संस्कृत सूची|शास्त्रः|वास्तुशास्त्रः|समराङ्गणसूत्रधार| महदादिसर्गश्चतुर्थोऽध्यायः समराङ्गणसूत्रधार ८३ अध्यायांची नांवे महासमागमनो नाम प्रथमोऽध्यायः पुत्रसंवादो नाम द्वितीयोऽध्यायः प्रश्नो नाम तृतीयोऽध्यायः महदादिसर्गश्चतुर्थोऽध्यायः १ ते ५० ५१ ते १०५ सहदेवाधिकारो नाम षष्ठोऽध्यायः वर्णाश्रमप्रविभागो नाम सप्तमोऽध्यायः भूमिपरीक्षा नामाष्टमोऽध्यायः हस्तलक्षणं नाम नवमोऽध्यायः १ ते ५० ५१ ते १०० १०१ ते १४८ वास्तुत्रयविभागो नामैकादशोऽध्यायः नाड्यादिसिरादिविकल्पो नाम द्वादशोऽध्यायः मर्मवेधस्त्रयोदशोऽध्यायः पुरुषाङ्गदेवतानिघण्ट्वादिनिर्णयश्चतुर्दशोऽध्यायः राजनिवेशो नाम पञ्चदशोऽध्यायः वनप्रवेशो नाम षोडशोऽध्यायः १ ते ५० ५१ ते १०० १०१ ते १५० १५१ ते २१२ नगरादिसंज्ञा नामाष्टादशोऽध्यायः १ ते ५० ५१ ते १०० १०१ ते १५० १५१ ते २०० २०१ ते २२४ निम्नोच्चादिफलानि नाम विंशोऽध्यायः द्वासप्ततित्रिशाललक्षणं नामैकविंशोऽध्यायः द्विशालगृहलक्षणं नाम द्वाविंशोध्यायः एकशालालक्षणफलादि नाम त्रयोविंशोऽध्यायः द्वारपीठभित्तिमानादिकं नाम चतुर्विंशोऽध्यायः १ ते ५० ५१ ते १०० १०१ ते १५० १५१ ते १६४ १ ते ५० ५१ ते ८० सभाष्टकं नाम सप्तविंशोऽध्यायः गृहद्र व्यप्रमाणानि नामाष्टाविंशोऽध्यायः शयनासनलक्षणं नाम एकोनत्रिंशोऽध्यायः १ ते ५० ५१ ते १०० १०१ ते १४० १ ते ५० ५१ ते १०० १०१ ते १५० १५१ ते २०० २०१ ते २२३ गजशाला नाम द्वात्रिंशोऽध्यायः १ ते ५० ५१ ते ७९ अथाप्रयोज्यप्रयोज्यं नाम चतुस्त्रिंशोऽध्यायः शिलान्यासविधिर्नाम पञ्चत्रिंशोऽध्यायः बलिदानविधिर्नाम षट्त्रिंशोऽध्यायः १ ते ५० ५१ ते ८१ वास्तुसंस्थानमातृका नामाष्टात्रिंशोऽध्यायः द्वारगुणदोषो नामैकोनचत्वारिंशोऽध्यायः पीठमानं नाम चत्वारिंशोऽध्यायः चयविधिर्नामैकचत्वारिंशोऽध्यायः शान्तिकर्मविधिर्नाम द्विचत्वारिंशोऽध्यायः द्वारभङ्गफलं नाम त्रिचत्वारिंशोऽध्यायः स्थपतिलक्षणं नाम चतुश्चत्वारिंशोऽध्यायः अष्टङ्गलक्षणं नाम पञ्चचत्वारिंशोऽध्यायः तोरणभङ्गादिशान्तिको नाम षट्चत्वारिंशोऽध्यायः वेदीलक्षणं नाम सप्तचत्वारिंशोऽध्यायः १ ते ५० ५१ ते १०० १०१ ते १४० १ ते ५० ५१ ते १०० १०१ ते १५० १५१ ते २०३ प्रासादशुभाशुभलक्षणं नाम पञ्चाशोऽध्यायः अथायतननिवेशो नामैकपञ्चाशोऽध्यायः प्रासादजातिर्नाम द्विपञ्चाशोऽध्यायः जघन्यवास्तुद्वारं नाम त्रिपञ्चाशोऽध्यायः १ ते ५० ५१ ते १०० १०१ ते १२३ १ ते ५० ५१ ते १०० १०१ ते १६० १ ते ५० ५१ ते १०० १०१ ते १५० १५१ ते २०० २०१ ते २५० २५१ ते ३१२ १ ते ५० ५१ ते १०० १०१ ते १५० १५१ ते २१० मेर्वादिविंशिका नाम सप्तपञ्चाशोऽध्यायः प्रासादस्तवनं नाम अष्टपञ्चाशोऽध्यायः १ ते ५० ५१ ते १०० १०१ ते १५० १५१ ते २०० २०१ ते २४५ १ ते ५० ५१ ते ९९ पीठपञ्चकलक्षणं नामैकषष्टितमोऽध्यायः १ ते ५० ५१ ते १०० १०१ ते १५० १५१ ते २२० १ ते ५० ५१ ते ११७ १ ते ५० ५१ ते १२० १ ते ५० ५१ ते १०० १०१ ते १५० १५१ ते २०१ मण्डपलक्षणं नाम षट्षष्टितमोऽध्यायः १ ते ५० ५१ ते ११४ जगत्यङ्गसमुदायाधिकारो नामाष्टषष्टितमोऽध्यायः १ ते ५० ५१ ते १०० १०१ ते १५० १५१ ते २२० १ ते ५० ५१ ते १०० १०१ ते १५७ चित्रोद्देशो नामैकसप्ततितमोऽध्यायः भूमिबन्धो नाम द्विसप्ततितमोऽध्यायः लेप्यकर्मादिकं नाम त्रिसप्ततितमोऽध्यायः अथाण्डकप्रमाणं नाम चतुःसप्ततितमोऽध्यायः मानोत्पत्तिर्नाम पञ्चसप्ततितमोऽध्यायः प्रतिमालक्षणं नाम षट्सप्ततितमोऽध्यायः देवादिरूपप्रहरणसंयोगलक्षणं नाम सप्तसप्ततितमोऽध्यायः दोषगुणनिरूपणं नामाष्टसप्ततितमोऽध्यायः १ ते ५० ५१ ते १०० १५१ ते १७० वैष्णवादिस्थानकलक्षणं नामाशीतितमोऽध्यायः पञ्चपुरुषस्त्रीलक्षणं नामैकाशीतितमोऽध्यायः रसदृष्टिलक्षणं नाम द्व्यशीतितमोऽध्यायः १ ते ५० ५१ ते १०० १०१ ते १५० १५१ ते २०० २०१ ते २५४ महदादिसर्गश्चतुर्थोऽध्यायः समराङ्गणसूत्रधार हा भारतीय वास्तुशास्त्र सम्बन्धित ज्ञानकोशीय ग्रन्थ आहे, ज्याची रचना धार राज्याचे परमार राजा भोज (1000–1055 इ.स.) यांनी केली होती. Tags : bhojsamarangansanskritvastu shastraभोजवास्तुशास्त्रसंस्कृतसमराङ्गणसूत्रधार महदादिसर्गश्चतुर्थोऽध्यायः Translation - भाषांतर N/Aजयस्येति समाकर्ण्य विश्वकर्मा च तद्वचः ।जगाद गर्जदम्भोदध्वनिगम्भीरया गिरा ॥१॥साधु वत्स त्वया सम्यक् प्रज्ञयातिविशुद्धया ।प्रश्नोऽयमीरितो वास्तुविद्याब्जवनभास्करः ॥२॥स त्वं निधाय प्रश्नानां समुदायममुं हृदि ।वदतो मेऽवधानेन शृणु यद्ब्रह्मणोदितम् ॥३॥इदमासीद्युगान्ताग्निप्लुष्टं संवर्तकादिभिः ।समुत्सृजद्भिरम्भांसि विश्वमेकार्णवीकृतम् ॥४॥तमोभूते ततस्तस्मिन् भोगपर्यङ्कमाश्रितः ।हरिः सुष्वाप सलिले कृत्वोदरगतं जगत् ॥५॥अथास्य नाभावम्भोजमभूत् तस्मिन्नगायत ।सर्वज्ञानाश्रयः श्रीमांश्चतुर्वक्त्रः सुरेश्वरः ॥६॥स कदाचिद् दधच्चेतः प्रजासृष्टिं प्रति प्रभुः ।महान्तमसृजत् तत्र पूर्वं विश्वस्य हेतवे ॥७॥त्रिधाहङ्कृतमेतस्मान्मनोऽभूत् सात्त्विकादतः ।राजसादपि चाक्षाणि तन्मात्राणि च तामसात् ॥८॥तेभ्यः पञ्च महाभूतान्याविरासन्ननुक्रमात् ।व्योमादीनि धरान्तानि स्वैः स्वैर्युक्तानि तैर्गुणैः ॥९॥अधरोत्तरभावश्च सम्यगेषामथोच्यते ।आदौ पृथ्वी ततोऽधस्तादापस्तासां च पावकः ॥१०॥तस्याप्यधस्तात्पवनस्ततः खमवकाशदम् ।भूतादिस्थं वियत्सोऽपि महता परिवारितः ॥११॥महांश्च विशति व्यक्तं व्यक्तमव्यक्तकं पुनः ।ग्राह्यग्राहकभावेन व्यक्तो भूतसमुद्भवः ॥१२॥आधाराधार्यभावश्च यथार्थौ च स्थितिव्ययौ ।महाभूतानि सदुणान्येवं सृष्ट्वा ततः प्रभुः ॥१३॥मनः पुनरसौ सर्गे भौतिके सम्यगादधौ ।सुरासुरान् सगन्धर्वान् यक्षरक्षांसि पन्नगान् ॥१४॥नागान् मुनीनप्सरसो मनसा समजीजनत् ।अर्केन्दू चक्षुषो जातौ गगनभ्रमणक्षमौ ॥१५॥गात्रेभ्योऽपि च नक्षत्रचक्रमस्मादजायत ।इन्द्रि येभ्यश्च पञ्चभ्योऽभूत्ताराग्रहपञ्चकम् ॥१६॥ग्रहत्वं पुनरेतेषामिन्द्रि यग्रहणाद्विदुः ।सुरेन्द्र चापचिह्नानां विद्युद्वलयशालिनाम् ॥१७॥भीमाशनिभृतां चासीत्केशेभ्योऽम्बुमुचां भवः ।विश्वमापूरयन् कृत्स्नमाविरासीत्तदिच्छया ॥१८॥त्रिलोकीपावनस्तिर्यग्गामी चण्डः समीरणः ।ततश्चण्डानिलोद्धूतमुपर्यर्कांशुतापितम् ॥१९॥वायुभिः शोषमानीतं जगाम घनतां पयः ।तस्योपरिष्टादम्भोधेरधः कुण्डलितं वपुः ॥२०॥विष्णोः सज्यात्वमभ्येत्य धत्तेऽनन्तोऽखिलां भुवम् ।न तप्तं येषु येष्वम्भः प्रदेशेष्वर्करश्मिभिः ॥२१॥नीतं न वानिलैः शोषं तत्र तत्राब्धयोऽभवन् ।महाम्भोवीचिसङ्घाता विक्षिप्ताश्चण्डमारुतैः ॥२२॥यत्र यत्रापुरैक्यं ते तत्र तत्राद्र योऽभवन् ।निश्चलत्वार्थमवनिश्चर्मवद्वितताथ तैः ॥२३॥शैलैः कीलैरिव स्थानेष्वाचिता तेषु तेष्वियम् ।वृद्धिं गताद्रि निःष्यन्दैर्भूभृतां प्रविभागजा ॥२४॥निम्नगाभूत्ततोऽम्भोधेः कान्ता निम्नानुसारिणी ।मेदिन्यन्तेषु जलधिपर्यन्तेषु विनिर्ययुः ॥२५॥अम्भांसि यत्र यत्रासंस्ते द्वीपाश्चित्ररूपिणः ।सनिम्नगाम्बुधिद्वीपा विभक्ताखिलभूधरा ॥२६॥व्यक्ता बभूव कृत्स्नैवं भूमिर्भूतानि बिभ्रती ।स चक्रे रौरवादीनां निरयाणामधः क्षितेः ॥२७॥स्वकर्मफलभुक्त्यर्थं स्थानं दुष्कृतकर्मणाम् ।जरायुजाण्डजोद्भिज्जस्वेदजैः सह स प्रभुः ॥२८॥चतुर्धेत्यसृजल्लोके भूतग्रामं चराचरम् ।द्वेधा जरायुजास्तत्र मनुष्याः पशवस्तथा ॥२९॥ग्राम्याः सप्ताभवंस्तेषु सप्तारण्यकृतालयाः ।पुमान् गौस्तुरगच्छागौ मेषो वेगसरः खरः ॥३०॥ग्रामवासैकनिरताः सप्तैते परिकीर्तिताः ।सिंहद्विपोष्ट्रमहिषाः शरभो गवयः कपिः ॥३१॥अरण्यगोचरा जीवाः सप्तैते वत्स निर्मिताः ।धर्माधर्मविवेकित्वाच्छ्रेयान् ग्राम्येषु पूरुषः ॥३२॥अरण्यचारिषु श्रेष्ठः सिंहः शौर्यबलादिभिः ।सुपर्णा भुजगाः कीटा येऽपि च स्युः पिपीलिकाः ॥३३॥चतुर्धेत्यण्डजन्मानो जन्मिनस्ते प्रकीर्त्तिताः ।क्लेदकेशसमुद्भूताः कृमियूकादिजन्तवः ॥३४॥सर्वेऽपि स्वेदजन्मानस्ते प्रजापतिना कृताः ।उद्भिज्जाः पञ्चधा भूत्वा निर्दिष्टाः स्थावराश्च ते ॥३५॥द्रुमा वल्ल्यश्च गुल्माश्च वंशाः सतृणजातयः ।छन्नान्तःकरणत्वं च स्वस्थानात्त्यागितापि च ॥३६॥छिन्नप्ररोहिता चैषां वैशेषिकगुणत्रयम् ।गायत्री भूतसंज्ञैषां चतुर्विंशतिपर्विका ॥३७॥ज्ञात्वैनां पुरुषः पुण्यां भवति स्वर्गभाजनम् ।भुवनभूजलवह्निमरुद्वियत्प्रमुख एष भवस्तव कीर्त्तितः ।वंसुमतीपरिमाणविनिश्चयं कथयतः शृणु सम्प्रति वत्स मे ॥३८॥इति महाराजाधिराजश्रीभोजदेवविरचिते समराङ्गणसूत्रधारापरनाम्नि वास्तुशास्त्रे महदादिसङ्गाध्यायश्चतुर्थः । N/A References : N/A Last Updated : November 26, 2017 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP