संस्कृत सूची|शास्त्रः|वास्तुशास्त्रः|समराङ्गणसूत्रधार| ५१ ते १०० समराङ्गणसूत्रधार ८३ अध्यायांची नांवे महासमागमनो नाम प्रथमोऽध्यायः पुत्रसंवादो नाम द्वितीयोऽध्यायः प्रश्नो नाम तृतीयोऽध्यायः महदादिसर्गश्चतुर्थोऽध्यायः १ ते ५० ५१ ते १०५ सहदेवाधिकारो नाम षष्ठोऽध्यायः वर्णाश्रमप्रविभागो नाम सप्तमोऽध्यायः भूमिपरीक्षा नामाष्टमोऽध्यायः हस्तलक्षणं नाम नवमोऽध्यायः १ ते ५० ५१ ते १०० १०१ ते १४८ वास्तुत्रयविभागो नामैकादशोऽध्यायः नाड्यादिसिरादिविकल्पो नाम द्वादशोऽध्यायः मर्मवेधस्त्रयोदशोऽध्यायः पुरुषाङ्गदेवतानिघण्ट्वादिनिर्णयश्चतुर्दशोऽध्यायः राजनिवेशो नाम पञ्चदशोऽध्यायः वनप्रवेशो नाम षोडशोऽध्यायः १ ते ५० ५१ ते १०० १०१ ते १५० १५१ ते २१२ नगरादिसंज्ञा नामाष्टादशोऽध्यायः १ ते ५० ५१ ते १०० १०१ ते १५० १५१ ते २०० २०१ ते २२४ निम्नोच्चादिफलानि नाम विंशोऽध्यायः द्वासप्ततित्रिशाललक्षणं नामैकविंशोऽध्यायः द्विशालगृहलक्षणं नाम द्वाविंशोध्यायः एकशालालक्षणफलादि नाम त्रयोविंशोऽध्यायः द्वारपीठभित्तिमानादिकं नाम चतुर्विंशोऽध्यायः १ ते ५० ५१ ते १०० १०१ ते १५० १५१ ते १६४ १ ते ५० ५१ ते ८० सभाष्टकं नाम सप्तविंशोऽध्यायः गृहद्र व्यप्रमाणानि नामाष्टाविंशोऽध्यायः शयनासनलक्षणं नाम एकोनत्रिंशोऽध्यायः १ ते ५० ५१ ते १०० १०१ ते १४० १ ते ५० ५१ ते १०० १०१ ते १५० १५१ ते २०० २०१ ते २२३ गजशाला नाम द्वात्रिंशोऽध्यायः १ ते ५० ५१ ते ७९ अथाप्रयोज्यप्रयोज्यं नाम चतुस्त्रिंशोऽध्यायः शिलान्यासविधिर्नाम पञ्चत्रिंशोऽध्यायः बलिदानविधिर्नाम षट्त्रिंशोऽध्यायः १ ते ५० ५१ ते ८१ वास्तुसंस्थानमातृका नामाष्टात्रिंशोऽध्यायः द्वारगुणदोषो नामैकोनचत्वारिंशोऽध्यायः पीठमानं नाम चत्वारिंशोऽध्यायः चयविधिर्नामैकचत्वारिंशोऽध्यायः शान्तिकर्मविधिर्नाम द्विचत्वारिंशोऽध्यायः द्वारभङ्गफलं नाम त्रिचत्वारिंशोऽध्यायः स्थपतिलक्षणं नाम चतुश्चत्वारिंशोऽध्यायः अष्टङ्गलक्षणं नाम पञ्चचत्वारिंशोऽध्यायः तोरणभङ्गादिशान्तिको नाम षट्चत्वारिंशोऽध्यायः वेदीलक्षणं नाम सप्तचत्वारिंशोऽध्यायः १ ते ५० ५१ ते १०० १०१ ते १४० १ ते ५० ५१ ते १०० १०१ ते १५० १५१ ते २०३ प्रासादशुभाशुभलक्षणं नाम पञ्चाशोऽध्यायः अथायतननिवेशो नामैकपञ्चाशोऽध्यायः प्रासादजातिर्नाम द्विपञ्चाशोऽध्यायः जघन्यवास्तुद्वारं नाम त्रिपञ्चाशोऽध्यायः १ ते ५० ५१ ते १०० १०१ ते १२३ १ ते ५० ५१ ते १०० १०१ ते १६० १ ते ५० ५१ ते १०० १०१ ते १५० १५१ ते २०० २०१ ते २५० २५१ ते ३१२ १ ते ५० ५१ ते १०० १०१ ते १५० १५१ ते २१० मेर्वादिविंशिका नाम सप्तपञ्चाशोऽध्यायः प्रासादस्तवनं नाम अष्टपञ्चाशोऽध्यायः १ ते ५० ५१ ते १०० १०१ ते १५० १५१ ते २०० २०१ ते २४५ १ ते ५० ५१ ते ९९ पीठपञ्चकलक्षणं नामैकषष्टितमोऽध्यायः १ ते ५० ५१ ते १०० १०१ ते १५० १५१ ते २२० १ ते ५० ५१ ते ११७ १ ते ५० ५१ ते १२० १ ते ५० ५१ ते १०० १०१ ते १५० १५१ ते २०१ मण्डपलक्षणं नाम षट्षष्टितमोऽध्यायः १ ते ५० ५१ ते ११४ जगत्यङ्गसमुदायाधिकारो नामाष्टषष्टितमोऽध्यायः १ ते ५० ५१ ते १०० १०१ ते १५० १५१ ते २२० १ ते ५० ५१ ते १०० १०१ ते १५७ चित्रोद्देशो नामैकसप्ततितमोऽध्यायः भूमिबन्धो नाम द्विसप्ततितमोऽध्यायः लेप्यकर्मादिकं नाम त्रिसप्ततितमोऽध्यायः अथाण्डकप्रमाणं नाम चतुःसप्ततितमोऽध्यायः मानोत्पत्तिर्नाम पञ्चसप्ततितमोऽध्यायः प्रतिमालक्षणं नाम षट्सप्ततितमोऽध्यायः देवादिरूपप्रहरणसंयोगलक्षणं नाम सप्तसप्ततितमोऽध्यायः दोषगुणनिरूपणं नामाष्टसप्ततितमोऽध्यायः १ ते ५० ५१ ते १०० १५१ ते १७० वैष्णवादिस्थानकलक्षणं नामाशीतितमोऽध्यायः पञ्चपुरुषस्त्रीलक्षणं नामैकाशीतितमोऽध्यायः रसदृष्टिलक्षणं नाम द्व्यशीतितमोऽध्यायः १ ते ५० ५१ ते १०० १०१ ते १५० १५१ ते २०० २०१ ते २५४ मेर्वादिविंशिका नाम सप्तपञ्चाशोऽध्यायः - ५१ ते १०० समराङ्गणसूत्रधार भारतीय वास्तुशास्त्र से सम्बन्धित ज्ञानकोशीय ग्रन्थ है जिसकी रचना धार के परमार राजा भोज (1000–1055 ई) ने की थी। Tags : bhojsamarangansanskritvastu shastraभोजवास्तुशास्त्रसंस्कृतसमराङ्गणसूत्रधार मेर्वादिविंशिका नाम सप्तपञ्चाशोऽध्यायः - ५१ ते १०० Translation - भाषांतर चतुरश्रकृते क्षेत्रे षड्विंशत्यंशभाजिते ।तत्र स्युः षड्पदाः कर्णाः शाला द्वादशभागिकाः ॥५१॥निर्गताश्च त्रिभिर्भागैर्भवन्त्येताश्चतुर्दिशम् ।अष्टभागायता भूयो निर्गमश्च त्रिभिः पदैः ॥५२॥चतुःस्तम्भाश्चतुष्पार्श्वा दिक्षु सर्वास्वयं विधिः ।कर्णशालान्तरं कार्यं पदेनैकेन विस्तृतम् ॥५३॥प्रविष्टं तत्पदेनैकं तदेवात्र जलान्तरम् ।पदेन कर्णे कोणः स्यात्प्रत्यङ्गे पदविस्तृते ॥५४॥निर्गते चार्धभागेन सममाने मनोरमे ।द्विपदा रथिका भद्रे निर्गतार्धपदेन सा ॥५५॥चतुकर्णेषु कर्तव्यं मानषेमेवंधुनु धीमता ।बाह्यभित्तेस्तु विस्तारस्त्रिपदः परिकीर्तितः ॥५६॥चतुःषष्टिपदो गर्भस्तद्भित्तिस्त्रिपदा भवेत् ।त्रिपदं कर्णमानं स्याद्वारिमार्गेण सम्युतम् ॥५७॥पदार्धं वारिमार्गः स्यात्पदमस्य प्रवेशकः ।शालाष्टपदविस्तीर्णा भागार्धेन विनिर्गता ॥५८॥चतुर्भागायता भद्रं पुनर्भागार्धनिर्गतम् ।तलन्यासौ हेमकूटे विभक्तपदनिश्चयात् ॥५९॥अस्याग्रे मण्डपं कुर्यान्महान्तं गुणपूजितम् ।ऊर्ध्वं हेमकूटस्य द्विगुणं स्यात्कलाधिकम् ॥६०॥अधस्तादासनं तस्य सप्तभागसमुच्छ्रितम् ।भागेनैकेन खुरके न मध्ये पूर्वमानयोः ॥६१॥अत ऊर्ध्वं पुनर्ब्रूमः पादमानमनुक्रमात् ।सप्तभागोन्नतं कुर्याद्वेदीबन्धे सुशोभनम् ॥६२॥तस्यार्धं कुम्मकस्यार्धं भागेन कलशोन्नतिः ।पदाधेनान्तरं पत्रं यथाशोभं विधीयते ॥६३॥सार्धं पदं पुनः प्रोक्ता कपोताली सुशोभना ।दशभागोच्छ्रिता जङ्घा कर्तव्यातिसुलक्षणा ॥६४॥अस्योपरि विधातव्यं भरणै द्विपदोच्छ्रितम् ।मेखलान्तरपत्रे तु विधीयेते पदत्रये ॥६५॥अधस्तान्मेखलायास्तु खुरकस्य तथोपरि ।एकोनविंशतिं भागानन्तरं संप्रचक्षते ॥६६॥कर्मप्रमाणमेतस्य पृथङ्मध्येऽभिधीयते ।द्विपदं राजासेनं स्याद्वेदा---चतुष्पदा ॥६७॥भवत्यासनपट्टस्य कल्पना भागमानतः ।सार्धं भागद्वयं कार्यमूर्ध्वं चन्द्रा वलोकनम् ॥६८॥स्तम्भानासनपट्टार्धेन युञ्ज्यादष्टभागिकान् ।भरणस्तम्भशीर्षे च प्रत्येकं पदके स्मृते ॥६९॥द्विपदश्चार्धपट्टः स्याच्छाद्यकेन सुशोभितः ।त्रिपदं छाद्यकं तत्र विस्तारेण प्रकीर्तितम् ॥७०॥एतन्मानं समाख्यातमलिन्देषु चतुर्दिशम् ।ऊर्ध्वमन्तरपत्रस्य कथयामो यथाक्रमम् ॥७१॥षट्पदे कर्णविस्तारा सप्तांशा कर्णमञ्जरी ।ग्रीवामर्धपदं कुर्यात्पदमेकं तथाण्डकम् ॥७२॥अर्धांशा चन्द्रि का च स्यादेकांशः कलशोच्छ्रयः ।अस्योरोमञ्जरी कार्या विस्तारेण चतुष्पदा ॥७३॥ग्रीवाण्डके विधातव्यं भागेनार्धेन कुम्भकः ।सिंहकर्णस्तु कर्तव्यो द्विपदोऽस्यैव मध्यतः ॥७४॥इत्थं पञ्चाण्डकाः कर्णे हेमकूटेषु कीरिताः ।अष्टांशविस्तृतं कुर्यादुदयेन च षट्पदम् ॥७५॥अलिन्दस्योर्ध्वभागस्तं सिंहकर्णं मनोरमम् ।सिंहकर्णे द्विभाग्स्थो द्वादशांशकविस्तृताम् ॥७६॥उरोमञ्जरिकां कुर्यात् त्रयोदशपदोच्छ्रिताम् ।सप्तांशविस्तृतः स्कन्धो ग्रीवा च पदमुच्छ्रिता ॥७७॥अण्डकं सार्धभागेन चन्द्रि काधपदा स्मृता ।आकाशलिङ्गं कुर्वीत द्विपदं सुमनोरमम् ॥७८॥विस्तारो मूलमञ्जर्या भागविंशतिसंमितः ।उच्छायोऽस्यैकविंशत्या स्कन्धो द्वादशभागिकः ॥७९॥पञ्चभौमस्तु कर्तव्यो यथा चारुः स जायते ।प्रथमा भूमिका तत्र पञ्चभागा विधीयते ॥८०॥परा परार्धभागेन न्यूना न्यूना विधीयते ।स्कन्धमानं विधातव्यं पदेनैकेन चोन्नतम् ॥८१॥विभज्य दशधा कुर्याल्लताः पञ्चातिसुन्दरीः ।हेमकूटस्य कर्णेषु प्रत्यङ्गे नरकिन्नराः ॥८२॥मन्ये तिलककूटाश्च कर्तव्यास्तु निरन्तराः ।ईदृशी मञ्जरीहेमे विधेया कूटनिर्गता ॥८३॥ग्रीवा सार्धपदा प्रोक्तो विस्तारादष्टभागिका ।अण्डकं द्विपदोत्सेधमेकादशपदायतम् ॥८४॥दण्डिका साधभागो च्चाविस्तारा नवभागिका ।त्रिपदः कलशः कार्यो विस्तारेणोच्छ्रयेण च ॥८५॥एवंविधं विधत्ते यो हेमकूटं मनोरमम् ।स क्रीडति पुमान्स्वर्गे यावत्क्रीडा पिनाकिनः ॥८६॥हेमकूटः ।सुभद्रा ख्यमथ ब्रूमः प्रासादं भद्र भद्र कम् ।सुभद्रो ऽयमतः प्रोक्तो भद्रे भद्रे यतोऽन्वितः ॥८७॥चतुरश्रीकृते क्षेत्रे चतुर्दशविभाजिते ।गर्भः षोडशभिर्भागैः स्कन्दः षट्पदविस्तृतः ॥८८॥भित्तिः स्यात्पदविंशत्या तत्र कन्दसमाः सृताः ।कर्णाः प्रत्यङ्गकोन्येषां प्रत्येकं पदविस्तरात् ॥८९॥द्व्यंशो मध्यगविस्तार उभयोर्निर्गतः पदम् ।द्व्यंशः सरसि विस्तार आक्रान्तपदनिर्गमैः ॥९०॥द्विपदा बाह्यभित्तिः स्याद्विस्तारेण सुशोभिता ।चतुष्पदायतः कर्णो भद्रं तस्य द्विभागिकम् ॥९१॥निर्गमोऽस्यार्धभागेन स्यादेवं सुन्दरं कृम् ।कर्णे कोणासु पदिका दिक्षु सर्वासु शोभनाः ॥९२॥निगूढविस्तरः कार्यः सार्धं पञ्चपदोन्मितः ।द्विपदो निर्गमस्तत्र सर्वदिक्षु विधीयते ॥९३॥सलिलान्तरकं कुर्यादन्तरे कर्णभद्र योः ।प्रविष्टं पदमानेन पदपादेन विस्तृतम् ॥९४॥ऊर्ध्वमानमथैतस्य यथावदभिधीयते ।राजपीठं विधातव्यं भागार्धेनातिसुन्दरम् ॥९५॥ऊर्ध्वभागेन खुरकपीठं स्याच्चतुरंशकम् ।द्विपदः कुम्भकोत्सेधः पादोनं सोमसूरकम् ॥९६॥भागार्धेनान्तरं पत्रं पादोनांशेन मेखलाः ।षड्भागमुच्छ्रिता जङ्घा भागेन ग्रासपट्टिकाः ॥९७॥मेखलान्तरपत्रे च प्रत्येकं पदके स्मृते ।पट्टादधरखुरादूर्ध्वं भागा सैकां दशान्तरम् ॥९८॥राजासनं पदं प्रोक्तमुत्सेधं नातिशोभनम् ।अर्धेनात्यधिके कार्ये द्वे पदे वेदिकोच्छ्रयः ॥९९॥पदार्धमासनं कार्यं द्व्यंशं चन्द्रा वलोकनम् ।ऊर्ध्वमासनपट्टस्य स्तम्भः पञ्चपदान्वितः ॥१००॥ N/A References : N/A Last Updated : November 26, 2017 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP