संस्कृत सूची|शास्त्रः|वास्तुशास्त्रः|समराङ्गणसूत्रधार| मर्मवेधस्त्रयोदशोऽध्यायः समराङ्गणसूत्रधार ८३ अध्यायांची नांवे महासमागमनो नाम प्रथमोऽध्यायः पुत्रसंवादो नाम द्वितीयोऽध्यायः प्रश्नो नाम तृतीयोऽध्यायः महदादिसर्गश्चतुर्थोऽध्यायः १ ते ५० ५१ ते १०५ सहदेवाधिकारो नाम षष्ठोऽध्यायः वर्णाश्रमप्रविभागो नाम सप्तमोऽध्यायः भूमिपरीक्षा नामाष्टमोऽध्यायः हस्तलक्षणं नाम नवमोऽध्यायः १ ते ५० ५१ ते १०० १०१ ते १४८ वास्तुत्रयविभागो नामैकादशोऽध्यायः नाड्यादिसिरादिविकल्पो नाम द्वादशोऽध्यायः मर्मवेधस्त्रयोदशोऽध्यायः पुरुषाङ्गदेवतानिघण्ट्वादिनिर्णयश्चतुर्दशोऽध्यायः राजनिवेशो नाम पञ्चदशोऽध्यायः वनप्रवेशो नाम षोडशोऽध्यायः १ ते ५० ५१ ते १०० १०१ ते १५० १५१ ते २१२ नगरादिसंज्ञा नामाष्टादशोऽध्यायः १ ते ५० ५१ ते १०० १०१ ते १५० १५१ ते २०० २०१ ते २२४ निम्नोच्चादिफलानि नाम विंशोऽध्यायः द्वासप्ततित्रिशाललक्षणं नामैकविंशोऽध्यायः द्विशालगृहलक्षणं नाम द्वाविंशोध्यायः एकशालालक्षणफलादि नाम त्रयोविंशोऽध्यायः द्वारपीठभित्तिमानादिकं नाम चतुर्विंशोऽध्यायः १ ते ५० ५१ ते १०० १०१ ते १५० १५१ ते १६४ १ ते ५० ५१ ते ८० सभाष्टकं नाम सप्तविंशोऽध्यायः गृहद्र व्यप्रमाणानि नामाष्टाविंशोऽध्यायः शयनासनलक्षणं नाम एकोनत्रिंशोऽध्यायः १ ते ५० ५१ ते १०० १०१ ते १४० १ ते ५० ५१ ते १०० १०१ ते १५० १५१ ते २०० २०१ ते २२३ गजशाला नाम द्वात्रिंशोऽध्यायः १ ते ५० ५१ ते ७९ अथाप्रयोज्यप्रयोज्यं नाम चतुस्त्रिंशोऽध्यायः शिलान्यासविधिर्नाम पञ्चत्रिंशोऽध्यायः बलिदानविधिर्नाम षट्त्रिंशोऽध्यायः १ ते ५० ५१ ते ८१ वास्तुसंस्थानमातृका नामाष्टात्रिंशोऽध्यायः द्वारगुणदोषो नामैकोनचत्वारिंशोऽध्यायः पीठमानं नाम चत्वारिंशोऽध्यायः चयविधिर्नामैकचत्वारिंशोऽध्यायः शान्तिकर्मविधिर्नाम द्विचत्वारिंशोऽध्यायः द्वारभङ्गफलं नाम त्रिचत्वारिंशोऽध्यायः स्थपतिलक्षणं नाम चतुश्चत्वारिंशोऽध्यायः अष्टङ्गलक्षणं नाम पञ्चचत्वारिंशोऽध्यायः तोरणभङ्गादिशान्तिको नाम षट्चत्वारिंशोऽध्यायः वेदीलक्षणं नाम सप्तचत्वारिंशोऽध्यायः १ ते ५० ५१ ते १०० १०१ ते १४० १ ते ५० ५१ ते १०० १०१ ते १५० १५१ ते २०३ प्रासादशुभाशुभलक्षणं नाम पञ्चाशोऽध्यायः अथायतननिवेशो नामैकपञ्चाशोऽध्यायः प्रासादजातिर्नाम द्विपञ्चाशोऽध्यायः जघन्यवास्तुद्वारं नाम त्रिपञ्चाशोऽध्यायः १ ते ५० ५१ ते १०० १०१ ते १२३ १ ते ५० ५१ ते १०० १०१ ते १६० १ ते ५० ५१ ते १०० १०१ ते १५० १५१ ते २०० २०१ ते २५० २५१ ते ३१२ १ ते ५० ५१ ते १०० १०१ ते १५० १५१ ते २१० मेर्वादिविंशिका नाम सप्तपञ्चाशोऽध्यायः प्रासादस्तवनं नाम अष्टपञ्चाशोऽध्यायः १ ते ५० ५१ ते १०० १०१ ते १५० १५१ ते २०० २०१ ते २४५ १ ते ५० ५१ ते ९९ पीठपञ्चकलक्षणं नामैकषष्टितमोऽध्यायः १ ते ५० ५१ ते १०० १०१ ते १५० १५१ ते २२० १ ते ५० ५१ ते ११७ १ ते ५० ५१ ते १२० १ ते ५० ५१ ते १०० १०१ ते १५० १५१ ते २०१ मण्डपलक्षणं नाम षट्षष्टितमोऽध्यायः १ ते ५० ५१ ते ११४ जगत्यङ्गसमुदायाधिकारो नामाष्टषष्टितमोऽध्यायः १ ते ५० ५१ ते १०० १०१ ते १५० १५१ ते २२० १ ते ५० ५१ ते १०० १०१ ते १५७ चित्रोद्देशो नामैकसप्ततितमोऽध्यायः भूमिबन्धो नाम द्विसप्ततितमोऽध्यायः लेप्यकर्मादिकं नाम त्रिसप्ततितमोऽध्यायः अथाण्डकप्रमाणं नाम चतुःसप्ततितमोऽध्यायः मानोत्पत्तिर्नाम पञ्चसप्ततितमोऽध्यायः प्रतिमालक्षणं नाम षट्सप्ततितमोऽध्यायः देवादिरूपप्रहरणसंयोगलक्षणं नाम सप्तसप्ततितमोऽध्यायः दोषगुणनिरूपणं नामाष्टसप्ततितमोऽध्यायः १ ते ५० ५१ ते १०० १५१ ते १७० वैष्णवादिस्थानकलक्षणं नामाशीतितमोऽध्यायः पञ्चपुरुषस्त्रीलक्षणं नामैकाशीतितमोऽध्यायः रसदृष्टिलक्षणं नाम द्व्यशीतितमोऽध्यायः १ ते ५० ५१ ते १०० १०१ ते १५० १५१ ते २०० २०१ ते २५४ मर्मवेधस्त्रयोदशोऽध्यायः समराङ्गणसूत्रधार भारतीय वास्तुशास्त्र से सम्बन्धित ज्ञानकोशीय ग्रन्थ है जिसकी रचना धार के परमार राजा भोज (1000–1055 ई) ने की थी। Tags : bhojsamarangansanskritvastu shastraभोजवास्तुशास्त्रसंस्कृतसमराङ्गणसूत्रधार मर्मवेधस्त्रयोदशोऽध्यायः Translation - भाषांतर एकाशीतिपदो यः स्यात्तथा शतपदश्च यः ।चतुःषष्टिपदो यश्च वास्तुरत्र त्रिधोदितः ॥१॥यद्येन विभजेत्तेषु तदिदानीं प्रचक्ष्महे ।यानि मर्माणि चैतेषां कथ्यन्त इह तान्यपि ॥२॥वर्णिनां भवनादीनि निवेशा राजवेश्मनाम् ।एकाशीतिपदेनेन्द्र स्थानं च विभजेत् सुधीः ॥३॥प्रासादा विविधास्तद्वद्विचित्राश्चात्र मण्डपाः ।तान् मापयेच्छतपदप्रविभागेन बुद्धिमान् ॥४॥यः पुनः स्याच्चतुःषष्टिपदस्तेन विभाजयेत् ।नरेन्द्र शिबिरग्रामखेटादि नगरादि च ॥५॥अन्तस्त्रयोदश सुरा द्वात्रिंशद्बाह्यतश्च ये ।तेषां स्थानानि मर्माणि सिरा वंशाश्च तेषु तु ॥६॥मुखे हृदि च नाभौ च मूर्ध्नि च स्तनयोस्तथा ।मर्माणि वास्तुपुंसोऽस्य षण्महान्ति प्रचक्षते ॥७॥वंशानुवंशसम्पाताः पदमध्यानि यानि च ।देवस्थानानि तान्याद्ये पदषोडशकान्विते ॥८॥देवस्थानानि सम्पाताश्चतुःषष्टिपदे पुनः ।तथैकाशीतिपदिके पदान्तशतिकेऽपि च ॥९॥चतुर्ष्वपि विभागेषु सिरा याः स्युश्चतुर्दिशम् ।मर्माणि तानि चोक्तानि द्वारमध्यानि यानि च ॥१०॥भित्तिविस्तृतमध्येन यद्वा मध्येन दारुणः ।मर्म यत्पीड्यते येन गृहे तत्रोच्यते फलम् ॥११॥द्वारैर्वा भित्तिभिर्वापि मर्मणां परिपीडनात् ।दौर्गत्यं गृहिणः प्राहुः कुलहानिमथापि वा ॥१२॥भवेत्स्वामिक्षयः स्तम्भैस्तुलाभिः स्त्रीपरिक्षयः ।स्नुषावधो जयन्तीभिर्बन्धुनाशश्च सङ्ग्रहैः ॥१३॥मर्मस्थानगतैः कायैर्भर्तुः कायो निपीड्यते ।सुहृद्विश्लेषमिच्छन्ति सन्धिपालैश्च तद्विदः ॥१४॥नागपाशैर्धनोच्छेदो नागदन्तैः सुहृत्क्षयः ।कपिच्छकैश्च मर्मस्थैः प्रेष्याणां क्षयमादिशेत् ॥१५॥षड्दारुकाण्यनुसिरागवाक्षालोकनानि च ।मर्ममध्योपगान्येतान्यावहन्ति धनक्षयम् ॥१६॥द्वारद्र व्यतुलास्तम्भनागदन्तगवाक्षकैः ।द्वारमध्यार्दितै रोगकुलपीडाधनक्षयान् ॥१७॥नृपदण्डभयं पत्युः पीडनं च प्रचक्षते ।द्वारमध्येषु षड्दारुमध्येष्वपि च सूरयः ॥१८॥कर्णद्र व्यादिभिर्विद्धेष्वेतदेव फलं विदुः ।शय्यानुवंशविहिता गृहिणां कुलनाशिनी ॥१९॥क्षयावहा नागदन्ता भर्तुः शय्यावितानगाः ।वातायनैरथ स्तम्भैर्ये विद्धा नागदन्तकाः ॥२०॥ते शस्त्रभीतिदा भर्तुर्यद्वा चौरभयप्रदाः ।द्र व्यधान्यविनाशाय शोकाय कलहाय च ॥२१॥गृहमध्यगतं द्वारं भवेत्स्त्रीदूषणाय च ।द्र व्येणान्यतरेणापि महामर्म निपीडितम् ॥२२॥भवेत्सर्वस्वनाशाय गृहिणो मरणाय च ।अंशुकाश्चोर्ध्ववंशाश्च तुम्बिकाः सेन्द्र कीलकाः ॥२३॥पुरप्रासादगेहानां वेधेऽप्येते न दोषदाः ।इत्थं सुरक्षितिपवर्णगृहाश्रितोऽयं ।भेदः पदेष्वखिलमर्मगतो व्यधश्च ।उक्तः पृथक्पृथगमुष्य फलं च सम्यग् ।ब्रूमोऽथ वास्तुपुरुषाङ्गविभागमत्र ॥२४॥इति महाराजाधिराजश्रीभोजदेवविरचिते समराङ्गणसूत्रधारापरनाम्नि वास्तुशास्त्रं मर्मवेधो नाम त्रयोदशोऽध्यायः । N/A References : N/A Last Updated : November 26, 2017 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP