संस्कृत सूची|शास्त्रः|वास्तुशास्त्रः|समराङ्गणसूत्रधार| १ ते ५० समराङ्गणसूत्रधार ८३ अध्यायांची नांवे महासमागमनो नाम प्रथमोऽध्यायः पुत्रसंवादो नाम द्वितीयोऽध्यायः प्रश्नो नाम तृतीयोऽध्यायः महदादिसर्गश्चतुर्थोऽध्यायः १ ते ५० ५१ ते १०५ सहदेवाधिकारो नाम षष्ठोऽध्यायः वर्णाश्रमप्रविभागो नाम सप्तमोऽध्यायः भूमिपरीक्षा नामाष्टमोऽध्यायः हस्तलक्षणं नाम नवमोऽध्यायः १ ते ५० ५१ ते १०० १०१ ते १४८ वास्तुत्रयविभागो नामैकादशोऽध्यायः नाड्यादिसिरादिविकल्पो नाम द्वादशोऽध्यायः मर्मवेधस्त्रयोदशोऽध्यायः पुरुषाङ्गदेवतानिघण्ट्वादिनिर्णयश्चतुर्दशोऽध्यायः राजनिवेशो नाम पञ्चदशोऽध्यायः वनप्रवेशो नाम षोडशोऽध्यायः १ ते ५० ५१ ते १०० १०१ ते १५० १५१ ते २१२ नगरादिसंज्ञा नामाष्टादशोऽध्यायः १ ते ५० ५१ ते १०० १०१ ते १५० १५१ ते २०० २०१ ते २२४ निम्नोच्चादिफलानि नाम विंशोऽध्यायः द्वासप्ततित्रिशाललक्षणं नामैकविंशोऽध्यायः द्विशालगृहलक्षणं नाम द्वाविंशोध्यायः एकशालालक्षणफलादि नाम त्रयोविंशोऽध्यायः द्वारपीठभित्तिमानादिकं नाम चतुर्विंशोऽध्यायः १ ते ५० ५१ ते १०० १०१ ते १५० १५१ ते १६४ १ ते ५० ५१ ते ८० सभाष्टकं नाम सप्तविंशोऽध्यायः गृहद्र व्यप्रमाणानि नामाष्टाविंशोऽध्यायः शयनासनलक्षणं नाम एकोनत्रिंशोऽध्यायः १ ते ५० ५१ ते १०० १०१ ते १४० १ ते ५० ५१ ते १०० १०१ ते १५० १५१ ते २०० २०१ ते २२३ गजशाला नाम द्वात्रिंशोऽध्यायः १ ते ५० ५१ ते ७९ अथाप्रयोज्यप्रयोज्यं नाम चतुस्त्रिंशोऽध्यायः शिलान्यासविधिर्नाम पञ्चत्रिंशोऽध्यायः बलिदानविधिर्नाम षट्त्रिंशोऽध्यायः १ ते ५० ५१ ते ८१ वास्तुसंस्थानमातृका नामाष्टात्रिंशोऽध्यायः द्वारगुणदोषो नामैकोनचत्वारिंशोऽध्यायः पीठमानं नाम चत्वारिंशोऽध्यायः चयविधिर्नामैकचत्वारिंशोऽध्यायः शान्तिकर्मविधिर्नाम द्विचत्वारिंशोऽध्यायः द्वारभङ्गफलं नाम त्रिचत्वारिंशोऽध्यायः स्थपतिलक्षणं नाम चतुश्चत्वारिंशोऽध्यायः अष्टङ्गलक्षणं नाम पञ्चचत्वारिंशोऽध्यायः तोरणभङ्गादिशान्तिको नाम षट्चत्वारिंशोऽध्यायः वेदीलक्षणं नाम सप्तचत्वारिंशोऽध्यायः १ ते ५० ५१ ते १०० १०१ ते १४० १ ते ५० ५१ ते १०० १०१ ते १५० १५१ ते २०३ प्रासादशुभाशुभलक्षणं नाम पञ्चाशोऽध्यायः अथायतननिवेशो नामैकपञ्चाशोऽध्यायः प्रासादजातिर्नाम द्विपञ्चाशोऽध्यायः जघन्यवास्तुद्वारं नाम त्रिपञ्चाशोऽध्यायः १ ते ५० ५१ ते १०० १०१ ते १२३ १ ते ५० ५१ ते १०० १०१ ते १६० १ ते ५० ५१ ते १०० १०१ ते १५० १५१ ते २०० २०१ ते २५० २५१ ते ३१२ १ ते ५० ५१ ते १०० १०१ ते १५० १५१ ते २१० मेर्वादिविंशिका नाम सप्तपञ्चाशोऽध्यायः प्रासादस्तवनं नाम अष्टपञ्चाशोऽध्यायः १ ते ५० ५१ ते १०० १०१ ते १५० १५१ ते २०० २०१ ते २४५ १ ते ५० ५१ ते ९९ पीठपञ्चकलक्षणं नामैकषष्टितमोऽध्यायः १ ते ५० ५१ ते १०० १०१ ते १५० १५१ ते २२० १ ते ५० ५१ ते ११७ १ ते ५० ५१ ते १२० १ ते ५० ५१ ते १०० १०१ ते १५० १५१ ते २०१ मण्डपलक्षणं नाम षट्षष्टितमोऽध्यायः १ ते ५० ५१ ते ११४ जगत्यङ्गसमुदायाधिकारो नामाष्टषष्टितमोऽध्यायः १ ते ५० ५१ ते १०० १०१ ते १५० १५१ ते २२० १ ते ५० ५१ ते १०० १०१ ते १५७ चित्रोद्देशो नामैकसप्ततितमोऽध्यायः भूमिबन्धो नाम द्विसप्ततितमोऽध्यायः लेप्यकर्मादिकं नाम त्रिसप्ततितमोऽध्यायः अथाण्डकप्रमाणं नाम चतुःसप्ततितमोऽध्यायः मानोत्पत्तिर्नाम पञ्चसप्ततितमोऽध्यायः प्रतिमालक्षणं नाम षट्सप्ततितमोऽध्यायः देवादिरूपप्रहरणसंयोगलक्षणं नाम सप्तसप्ततितमोऽध्यायः दोषगुणनिरूपणं नामाष्टसप्ततितमोऽध्यायः १ ते ५० ५१ ते १०० १५१ ते १७० वैष्णवादिस्थानकलक्षणं नामाशीतितमोऽध्यायः पञ्चपुरुषस्त्रीलक्षणं नामैकाशीतितमोऽध्यायः रसदृष्टिलक्षणं नाम द्व्यशीतितमोऽध्यायः १ ते ५० ५१ ते १०० १०१ ते १५० १५१ ते २०० २०१ ते २५४ चतुःशालविधानं नामैकोनविंशोऽध्यायः - १ ते ५० समराङ्गणसूत्रधार भारतीय वास्तुशास्त्र से सम्बन्धित ज्ञानकोशीय ग्रन्थ है जिसकी रचना धार के परमार राजा भोज (1000–1055 ई) ने की थी। Tags : bhojsamarangansanskritvastu shastraभोजवास्तुशास्त्रसंस्कृतसमराङ्गणसूत्रधार चतुःशालविधानं नामैकोनविंशोऽध्यायः - १ ते ५० Translation - भाषांतर N/Aब्रूमो नृपचमूनाथवर्णिनां भवनान्यथ ।प्रशस्तान्यप्रशस्तानि कृत्स्नान्यपि यथाक्रमम् ॥१॥वेश्मनामेकशालानां शतमष्टाधिकं स्मृतम् ।द्वापञ्चाशद्द्विशालानां त्रिशालानां द्विसप्ततिः ॥२॥चतुःशालानि वेश्मानि यानि तेषां शतद्वयम् ।पञ्चाशच्चाधिका षड्भिर्विज्ञातव्या मनीषिभिः ॥३॥सहस्रं पञ्चशालानां स्यात्तथा पञ्चविंशतिः ।षट्शालानां षण्णवतिः स्यात्सहस्रचतुष्टयम् ॥४॥अष्टाङ्गे त्वेकशालस्य भेदाः पञ्चाशदीरिताः ।द्विशालानां तु सर्वेषां प्रभेदाः शतपञ्चकम् ॥५॥शतं शतं च प्रत्येकं त्रिशालानामुदाहृतम् ।द्विचत्वारिंशदधिकं चतुःशालशताष्टकम् ॥६॥द्विनवत्युत्तराण्येवं शतानि दश सप्त च ।षोडशैव सहस्राणि षोडशोना चतुःशती ॥७॥वेश्मानि सप्तशालानि भवन्ति परिसङ्ख्यया ।पञ्चषष्टिसहस्राणि तथा पञ्चशतानि च ॥८॥गृहाणामष्टशालानां षट्त्रिंशदपरा भवेत् ।लक्षद्वयं सहस्राणि द्विषष्टिः शतमेव च ॥९॥गृहाणां नवशालानां चत्वारिंशच्चतुर्युता ।दशलक्षसहस्राणि चत्वारिंशत्तथाष्ट च ॥१०॥शतानि दशशालानां पञ्च षट्सप्ततिस्तथा ।गृहद्वितययोगेन संयुक्ताख्यानि विंशतिः ॥११॥गृहद्वितययोगेन द्वात्रिंशदिह वेश्मनाम् ।दशपञ्च तथान्यानि भवन्ति हलकान्यपि ॥१२॥गृहमालाथ सङ्घट्टो गृहनाभिर्गृहाङ्गणम् ।उद्भिन्नं भिन्नकक्षं च निलीनं प्रतिपादितम् ॥१३॥अन्यानि चाष्टभेदानि भवन्त्युत्तमवर्णिनाम् ।लक्षणं नाम संस्थानं चैतेषां प्रतिपाद्यते ॥१४॥वर्णिनां स्याच्चतुःशालं मितं द्वात्रिंशता करैः ।सेनापतेश्चतुःषष्टिस्तद्वदेव पुरोधसः ॥१५॥श्रेष्ठमष्टशतं राज्ञामेतानि तु यथाक्रमम् ।चतुःषडष्टहान्या स्युः पञ्चमं च पृथक्पृथक् ॥१६॥विशोधयेत्कनीयोभिर्मध्यमानि यथाक्रमम् ।नरेन्द्र पुरुषाणां स्युर्वेश्मान्येतानि वृद्धये ॥१७॥गृहाणि शोधयेत्प्राग्वज्ज्यायांस्यपि च मध्यमैः ।भवन्त्येतानि भूपानां रतिकोशप्रतिश्रयाः ॥१८॥दशांशयुक्तो विस्तारादायामो विप्रवेश्मनाम् ।अष्टषट्चतुरंशाढ्यः क्षत्रादित्रयवेश्मनाम् ॥१९॥यो विस्तारः स एव स्यादायामोऽस्मिन् यथाक्रमम् ।विट्शूद्र योः स्यादाधिक्यं मध्ये ज्येष्टे च सद्मनि ॥२०॥कर्णसूत्राद्बहिः स्तम्भान्न्यसेत् सर्वान्प्रयत्नतः ।धाम्नां षोडशहस्तानां पञ्चानां चतुरुत्तरा ॥२१॥\वृद्धिः शालास्तु तेषां स्युश्चतुरंशेन विस्तृताः ।शालाव्यासार्धतोऽलिन्दः सर्वेषामपि वेश्मनाम् ॥२२॥तस्याः षोडशहस्ते स्यात् पञ्चमांशद्वयेन वा ।सप्तमांशत्रयेण स्याद्द्वयोरपरवेश्मनोः ॥२३॥अन्त्ययोर्हस्तयोः स स्याच्चतुर्भिर्नवमांशकैः ।पञ्चभिः षड्भिरेभिश्च सार्धैः साङ्घ्रिनगैः करैः ॥२४॥दैर्घ्यं स्याद्दशभिः सार्धैः शालायाः षोडशादिषु ।निवेशदशमांशो यः स युतः सप्तभिः करैः ॥२५॥शालाया विस्तरः प्रोक्तः श्रेष्ठानामिह वेश्मनाम् ।अलिन्दमानं प्रागेव प्रोक्तं निखिलवेश्मनाम् ॥२६॥यच्छालालिन्दयोः शेषं भवेद्गर्भगृहं हि तत् ।मूषावच्छिन्नमिच्छन्ति शालादैर्ध्यं विपश्चितः ॥२७॥शालाव्यासप्रमाणा स्यात्सर्वेषामवकोसिमा ।दिशासु भवने शाला विदिशाकर्णसामयः ॥२८॥कर्णशाला तु या प्रोक्ता सा च ज्ञेयावकोसिमा ।अलिन्दशालयोर्मध्ये या स्यान्मूषेति सा स्मृता ॥२९॥पूर्वद्वारं नियम्यादावादिमूषा तदुत्तरा ।मूषा भद्रा इति प्राहुस्तत्संख्यामवधारयेत् ॥३०॥यावन्मूषं भवेद्वेश्म तावद्भद्रं तदुच्यते ।भद्रा भद्रे शक्रदिक्स्थे सौम्यासौम्ये यमाश्रिते ॥३१॥शान्ताशान्ते प्रतीचीस्थे सौम्यदिक्स्थे शिवाशिवे ।अलिन्दा इति केऽप्याहुर्मूषा इत्यपरे विदुः ॥३२॥भद्रा इति जगुः केचिदन्ये परिसरा इति ।एकद्वित्रिचतुःपञ्चषट्सप्ताष्टक्रमेण याः ॥३३॥मूषास्तासां प्रवहणासंज्ञाः स्युर्वेश्मनामिह ।तासामाद्याः प्रशस्ताः स्युरप्रशस्तास्ततः पराः ॥३४॥नामतो गुणतश्चैव शुभाशुभफलोदयात् ।अष्टावादौ गुरून्न्यस्येत्ततश्चाद्यगुरोरधः ॥३५॥लघुं न्यस्येत्ततः शेषान् विदधीत यथोपरि ।गुरुभिः पूरयेदादिं यावत्स्युर्लघवोऽखिलाः ॥३६॥आद्यपङ्क्तौ गुरुश्चैको लघुश्चैको यथाक्रमम् ।अतः परं तु द्विगुणाः प्रतिपङ्क्ति भवन्त्यमी ॥३७॥मूषाभेदाश्चतुःशाले षट्पञ्चाशच्छतद्वयम् ।अलिन्दवीथीप्रग्रीवनिर्यूहकगवाक्षकैः ॥३८॥तमङ्गभद्र विन्यासरचनाभिरनेकधा ।अपरस्परसंबाधात्संवृतैर्विवृतैरपि ॥३९॥गृहभेदाः प्रसूयन्ते येषां संख्या न विद्यते ।यत्संबद्धचतुश्शालममूषालिन्दकं हि तत् ॥४०॥एकभद्रा दिगेहानां ब्रूमो नामान्यतः परम् ।यान्येकलघुलक्षाणि प्रस्तारे तानि तद्विदः ॥४१॥कथयन्त्येकभद्रा णि क्रमसंख्याविभागतः ।प्रागायतं प्राग्विलग्नं जयं संयमनप्रियम् ॥४२॥प्रतीच्यं प्रासविन्यासं सुभद्रं कलहोत्तरम् ।अष्टौ तान्येकभद्रा णि द्विभद्रा ण्यभिदध्महे ॥४३॥पूर्वोत्तरोत्तरं पूर्वाद्भद्रा दिह विधानतः ।स्यातां प्राग्मेलकाद्यद्वत्पूर्वाद्या दक्षिणा परे ॥४४॥ईरं सुनीथमाग्नेयं द्वीपमाप्यं सुसंयमम् ।अर्धर्चमैभं व्याकोशं नैरृतं वृषभं विनम् ॥४५॥काव्यं विपासमानीरं कान्तं सौभं विपश्चिमम् ।गवयं श्रीवहं श्लिष्टं गणं भीममयोगमम् ॥४६॥वर्तं चलं शठं क्रान्तमित्यष्टाविंशको गणः ।द्विभद्रा णां समाख्यातस्त्रिभद्रा णामतः परम् ॥४७॥ऐन्द्रं विलोममायामं वधमेकाक्षमन्तिकम् ।प्रकाशं पैत्रमायस्तं भद्रं प्रान्तं प्रसाधकम् ॥४८॥क्षमं विघातमायातं कान्तं चित्रं द्विमन्दिरम् ।सुदक्षिणं भयं श्लिष्टं प्रमोदं व्यायतं वियत् ॥४९॥आप्यं सुनागं नागेन्द्र मीरितं शोभनं घनम् ।शस्तोत्तरं कफं कर्णं क्रुष्टं क्रान्तं क्रमागतम् ॥५०॥ N/A References : N/A Last Updated : November 26, 2017 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP