TransLiteral Foundation
संस्कृत सूची|शास्त्रः|तंत्र शास्त्रः|श्रीशक्तिसङ्ग्मतन्त्रम्|
सप्ततिः पटलः ।

श्रीशक्तिसङ्ग्मतन्त्रम् - सप्ततिः पटलः ।

तंत्र शास्त्र भारताची एक प्राचीन विद्या आहे. तंत्र ग्रंथ भगवान शिवाच्या मुखातून प्रकट झाले आहेत. त्यांना पवित्र आणि प्रामाणिक मानले आहेत.
Tantra shastra is a secret and most powerful science of the Indian culture and religion. It is a most powerful science which Indian Rushis have practised for centuries and still it is in practise.


सप्ततिः पटलः ।
श्रीदेव्युवाच ।
देवेश श्रोतुमिच्छामि रहस्यातिरहस्यकम् ।
श्रीशिव उवाच ।
किं तद्रहस्यं देवेशि शीघ्रं सूचय साम्प्रतम् ॥१॥
श्रीदेव्युवाच ।
मालारात्रिविधानं च वद मे करुणानिधे ।
श्रीशिव उवाच ।
मालारात्रिविधिं वक्ष्ये श्रृणु सावहिता भव ॥२॥
सुदिने शुद्धऋक्षादिदिने शुद्धदिने शिवे ।
महामालां समदाय वीरपात्रं समाचरेत् ॥३॥
वीरमन्त्रं समासाद्य वीरमालां च शोधयेत् ।
देवीं सावरणां पूज्य सबल्यन्तं महेश्वरि ॥४॥
दशविंशपञ्चविंशदीपान् दत्त्वा बलिं चरेत् ।
अस्य श्रीमहामालामन्त्रस्य परमेश्वरि ॥५॥
ऋषिः श्रीमन्महातारा उष्णिकछन्दः प्रकीर्त्तितम् ।
क्रींबीजं स्त्रीं तथा शक्तिः हुंमन्त्रं कीलकं स्मृतम् ॥६॥
महामाला दन्तमालाशोधने विनियोजनम् ।
त्रिशक्त्या तु षडङ्गानि ध्यानं मन्त्रवदाचरत् ॥७॥
ध्यात्वा संकल्प्य यत्नेन मन्त्रेणानेन पार्वति ।
प्रणवं च तथा लज्जा श्रीलज्जाकामकूर्चकैः ॥८॥
हुंफट् स्वाहेति मन्त्रेण चषके मालिकां क्षिपेत् ।
तत्रावाहनमन्त्राद्यैः कालिकां कालशारदाम् ॥९॥
सायुधां सपरिवारां पूजयेत् परमेश्वरि ।
मूलमावृत्य तार्तीयं संस्मरन्धेनुमुद्रया ॥१०॥
अमृतीकृत्य कवचेनावगुण्ठ्य महेश्वरि ।
महामुद्रां समासाद्य देवीरूपं विभावयेत् ॥११॥
ध्यायेत्तत्र क्षिपेद्बिन्दुं तत्र मन्त्रान् श्रृणु प्रिये ।
प्रणवं कूर्चयुग्मं च स्वाहा प्रणवकूर्चके ॥१२॥
वह्निजाया च तारास्त्रे वह्निजाया विष तथा ।
तारा च वह्निजाया च तारं लज्जा च कूर्चकैः ॥१३॥
वह्निजाया ततस्ता लज्जा फट् वह्निजायया ।
द्वित्रिश्रृङ्खलिकाव्यस्तसमस्तं मन्त्रमालया ॥१४॥
शतध्यानेन मन्त्रेण बिन्दुप्रक्षेपमाचरेत् ।
कस्तूरिका केसरं च चन्द्रागुरुप्रधूपकैः ॥१५॥
धूपमालां समुत्तार्य विद्यया चाभिमन्त्रयेत् ।
प्रणवं च तथा माया श्रीमहावज्रिणीति च ॥१६॥
ततो महाघोररूपे कर्कशेति पदं वदेत् ।
महास्थिमण्डले प्रोच्य प्रविशेति पदं तथा ॥१७॥
सर्वसिद्धिं प्रयच्छेति प्रणवं कूर्चबीजकम् ।
मायायुग्मं वह्निजाया महाकपालिनीति च ॥१८॥
ततो महाघोररूपे स्वाहा प्रणवमायया ।
माया कूर्चास्त्रस्वाहान्ता विद्योक्ता चाभिमन्त्रणे ॥१९॥
दूर्वाक्षतैः समभ्यर्च्य कामेनोद्दीपनं चरेत् ।
उपचारैः समम्यर्च्य मातृकां मूलमन्त्रतः ॥२०॥
उद्दीपनं ततः कृत्वा हुंकारेण तु वेष्टयेत् ।
बलिं दद्यादनेनैव तारं मायाद्वयं वदेत् ॥२१॥
वासुदेवं बिन्दुयुतं कूर्चेन पुटितं वदेत् ।
कूर्चतारे फट् च कूर्चं प्रणवद्वयमुद्धरेत् ॥२२॥
कूर्चबीजं वह्निजाया प्रणवं कूर्चबीजकैः ।
महायोगिनि शब्दान्ते ततस्त्रिभुवनतारिणी ॥२३॥
महाशङ्खास्थिमाला च मध्यनिवां कुर्विति ।
कुरुशब्दं सर्वसिद्धिं देहियुक् च सुरापदम् ॥२४॥
मांसोपहारान् गृह्णद्वियुक् गृहापयद्वयम् ।
कुल्लुका फटू ततः स्वाहा मन्त्रेणानेन पार्वति ॥२५॥
यथोचितेन द्रव्येण बलिं दत्त्वा विधानतः ।
पञ्चद्रव्यैः पञ्चदिनं मालां स्थाप्य च पञ्चमे ॥२६॥
मालारात्रिविधिं कुर्यात् तेन सिध्यति मालिका ।
निभृते स्थापयेन्मालां रहस्या मालिकाविधिः ॥२७॥
दन्तमालाविधौ देवि विशेषं शृणु पार्वति ।
प्रणवं हृद्भगवति मालारञ्चिनि चोच्चरेत् ॥२८॥
विच्वे विच्वबलोच्वेव हरविच्वे पदं वदेत् ।
मालाविच्वे तथा मालाधारिणी हरहृत्पदम् ॥२९॥
हस ब्लुं तु शङ्खास्थिधारिणीति पदं वदेत् ।
कर्कशास्थि महामाला वासिनीति पं वदेत् ॥३०॥
छिन्ने तारे कालिके च तदन्ते जपमालिका ।
कुलुकी फट् महादन्तमालामध्ये पदं वदेत् ॥३१॥
निवासं कुरुयुग्मं च राजेन्द्रमालिका ततः ।
वासिनीत्रयं सम्प्रोच्य क्रींत्रयं हुंद्वयं तथा ॥३२॥
मायाद्वयं च फट् स्वाहा मालामन्त्रेण हृन्मनुः ।
बलिदानमनुं वक्ष्ये श्रृणु सावहिता भव ॥३३॥
प्रणवं कर्कशपदं मण्डलमम्बिके ततः ।
मालिनि कौलिनिपदं गौरि गान्धारि चोच्चरेत् ॥३४॥
गिरिजे मायावतिपदं क्रियावतिपदं ततः ।
गायत्री च गानप्रिये शाङ्करि कालिके तथा ॥३५॥
असिलताधारिणीति तदन्तजातवेदसे ।
श्रीकालकाली च पदं मुण्डानि रुद्राणि तथा ॥३६॥
इमं बलिं गुह्णयुग्मं मालासिद्धिं च चोद्धरेत् ।
देहि दापययुग्मं च क्रींषट्कमालया युतम् ॥३७॥
बलिं दद्यादनेनैव तदन्ते जाग्रतीकृतिः ।
कपालकज्ज्वलं चैव पादकज्ज्वलयुग्मकम् ॥३८॥
विश्वमोहननामानं कज्ज्वलं विद्धि पार्वति ।
तत्पादभस्म देवेशि फाल्गुनोत्सवजं परम् ॥३९॥
जगद्धूलीति नाम्ना तु विख्याता शत्रुनिग्रहे ।
अनेन मनुना गृह्य उद्भ्रान्तधूलिनामकम् ॥४०॥
शम्भुमूर्घ्नि तथा देहे गेहे शय्याङ्गने जले ।
दापयेत् परमेशानि उद्भ्रान्ता धूलिरीरितः ॥४१॥
उद्भ्रान्तधूल्या देवेशि समाक्रान्तजगत्त्रयम् ।
यथा ग्रहणयुग्मं च तथा पर्वद्वयं भवेत् ॥४२॥
नक्षत्रराशिवारादि शुद्धाशुद्धिं न चाचरेत् ।
कामबीजं तथा बीजं श्लों श्लीं फट् त्रयं वदेत् ॥४३॥
सिद्धे जगद्धूलिसिद्धिं देहि स्वाहा मनुर्मतः ।
मन्त्रेणानेन संगृह्य उद्भ्रान्तिधूलिमुत्तमाम् ॥४४॥
मालासिद्धिः सर्वसिद्धिर्भवत्येव न संशयः ।
इति संक्षेपतः प्रोक्तं किमन्यच्छ्रोतुमिच्छसि ॥४५॥

इति श्रीशक्तिसङ्गममहातन्त्रराजे उत्तरभागे द्वितीयखण्डे श्रीमदक्षोभ्यमहोप्रतारासंवादे महामालाशोधनविधिर्नाम सप्ततिः पटलः ।

Translation - भाषांतर
N/A

References : N/A
Last Updated : 2016-11-11T12:48:39.1570000

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.

मृगमंदा

  • n. पुलह ऋषि की पत्नी, जो कश्यप एवं क्रोधा की कन्याओं में से एक थी । इससे रीछ आदि प्राणी उत्पन्न हुए [म.आ.६०.६०] 
RANDOM WORD

Did you know?

How do I become a moderator on QnA?
Category : About us!
RANDOM QUESTION
Don't follow traditions blindly or ignore them. Don't assume a superstition either. Don't be intentionally ignorant. Ask us!!
Hindu customs are all about Symbolism. Let us tell you the thought behind those traditions.
Make Informed Religious decisions.

Featured site

Ved - Puran
Ved and Puran in audio format.