संस्कृत सूची|शास्त्रः|वास्तुशास्त्रः|समराङ्गणसूत्रधार| १ ते ५० समराङ्गणसूत्रधार ८३ अध्यायांची नांवे महासमागमनो नाम प्रथमोऽध्यायः पुत्रसंवादो नाम द्वितीयोऽध्यायः प्रश्नो नाम तृतीयोऽध्यायः महदादिसर्गश्चतुर्थोऽध्यायः १ ते ५० ५१ ते १०५ सहदेवाधिकारो नाम षष्ठोऽध्यायः वर्णाश्रमप्रविभागो नाम सप्तमोऽध्यायः भूमिपरीक्षा नामाष्टमोऽध्यायः हस्तलक्षणं नाम नवमोऽध्यायः १ ते ५० ५१ ते १०० १०१ ते १४८ वास्तुत्रयविभागो नामैकादशोऽध्यायः नाड्यादिसिरादिविकल्पो नाम द्वादशोऽध्यायः मर्मवेधस्त्रयोदशोऽध्यायः पुरुषाङ्गदेवतानिघण्ट्वादिनिर्णयश्चतुर्दशोऽध्यायः राजनिवेशो नाम पञ्चदशोऽध्यायः वनप्रवेशो नाम षोडशोऽध्यायः १ ते ५० ५१ ते १०० १०१ ते १५० १५१ ते २१२ नगरादिसंज्ञा नामाष्टादशोऽध्यायः १ ते ५० ५१ ते १०० १०१ ते १५० १५१ ते २०० २०१ ते २२४ निम्नोच्चादिफलानि नाम विंशोऽध्यायः द्वासप्ततित्रिशाललक्षणं नामैकविंशोऽध्यायः द्विशालगृहलक्षणं नाम द्वाविंशोध्यायः एकशालालक्षणफलादि नाम त्रयोविंशोऽध्यायः द्वारपीठभित्तिमानादिकं नाम चतुर्विंशोऽध्यायः १ ते ५० ५१ ते १०० १०१ ते १५० १५१ ते १६४ १ ते ५० ५१ ते ८० सभाष्टकं नाम सप्तविंशोऽध्यायः गृहद्र व्यप्रमाणानि नामाष्टाविंशोऽध्यायः शयनासनलक्षणं नाम एकोनत्रिंशोऽध्यायः १ ते ५० ५१ ते १०० १०१ ते १४० १ ते ५० ५१ ते १०० १०१ ते १५० १५१ ते २०० २०१ ते २२३ गजशाला नाम द्वात्रिंशोऽध्यायः १ ते ५० ५१ ते ७९ अथाप्रयोज्यप्रयोज्यं नाम चतुस्त्रिंशोऽध्यायः शिलान्यासविधिर्नाम पञ्चत्रिंशोऽध्यायः बलिदानविधिर्नाम षट्त्रिंशोऽध्यायः १ ते ५० ५१ ते ८१ वास्तुसंस्थानमातृका नामाष्टात्रिंशोऽध्यायः द्वारगुणदोषो नामैकोनचत्वारिंशोऽध्यायः पीठमानं नाम चत्वारिंशोऽध्यायः चयविधिर्नामैकचत्वारिंशोऽध्यायः शान्तिकर्मविधिर्नाम द्विचत्वारिंशोऽध्यायः द्वारभङ्गफलं नाम त्रिचत्वारिंशोऽध्यायः स्थपतिलक्षणं नाम चतुश्चत्वारिंशोऽध्यायः अष्टङ्गलक्षणं नाम पञ्चचत्वारिंशोऽध्यायः तोरणभङ्गादिशान्तिको नाम षट्चत्वारिंशोऽध्यायः वेदीलक्षणं नाम सप्तचत्वारिंशोऽध्यायः १ ते ५० ५१ ते १०० १०१ ते १४० १ ते ५० ५१ ते १०० १०१ ते १५० १५१ ते २०३ प्रासादशुभाशुभलक्षणं नाम पञ्चाशोऽध्यायः अथायतननिवेशो नामैकपञ्चाशोऽध्यायः प्रासादजातिर्नाम द्विपञ्चाशोऽध्यायः जघन्यवास्तुद्वारं नाम त्रिपञ्चाशोऽध्यायः १ ते ५० ५१ ते १०० १०१ ते १२३ १ ते ५० ५१ ते १०० १०१ ते १६० १ ते ५० ५१ ते १०० १०१ ते १५० १५१ ते २०० २०१ ते २५० २५१ ते ३१२ १ ते ५० ५१ ते १०० १०१ ते १५० १५१ ते २१० मेर्वादिविंशिका नाम सप्तपञ्चाशोऽध्यायः प्रासादस्तवनं नाम अष्टपञ्चाशोऽध्यायः १ ते ५० ५१ ते १०० १०१ ते १५० १५१ ते २०० २०१ ते २४५ १ ते ५० ५१ ते ९९ पीठपञ्चकलक्षणं नामैकषष्टितमोऽध्यायः १ ते ५० ५१ ते १०० १०१ ते १५० १५१ ते २२० १ ते ५० ५१ ते ११७ १ ते ५० ५१ ते १२० १ ते ५० ५१ ते १०० १०१ ते १५० १५१ ते २०१ मण्डपलक्षणं नाम षट्षष्टितमोऽध्यायः १ ते ५० ५१ ते ११४ जगत्यङ्गसमुदायाधिकारो नामाष्टषष्टितमोऽध्यायः १ ते ५० ५१ ते १०० १०१ ते १५० १५१ ते २२० १ ते ५० ५१ ते १०० १०१ ते १५७ चित्रोद्देशो नामैकसप्ततितमोऽध्यायः भूमिबन्धो नाम द्विसप्ततितमोऽध्यायः लेप्यकर्मादिकं नाम त्रिसप्ततितमोऽध्यायः अथाण्डकप्रमाणं नाम चतुःसप्ततितमोऽध्यायः मानोत्पत्तिर्नाम पञ्चसप्ततितमोऽध्यायः प्रतिमालक्षणं नाम षट्सप्ततितमोऽध्यायः देवादिरूपप्रहरणसंयोगलक्षणं नाम सप्तसप्ततितमोऽध्यायः दोषगुणनिरूपणं नामाष्टसप्ततितमोऽध्यायः १ ते ५० ५१ ते १०० १५१ ते १७० वैष्णवादिस्थानकलक्षणं नामाशीतितमोऽध्यायः पञ्चपुरुषस्त्रीलक्षणं नामैकाशीतितमोऽध्यायः रसदृष्टिलक्षणं नाम द्व्यशीतितमोऽध्यायः १ ते ५० ५१ ते १०० १०१ ते १५० १५१ ते २०० २०१ ते २५४ अथाश्वशाला नाम त्रयस्त्रिंशोऽध्यायः - १ ते ५० समराङ्गणसूत्रधार भारतीय वास्तुशास्त्र से सम्बन्धित ज्ञानकोशीय ग्रन्थ है जिसकी रचना धार के परमार राजा भोज (1000–1055 ई) ने की थी। Tags : bhojsamarangansanskritvastu shastraभोजवास्तुशास्त्रसंस्कृतसमराङ्गणसूत्रधार अथाश्वशाला नाम त्रयस्त्रिंशोऽध्यायः - १ ते ५० Translation - भाषांतर अथ लक्ष्माश्वशालायाः प्रोच्यते विस्तरादिह ।स्ववेश्मवास्तोः कर्तव्यं पदे गन्धर्वसंज्ञके ॥१॥अथवा पुष्पदन्ताख्ये स्थानं वासाय वाजिनाम् ।अरत्निशतमात्रं यज्ज्येष्ठं तत् परिकीर्तितम् ॥२॥अशीत्यरत्निकं मध्यं षष्ठ्यरत्न्यधमं भवेत् ।स्थलप्रदेशे विपुले गुप्ते रम्ये शुचौ तथा ॥३॥समे च चतुरश्रे च स्थिते मङ्गल्यमेव च ।स्थानं हयानां कर्तव्यं प्रदेशे सुपरिक्रमे ॥४॥निम्नगुल्मद्रुमस्थाणुचैत्यायतनवेश्मभिः ।वल्मीकशर्कराभिश्च वर्जिते तत् समाचरेत् ॥५॥निःसङ्गे शल्यहीने च प्रागुदक्प्रवणे तथा ।प्रदेशे तद्विधातव्यमालोक्य सुसमाहितैः ॥६॥ब्राह्मणानुमते शस्ते दिने स्थपतिभिः सह ।भूमेर्विभागमालोक्य सुभगानानयेद्द्रुमान् ॥७॥न जाता ये श्मशानेषु देवतायनेषु वा ।अन्येष्वपि निषिद्धेषु जातान् वृक्षान् विवर्जयेत् ॥८॥वृक्षान् प्रशस्तानानीय समीपे भर्तृवेश्मनः ।ततो भूमिं परीक्षेत प्रशस्तामथ नन्दिताम् ॥९॥चितायतनवल्मीकग्रामधान्यखलेषु च ।विहारेषु च कर्तव्यमश्वानां न निवेशनम् ॥१०॥भवन्ति स्वामिनः पीडा ग्रामधान्यखलेषु च ।श्मशाने वेश्मकरणान्नराणां मृत्युमादिशेत् ॥११॥स्थानं विहारवल्मीकविहितं स्यादनर्थकम् ।तन्नित्यसन्तापकरं क्षयकृच्च तपस्विनाम् ॥१२॥दैवोपघातजननं स्त्रीणां च क्षयकारकम् ।विहितं पादपैश्चैत्यैर्गृहं स्याद्भूतभीतिदम् ॥१३॥भवेद्रो गकरं भर्तुर्विहितं कण्टकिद्रुमैः ।दीर्णायामुन्नतायां च कृतं भूमौ क्षयावहम् ॥१४॥नतायां क्षुद्भयकरं कृतं भवति मन्दिरम् ।तस्मात्कार्यं प्रशस्तायां भूमौ तद्वाजिवृद्धये ॥१५॥मङ्गल्यरमणीये चतुरश्रे मनोनुगे ।शुभे च विहितं सद्म भवेत्कल्याणकारकम् ॥१६॥निर्गच्छतो यथा वामे पार्श्वे भर्तृस्तुरङ्गमाः ।भवन्ति कुर्यात्स्थपतिस्तथा वाजिनिवेशनम् ॥१७॥अन्तःपुरप्रदेशस्य कार्यं दक्षिणतश्च तत् ।प्रवेशे दक्षिणं तेषां हेषितं जायते यथा ॥१८॥तथा भर्तुर्हितार्थाय कर्तव्यं सद्म वाजिनाम् ।प्रागुदग्वा मुखं तस्य विधातव्यं सतोरणम् ॥१९॥प्राग्ग्रीवकेण संयुक्तं चतुःशालमसङ्कटम् ।दशारत्निसमुछ्रायमष्टारत्निप्रविस्तृतम् ॥२०॥नागदन्तकसंशोभि पुरः कुड्यार्धसंयुतम् ।पृष्ठे समग्रकुड्यं वा तत्र स्थानानि कल्पयेत् ॥२१॥तानि तु प्राङ्मुखानि स्युस्तथैवोदङ्मुखानि च ।आयामे किष्कुमात्राणि त्रिकिष्कूणि च विस्तरात् ॥२२॥प्रांशून्नतोर्ध्वभागानि चतुरश्राणि कारयेत् ।अग्रोच्चां सुखसञ्चारां तेषु भूमिं प्रकल्पयेत् ॥२३॥स्थानं सूत्रस्य मध्ये तु हस्तमात्रं समन्ततः ।आस्तीर्णं च समश्लक्ष्णनीरन्ध्रैः फलकैर्दृढैः ॥२४॥धातक्यर्जुनपुन्नागककुभादिविनिर्मितैः ।अष्टाङ्गुलसमुच्छ्रायैरध्यर्धारत्निविस्तृतैः ॥२५॥अच्छिद्रैः संहतैर्बद्धैरयसा पार्श्वयोर्द्वयोः ।अजन्तुसङ्कुलैः काष्टै रुचकाभिर्भिषङ्मतैः ॥२६॥यवसस्य भवेत्स्थानं निर्यूहैः स्वास्तृतं शुभैः ।किष्कुत्रयोच्छ्रितं तत्स्यादेकान्ते सुसमाहितम् ॥२७॥हस्तद्वयप्रमाणं च कुर्यात् खादनकोष्ठकम् ।सूपलिप्तमदुर्गन्धि विस्तारोच्छ्राययोः समम् ॥२८॥स्थाने स्थाने त्रयः कीलाः सुदृढाः कपिशीर्षकाः ।पञ्चाङ्गीनिग्रहार्थं तौ पुरतः कल्पयेदुभौ ॥२९॥पश्चाद्बन्धार्थमेकं च सुगुप्तं परिकल्पयेत् ।चतुर्हस्तायतं त्यक्त्वा शालाकोणचतुष्टयम् ॥३०॥स्थानेष्वेतेषु गुरगान् सर्वेष्वपि निवेशयेत् ।तत्र कुर्याद्बलिं होमं स्वस्तिवाचनकं जपम् ॥३१॥ग्रीष्मे कार्यं सुसंमृष्टं सिक्तं तत्र महीतलम् ।वर्षास्वनम्बुपङ्कं च शिशिरे संवृतं शुभम् ॥३२॥तिष्ठेयुस्तत्र तुरगा नातिसङ्कीर्णशङ्किनः ।अस्पृशन्तो मिथः कार्याः सर्वाबाधविवर्जिताः ॥३३॥स्थानं दक्षिणपूर्वस्यां दिशि वह्नेः प्रकल्पयेत् ।निदध्यादुदकुम्भं च किञ्चिदैन्द्री समाश्रितम् ॥३४॥ब्राह्म्यां दिशि प्रकर्तव्यं स्थानकं यवसस्य च ।वायव्यां तु प्रकर्तव्यं स्थानमौदूखलं दिशि ॥३५॥निःश्रेणयः कुशाः कूपाः कार्याश्च फलकावृताः ।कुद्दालोद्दालगुडकाः शुक्तयोगाः खुरस्तथा ॥३६॥कचग्रहण्यः शृङ्गं च तथा परशवोऽपि च ।नाद्याः प्रदीपाश्च भवन्त्यश्वागारोपयोगिनः ॥३७॥सङ्ग्रहः सुखसञ्चारवस्तूनां नैरृते भवेत् ।अग्न्युपद्र वरक्षार्थं बन्धच्छेदोपयोगिनः ॥३८॥पदार्थान् सन्निधौ कुर्याज्जलदीपादिकान् बुधः ।भाण्डानि कुर्याच्च पृथग् जन्द्रा पनयनेच्छया ॥३९॥हस्तवासीं शिलां दीपं दर्वॐ फालमुपानहौ ।पिटकानि विचित्राणि वस्तीन् नानाविधानपि ॥४०॥एवंविधानि चान्यानि संनिदध्यात्प्रयत्नतः ।पुरःस्तम्भाश्रितं भाण्डं सन्नाहादेर्विधीयते ॥४१॥प्राङ्मुखे तुरगं गेहे वारुण्यां स्थापयेद्दिशि ।पूर्वामुखे पदे वापि मित्रस्य वरुणस्य च ॥४२॥भवन्ति तेन बहवः पुष्टिं च प्राप्नुवन्ति ते ।सा हि दिक्पूजनीया च स्तोतव्या च प्रकीर्तिता ॥४३॥होमशान्तिकदानेषु धर्म्या याश्च पराः क्रियाः ।तासु प्रशस्यते पूर्वा शकेणाधिष्ठिता स्वयम् ॥४४॥तस्यामुदेति दिनकृदनुलोमं ततः पुनः ।अश्वानां पृष्ठतो याति स प्रतीचीमनुक्रमात् ॥४५॥स्नानाधिवासने पूजा माङ्गल्यानि पराणि च ।प्राङ्मुखानां तुरङ्गाणां कर्तव्यानि शुभार्थिभिः ॥४६॥एवं कृते भूमिबलमित्राणां यशसोऽपि च ।वृद्धिर्भवति भूपस्य तस्मात्प्राची प्रशस्यते ॥४७॥भर्तृवृद्धिप्रदं स्थानमग्रग्रासस्य तद्भवेत् ।दक्षिणाभिमुखायां तु शालायां वाञ्छिताथदम् ॥४८॥स्थानं भवति वाहानां पदे कॢप्तं विभावसोः ।वह्निनाध्यासिता सा दिगात्मा वह्निश्च वाजिनाम् ॥४९॥अजरो बहुभोक्ता च तत्र बद्धो भवेद्धयः ।उदङ्मुखेऽपि भवने प्राप्नुवन्ति शुभं हयाः ॥५०॥ N/A References : N/A Last Updated : November 26, 2017 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP