभयं लोके देशभङ्गो न संशयः ।रुद्र पवनयोर्मध्ये रुचिहस्तं तु धारयेत् ॥२५॥तत्र लक्ष्मीवतस्तस्य कार्यसिद्धिर्न संशयः ।विष्णुधनदयोर्मध्ये यदा पाणिकरायतः ॥२६॥विविधास्तत्र भोगाश्च प्रजायन्ते नरस्य हि ।ज्येष्ठादीनामथैतेषां संज्ञाभेदो विधीयते ॥२७॥यच्च येन भवेद्द्रव्यं मेयं तदपि कीर्त्यते ।यवाष्टकाङ्गुलैः कॢप्तः प्रकर्षेणायतः किल ॥२८॥ज्येष्ठो हस्तः स विद्वद्भिः प्रोक्तः प्राशयसंज्ञितः ।यः पुनः कल्पितः सप्तयवकॢप्तैरिहाङ्गुलैः ॥२९॥तज्ज्ञैः स मध्यमो हस्तः साधारण इति स्मृतः ।मात्रेत्यल्पं यतः प्रोक्तं हस्तश्च शय उच्यते ॥३०॥तेन मात्राशयः स स्याद्धस्तो यः षड्यवाङ्गुलः ।विभागायामविस्ताराः खेटग्रामपुरादिषु ॥३१॥प्रासादवेश्मपरिखाद्वाररथ्यासभादिषु ।मार्गाश्च निर्गमाश्चैषां सीमक्षेत्रान्तराणि च ॥३२॥वनोपवनभागाश्च देशान्तरविभक्तयः ।योजनक्रोशगव्यूतिप्रमाणमपि चाध्वनः ॥३३॥प्राशयेन प्रमातव्याः खातक्रकचराशयः ।तलोच्छ्रयान् मूलपादान् जलोद्देशानधः क्षितेः ॥३४॥तथा दोलाम्बुशस्त्रादि पातमानविनिर्णयम् ।शैलखातनिकेतानि सुरुङ्गामानमान्तरम् ॥३५॥साधारणेन वाट्यध्वमानं च परिकल्पयेत् ।आयुधानि धनुर्दण्डान् यानं शयनमासनम् ॥३६॥प्रमाणं कूपवापीनां गजानां वाजिनां नृणाम् ।अरघट्टेक्षुयन्त्राणि युगयूपहलानि च ॥३७॥शिल्प्युपस्करनौछत्रध्वजातोद्यानि यानि च ।वृसीधर्मोपकरणपटवानादिकं च यत् ॥३८॥नल्वदण्डांस्तथा मात्राशयहस्तेन मापयेत् ।भेदत्रयान्वितमपि प्रोक्तं हस्तस्य लक्षणम् ॥३९॥संज्ञाभेदोऽथ सामान्यमानानां प्रतिपाद्यते ।स्यादेकमङ्गुलं मात्रा कला प्रोक्ताङ्गुलद्वयम् ॥४०॥पर्व त्रीण्यङ्गुलान्याहुर्मुष्टिः स्याच्चतुरङ्गुला ।तलं स्यात्पञ्चभिः षड्भिः करपादाङ्गुलैर्भवेत् ॥४१॥सप्तभिर्दिष्टिरष्टाभिरङ्गुलैस्तूणिरिष्यते ।प्रादेशो नवभिस्तैः स्याच्छ्यतालो दशाङ्गुलः ॥४२॥गोकर्ण एकादशभिर्वितस्तिर्द्वादशाङ्गुला ।चतुर्दशभिरुद्दिष्टः पादो नाम तथाङ्गुलैः ॥४३॥रत्निः स्यादेकविंशत्या स्यादरत्निः करोन्मितः ।द्वाचत्वारिंशता किष्कुरङ्गुलैः परिकीर्त्तितः ॥४४॥चतुरुत्तरयाशीत्या व्यामः स्यात्पुरुषस्तथा ।षण्णवत्याङ्गुलैश्चापं भवेन्नाडीयुगं तथा ॥४५॥शतं षडुत्तरं दण्डो नल्वस्त्रिंशद्धनुर्मितः ।क्रोशो धनुःसहस्रं तु गव्यूतं तद्द्वयं विदुः ॥४६॥चतुर्गव्यूतमिच्छन्ति योजनं मानवेदिनः ।एकं दश शतमस्मात्सहस्रमनु चायुतम् ॥४७॥नियुतं प्रयुतं तस्मादर्बुदन्यर्बुदे अपि ।वृन्दखर्वनिखर्वाणि शङ्कुपद्माम्वुराशयः ॥४८॥ततः स्यान्मध्यमन्त्यं च परं चापरमप्यतः ।परार्धं चेति विज्ञेयं दशवृद्ध्योत्तरोत्तरम् ॥४९॥सङ्ख्यास्थानानि कथितान्येवमेतानि विंशतिः ।इदानीं कालसङ्ख्यायाः प्रमाणमभिधीयते ॥५०॥दृङ्निमेषो निमेषः स्यात् तैः पञ्चदशभिः स्मृता ।काष्ठा ताभिः कला ताभिर्मुहूर्त्तस्तैरहर्निशम् ॥५१॥त्रिंशतैतत् त्रिकं विद्यात्क्रमादित्युत्तरोत्तरम् ।अहोरात्रैः पुनः पञ्चदशभिः पक्ष उच्यते ॥५२॥पक्षद्वयेन मासः स्याद्भवेन्मासद्वयादृतुः ।ऋतुत्रयं स्यादयनं वत्सरस्त्वयनद्वयम् ॥५३॥दशधायमिति प्रोक्तः कालः कालविदां वरैः ।इत्युक्तमेतदखिलं करमानमत्र सम्यक्तया निगदितापि च कालसङ्ख्या ।अन्तःपुरं जनपदामरधाममार्गैराचक्ष्महे नगरसंप्रविभागमत्र ॥५४॥इति महाराजाधिराजश्रीभोजदेवविरचिते समराङ्गणसूत्रधारापरनाम्नि वास्तुशास्त्रे हस्तलक्षणं नाम नवमोऽध्यायः । N/A References : N/A Last Updated : November 26, 2017 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP