संस्कृत सूची|शास्त्रः|वास्तुशास्त्रः|समराङ्गणसूत्रधार| प्रश्नो नाम तृतीयोऽध्यायः समराङ्गणसूत्रधार ८३ अध्यायांची नांवे महासमागमनो नाम प्रथमोऽध्यायः पुत्रसंवादो नाम द्वितीयोऽध्यायः प्रश्नो नाम तृतीयोऽध्यायः महदादिसर्गश्चतुर्थोऽध्यायः १ ते ५० ५१ ते १०५ सहदेवाधिकारो नाम षष्ठोऽध्यायः वर्णाश्रमप्रविभागो नाम सप्तमोऽध्यायः भूमिपरीक्षा नामाष्टमोऽध्यायः हस्तलक्षणं नाम नवमोऽध्यायः १ ते ५० ५१ ते १०० १०१ ते १४८ वास्तुत्रयविभागो नामैकादशोऽध्यायः नाड्यादिसिरादिविकल्पो नाम द्वादशोऽध्यायः मर्मवेधस्त्रयोदशोऽध्यायः पुरुषाङ्गदेवतानिघण्ट्वादिनिर्णयश्चतुर्दशोऽध्यायः राजनिवेशो नाम पञ्चदशोऽध्यायः वनप्रवेशो नाम षोडशोऽध्यायः १ ते ५० ५१ ते १०० १०१ ते १५० १५१ ते २१२ नगरादिसंज्ञा नामाष्टादशोऽध्यायः १ ते ५० ५१ ते १०० १०१ ते १५० १५१ ते २०० २०१ ते २२४ निम्नोच्चादिफलानि नाम विंशोऽध्यायः द्वासप्ततित्रिशाललक्षणं नामैकविंशोऽध्यायः द्विशालगृहलक्षणं नाम द्वाविंशोध्यायः एकशालालक्षणफलादि नाम त्रयोविंशोऽध्यायः द्वारपीठभित्तिमानादिकं नाम चतुर्विंशोऽध्यायः १ ते ५० ५१ ते १०० १०१ ते १५० १५१ ते १६४ १ ते ५० ५१ ते ८० सभाष्टकं नाम सप्तविंशोऽध्यायः गृहद्र व्यप्रमाणानि नामाष्टाविंशोऽध्यायः शयनासनलक्षणं नाम एकोनत्रिंशोऽध्यायः १ ते ५० ५१ ते १०० १०१ ते १४० १ ते ५० ५१ ते १०० १०१ ते १५० १५१ ते २०० २०१ ते २२३ गजशाला नाम द्वात्रिंशोऽध्यायः १ ते ५० ५१ ते ७९ अथाप्रयोज्यप्रयोज्यं नाम चतुस्त्रिंशोऽध्यायः शिलान्यासविधिर्नाम पञ्चत्रिंशोऽध्यायः बलिदानविधिर्नाम षट्त्रिंशोऽध्यायः १ ते ५० ५१ ते ८१ वास्तुसंस्थानमातृका नामाष्टात्रिंशोऽध्यायः द्वारगुणदोषो नामैकोनचत्वारिंशोऽध्यायः पीठमानं नाम चत्वारिंशोऽध्यायः चयविधिर्नामैकचत्वारिंशोऽध्यायः शान्तिकर्मविधिर्नाम द्विचत्वारिंशोऽध्यायः द्वारभङ्गफलं नाम त्रिचत्वारिंशोऽध्यायः स्थपतिलक्षणं नाम चतुश्चत्वारिंशोऽध्यायः अष्टङ्गलक्षणं नाम पञ्चचत्वारिंशोऽध्यायः तोरणभङ्गादिशान्तिको नाम षट्चत्वारिंशोऽध्यायः वेदीलक्षणं नाम सप्तचत्वारिंशोऽध्यायः १ ते ५० ५१ ते १०० १०१ ते १४० १ ते ५० ५१ ते १०० १०१ ते १५० १५१ ते २०३ प्रासादशुभाशुभलक्षणं नाम पञ्चाशोऽध्यायः अथायतननिवेशो नामैकपञ्चाशोऽध्यायः प्रासादजातिर्नाम द्विपञ्चाशोऽध्यायः जघन्यवास्तुद्वारं नाम त्रिपञ्चाशोऽध्यायः १ ते ५० ५१ ते १०० १०१ ते १२३ १ ते ५० ५१ ते १०० १०१ ते १६० १ ते ५० ५१ ते १०० १०१ ते १५० १५१ ते २०० २०१ ते २५० २५१ ते ३१२ १ ते ५० ५१ ते १०० १०१ ते १५० १५१ ते २१० मेर्वादिविंशिका नाम सप्तपञ्चाशोऽध्यायः प्रासादस्तवनं नाम अष्टपञ्चाशोऽध्यायः १ ते ५० ५१ ते १०० १०१ ते १५० १५१ ते २०० २०१ ते २४५ १ ते ५० ५१ ते ९९ पीठपञ्चकलक्षणं नामैकषष्टितमोऽध्यायः १ ते ५० ५१ ते १०० १०१ ते १५० १५१ ते २२० १ ते ५० ५१ ते ११७ १ ते ५० ५१ ते १२० १ ते ५० ५१ ते १०० १०१ ते १५० १५१ ते २०१ मण्डपलक्षणं नाम षट्षष्टितमोऽध्यायः १ ते ५० ५१ ते ११४ जगत्यङ्गसमुदायाधिकारो नामाष्टषष्टितमोऽध्यायः १ ते ५० ५१ ते १०० १०१ ते १५० १५१ ते २२० १ ते ५० ५१ ते १०० १०१ ते १५७ चित्रोद्देशो नामैकसप्ततितमोऽध्यायः भूमिबन्धो नाम द्विसप्ततितमोऽध्यायः लेप्यकर्मादिकं नाम त्रिसप्ततितमोऽध्यायः अथाण्डकप्रमाणं नाम चतुःसप्ततितमोऽध्यायः मानोत्पत्तिर्नाम पञ्चसप्ततितमोऽध्यायः प्रतिमालक्षणं नाम षट्सप्ततितमोऽध्यायः देवादिरूपप्रहरणसंयोगलक्षणं नाम सप्तसप्ततितमोऽध्यायः दोषगुणनिरूपणं नामाष्टसप्ततितमोऽध्यायः १ ते ५० ५१ ते १०० १५१ ते १७० वैष्णवादिस्थानकलक्षणं नामाशीतितमोऽध्यायः पञ्चपुरुषस्त्रीलक्षणं नामैकाशीतितमोऽध्यायः रसदृष्टिलक्षणं नाम द्व्यशीतितमोऽध्यायः १ ते ५० ५१ ते १०० १०१ ते १५० १५१ ते २०० २०१ ते २५४ प्रश्नो नाम तृतीयोऽध्यायः समराङ्गणसूत्रधार हा भारतीय वास्तुशास्त्र सम्बन्धित ज्ञानकोशीय ग्रन्थ आहे, ज्याची रचना धार राज्याचे परमार राजा भोज (1000–1055 इ.स.) यांनी केली होती. Tags : bhojsamarangansanskritvastu shastraभोजवास्तुशास्त्रसंस्कृतसमराङ्गणसूत्रधार प्रश्नो नाम तृतीयोऽध्यायः Translation - भाषांतर N/Aअथ तेषु जयो नाम वाक्यं तद्विश्वकर्मणः ।श्रुत्वा कृताञ्जलिः प्राह स्निग्धगम्भीरया गिरा ॥१॥ज्ञानैकनिधिरप्यस्मान् यत् सहायतया किल ।वृणोषि तेन न वयमात्मानं बहु मन्महे ॥२॥तदिदानीं हितार्थे नः प्रजानामपि च प्रभो ।अप्रमेयप्रभावस्त्वं सर्वमाख्यातुमर्हसि ॥३॥पूर्वमेकार्णवे जाते जगति प्रलयं गते ।महाभूतामरपुरीज्योतिषां कथमुद्भवः ॥४॥किमाकारा किमाधारा किंप्रमाणा च मेदिनी ।विस्तृतिः परिधिश्चास्या बाहुल्यमपि कीदृशम् ॥५॥उच्छ्रायव्यासदीर्घत्वैः कैः केऽस्यां कुलभूभृतः ।कति ख्यातानि वर्षाणि द्वीपा नद्योऽब्धयस्तथा ॥६॥काः सूर्येन्दुग्रहर्क्षादिगतयश्च पृथक्पृथक् ।भूमेरुपरि किं चैषामन्योन्यं प्रोक्तमन्तरम् ॥७॥किमाधारं दिवि ज्योतिश्चक्रं भ्रमयते च कः ।लोके कथं महाभूतान्यूर्ध्वाधो बिभ्रति स्थितिम् ॥८॥युगधर्मव्यवस्थाभिः काश्चादौ लोकवृत्तयः ।कश्चादिमस्ततो राज्ञां ग्रहाणां वर्णिनां कथम् ॥९॥कति देशाः कति भुवः पृथक्त्वेन निरूपिताः ।कार्यः क्व च कथं सन्निवेशो जनपदाश्रयः ॥१०॥व्यक्तचिह्नैः स्वनस्पर्शगन्धवर्णरसादिभिः ।काः शस्ता निन्दिताः काश्च पुराणामपि भूमयः ॥११॥कार्यं केन विधानेन भूभृत्पुरनिवेशनम् ।किं फलं सुनिविष्टेऽस्मिन् दुर्निविष्टे च किं पुनः ॥१२॥कतिप्रकारं दुर्गं च दुर्गकर्मक्रमश्च कः ।किमग्रपुरसंस्थानमनिन्द्यं किं च निन्दितम् ॥१३॥कश्चात्रानुक्रमविधिः प्रमाणैरुपपादितः ।प्राकारगोपुराट्टालपरिखावप्रकर्म च ॥१४॥तमङ्गनिर्गमद्वारप्रतोल्यट्टालकादिभिः ।कीदृशः प्रविभागश्च रथ्याचत्वरवर्त्मभिः ॥१५॥भूमिप्रमाणसंस्थानं सीमा च क्षेत्रदिक्पथैः ।नगरग्रामखेटानां निवेशाः स्युः पृथक्पृथक् ॥१६॥पुरस्याभ्यन्तरे पूर्वं कैर्द्र व्यावयवक्रमैः ।कस्मिन् स्थाने कथं कार्यं शक्रध्वजनिवेशनम् ॥१७॥प्रतिसंवत्सरं तस्य नियुक्तस्य कथं पुनः ।हिताय नृपलोकानां विधातव्यो महोत्सवः ॥१८॥गृहेषु केषु केष्वत्र कासु कासु ककुप्सु च ।भागैर्बाह्यान्तरैः कैः कैः कार्याः काः काश्च देवताः ॥१९॥कैः कैर्यानपरीवारवर्णरूपविभूषणैः ।कार्याः कैः कैः सुरा वस्त्रवयोवेषायुधध्वजैः ॥२०॥प्रमाणमितिसंस्थानसङ्ख्यानोच्छ्रयलक्ष्मभिः ।प्रासादाः कस्य के वा स्युः सुरराजद्विजातिषु ॥२१॥प्राकारपरिखागुप्तं पुरे स्याद्गोपुरं क्व च ।युग्ममध्याम्बुवेश्मानि क्व च स्युः क्व महानसम् ॥२२॥कोष्ठागारायुधस्थानभाण्डागारनिवेशनैः ।व्यायामनृत्तसङ्गीतस्नानधारागृहादिभिः ॥२३॥शय्यावासगृहप्रेक्षावेश्मादर्शगृहैः पृथक् ।क्रीडादोलाश्रयारिष्टगृहान्तः पुरवेश्मभिः ॥२४॥विटङ्कभ्रमनिर्यूहकक्षासंयमनादिभिः ।अशोकवनिकाभिश्च लतामण्डपवेश्मभिः ॥२५॥वापीभिर्दारुगिरिभिश्चित्राभिः पुष्पवीथिभिः ।एतैर्विशेषैरन्यैश्च विचित्रैर्विपिनाश्रयैः ॥२६॥मानोन्मानक्रियायामद्र व्याकृतिविनिर्मितः ।निकेतननिवेशः स्याद्रा ज्ञां भागाश्रितः कथम् ॥२७॥पुरोधःसैन्यभूश्रेष्ठदैवचिन्तकमन्त्रिणाम् ।कं कं च भागं प्राप्य स्युर्निवेशा नृपवेश्मनः ॥२८॥पुरे स्युर्दिक्षु भागेषु पदभागेषु केषु च ।विप्रराजन्यविट्शूद्रा स्तज्जैरन्तरजैः समम् ॥२९॥तथा कृषितुलाशिल्पकलापण्योपजीविनःहिंसाश्रिताश्च पुरुषा निवेश्याः स्युः कथं क्व च ॥३०॥निवेशाः कीदृशाश्चैषां कियन्तो वा भवन्ति ते ।शस्यं लोकेन वा तेषां कैः प्रवेशजलभ्रमैः ॥३१॥धिष्ण्यमाद्यं कतिविधं द्र व्याण्याद्यानि कानि वा ।हेतुरेषां च सर्वेषां स्याच्च किदृगनुक्रमः ॥३२॥भजन्ते योगमन्योन्यं कानि द्र व्याणि कैः सह ।कानि योगं न गच्छन्ति कैर्वा कः क्व वसेत् पुमान् ॥३३॥इष्टकाकर्म किं चेष्टं कीर्तिता कतिधा च भूः ।परिकर्मक्रमस्तासां वह्न्यम्बुपवनैश्च कः ॥३४॥गुरुवर्णिध्वजोर्वीशतद्भृत्यप्रतिमा पुराम् ।वृक्षाः के के प्रशस्ताः स्युर्गृहार्थे के च गर्हिताः ॥३५॥तच्छेदस्रावसंभूतं शब्ददिक्पातगर्भजम् ।विज्ञायते कथं कर्तृकारकादिशुभाशुभम् ॥३६॥प्रमाणं तक्षणच्छेदैः शोधितानां कथं भवेत् ।आहृत्य स्थापनं पूर्वं दारूणां स्थानके क्व च ॥३७॥सामान्यतोऽखिलानां काः काश्च जातेर्विशेषतः ।प्रशस्तैर्लक्ष्मभिर्युक्ता भूमयः परिकीर्तिताः ॥३८॥शल्योद्धारविधिः कीदृक् कीदृशं भूमिकर्म च ।दिग्ग्रहः सूत्रणं चाधिवासनं च कथं भवेत् ॥३९॥प्रमाणं मूलपादस्य शिलान्यासे च को विधिः ।विभज्यते कथं वेश्म शालालिन्दविभाजनैः ॥४०॥मानानि कानि भित्तीनां पीठानामुच्छ्रयाश्च के ।कथं तानि विकल्प्यानि वर्णानां मेखलादिभिः ॥४१॥समस्तकानां स्तम्भानां द्वारस्तम्भासनैः सह ।नागवीथ्युपधानानां समं कण्ठविनिर्गमैः ॥४२॥जयन्तीसङ्ग्रहतुलाकार्याणां वास्तुनोऽपि च ।कीदृशं फलकानां च प्रमाणं परिकीर्तितम् ॥४३॥स्वमानात् सर्ववर्णानां तलोच्छ्रायास्तु कीदृशाः ।का गवाक्षकपोतालिवेदिकाजालकक्रियाः ॥४४॥स्थूणा निसृष्टिकोत्सूका मृगाल्युपतुलास्तथा ।सान्तःप्राणिशिरोवंशाः किंप्रमाणाः प्रकीर्तिताः ॥४५॥छाद्योदयाः कियन्तः स्युर्वृत्तच्छाद्यक्रमश्च कः ।त्र्यश्राणां खण्डवृत्तानां लुपानां च क्रियाः कथम् ॥४६॥सीमालिन्दशिरस्तासां कीदृशी चावलम्बना ।कतिप्रकाराः प्रासादशिरसां च विकल्पनाः ॥४७॥यच्चान्यदेवमादि स्यात्प्रासादभवनादिषु ।द्र व्यकाष्ठकलासङ्गि प्रमाणं तस्य कीदृशम् ॥४८॥शालालिन्दप्रमाणानि चतुःशालेषु धामसु ।ज्यायोमध्ययवीयस्सु मूषाभिः काष्ठकल्पना ॥४९॥एकद्वित्रिचतुःशालान्येषां संयोगतोऽपि च ।कथं कति च वेश्मानि कल्प्यन्ते प्रविभागशः ॥५०॥कथं च षोडशचतुःषष्ट्येकाशीतयः शतम् ।संविभागाः पदानां स्युः कथमत्रामरस्थितिः ॥५१॥आद्यो नवपदो वास्तुरन्त्यः साहस्रिकः कथम् ।अङ्गप्रत्यङ्गभागेषु केषु केषु क्व तस्थुषः ॥५२॥कथमेते सुराः सरवे वास्तोरस्य व्यवस्थिताः ।एतद्वंशशिरश्चक्षुःकुक्षिहृन्मूर्धमर्मसु ॥५३॥जायेत पीडा द्र व्येषु सन्निविष्टेषु कस्य का ।वास्त्वारम्भप्रवेशेषु यात्रायां स्थापनेषु च ॥५४॥दूतस्वप्ननिमित्ताद्यैः कथं ज्ञेयं शुभाशुभम् ।कारुक्रियासु चित्रेषु तथा लेप्यक्रियासु च ॥५५॥योज्यं किं कैमयोग्यं च किं भूपभवनादिषु ।हस्तस्य लक्षणं मानसंज्ञा वै ज्ञायते कथम् ॥५६॥किं हव्येष्वग्निलक्ष्म स्यात् किं च निर्युक्तलक्षणम् ।अनुक्रमेण वर्णानां बलिकर्म च कीदृशम् ॥५७॥विधेयं विधिना केन भवने च प्रवेशनम् ।पतिते स्फुटिते जीर्णे प्लुष्टे वज्राशनिक्षते ॥५८॥निमग्नभग्ननिर्भिन्नप्रशीर्णेषु च वास्तुषु ।मधुवल्मीकसंभूतौ प्रविरूढे च दारुणि ॥५९॥जायते किं फलं कुत्र प्रायश्चित्तेन को विधिः ।इत्येवमादिकमनेकविधं विधानं वेश्मोपगं च पृथगाश्रयसंभृतं च ।अस्मास्वनल्पकरुणार्द्रि तचित्तवृत्तिर्व्याख्यातुमर्हसि समस्तमनुक्रमेण ॥६०॥इति महाराजाधिराजश्रीभोजदेवविरचिते समराङ्गणसूत्रधारापरनाम्नि वास्तुशास्त्रे प्राश्नाध्यायस्तृतीयः । N/A References : N/A Last Updated : November 26, 2017 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP