संस्कृत सूची|शास्त्रः|वास्तुशास्त्रः|समराङ्गणसूत्रधार| १०१ ते १२३ समराङ्गणसूत्रधार ८३ अध्यायांची नांवे महासमागमनो नाम प्रथमोऽध्यायः पुत्रसंवादो नाम द्वितीयोऽध्यायः प्रश्नो नाम तृतीयोऽध्यायः महदादिसर्गश्चतुर्थोऽध्यायः १ ते ५० ५१ ते १०५ सहदेवाधिकारो नाम षष्ठोऽध्यायः वर्णाश्रमप्रविभागो नाम सप्तमोऽध्यायः भूमिपरीक्षा नामाष्टमोऽध्यायः हस्तलक्षणं नाम नवमोऽध्यायः १ ते ५० ५१ ते १०० १०१ ते १४८ वास्तुत्रयविभागो नामैकादशोऽध्यायः नाड्यादिसिरादिविकल्पो नाम द्वादशोऽध्यायः मर्मवेधस्त्रयोदशोऽध्यायः पुरुषाङ्गदेवतानिघण्ट्वादिनिर्णयश्चतुर्दशोऽध्यायः राजनिवेशो नाम पञ्चदशोऽध्यायः वनप्रवेशो नाम षोडशोऽध्यायः १ ते ५० ५१ ते १०० १०१ ते १५० १५१ ते २१२ नगरादिसंज्ञा नामाष्टादशोऽध्यायः १ ते ५० ५१ ते १०० १०१ ते १५० १५१ ते २०० २०१ ते २२४ निम्नोच्चादिफलानि नाम विंशोऽध्यायः द्वासप्ततित्रिशाललक्षणं नामैकविंशोऽध्यायः द्विशालगृहलक्षणं नाम द्वाविंशोध्यायः एकशालालक्षणफलादि नाम त्रयोविंशोऽध्यायः द्वारपीठभित्तिमानादिकं नाम चतुर्विंशोऽध्यायः १ ते ५० ५१ ते १०० १०१ ते १५० १५१ ते १६४ १ ते ५० ५१ ते ८० सभाष्टकं नाम सप्तविंशोऽध्यायः गृहद्र व्यप्रमाणानि नामाष्टाविंशोऽध्यायः शयनासनलक्षणं नाम एकोनत्रिंशोऽध्यायः १ ते ५० ५१ ते १०० १०१ ते १४० १ ते ५० ५१ ते १०० १०१ ते १५० १५१ ते २०० २०१ ते २२३ गजशाला नाम द्वात्रिंशोऽध्यायः १ ते ५० ५१ ते ७९ अथाप्रयोज्यप्रयोज्यं नाम चतुस्त्रिंशोऽध्यायः शिलान्यासविधिर्नाम पञ्चत्रिंशोऽध्यायः बलिदानविधिर्नाम षट्त्रिंशोऽध्यायः १ ते ५० ५१ ते ८१ वास्तुसंस्थानमातृका नामाष्टात्रिंशोऽध्यायः द्वारगुणदोषो नामैकोनचत्वारिंशोऽध्यायः पीठमानं नाम चत्वारिंशोऽध्यायः चयविधिर्नामैकचत्वारिंशोऽध्यायः शान्तिकर्मविधिर्नाम द्विचत्वारिंशोऽध्यायः द्वारभङ्गफलं नाम त्रिचत्वारिंशोऽध्यायः स्थपतिलक्षणं नाम चतुश्चत्वारिंशोऽध्यायः अष्टङ्गलक्षणं नाम पञ्चचत्वारिंशोऽध्यायः तोरणभङ्गादिशान्तिको नाम षट्चत्वारिंशोऽध्यायः वेदीलक्षणं नाम सप्तचत्वारिंशोऽध्यायः १ ते ५० ५१ ते १०० १०१ ते १४० १ ते ५० ५१ ते १०० १०१ ते १५० १५१ ते २०३ प्रासादशुभाशुभलक्षणं नाम पञ्चाशोऽध्यायः अथायतननिवेशो नामैकपञ्चाशोऽध्यायः प्रासादजातिर्नाम द्विपञ्चाशोऽध्यायः जघन्यवास्तुद्वारं नाम त्रिपञ्चाशोऽध्यायः १ ते ५० ५१ ते १०० १०१ ते १२३ १ ते ५० ५१ ते १०० १०१ ते १६० १ ते ५० ५१ ते १०० १०१ ते १५० १५१ ते २०० २०१ ते २५० २५१ ते ३१२ १ ते ५० ५१ ते १०० १०१ ते १५० १५१ ते २१० मेर्वादिविंशिका नाम सप्तपञ्चाशोऽध्यायः प्रासादस्तवनं नाम अष्टपञ्चाशोऽध्यायः १ ते ५० ५१ ते १०० १०१ ते १५० १५१ ते २०० २०१ ते २४५ १ ते ५० ५१ ते ९९ पीठपञ्चकलक्षणं नामैकषष्टितमोऽध्यायः १ ते ५० ५१ ते १०० १०१ ते १५० १५१ ते २२० १ ते ५० ५१ ते ११७ १ ते ५० ५१ ते १२० १ ते ५० ५१ ते १०० १०१ ते १५० १५१ ते २०१ मण्डपलक्षणं नाम षट्षष्टितमोऽध्यायः १ ते ५० ५१ ते ११४ जगत्यङ्गसमुदायाधिकारो नामाष्टषष्टितमोऽध्यायः १ ते ५० ५१ ते १०० १०१ ते १५० १५१ ते २२० १ ते ५० ५१ ते १०० १०१ ते १५७ चित्रोद्देशो नामैकसप्ततितमोऽध्यायः भूमिबन्धो नाम द्विसप्ततितमोऽध्यायः लेप्यकर्मादिकं नाम त्रिसप्ततितमोऽध्यायः अथाण्डकप्रमाणं नाम चतुःसप्ततितमोऽध्यायः मानोत्पत्तिर्नाम पञ्चसप्ततितमोऽध्यायः प्रतिमालक्षणं नाम षट्सप्ततितमोऽध्यायः देवादिरूपप्रहरणसंयोगलक्षणं नाम सप्तसप्ततितमोऽध्यायः दोषगुणनिरूपणं नामाष्टसप्ततितमोऽध्यायः १ ते ५० ५१ ते १०० १५१ ते १७० वैष्णवादिस्थानकलक्षणं नामाशीतितमोऽध्यायः पञ्चपुरुषस्त्रीलक्षणं नामैकाशीतितमोऽध्यायः रसदृष्टिलक्षणं नाम द्व्यशीतितमोऽध्यायः १ ते ५० ५१ ते १०० १०१ ते १५० १५१ ते २०० २०१ ते २५४ प्रासादद्वारमानादि नाम चतुष्पञ्चाशोऽध्यायः - १०१ ते १२३ समराङ्गणसूत्रधार भारतीय वास्तुशास्त्र से सम्बन्धित ज्ञानकोशीय ग्रन्थ है जिसकी रचना धार के परमार राजा भोज (1000–1055 ई) ने की थी। Tags : bhojsamarangansanskritvastu shastraभोजवास्तुशास्त्रसंस्कृतसमराङ्गणसूत्रधार प्रासादद्वारमानादि नाम चतुष्पञ्चाशोऽध्यायः - १०१ ते १२३ Translation - भाषांतर नवांशपञ्चके यद्वा क्षेत्रस्यैव लुमादितः ।पृथुत्वार्धे लुमापृष्ठद्वयलेखां निवेशयेत् ॥१०१॥शेषैः षड्भिस्ततो भागैरन्यत्तु प्राग्वदाचरेत् ।भागार्धं निर्गमः कार्यः प्रासादानां कनीयसाम् ॥१०२॥छाद्यकस्यैव भागैस्तु ज्यायसां निर्गमो यतः ।तदन्तरे ये प्रासादास्तेषां क्षेत्रानुसारतः ॥१०३॥छाद्यस्य निर्गमः कार्यो विद्वद्भिरनुपाततः ।निर्गमस्य त्रिभागेन कनीयाञ्छाद्यकोदयः ॥१०४॥अर्धभागेन परमो भाज्यं षड्भिस्तदन्तरम् ।अन्ये भागोत्तराः पञ्च सप्तैव मुदया मताः ॥१०५॥इदानीमभिधास्यामः सिंहकर्णस्य लक्षणम् ।छाद्योदयोदयः स स्याद्दशभिस्तं विभाजयेत् ॥१०६॥तैः स्यात् षोडशभिर्भागैस्तस्यैव तलविस्तृतिः ।ऊर्ध्वतश्चतुरो भागांस्त्यक्त्वा शङ्कुं निवेशयेत् ॥१०७॥चतुरश्रीकृते क्षेत्रे कर्णेनारभ्य शङ्कुतः ।ततो वृत्तं लिखेत्पश्चाच्छङ्कुं समधिरोपयेत् ॥१०८॥ऊर्ध्वदेशात्तु भागेन स स्याद्भागचतुष्टये ।लिखेद्वृत्तं त्रिभागोनद्व्यंशकर्कटकोद्भवम् ॥१०९॥तस्योपरिष्टात्तदनु ग्रीवा कार्यैकभागिनी ।गर्भे शृङ्गाग्रयोर्मध्ये तिर्यग्भागद्वयं भवेत् ॥११०॥मध्ये कर्णाग्रयोस्तिर्यक्कार्यं भागत्रयं बुधैः ।ग्रीवाया उपरिष्टाच्च भागमेकं शिखा भवेत् ॥१११॥शिखाग्रमुपरिष्टाच्च कर्तव्यं गर्भसङ्गतम् ।शिखाग्रमूर्ध्वतस्तद्वदर्धभागावलम्बितम् ॥११२॥भागावलम्बि कर्णाग्रं स्कन्धाग्रं तावदेव तु ।स्यात्कर्णखण्डयोर्मूलं स्कन्धदेशस्य सङ्गतम् ॥११३॥स्वस्तिको द्व्यंशविस्तारायामः प्राग्वृत्तमध्यतः ।एवं शङ्कुमधःसूत्रादूर्ध्वं भागो निवेशयेत् ॥११४॥भागे निवेशितं कुर्यात्पूर्ववृत्ताद्यशेषतः ।स्वस्तिकान्तं च पूर्वोक्तं पूर्ववत्सर्वमाचरेत् ॥११५॥तलसूत्रादुपर्यंशैश्चतुर्भिर्गर्भतः समःद्वाभ्यां द्वाभ्यामुभयतो भागाभ्यां तिर्यगेव च ॥११६॥भागेन तद्वदेवाधःसूत्रादुपरि गर्भतः ।चतुर्भिश्च चतुर्भिश्च भागैरुभयतः समम् ॥११७॥वृत्तार्धानि लिखेदेककर्णयुक्तानि पूर्ववत् ।एकशृङ्गाणि च ग्रीवास्वस्तिकार्धयुतानि च ॥११८॥तलसूत्रबहिर्देशाद्बाह्यवृत्तसमुद्भवः ।पदत्रयप्रविष्टः स्यात्पार्ष्णिरत्र परिस्फुटः ॥११९॥त्रिवलीललितो नाम सिंहकर्णोऽयमीरितः ।दशभागीकृते प्राग्वदुदये तत्प्रमाणतः ॥१२०॥चतुर्दशांशविस्तीर्णे कर्णे सार्धे वलिर्भवेत् ।दशभागोच्छ्रिते प्राग्वत्स्यात्त्रयोदशविस्तृतः ॥१२१॥क्षेत्र एकवलिर्नाम सिंहकर्णस्तथापरः ।एते शोभान्विताः कार्यास्त्र्यश्रसंवरणास्त्रयः ॥१२२॥प्रासादानामिति निगदितं द्वारमानं निवेशः ।स्तम्भानां च स्फुटमिह वितानानि तेषां लुमाश्च ।वृत्तच्छाद्योच्छ्रितिरभिहिता छाद्यसंस्था लुमाश्च ।प्रोक्ताः सप्त प्रथितमपरं सिंहकर्णप्रमाणम् ॥१२३॥इति महाराजाधिराजश्रीभोजदेवविरचिते समराङ्गणसूत्रधारापरनाम्नि वास्तुशास्त्रे प्रासादद्वारस्तम्भनिवेशवितानलुमालक्षणवृत्तच्छाद्यलुमा-सिंहंकर्णप्रमाणं नाम चतुष्पञ्चाशोऽध्यायः । N/A References : N/A Last Updated : November 26, 2017 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP