संस्कृत सूची|शास्त्रः|वास्तुशास्त्रः|समराङ्गणसूत्रधार|
द्विशालगृहलक्षणं नाम द्वाविंशोध्यायः

द्विशालगृहलक्षणं नाम द्वाविंशोध्यायः

समराङ्गणसूत्रधार भारतीय वास्तुशास्त्र से सम्बन्धित ज्ञानकोशीय ग्रन्थ है जिसकी रचना धार के परमार राजा भोज (1000–1055 ई) ने की थी।


द्विशालानि द्विपञ्चाशत्स्युः शुभान्यशुभानि च ।
लक्षणानि क्रमात्तेषामिदानीं सम्प्रचक्ष्महे ॥१॥
सिद्धार्थं यमसूर्यं च दण्डाख्यं वातसंज्ञितम् ।
चुल्ली काचं च मुख्यानि द्विशालानि षडेव हि ॥२॥
अनेकभेदभिन्नानि लघुप्रस्तारयोगतः ।
मूषाभेदक्रमेण स्युर्भेदाभेदक्रमेण तु ॥३॥
तथा निलीनकरणाद्वीथिकालिन्दमार्गतः ।
प्राग्ग्रीवादिविधानेन द्वैशाल्यादिविपर्ययात् ॥४॥
यथासम्भवमेतानि कथयामः समासतः ।
निर्वाहतश्च मूषाणामनिर्वाहाच्च नामतः ॥५॥
छन्दतो गुणतो रूपादशुभानि शुभानि च ।
हितार्थाय नरेन्द्रा णां वर्णिनां लिङ्गिनामपि ॥६॥
हस्तिनी महिषी चेति द्वे शाले यत्र वेश्मनि ।
तत्सिद्धार्थमिति ज्ञेयं वित्तसम्पत्तिकारकम् ॥७॥
मृत्युदं महिषीगावीभ्यां भवेद्यमसूर्यकम् ।
दण्डं स्याच्छगलीगावीशालाभ्यां दण्डभीतिदम् ॥८॥
वातं करेणुच्छगलीयुक्तमुद्वेगकारकम् ।
महिष्यजाभ्यामुद्वेगकरी चुल्ली धनापहा ॥९॥
काचं करेणुगावीम्यां सुहृत्प्रीतिविनाशनम् ।
एकमूषममूषं च न द्विशालेषु कारयेत् ॥१०॥
व्यत्यासात्काचचुल्ल्योश्च सर्वाभिस्तिसृभिस्तथा ।
चत्वार्याद्यानि भिद्यन्ते लघुप्रस्तारयोगतः ॥११॥
प्रत्येकमेकादशधा मन्दिराण्यभिधानतः ।
अन्ये चतुर्धा भिद्येते प्रत्येकं द्वे निवेशने ॥१२॥
एषां मूषा भिदाभेदात्तद्वाह्यावाहहेतुकाः ।
वसुधारं भवेत्तेषामाद्यं सिद्धार्थकं ततः ॥१३॥
कल्याणकं शाश्वतं च शिवं कामप्रदं तथा ।
स्त्रीदं शान्तं निष्कलङ्कं धनाधीशं कुबेरकम् ॥१४॥
सिद्धार्थमनुजान्येवमेतान्येकादश क्रमात् ।
संहारं यमसूर्यं च कालं वैवस्वतं यमम् ॥१५॥
करालं विकरालं च कबन्धं मृतकं शवम् ।
यमसूर्यस्य भेदाः स्युः सद्मनो महिषं तथा ॥१६॥
प्रचण्डचण्डे दण्डाख्यमुद्दण्डं काण्डकोटरे ।
विग्रहं निग्रहं धूम्रं निर्धूमं दन्तिदारुणं ॥१७॥
एकादशामी दण्डस्य भेदा दण्डभयप्रदाः ।
मरुत्पवनवाताख्यान्यनिलं सप्रभञ्जनम् ॥१८॥
घनार्यम्बुदविध्वंसि प्रलयं कलहं कलिः ।
कलिचुल्ली च वातस्य भेदा उद्वेगदायकाः ॥१९॥
रोगं चुल्ल्यनलं भस्म चुल्ल्या भेदचतुष्टयम् ।
काचस्य तु च्छलं काचं कुलघ्नं च विरोधि च ॥२०॥
द्वापञ्चाशद्द्विशालानाममी भेदाः प्रकीर्तिताः ।
ब्रूमः साम्प्रतमेतेषां लक्षणानि पृथक्पृथक् ॥२१॥
आद्याद्वितीये वहतो यत्र मूषे धनप्रदे ।
वसुधाराभिधानं तद्गृहं सर्वार्थकानुगम् ॥२२॥
आद्यातृतीये वहतो यत्र सिद्धार्थकं हि तत् ।
सर्वोपद्र वनिर्मुक्तं सिद्धिकृच्चिन्तितार्थकृत् ॥२३॥
द्वितृतीयं वहन्मूषं भवेत् कल्याणमृद्धिकृत् ।
वहदाद्यचतुर्थीकं शाश्वतं गृहमुत्तमम् ॥२४॥
शिवं द्वितीयातुर्याभ्यां वहन्तीभ्यां सुखप्रदम् ।
कामदं त्रिचतुर्थीभ्यां भवेच्चिन्तितकामदम् ॥२५॥
आद्याद्याभिस्तु तिसृभिः स्त्रीप्रदं संप्रदं प्रभोः ।
आद्याद्वितीयातुर्याभिः शान्तं शान्तिप्रदायकम् ॥२६॥
आद्यातृतीयातुर्याभिर्निष्कलङ्कं समृद्धिकृत् ।
द्वितृतीयाचतुर्थीभिर्धनेशं धनवर्द्धनम् ॥२७॥
आद्याद्याभिश्चतसृभिः कुबेरं वित्तवृद्धिकृत् ।
यमसूर्यप्रभेदेषु ब्रूमो लक्ष्म फलानि च ॥२८॥
आद्याद्वितीयामूषाभ्यां संहारं स्वामिनाशनम्  ।
गृहमाद्यातृतीयाभ्यां मृत्युदं यमसूर्यकम् ॥२९॥
द्वितृतीयं वहन्मूषं कालं योषिद्विनाशनम् ।
वैवस्वतं वहत्तुर्यप्रथमं रोगकारकम् ॥३०॥
यमालयं द्वितुर्याभ्यां स्वामिनो यमदर्शनम् ।
करालं त्रिचतुर्थीभ्यां भर्तुः प्राणविनाशनम् ॥३१॥
आद्याभिस्तिसृभिः स्वामिनाशनं विकरालकम् ।
आद्याद्वितीयातुर्याभिः कबन्धं भर्तृनाशनम् ॥३२॥
आद्यातृतीयातुर्याभिर्भर्तृघ्नं मृतकालयम् ।
शबं द्वित्रिचतुर्थीभिः स्वामिनो मरणप्रदम् ॥३३॥
आद्याद्याभिश्चतसृभिः स्वामिघ्नं महिषं विदुः ।
प्रचण्डं दण्डभेदेषु पूर्वया सद्वितीयया ॥३४॥
गृहमादौ विजानीयाद्भर्तुर्नृपभयप्रदम् ।
चण्डमाद्यातृतीयाभ्यां चण्डदण्डभयप्रदम् ॥३५॥
दण्डं स्याद्द्वितृतीयाभ्यां राजदण्डाय दारुणम् ।
उद्दण्डमाद्यातुर्याभ्यां स्वामिनो दण्डभीतिदम् ॥३६॥
काण्डं द्वितीयातुर्याभ्यां काण्डवद्भेदकारकम् ।
कोटरं त्रिचतुर्थीभ्यां स्वामिनो विग्रहावहम् ॥३७॥
प्रथमाद्वितृतीयाभिर्विग्रहं वधबन्धकृत् ।
आद्याद्वितीयातुर्याभिर्निग्रहं विग्रहावहम् ॥३८॥
आद्यातृतीयातुर्याभिर्धूम्रं सर्वधनापहम् ।
द्वितृतीयाचतुर्थीभिर्निर्धूमं धननाशनम् ॥३९॥
आद्याद्याभिश्चतसृभिर्दन्तिदारुणमर्थहृत् ।
आद्याद्वितीयामूषाभ्यां वातभेदेषु मन्दिरम् ॥४०॥
मरुत्संज्ञं भवेत् तत्र वसतां कलहः सदा ।
उद्वेगकारि पवनं तृतीयाद्योपलक्षितम् ॥४१॥
वाताख्यं द्वितृतीयाभ्यां सदा सन्तापकारकम् ।
सन्तापोद्वासकार्याद्यातुर्याभ्यामनिलं भवेत् ॥४२॥
प्रभञ्जनं द्वितुर्याभ्यां शोकसन्तापकारकम् ।
तृतीयया चतुर्थ्या च घनार्युद्वेगकारकम् ॥४३॥
आद्यया द्वितृतीयाभ्यां रोगं कार्यार्थनाशनम् ।
आद्याद्वितीयातुर्याभिः प्रलयं चित्ततापकृत् ॥४४॥
आद्याद्वितीयातुर्याभिः कलहं कलहावहम् ।
द्वितृत्तीयाचतुर्थीभिः कलिः सन्तापकारकम् ॥४५॥
आद्याद्याभिश्चतसृभिः कलिचुल्ली धनापहा ।
रोगमाद्याद्वितीयाभ्यां चुल्लीभेदेषु शोकदम् ॥४६॥
स्याद्द्वितीयातृतीयाभ्यां चुल्ली वित्तविनाशनी ।
वसुघ्नमनलं नाम त्रितुर्याभ्यां निवेशनम् ॥४७॥
वित्तघ्नमाद्यातुर्याभ्यां भस्माख्यं स्वामिनः सदा ।
उदङ्मुखाभ्यां मूषाभ्यां काचभेदेषु मन्दिरम् ॥४८॥
छलं नाम भवेन्नित्यं बन्धुवर्गापमानकृत् ।
दक्षिणोत्तरमूषाणां पौरस्त्ये वहतो यदि ॥४९॥
काञ्चं नाम तदा वेश्म सज्जनानन्दकारकम् ।
मूषाभ्यां दक्षिणाभ्यां स्यात्कुलहं त्रिकुलक्षयम् ॥५०॥
दक्षिणोत्तरमूषाणां पाश्चात्ये वहतो यदि ।
विरोधं नाम तद्वेश्म सर्वलोकविरोधकृत् ॥५१॥
उक्तान्येवं द्विपञ्चाशद्द्विशालानां समासतः ।
एनानि मूषावहनप्रभेदात्फलप्रभेदाच्च निदर्शितनि ।
द्विशालवेश्मान्यधुनैकशालान्युदाह्रियन्ते भवनानि सम्यक् ॥५२॥

इति महाराजाधिराजश्रीभोजदेवविरचिते समराङ्गणसूत्रधारापरनाम्नि वास्तुशास्त्रे द्विशालगृहलक्षणं नाम द्वाविंशोऽध्यायः ।

N/A

References : N/A
Last Updated : November 26, 2017

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP