संस्कृत सूची|शास्त्रः|वास्तुशास्त्रः|समराङ्गणसूत्रधार| ५१ ते १२० समराङ्गणसूत्रधार ८३ अध्यायांची नांवे महासमागमनो नाम प्रथमोऽध्यायः पुत्रसंवादो नाम द्वितीयोऽध्यायः प्रश्नो नाम तृतीयोऽध्यायः महदादिसर्गश्चतुर्थोऽध्यायः १ ते ५० ५१ ते १०५ सहदेवाधिकारो नाम षष्ठोऽध्यायः वर्णाश्रमप्रविभागो नाम सप्तमोऽध्यायः भूमिपरीक्षा नामाष्टमोऽध्यायः हस्तलक्षणं नाम नवमोऽध्यायः १ ते ५० ५१ ते १०० १०१ ते १४८ वास्तुत्रयविभागो नामैकादशोऽध्यायः नाड्यादिसिरादिविकल्पो नाम द्वादशोऽध्यायः मर्मवेधस्त्रयोदशोऽध्यायः पुरुषाङ्गदेवतानिघण्ट्वादिनिर्णयश्चतुर्दशोऽध्यायः राजनिवेशो नाम पञ्चदशोऽध्यायः वनप्रवेशो नाम षोडशोऽध्यायः १ ते ५० ५१ ते १०० १०१ ते १५० १५१ ते २१२ नगरादिसंज्ञा नामाष्टादशोऽध्यायः १ ते ५० ५१ ते १०० १०१ ते १५० १५१ ते २०० २०१ ते २२४ निम्नोच्चादिफलानि नाम विंशोऽध्यायः द्वासप्ततित्रिशाललक्षणं नामैकविंशोऽध्यायः द्विशालगृहलक्षणं नाम द्वाविंशोध्यायः एकशालालक्षणफलादि नाम त्रयोविंशोऽध्यायः द्वारपीठभित्तिमानादिकं नाम चतुर्विंशोऽध्यायः १ ते ५० ५१ ते १०० १०१ ते १५० १५१ ते १६४ १ ते ५० ५१ ते ८० सभाष्टकं नाम सप्तविंशोऽध्यायः गृहद्र व्यप्रमाणानि नामाष्टाविंशोऽध्यायः शयनासनलक्षणं नाम एकोनत्रिंशोऽध्यायः १ ते ५० ५१ ते १०० १०१ ते १४० १ ते ५० ५१ ते १०० १०१ ते १५० १५१ ते २०० २०१ ते २२३ गजशाला नाम द्वात्रिंशोऽध्यायः १ ते ५० ५१ ते ७९ अथाप्रयोज्यप्रयोज्यं नाम चतुस्त्रिंशोऽध्यायः शिलान्यासविधिर्नाम पञ्चत्रिंशोऽध्यायः बलिदानविधिर्नाम षट्त्रिंशोऽध्यायः १ ते ५० ५१ ते ८१ वास्तुसंस्थानमातृका नामाष्टात्रिंशोऽध्यायः द्वारगुणदोषो नामैकोनचत्वारिंशोऽध्यायः पीठमानं नाम चत्वारिंशोऽध्यायः चयविधिर्नामैकचत्वारिंशोऽध्यायः शान्तिकर्मविधिर्नाम द्विचत्वारिंशोऽध्यायः द्वारभङ्गफलं नाम त्रिचत्वारिंशोऽध्यायः स्थपतिलक्षणं नाम चतुश्चत्वारिंशोऽध्यायः अष्टङ्गलक्षणं नाम पञ्चचत्वारिंशोऽध्यायः तोरणभङ्गादिशान्तिको नाम षट्चत्वारिंशोऽध्यायः वेदीलक्षणं नाम सप्तचत्वारिंशोऽध्यायः १ ते ५० ५१ ते १०० १०१ ते १४० १ ते ५० ५१ ते १०० १०१ ते १५० १५१ ते २०३ प्रासादशुभाशुभलक्षणं नाम पञ्चाशोऽध्यायः अथायतननिवेशो नामैकपञ्चाशोऽध्यायः प्रासादजातिर्नाम द्विपञ्चाशोऽध्यायः जघन्यवास्तुद्वारं नाम त्रिपञ्चाशोऽध्यायः १ ते ५० ५१ ते १०० १०१ ते १२३ १ ते ५० ५१ ते १०० १०१ ते १६० १ ते ५० ५१ ते १०० १०१ ते १५० १५१ ते २०० २०१ ते २५० २५१ ते ३१२ १ ते ५० ५१ ते १०० १०१ ते १५० १५१ ते २१० मेर्वादिविंशिका नाम सप्तपञ्चाशोऽध्यायः प्रासादस्तवनं नाम अष्टपञ्चाशोऽध्यायः १ ते ५० ५१ ते १०० १०१ ते १५० १५१ ते २०० २०१ ते २४५ १ ते ५० ५१ ते ९९ पीठपञ्चकलक्षणं नामैकषष्टितमोऽध्यायः १ ते ५० ५१ ते १०० १०१ ते १५० १५१ ते २२० १ ते ५० ५१ ते ११७ १ ते ५० ५१ ते १२० १ ते ५० ५१ ते १०० १०१ ते १५० १५१ ते २०१ मण्डपलक्षणं नाम षट्षष्टितमोऽध्यायः १ ते ५० ५१ ते ११४ जगत्यङ्गसमुदायाधिकारो नामाष्टषष्टितमोऽध्यायः १ ते ५० ५१ ते १०० १०१ ते १५० १५१ ते २२० १ ते ५० ५१ ते १०० १०१ ते १५७ चित्रोद्देशो नामैकसप्ततितमोऽध्यायः भूमिबन्धो नाम द्विसप्ततितमोऽध्यायः लेप्यकर्मादिकं नाम त्रिसप्ततितमोऽध्यायः अथाण्डकप्रमाणं नाम चतुःसप्ततितमोऽध्यायः मानोत्पत्तिर्नाम पञ्चसप्ततितमोऽध्यायः प्रतिमालक्षणं नाम षट्सप्ततितमोऽध्यायः देवादिरूपप्रहरणसंयोगलक्षणं नाम सप्तसप्ततितमोऽध्यायः दोषगुणनिरूपणं नामाष्टसप्ततितमोऽध्यायः १ ते ५० ५१ ते १०० १५१ ते १७० वैष्णवादिस्थानकलक्षणं नामाशीतितमोऽध्यायः पञ्चपुरुषस्त्रीलक्षणं नामैकाशीतितमोऽध्यायः रसदृष्टिलक्षणं नाम द्व्यशीतितमोऽध्यायः १ ते ५० ५१ ते १०० १०१ ते १५० १५१ ते २०० २०१ ते २५४ दिग्भद्रा दिप्रासादलक्षणं नाम चतुष्षष्टितमोऽध्यायः - ५१ ते १२० समराङ्गणसूत्रधार भारतीय वास्तुशास्त्र से सम्बन्धित ज्ञानकोशीय ग्रन्थ है जिसकी रचना धार के परमार राजा भोज (1000–1055 ई) ने की थी। Tags : bhojsamarangansanskritvastu shastraभोजवास्तुशास्त्रसंस्कृतसमराङ्गणसूत्रधार दिग्भद्रा दिप्रासादलक्षणं नाम चतुष्षष्टितमोऽध्यायः - ५१ ते १२० Translation - भाषांतर सपादैः पञ्चभिर्भागैर्द्वितीया तद्वदेव हि ।तृतीया तु भवत्यस्य भूमिका पञ्चभागिका ॥५१॥चतुर्थी भूमिका ज्ञेया सार्धभागचतुष्टया ।घण्टा तस्योर्ध्वतः कार्या पदत्रयसमुच्छ्रिता ॥५२॥शुकाघ्रा शूरसेनश्च स्तम्भिकाकूटभक्तयः ।कलशस्योदयस्तस्य विधेयाश्चास्य पूर्ववत् ॥५३॥अमुं यः कारयेदन्यः प्रासादं नन्दिवर्धनम् ।स नन्दिगणसामान्यो जायते नात्र संशयः ॥५४॥अतः परमथ ब्रूमो विमानं शुभलक्षणम् ।चतुरश्रीकृते क्षेत्रे विंशत्या भाजिते पदैः ॥५५॥कोणाः पञ्चपदाः कार्या मध्ये च सलिलान्तरम् ।कर्णिका सार्धभागेन भागार्धमुदकान्तरम् ॥५६॥सालोपद्यदविस्तीर्णा सार्धभागेन निर्गता ।कोणस्य चार्धभागेन कर्णिकानिर्गमः स्मृतः ॥५७॥गर्भश्चास्य विधातव्यो द्वादशांशकविस्तृतः ।भित्तिश्चतुष्पदा कार्या दिक्षु सर्वास्ववस्थिता ॥५८॥ऊर्ध्वमानमथैतस्य ब्रूमस्तद् द्विगुणं भवेत् ।वेदीबन्धॐऽशकाः पञ्च जङ्घा नवपदोच्छ्रिता ॥५९॥प्रथमा भूमिका कार्या भागैः षड्भिः समुच्छ्रिता ।शतपत्रां कपोतालीं मध्ये चास्याः प्रकल्पयेत् ॥६०॥द्वितीया भूमिका चास्य विधेया पञ्चभिः पदैः ।अर्धेऽस्याः स्तम्भकोच्छालं कूटं चार्धव्यवस्थितम् ॥६१॥परस्परपाधेन हमास्तिस्त्रोऽन्यभूमिकाः ।स्तम्भिकाकूटभरणशूरसेनाः सघण्टकाः ॥६२॥कलशस्योदयश्चात्र प्राग्वत्कार्या विपश्चिता ।य इमं कारयेद्भक्त्या विमानाख्यं नृपुङ्गवः ॥६३॥इह भोगान् स लभते तथा सत्कायदंविधे ।अथ पद्माप्रियप्रीतिजननः पद्म उच्यते ॥६४॥चतुरश्रीकृते क्षेत्रे भक्ते षोडशभिः पदैः ।कोणाश्चतुष्पदाः कार्याः सलिलान्तरभूषिताः ॥६५॥द्विपदः पञ्जरो ज्ञेयो गर्भे कोणाश्चतुष्पदाः ।भागःस्यात् षोडशांशेन तदन्ते सलिलान्तरम् ॥६६॥गर्भः स्यान्नवभिर्भागैर्भित्तिः सार्धपदत्रयम् ।ऊर्ध्वमानमथ ब्रूमस्तथास्य द्विगुणं भवेत् ॥६७॥द्वितीया भूमिका ज्ञेया भागैः पञ्चभिरुच्छ्रिता ।अन्योन्यं तु पदार्धेन हीनं स्याद्भूमिकाद्वयम् ॥६८॥स्तम्भिकाकूटभरणशुकाघ्राशूरसेनकाः ।घण्टा कारसविस्तारा भवन्त्येतस्य पूर्ववत् ॥६९॥पद्मप्रासादमेनं यः कारयेद्भक्तिसंयुतः ।स श्रीपतिरिव श्रीशो भवत्यवनिमण्डनः ॥७०॥महाभद्र मथ ब्रूमः प्रासादमतिसुन्दरम् ।चतुरश्रीकृते क्षेत्रे विंशत्या सैकयाङ्किते ॥७१॥कोणाश्चतुष्पदाः सार्धद्व्यंशाः प्रत्यङ्गकाः स्मृताः ।शाला पञ्चपदा कार्या दिक्षु सर्वास्ववस्थिता ॥७२॥पादोनभागविस्तारं कर्तव्यं सलिलान्तरम् ।गर्भस्त्रयोदशपदो भित्तयश्च चतुष्पदाः ॥७३॥ऊर्ध्वमानमथैतस्य ब्रूमस्तद्द्विगुणं भवेत्वेदी चतुष्पदोत्सेधा जङ्घा स्यादष्टभागिका ॥७४॥सप्तभागसमुत्सेधा विधेया चादिभूमिका ।मध्ये सान्तरपत्रास्याः कपोताली पदत्रयम् ॥७५॥द्वितीयभूमिका चास्य सार्धैः षड्भिः पदैः स्मृता ।भागभागविहीनास्तु तिस्रोऽन्या भूमिकास्ततः ॥७६॥घण्टा भागत्रयोत्सेधा पद्मपत्रिकया सह ।स्तम्भिकाकूटभरणशुकाघ्राशूरसेनकाः ॥७७॥कलशः कुम्भं नघाः प्राग्वत्तस्य भवन्त्यमी ।महाभद्र मिमं योऽत्र कारयेद्भक्तिमान् नरः ॥७८॥स स्वर्गे सुरनारीभिः सेव्यते मदनाज्ञया ।अथ श्रीवर्धमानस्य लक्ष्म साम्प्रतमुच्यते ॥७९॥चतुरश्रीकृते क्षेत्रे चतुर्विंशतिभाजिते ।कोणाः षड्भागिकाः कार्याः शालाः स्युर्नवभागिकाः ॥८०साधं पदद्वयं कार्यः शालानामत्र निर्गमः ।कुर्याज्जलान्तरं तत्र मध्यतः कोणशालयोः ॥८१॥विस्तृतं साधभागेन प्रविष्टमपि भागतः ।कोणे मध्यं विधातव्यं भागेनैवोदकान्तरम् ॥८२॥नवांशकॢप्तशालायाः प्रत्यङ्गौ द्वावुदाहृतौ ।भागद्वितयविस्तारौ भागेनैकेन निर्गतौ ॥८३॥चतुर्दशपदो गर्भो भित्तिः पञ्चपदा स्मृता ।ऊर्ध्वमानमथ ब्रूमस्तदस्य द्विगुणं भवेत् ॥८४॥वेदिका षट्पदोत्सेधा जङ्घैकादशभिः पदैः ।प्रथमा भूमिका चास्य कार्या सप्तांशकोच्छ्रिता ॥८५॥पादोनैः सप्तभिर्भागैर्द्वितीया भूमिकेष्यते ।तृतीया भूमिका षड्भिः सपादैर्जायते पदैः ॥८६॥पादेन षटका भागेन चतुर्थी भूमिका स्मृता ।भागं भागं विधातव्यः प्रवेशः प्रतिभूमिकम् ॥८७॥सपादैः पञ्चभिर्भागैः कार्यौ घण्टासमुच्छ्रयः ।भागत्रयसमुत्सेधस्तदूर्ध्वे कलशो भवेत् ॥८८॥सुकाघ्रासूरसेनश्च स्तम्भिकाकूटभक्तयः ।कार्या पूर्वोक्तमार्गेण विचित्रकर्मोपशोभिताः ॥८९॥श्रीवर्द्धमानं य इमं प्रासादं कारयेन्नृपः ।यशः श्रीश्रेयसांगस्य वृद्धि स्यादुत्तरोत्तरा ॥९०॥पद्मयोनिपृथः सद्मद्मथ कीर्त्त्यते ।चतुरस्रीकृते क्षेत्रे विंशत्येकोनयान्तिके ॥९१॥कोणाश्चतुष्पदाः कार्या प्रत्यङ्गा अपि तत्समाः ।रिवर्त्तनकर्त्तव्या परस्परसमी शुभाः ॥९२॥शाला नवांशविस्तीर्णा स्यात्पदत्रयनिर्गमा ।शालालस्ताश्च कर्त्तव्या द्विभागा बालमञ्जरी ॥९३॥कर्णप्रत्यङ्गयोर्मध्ये बालप्रत्यङ्गयोस्तथा ।जलान्तराणि कार्याणि तत्प्रमाणस्य मध्यतः ॥९४॥गर्भः सप्तदशांसः स्याद्भित्तयः षड्भिरंशकैः ।ऊर्ध्वमानमथैतस्य ब्रूमस्तद्द्विगुणं भवेत् ॥९५॥वेदी षड्भागिकोत्सेधा जङ्घाभागास्त्रयोदश ।सप्तभागसमुत्सेधा कर्त्तव्या चादिभूमिका ॥९६॥षड्भिः सार्धैः द्वितीया स्याद्भागभागोज्झिते परे ।पञ्चमी स्याच्चतुर्भागा भागार्द्धेन परेत्पृथक् ॥९७॥प्रवेशः कूटदर्भेण भूमीनां स्यात्परस्परम् ।भूमिकार्द्धं विधातव्यं स्तम्भिकाभरणान्वितम् ॥९८॥अपरं कूटशोभातिरर्द्धमस्याविभूषयेत् ।घण्टापञ्चपदोत्सेधा विस्तृता गर्भमानसः ॥९९॥सुकाघ्राय परं यत्तु पूर्ववत्तत्प्रकल्पयेत् ।महापद्माभिधयोत्र प्रासादं कारयेत्सुधीः ॥१००॥इहामुत्र च निर्द्वद्वः स परं सुखमश्नुते ।लक्ष्याथ पञ्चशाला प्रासादस्याभिधीयते ॥१०१॥चतुरस्रीकृते क्षेत्रे अष्टाविंशतिपदान्तिके ।तस्यार्जनफलाः काराः कोणा पञ्चपदाः स्मृताः ॥१०२॥प्रत्यङ्गास्त्रिपदाः कार्या भागद्वितयनिर्गता ।शालाष्टपदविस्तारा पदत्रितयनिर्गमा ॥१०३॥कोणप्रत्यङ्गयोर्मध्ये शालाप्रत्यङ्गयोस्तथा ।भागेन विस्तृतं कार्यं प्रविष्टं च जलान्तरम् ॥१०४॥गर्भः षोडशभिर्भागैः भित्तयोऽपि च षट्पदाः ।ऊर्द्ध्वमानमथैतस्य ब्रूमस्तद्द्विगुणं भवेत् ॥१०५॥विधेयो वेदिकाबन्धः सार्धपञ्चपदोच्छ्रयम् ।जङ्घा चास्य भवेत्कार्या तत्रैकादशभागिका ॥१०६॥सार्द्धसप्तपदोत्सेधा विधातव्या च भूमिका ।कपोतपाली कार्यास्य मध्ये भागत्रयोच्छ्रिता ॥१०७॥अयं भूमिप्रमाणेन स्याद्वितीयाऽपि भूमिका ।तृतीया सप्तभिर्भागैश्चतुर्थी सार्थषट्पदा ॥१०८॥पञ्चऋमी षट्पदा कार्या घण्टा पञ्चपदोच्छ्रिता ।शालास्थानेषु सर्वेषु कर्त्तव्यं पञ्चघण्टाकम् ॥१०९॥कुमारैः पञ्चभिर्युक्तं पञ्चशालोयमुच्यते ।शुकाघ्रासूरसेनादि यच्चान्यत् कलशादिकम् ॥११०॥तदस्य पूर्ववत्कार्य पञ्चशालस्य धीमता ।पञ्चशालमिमं यस्तु प्रासादं कारयेद्भुवि ॥१११॥तस्य धन्यस्य सन्तानेऽप्यतुला जायते सुखं ।अथातः संप्रवक्ष्यामः प्रासादं पृथिवीजयम् ॥११२॥चतुस्त्रीकृते क्षेत्रेऽष्टाविंशतिपदाङ्किते ।--- पदाः स्मृताः ।भागद्वितयविस्ताराः कर्तव्या बालपञ्जराः ॥११३॥शाला षड्भागविस्तीर्णा भागत्रितयमुच्छ्रिता ।कोणप्रत्यङ्गयोर्मध्ये शालाप्रत्यङ्गयोस्तथा ॥११४॥कक्षान्तरे विधातव्यं भागिकं सलिलान्तरम् ।गर्भः स्याद्दशभिर्भागैर्भित्तिः कार्यास्य षट्पदा ॥११५॥षट्पदा स्यात्तृतीयात्र --- भागोच्छ्रिताः पराः ।कर्ण --- स्तिस्रो घण्टा चाष्टपदोच्छ्रिताः ॥११६॥कूटैरलङ्कृता कार्या शुकाघ्रादि च पूर्ववत् ।स --- पि चैतेषां प्रासादार्धेन कारयेत् ॥११७॥घण्टां तु संहतां श्लक्ष्णां बन्धनैरुपशोभिताम् ।यादृशी कम --- ने कूटेष्वेषां विधीयते ॥११८॥भद्रे षु तादृशी कार्या कृत्स्नप्रासादसिद्धये ।य इमं कारयेद्रा जा प्रासादं पृथिवीजयम् ।भुनक्ति निखिलां पृथ्वीं स सप्ताम्भोधिमालिनीम् ॥११९॥इतीरिता द्वादश स्यगर्ते ।प्रासादमुख्याः शुभलक्ष्मयुक्ताः ।वावाटसंज्ञास्तदमून् विदित्वा ।लभेत्पूज्यस्थयते नृपेभ्यः ॥१२०॥इति महाराजाधिराजपरमेश्वरश्रीभोजदेवविरचिते समराङ्गणसूत्रधारनाम्नि वास्तुशास्त्रे वटोकप्रासादो नाम चतुःषष्टितमोऽध्यायः । N/A References : N/A Last Updated : November 26, 2017 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP