संस्कृत सूची|शास्त्रः|वास्तुशास्त्रः|समराङ्गणसूत्रधार| १ ते ५० समराङ्गणसूत्रधार ८३ अध्यायांची नांवे महासमागमनो नाम प्रथमोऽध्यायः पुत्रसंवादो नाम द्वितीयोऽध्यायः प्रश्नो नाम तृतीयोऽध्यायः महदादिसर्गश्चतुर्थोऽध्यायः १ ते ५० ५१ ते १०५ सहदेवाधिकारो नाम षष्ठोऽध्यायः वर्णाश्रमप्रविभागो नाम सप्तमोऽध्यायः भूमिपरीक्षा नामाष्टमोऽध्यायः हस्तलक्षणं नाम नवमोऽध्यायः १ ते ५० ५१ ते १०० १०१ ते १४८ वास्तुत्रयविभागो नामैकादशोऽध्यायः नाड्यादिसिरादिविकल्पो नाम द्वादशोऽध्यायः मर्मवेधस्त्रयोदशोऽध्यायः पुरुषाङ्गदेवतानिघण्ट्वादिनिर्णयश्चतुर्दशोऽध्यायः राजनिवेशो नाम पञ्चदशोऽध्यायः वनप्रवेशो नाम षोडशोऽध्यायः १ ते ५० ५१ ते १०० १०१ ते १५० १५१ ते २१२ नगरादिसंज्ञा नामाष्टादशोऽध्यायः १ ते ५० ५१ ते १०० १०१ ते १५० १५१ ते २०० २०१ ते २२४ निम्नोच्चादिफलानि नाम विंशोऽध्यायः द्वासप्ततित्रिशाललक्षणं नामैकविंशोऽध्यायः द्विशालगृहलक्षणं नाम द्वाविंशोध्यायः एकशालालक्षणफलादि नाम त्रयोविंशोऽध्यायः द्वारपीठभित्तिमानादिकं नाम चतुर्विंशोऽध्यायः १ ते ५० ५१ ते १०० १०१ ते १५० १५१ ते १६४ १ ते ५० ५१ ते ८० सभाष्टकं नाम सप्तविंशोऽध्यायः गृहद्र व्यप्रमाणानि नामाष्टाविंशोऽध्यायः शयनासनलक्षणं नाम एकोनत्रिंशोऽध्यायः १ ते ५० ५१ ते १०० १०१ ते १४० १ ते ५० ५१ ते १०० १०१ ते १५० १५१ ते २०० २०१ ते २२३ गजशाला नाम द्वात्रिंशोऽध्यायः १ ते ५० ५१ ते ७९ अथाप्रयोज्यप्रयोज्यं नाम चतुस्त्रिंशोऽध्यायः शिलान्यासविधिर्नाम पञ्चत्रिंशोऽध्यायः बलिदानविधिर्नाम षट्त्रिंशोऽध्यायः १ ते ५० ५१ ते ८१ वास्तुसंस्थानमातृका नामाष्टात्रिंशोऽध्यायः द्वारगुणदोषो नामैकोनचत्वारिंशोऽध्यायः पीठमानं नाम चत्वारिंशोऽध्यायः चयविधिर्नामैकचत्वारिंशोऽध्यायः शान्तिकर्मविधिर्नाम द्विचत्वारिंशोऽध्यायः द्वारभङ्गफलं नाम त्रिचत्वारिंशोऽध्यायः स्थपतिलक्षणं नाम चतुश्चत्वारिंशोऽध्यायः अष्टङ्गलक्षणं नाम पञ्चचत्वारिंशोऽध्यायः तोरणभङ्गादिशान्तिको नाम षट्चत्वारिंशोऽध्यायः वेदीलक्षणं नाम सप्तचत्वारिंशोऽध्यायः १ ते ५० ५१ ते १०० १०१ ते १४० १ ते ५० ५१ ते १०० १०१ ते १५० १५१ ते २०३ प्रासादशुभाशुभलक्षणं नाम पञ्चाशोऽध्यायः अथायतननिवेशो नामैकपञ्चाशोऽध्यायः प्रासादजातिर्नाम द्विपञ्चाशोऽध्यायः जघन्यवास्तुद्वारं नाम त्रिपञ्चाशोऽध्यायः १ ते ५० ५१ ते १०० १०१ ते १२३ १ ते ५० ५१ ते १०० १०१ ते १६० १ ते ५० ५१ ते १०० १०१ ते १५० १५१ ते २०० २०१ ते २५० २५१ ते ३१२ १ ते ५० ५१ ते १०० १०१ ते १५० १५१ ते २१० मेर्वादिविंशिका नाम सप्तपञ्चाशोऽध्यायः प्रासादस्तवनं नाम अष्टपञ्चाशोऽध्यायः १ ते ५० ५१ ते १०० १०१ ते १५० १५१ ते २०० २०१ ते २४५ १ ते ५० ५१ ते ९९ पीठपञ्चकलक्षणं नामैकषष्टितमोऽध्यायः १ ते ५० ५१ ते १०० १०१ ते १५० १५१ ते २२० १ ते ५० ५१ ते ११७ १ ते ५० ५१ ते १२० १ ते ५० ५१ ते १०० १०१ ते १५० १५१ ते २०१ मण्डपलक्षणं नाम षट्षष्टितमोऽध्यायः १ ते ५० ५१ ते ११४ जगत्यङ्गसमुदायाधिकारो नामाष्टषष्टितमोऽध्यायः १ ते ५० ५१ ते १०० १०१ ते १५० १५१ ते २२० १ ते ५० ५१ ते १०० १०१ ते १५७ चित्रोद्देशो नामैकसप्ततितमोऽध्यायः भूमिबन्धो नाम द्विसप्ततितमोऽध्यायः लेप्यकर्मादिकं नाम त्रिसप्ततितमोऽध्यायः अथाण्डकप्रमाणं नाम चतुःसप्ततितमोऽध्यायः मानोत्पत्तिर्नाम पञ्चसप्ततितमोऽध्यायः प्रतिमालक्षणं नाम षट्सप्ततितमोऽध्यायः देवादिरूपप्रहरणसंयोगलक्षणं नाम सप्तसप्ततितमोऽध्यायः दोषगुणनिरूपणं नामाष्टसप्ततितमोऽध्यायः १ ते ५० ५१ ते १०० १५१ ते १७० वैष्णवादिस्थानकलक्षणं नामाशीतितमोऽध्यायः पञ्चपुरुषस्त्रीलक्षणं नामैकाशीतितमोऽध्यायः रसदृष्टिलक्षणं नाम द्व्यशीतितमोऽध्यायः १ ते ५० ५१ ते १०० १०१ ते १५० १५१ ते २०० २०१ ते २५४ इन्द्र ध्वजनिरूपणं नाम सप्तदशोऽध्यायः - १ ते ५० समराङ्गणसूत्रधार भारतीय वास्तुशास्त्र से सम्बन्धित ज्ञानकोशीय ग्रन्थ है जिसकी रचना धार के परमार राजा भोज (1000–1055 ई) ने की थी। Tags : bhojsamarangansanskritvastu shastraभोजवास्तुशास्त्रसंस्कृतसमराङ्गणसूत्रधार इन्द्र ध्वजनिरूपणं नाम सप्तदशोऽध्यायः - १ ते ५० Translation - भाषांतर सुराणामर्थसिद्ध्यर्थं वधाय च सुरद्रुहाम् ।यथा शक्रध्वजोत्थानं प्राह ब्रह्मा तथोच्यते ॥१॥भगवन्तमथाम्भोजसंभव वचसांपतिः ।प्रोवाच कथमिन्द्रे ण जेतव्यास्त्रिदशद्विषः ॥२॥सोऽब्रवीत्सर्वरत्नानां ध्वजं कुरुत सङ्गताः ।तं चाभिचारिकैर्मन्त्रैरुद्वहन्तोऽभिमन्त्रितम् ॥३॥स्थितं चोपरि यन्त्रस्य सम्यक् पक्षिशतान्वितम् ।अग्रतो देवसैन्यस्य नयन्तो जेष्यथ द्विषः ॥४॥सहस्रधारमप्येकमन्यं रिपुकुलान्तकम् ।दिव्यरूपमयं प्रादाद्ध्वजमिन्द्रा य दुर्धरम् ॥५॥वीर्यप्रवर्धनी चेष्टिरेतदर्थं विधीयते ।कर्मणानेन निःशेषाञ्शक्रः शत्रूञ्जयेदिति ॥६॥जयैषी तमथ क्षिप्रमसृजच्चेतसा ध्वजम् ।यन्त्रस्थितं स येनाजावमोहयदरीन् हरिः ॥७॥आदित्या वसवो रुद्रा विश्वेदेवास्तथाश्विनौ ।अलञ्चक्रुस्तमालोक्य मरुतश्च विभूषणैः ॥८॥तेजो वीर्यं वपुश्चेष्टां बलमप्येष पश्यताम् ।अहरच्छत्रुसैन्यानां तेजस्वी तरसा ध्वजः ॥९॥तमभ्यर्च्य सुराधीशः शत्रून् बलवतोऽप्यसौ ।त्रिरात्रेणाजयद्युद्धे कुलिशेन बलाद्बली ॥१०॥ततः प्रीतस्तमृक्षेऽसौ वैष्णवे द्वादशे तिथौ ।त्रैलोक्यराज्यं प्राप्याभ्यषिञ्चद्बलनिषूदनः ॥११॥स सर्वलोकमभ्यर्च्य सर्वलोकाभिपूजितः ।ध्वजमभ्यर्च्य तुष्टाव वाक्यैर्वृत्रनिषूदनः ॥१२॥ततस्तमन्तिके वीक्ष्य ध्वजं प्रोवाच वासवः ।इन्द्र ध्वजाक्षया लोकाः करिष्यन्ति तवार्चनम् ॥१३॥वीक्षमाणा निमित्तानि भूमिपालाश्च शास्त्रतः ।ततः प्रभृत्यसौ लोके सर्वलक्षणसंभृतः ॥१४॥वरप्रदानादिन्द्र स्य नृपैः शक्रध्वजोऽर्च्यते ।दुर्गमायतनं वह्निशरणं वेदिकाः कृताः ॥१५॥विचित्राः स्थालिकापाका भक्षपानानि यानि च ।एतान्यायतनात् प्राक्स्युर्यद्वान्यानि प्रकल्पयेत् ॥१६॥विजेतुं यदि वाञ्छास्ति दुर्धर्षान् द्वेषिणो रणे ।तेजो बलं यशश्चाप्तुं तदैन्द्रं कारयेद्ध्वजम् ॥१७॥सेनायां वा पुरे वापि प्रतिष्ठाप्य पुरन्दरम् ।विजयार्थं महीपालैरभिप्रशमनाय च ॥१८॥यथा शक्रध्वजोत्थानविधानं जगतीभुजः ।करिष्यन्ति तथा सम्यक् कार्त्स्न्येन प्रतिपाद्यते ॥१९॥वनादुपाहृतं द्र व्यमथ प्राग्विधिना सुधीः ।पाद्यार्घ्यादिभिरभ्यर्च्य गन्धैर्माल्यैरलङ्कृतम् ॥२०॥द्विजान् संपूज्य च शुचौ देशे सम्यक्समाहितः ।पूर्वाग्रमुत्तराग्रं वा प्रयत्नादवतारयेत् ॥२१॥प्रागुदग्वा पुरस्याथ स्थपतिः कर्मवानपि ।कारयेत् सर्वयन्त्राणि ध्वजपूर्वाणि शिल्पिभिः ॥२२॥श्रेष्ठं द्वात्रिंशता हस्तैर्विंशत्या युतयाष्टभिः ।मानं स्यान्मध्यमं तस्य चतुरन्वितयाधमम् ॥२३॥मूलविस्तृतिरायामादङ्गुलार्धं करे करे ।विष्कम्भोऽग्रे च मूलार्धात् तत्त्र्यंशाद्वाखिलेष्वपि ॥२४॥ध्वजमूलाष्टमांशोनं विस्तारात्कुष्यमिष्यते ।विस्तारार्धेन च स्थूलं स्थूलत्वत्रिगुणायतम् ॥२५॥ध्वजविस्तारबहलं साङ्घ्रिबाहल्यविस्तृतम् ।भ्रमपीठं विधातव्यं सार्धायामं शुभावहम् ॥२६॥सम्मितो ध्वजकुष्येण वेधः स्याद्भ्रमपीठगः ।कुष्यकोट्यधिकावृत्तावक्षौ कोटिद्वयायतौ ॥२७॥कार्यावङ्घ्री भ्रमस्थूलौ भ्रमविस्तृतिविस्तृतौ ।तद्युक्तिवेधे तावेत द्विस्तृतेर्द्विगुणोच्छ्रितौ ॥२८॥ध्वजायतिचतुर्भागात्पीठमत्र प्रकल्पयेत् ।मल्लप्रतिष्ठितं मध्ये प्रान्तयोः स्तम्भधारितम् ॥२९॥तत्पीठस्तम्भनीयाभ्यां द्वाराभ्यामन्वितं दृढम् ।याम्योत्तरप्रतिक्षोभं प्राङ्मुखं सुदृढार्गलम् ॥३०॥केतुव्यासार्धविस्तारं तद्दैर्घ्याष्टांशकोच्छ्रितम् ।विस्तारसदृशायामं मध्ये स्याद्वज्रिणो गृहम् ॥३१॥मल्लश्च पीठिकाङ्घ्री च बाहू स्तम्भविनिर्गतौ ।शक्रमाता कुमार्यश्च ध्वजविस्तृतिविस्तृताः ॥३२॥निम्नभागाश्च सर्वेषां स्वविस्तृतिचतुर्गुणाः ।कार्या वा पञ्चगुणिताः सप्त मूलदेशतः ॥३३॥कन्यानामुदयः प्रोक्तो यः षष्ठांशस्त्रिसंगुणः ।इन्द्र माता तु सर्वाभ्यः स्यात्तदष्टांशतोऽधिका ॥३४॥वेधः स्वविस्तरैः सप्तभागे स्यात् कन्यकोदयात् ।निर्वेधश्चतुरश्रः स्याल्लकटस्य समाहितः ॥३५॥निर्वेधावस्य चोर्ध्वाधः सप्तांशान्तरवर्तिनौ ।कार्यौ सूचीव्यधावन्यौ सूचीमानप्रमाणतः ॥३६॥कन्याव्यासत्रिभागेन सूची विस्तारतो भवेत् ।पादोनबहला चारुदारुजा दृढसंहिता ॥३७॥कुमारीव्याससंयुक्ता द्विगुणा कलटायतिः ।एतद्बाह्यान्तरं ज्ञात्वा यन्त्रं संयोजयेत्ततः ॥३८॥तयोरधस्तदर्धेन मृगाल्यौ सूचिविस्तृतौ ।क्षेत्रस्य लेखितं कार्यं सम्बन्धे सूचिकन्ययोः ॥३९॥साङ्घ्रिकेतनमूलार्धं लकटे विस्तृतायती ।अक्षाभ्यां योजयेत् सम्यग्दृढं बाह्वक्षवेधयोः ॥४०॥पञ्चानामपि तुल्यैव कन्यानां स्यात्प्रकल्पना ।कृत्वानुपूर्व्या यन्त्राणि स्थापयेदखिलान्यपि ॥४१॥आश्विने मासि पक्षे च धवले प्रतिपत्तिथौ ।स्थिरोदयैर्ग्रहैः सौम्यैर्वीक्षिते त्वाष्ट्रभेऽपि च ॥४२॥पौरजानपदैः सर्ववादित्रध्वनितेन च ।यन्त्राण्युत्क्षिप्य यष्टिं च कर्मस्थानान्नयेज्जलम् ॥४३॥चित्रप्रतिसराकीर्णां यष्टिं तत्राज्यलेपिताम् ।चूर्णैः सर्वौषधीभिश्च स्थपतिः स्नापयेत् स्वयम् ॥४४॥जलाशयात्समुत्तार्य नॄणां कलकलस्वनैः ।प्रागग्रां स्थापयेद्दारुहस्तिन्योः प्राक्समुन्नताम् ॥४५॥अहतेप्सितवासोभिराच्छाद्यार्च्य स्रगादिभिः ।विक्षिप्य च बलिं दिक्षु द्विजातीन् स्वस्ति वाचयेत् ॥४६॥त्रिसध्यं पूजितां तत्र सर्वप्रकृतिभिस्ततः ।पञ्चाहं वासयेद्यष्टिं गुप्तां चापधरैर्नरैः ॥४७॥तस्मिन्नेवाह्नि यन्त्राणि सर्वाण्यपि च यष्टिवत् ।स्नातान्याच्छादितानीन्द्र स्थानदेशं प्रवेशयेत् ॥४८॥सूत्रितेऽथ ध्वजस्थाने यष्टेरष्टांशदैर्घ्यतः ।तदर्धविस्तृते दिक्स्थे समे प्रागायते शुभे ॥४९॥विभक्तेऽत्र विभागानामेकाशीत्या ततः क्रमात् ।विन्यस्तास्वथ सर्वासु देवतासु यथातथम् ॥५०॥ N/A References : N/A Last Updated : November 26, 2017 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP