संस्कृत सूची|शास्त्रः|तंत्र शास्त्रः|श्रीशक्तिसङ्ग्मतन्त्रम्|
तृतीयः पटलः ।

श्रीशक्तिसङ्ग्मतन्त्रम् - तृतीयः पटलः ।

तंत्र शास्त्र भारताची एक प्राचीन विद्या आहे. तंत्र ग्रंथ भगवान शिवाच्या मुखातून प्रकट झाले आहेत. त्यांना पवित्र आणि प्रामाणिक मानले आहेत.
Tantra shastra is a secret and most powerful science of the Indian culture and religion. It is a most powerful science which Indian Rushis have practised for centuries and still it is in practise.


श्रीशिव उवाच ।
तव रूपं महातारे पूर्वं तु नीलरूपकम् ।
ततो वै सुन्दरीरूपं रक्तवर्णं परात्परम् ॥१॥
लोकान्तरे च त्वरिता वसुदुर्गा च शारभे ।
धनेशी कालचामुण्डा वाराही कृष्णपूर्विका ॥२॥
अन्नपूर्णा महाविद्या कलौ कल्पवरप्रदा ।
कुलाचारप्रसन्नास्या कुलाचारफलप्रदा ॥३॥
वनदुर्गा तूग्रदुर्गा तथैव सर्वमङ्गला ।
वज्रप्रस्तारिणी काली तारेति नामवाचका ॥४॥
अनंतरूपसंयुक्ता केवलं दक्षिणेश्वरी ।
डामरे वामभेदेsपि चोत्तराम्नायडामरे ॥५॥
वशिन्याम्नायके देवि वाम एव क्रिया स्मृता ।
ब्रह्ममाला मुण्डमाला तद्दधाना तु कालिका ॥६॥
नारिकेलभवा माला सिद्धमाला प्रकीर्तिता ।
शैवमाला तु रुद्राक्षैस्त्रिगत्या विनियोजिता ॥७॥
शिवप्राधान्याच्छैवं स्याच्छाम्भवः सम्प्रकीर्तितः ।
शक्तेः प्राधान्याच्छाक्तं साच्चिद्रूपाहं चिदात्मिका ॥८॥
एतद्विलोपनाल्लोपामुद्रा विद्येयमीरिता ।
अल्पाचारादधर्मत्वात् भ्रष्टत्वादपि शांकरि ॥९॥
सुन्दरी श्रीमहाविद्या राजराजेश्वरेश्वरी ।
न्यासजालैः सदाचारैः कलौ क्लेशेन सिध्यति ॥१०॥
स्वस्वपापिष्ठदिवसाः सम्भवन्ति कलौ युगे ।
पापबाहुल्यतो देवि सुन्दरी न प्रसीदति ॥११॥
ब्रह्ममालाधारणात्तु ब्रह्मविद्या प्रकीर्तिता ।
शिवमालाप्रियत्त्वाच्च महापरशिवात्मिका ॥१२॥
अत एव महेशानि कादिहादिमतद्वयम् ।
कादिहादिमतं देवि द्वयं यस्यास्ति शांकरि ॥१३॥
द्वितये दीक्षितो यस्तु कालीतारामयो ध्रुवम् ।
एवं कादिमतं विद्धि नित्या क्लिन्ना न दृश्यते ॥१४॥
द्वितये दीक्षणप्राप्तिर्भाग्यपारो न लभ्यते ।
मुण्डमाला गले धार्या तत्र कादिमते शिवे ॥१५॥
मुण्डं रुद्राक्ष सहितैर्धारणं तारिणीविधौ ।
केवलं मुण्डमाला तु सर्वसिद्धिपराम्बिका ॥१६॥
नारिकेलमयी माला तदभावे प्रकीर्तिता ।
एतस्या धारणाद्देवि किं तद्दन्न करी स्थितम् ॥१७॥
स्मशाने भोजनं कार्यं तद्भस्म धारयेच्छिवे ।
xxx xमृतैर्देवीमर्चयेत्तर्पयेच्छिवे ॥१८॥
x xनन्दपरो भूत्वा x x यत्नेन संविशेत् ।
x x xसनमेतद्धि कालीतारामयं परम् ॥१९॥
x xनैव समालापात्सुभगः साधको भवेत् ।
श्रीदेव्युवाच ।
मुण्डमालाधारणं तु कथं कार्यं वदाधुना ॥२०॥
श्रीशिव उवाच ।
रुद्राक्षवद्धारणं च काली मुण्डमयी परा ।
रुद्राक्षै रुद्रमन्त्रैश्च मुण्डाक्षैः कालिकामनुः ॥२१॥
मुण्डं शिवस्य कण्ठे तु वर्तते येन हेतुना ।
तेनेयं मालिका सिद्धा रुद्रभूषणरूपिणी ॥२२॥
रुद्राक्षाः साधकैनैंव ध्रियन्ते सुन्दरीमते ।
नारिकेलमयी माला सर्वविद्याविधौ धृतिः ॥२३॥
सर्वस्मान्मुण्डमालेय कलौ जागर्ति केवला ।
कालिका ब्रह्मविद्येयं निर्गुणा चित्स्वरूपिणी ॥२४॥
येन केन प्रकारेण साधनीया पराम्बिका ।
स सिद्धः सिद्धिदो लोके बहु किं परचण्डिके ॥२५॥
पारे परार्द्धप्रमुखैस्तदन्तैरपि पार्वति ।
महिमां वर्णितुं शक्तो न हि कोsप्यस्ति भूतले ॥२६॥

इति श्रीशक्तिसङ्गमहातन्त्रराजे उत्तरभागे द्वितीयखण्डे श्रीमदक्षोभ्यमहोप्रतारासंवादे मालाविधानं नाम तृतीयः पटलः ।

N/A

References : N/A
Last Updated : January 17, 2018

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP