संस्कृत सूची|शास्त्रः|वास्तुशास्त्रः|समराङ्गणसूत्रधार| १ ते ५० समराङ्गणसूत्रधार ८३ अध्यायांची नांवे महासमागमनो नाम प्रथमोऽध्यायः पुत्रसंवादो नाम द्वितीयोऽध्यायः प्रश्नो नाम तृतीयोऽध्यायः महदादिसर्गश्चतुर्थोऽध्यायः १ ते ५० ५१ ते १०५ सहदेवाधिकारो नाम षष्ठोऽध्यायः वर्णाश्रमप्रविभागो नाम सप्तमोऽध्यायः भूमिपरीक्षा नामाष्टमोऽध्यायः हस्तलक्षणं नाम नवमोऽध्यायः १ ते ५० ५१ ते १०० १०१ ते १४८ वास्तुत्रयविभागो नामैकादशोऽध्यायः नाड्यादिसिरादिविकल्पो नाम द्वादशोऽध्यायः मर्मवेधस्त्रयोदशोऽध्यायः पुरुषाङ्गदेवतानिघण्ट्वादिनिर्णयश्चतुर्दशोऽध्यायः राजनिवेशो नाम पञ्चदशोऽध्यायः वनप्रवेशो नाम षोडशोऽध्यायः १ ते ५० ५१ ते १०० १०१ ते १५० १५१ ते २१२ नगरादिसंज्ञा नामाष्टादशोऽध्यायः १ ते ५० ५१ ते १०० १०१ ते १५० १५१ ते २०० २०१ ते २२४ निम्नोच्चादिफलानि नाम विंशोऽध्यायः द्वासप्ततित्रिशाललक्षणं नामैकविंशोऽध्यायः द्विशालगृहलक्षणं नाम द्वाविंशोध्यायः एकशालालक्षणफलादि नाम त्रयोविंशोऽध्यायः द्वारपीठभित्तिमानादिकं नाम चतुर्विंशोऽध्यायः १ ते ५० ५१ ते १०० १०१ ते १५० १५१ ते १६४ १ ते ५० ५१ ते ८० सभाष्टकं नाम सप्तविंशोऽध्यायः गृहद्र व्यप्रमाणानि नामाष्टाविंशोऽध्यायः शयनासनलक्षणं नाम एकोनत्रिंशोऽध्यायः १ ते ५० ५१ ते १०० १०१ ते १४० १ ते ५० ५१ ते १०० १०१ ते १५० १५१ ते २०० २०१ ते २२३ गजशाला नाम द्वात्रिंशोऽध्यायः १ ते ५० ५१ ते ७९ अथाप्रयोज्यप्रयोज्यं नाम चतुस्त्रिंशोऽध्यायः शिलान्यासविधिर्नाम पञ्चत्रिंशोऽध्यायः बलिदानविधिर्नाम षट्त्रिंशोऽध्यायः १ ते ५० ५१ ते ८१ वास्तुसंस्थानमातृका नामाष्टात्रिंशोऽध्यायः द्वारगुणदोषो नामैकोनचत्वारिंशोऽध्यायः पीठमानं नाम चत्वारिंशोऽध्यायः चयविधिर्नामैकचत्वारिंशोऽध्यायः शान्तिकर्मविधिर्नाम द्विचत्वारिंशोऽध्यायः द्वारभङ्गफलं नाम त्रिचत्वारिंशोऽध्यायः स्थपतिलक्षणं नाम चतुश्चत्वारिंशोऽध्यायः अष्टङ्गलक्षणं नाम पञ्चचत्वारिंशोऽध्यायः तोरणभङ्गादिशान्तिको नाम षट्चत्वारिंशोऽध्यायः वेदीलक्षणं नाम सप्तचत्वारिंशोऽध्यायः १ ते ५० ५१ ते १०० १०१ ते १४० १ ते ५० ५१ ते १०० १०१ ते १५० १५१ ते २०३ प्रासादशुभाशुभलक्षणं नाम पञ्चाशोऽध्यायः अथायतननिवेशो नामैकपञ्चाशोऽध्यायः प्रासादजातिर्नाम द्विपञ्चाशोऽध्यायः जघन्यवास्तुद्वारं नाम त्रिपञ्चाशोऽध्यायः १ ते ५० ५१ ते १०० १०१ ते १२३ १ ते ५० ५१ ते १०० १०१ ते १६० १ ते ५० ५१ ते १०० १०१ ते १५० १५१ ते २०० २०१ ते २५० २५१ ते ३१२ १ ते ५० ५१ ते १०० १०१ ते १५० १५१ ते २१० मेर्वादिविंशिका नाम सप्तपञ्चाशोऽध्यायः प्रासादस्तवनं नाम अष्टपञ्चाशोऽध्यायः १ ते ५० ५१ ते १०० १०१ ते १५० १५१ ते २०० २०१ ते २४५ १ ते ५० ५१ ते ९९ पीठपञ्चकलक्षणं नामैकषष्टितमोऽध्यायः १ ते ५० ५१ ते १०० १०१ ते १५० १५१ ते २२० १ ते ५० ५१ ते ११७ १ ते ५० ५१ ते १२० १ ते ५० ५१ ते १०० १०१ ते १५० १५१ ते २०१ मण्डपलक्षणं नाम षट्षष्टितमोऽध्यायः १ ते ५० ५१ ते ११४ जगत्यङ्गसमुदायाधिकारो नामाष्टषष्टितमोऽध्यायः १ ते ५० ५१ ते १०० १०१ ते १५० १५१ ते २२० १ ते ५० ५१ ते १०० १०१ ते १५७ चित्रोद्देशो नामैकसप्ततितमोऽध्यायः भूमिबन्धो नाम द्विसप्ततितमोऽध्यायः लेप्यकर्मादिकं नाम त्रिसप्ततितमोऽध्यायः अथाण्डकप्रमाणं नाम चतुःसप्ततितमोऽध्यायः मानोत्पत्तिर्नाम पञ्चसप्ततितमोऽध्यायः प्रतिमालक्षणं नाम षट्सप्ततितमोऽध्यायः देवादिरूपप्रहरणसंयोगलक्षणं नाम सप्तसप्ततितमोऽध्यायः दोषगुणनिरूपणं नामाष्टसप्ततितमोऽध्यायः १ ते ५० ५१ ते १०० १५१ ते १७० वैष्णवादिस्थानकलक्षणं नामाशीतितमोऽध्यायः पञ्चपुरुषस्त्रीलक्षणं नामैकाशीतितमोऽध्यायः रसदृष्टिलक्षणं नाम द्व्यशीतितमोऽध्यायः १ ते ५० ५१ ते १०० १०१ ते १५० १५१ ते २०० २०१ ते २५४ सप्तविंशतिमण्डपलक्षणं नाम सप्तषष्टितमोऽध्यायः - १ ते ५० समराङ्गणसूत्रधार भारतीय वास्तुशास्त्र से सम्बन्धित ज्ञानकोशीय ग्रन्थ है जिसकी रचना धार के परमार राजा भोज (1000–1055 ई) ने की थी। Tags : bhojsamarangansanskritvastu shastraभोजवास्तुशास्त्रसंस्कृतसमराङ्गणसूत्रधार सप्तविंशतिमण्डपलक्षणं नाम सप्तषष्टितमोऽध्यायः - १ ते ५० Translation - भाषांतर इदानीमभिधीयन्ते मण्डपाः सप्तविंशतिः ।प्रासादाद् द्विगुणं कुर्यात्कनिष्ठं तत्र मण्डपम् ॥१॥पादोनद्विगुणं मध्यं प्रासादे तु कनीयसि ।तस्मिन्नेव कनीयांसं विदध्यात्सार्धमानतः ॥२॥पादोनद्विगुणः सार्धः सपादश्चेति मध्यमे ।सार्धः सपादस्तुल्यश्चेत्युत्तमाद्याः स्युरुत्तमे ॥३॥सपादद्विगुणाः सार्धद्विगुणाः सान्तरोद्भवाः ।क्षुद्र प्रासादकेषु स्युर्मण्डपा बहवोऽपरे ॥४॥क्षेत्रालाभे पुनरिमान्सर्वान्सर्वेषु योजयेत् ।दैर्घ्यादैर्घ्येण गृह्णीयाद्विस्तृती --- तथा ॥५॥प्रमाणं मण्डपे कार्ये वलभ्यां गरुडेऽपि च ।चतुरश्रीकृते क्षेत्रे दशधा प्रविभाजिते ॥६॥भागैश्चतुर्भिर्भद्रं स्याद्द्वौ भागौ प्रतिभद्र कम् ।अग्रतः पृष्ठतो वापि निर्गमो भागिको भवेत् ॥७॥भद्रा णां निर्गमो भागं सार्धभागमथापि वा ।प्रासादस्य त्रिभागेन चतुर्भागेन वा भवेत् ॥८॥अर्धेनाथ षडंशेन पञ्चांशेनाथ निर्गतिः ।प्रासादानां समा कार्या पादोना वा प्रमाणतः ॥९॥कार्या त्रिभागहीना वा मण्डपास्तु समैः क्षणैः ।स्वविस्तारसमं भद्रं मुखे चैषा प्रकीर्तिता ॥१०॥कर्णा द्विभागिका ज्ञेयास्तेषां कोणचतुष्टये ।वामदक्षिणभागाभ्यां सह भद्रं षडंशकम् ॥११॥प्रतिभद्रे नचैतस्मिन्विदध्यादग्रपृष्ठयोः ।चतुःषष्टिधरोऽयं स्यात्पुष्पको नाम मण्डपः ॥१२॥पुष्पकः ।दिक्त्रये प्रतिभद्रा णि मुखे प्राग्ग्रीव एव हि ।पुष्पभद्रो तिस्तम्भश्चतुष्कः सुप्रभो भवेत् ॥१३॥इति स्तम्भद्वयत्यगाद्ब्रूमो मण्डपविंशतिम् ।यो पुष्पभद्र स्तु व्रतोऽमृतनन्दनः ॥१४॥कौसल्यो युद्विसंकीर्णो गजभद्रो जयावहः ।श्रीवत्सो विजयश्चैव वस्तुकीर्णश्रुतिर्जयः ॥१५॥यज्ञभद्रो विशालश्च सुश्लिष्टः शत्रुमर्दनः ।भायंवो दमश्चैव मानवो मानभद्र कः ॥१६॥सुग्रीवो मण्डपः प्रोक्तो भद्रै र्युक्तश्चतुष्पदैः ।चतुर्भिस्त्रिपदैः कर्णैर्निर्गमैः प्रागुदाहृतैः ॥१७॥धराणामेव विंशत्या चतुरुत्तरया युतः ।अस्मद्वासस्तम्भं षडन्ये द्विधरक्षयात् ॥१८॥सुग्रीवो हर्षनामा च कर्णिकारः पदार्धिकः ।सिंहश्च सागभद्र श्च सुस्तत्र श्चेति सप्तमः ॥१९॥सप्तविंशतिरित्युक्ता मण्डपानां समासतः ।एषां विचित्ररूपाणां प्रासादाकृतिधारिणाम् ॥२०॥मिश्रकाश्च परिज्ञेया हस्तैर्द्वित्र्येकमानतः ।मूलप्रासादतुल्या वा त्र्यंशेनार्धेन चोर्जिताः ॥२१॥द्विस्तम्भशुकनासाग्रे विज्ञेयः पादमण्डपः ।प्रासादभित्तिमानेन मण्डपे भित्तयः स्मृताः ॥२२॥सपादसत्रिभागा वा वी स्यु --- ।क्वचिद्भित्तिविहीनांश्च कुर्यादाकाशमण्डपान् ॥२३॥लतिष्वेष विधिः प्रोक्तः सान्धारेषु स्वमानतः ।प्रासादो यादृशस्तादृङ् मण्डपोऽपि तदग्रतः ॥२४॥यानि प्रासादनामानि तानि स्युर्मण्डपेष्वपि ।वास्तुभेदेन भेदोऽयं मण्डपानां विधीयते ॥२५॥शतार्धमण्डपस्थानं नीलाधं भोजनाय च ।यज्ञार्थो यतिमुख्यार्था विहारार्था नृपालदो ॥२६॥कार्यो दशभ्य विस्तारो --- नु शतावधेः ।हस्तानां संख्यया मानं हस्तेन स्याद्गृहेशितुः ॥२७॥उपयोगानुसारेण स्वधिया परिकल्पितः ।आयतश्चतुरश्रो वा कर्तव्यो नाद्यमण्डपः ॥२८॥शतमष्टोत्तरं ज्येष्ठश्चतुःषष्टिकरोऽवरः ।कनिष्ठो मण्डपः कार्यो द्वात्रिंशत्करसंमितः ॥२९॥अद्विविस्तारोऽस्य स्यान्नेपथ्यगृहकादि तु ।परिच्छेदानुसारेण स्वधिया परिकल्पयेत् ॥३०॥द्वारद्वयं च कर्तव्यं तत्प्रमाणानुसारतः ।नेपथ्यगृहके चान्यत्तृतीयं रङ्गसम्मुखम् ॥३१॥समैः क्षणैः समैः स्तम्भैरलिन्दैश्च समैर्युताः ।समकर्णाः समा द्र व्यविधेया मण्डपाः शुभाः ॥३२॥भित्तिमां चतुस्रस्यात्कार्यः कामं सनिर्गमः ।स्तम्भकोणाश्रितं मानं भित्तिः स्यान्मानबाह्यतः ॥३३॥वेदिर्मण्डपभूषाद्यैः स्यान्मध्ये बाह्यतोऽपि वा ।क्षेत्रलोभे तु कर्तव्या भित्तिमानस्य मध्यतः ॥३४॥चतुःषष्टिपदं ज्येष्ठे भद्रं कुर्याच्चतुष्पदम् ।एकाशीतिपदं मध्ये भद्रं स्यात्पञ्चभागिकम् ॥३५॥सततागा विभक्ते तु खण्डशः स्यात्कनीयसि ।कर्णा द्विभागिकाः कार्या भित्तियुक्तश्च मण्डपः ॥३६॥भद्र प्रासादसदृशौ कर्णभद्रं च भाजयेत् ।क्षोभणं बाह्यतो रक्षेत् पाडनं स्याद् विपर्यये ॥३७॥क्षरकं कुम्भकलाशा कपोतं जङ्घया सह ।प्रासादस्यानुरूपेण --- ॥३८॥रुचकश्चतुरश्रः स्यादष्टाश्रिर्वज्र उच्यते ।द्विवज्रः षोडशाश्रिश्च प्रतीतो द्विगुणस्ततः ॥३९॥मध्यप्रदेशेऽयं स्तम्भो वृत्तो वृत्तः प्रकीर्तितः ।अथान्येन प्रकारेण षोढ कुर्वीत मण्डपान् ॥४०॥त्रिपञ्चसप्तनवभिश्चतेक्षणैः उभयसमः ।साद्र मध्यक्षणोऽन्येभ्यः सत्र्यंशः सार्ध एव वा ॥४१॥एवमेव प्रकर्तव्यः षड्प्रकारेऽपि मण्डपे ।प्रासादगर्भस्यान्तेन स्युस्तद्भित्तिरथापि वा ॥४२॥स्तम्भसूत्रस्य मार्गेण क्षणे मण्डपमध्यगे ।मूलप्रासादगर्भेण कार्या वा भद्र विस्तृतिः ॥४३॥शेषाः क्षणा विधातव्या समसंख्याक्षतैर्धरैः ।प्रासादच्छादनासाद्भिः सत्र्यंशावापि मण्डपे ॥४४॥सदृशां स समञ्चशद् द्वा--- समतले भवेत् ।उच्छ्रायं मण्डपे ब्रूमः प्रकारेणापरेण च ॥४५॥तलार्धं पदमध्येया --- यस्य विहितः शुभः ।प्रासादे दशधा भक्ते चतुःपञ्चकरे समा ॥४६॥नव्यंश मण्डपंस्यादुत्तरपट्टयोर्द्वयोः ।षड्युट्सूहस्तेत्वष्टांशं सप्तभागे न वास्तके ॥४७॥दशैकादशके षट्स्युः सार्धभागासु संख्यया ।त्रयोदशक --- हस्तयोः सार्धपञ्चकम् ॥४८॥सपादाः पञ्चभागाः स्युश्चतुर्दश करे पुनः ।तदूर्ध्वं विंशतिं यावदुच्छ्रितिः पञ्चभागिकी ॥४९॥संसृता व्यतिरिक्तव्या त यथा वापि प्रकल्पयेत् ।शुकनासस्य यः स्तम्भः स्तम्भो यो मण्डपस्य च ॥५०॥ N/A References : N/A Last Updated : November 26, 2017 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP