संस्कृत सूची|शास्त्रः|तंत्र शास्त्रः|श्रीशक्तिसङ्ग्मतन्त्रम्|
त्रयोविंशतिः पटलः ।

श्रीशक्तिसङ्ग्मतन्त्रम् - त्रयोविंशतिः पटलः ।

तंत्र शास्त्र भारताची एक प्राचीन विद्या आहे. तंत्र ग्रंथ भगवान शिवाच्या मुखातून प्रकट झाले आहेत. त्यांना पवित्र आणि प्रामाणिक मानले आहेत.
Tantra shastra is a secret and most powerful science of the Indian culture and religion. It is a most powerful science which Indian Rushis have practised for centuries and still it is in practise.


श्री देव्युवाच ।
छिन्नमस्ताविधौ देव क्रमं मे ब्रूहि सत्वरम् ।
श्री शिवउवाच ।
दिव्यचीनक्रमेणैव छिन्नमस्ता फलप्रदा ॥१॥
क्रमद्वयं महेशानि पूर्वमेव प्रकाशितम् ।
एतस्यास्तिलको देवि भ्रयुग्मे च कुचन्दनम् ॥२॥
तदन्ते रोचनापत्रं त्रिपुण्ड्रं दिव्यवर्णकैः ।
श्मशानभस्मबिन्दुस्तु तन्मध्ये दापयेत्प्रिये ॥३॥
मुखे मुखं प्रदत्त्वा तु सर्वकालं जपेच्छिवे ।
विशेषं कथितो देवि शक्तितत्त्वस्य पानकम् ॥४॥
इति संक्षेपतः प्रोक्तं भैरव्यां श्रृणु पार्वति ।
स्वपुष्पक्रमयोगेन भैरवी भुवि दुर्लभा ॥५॥
स्वपुष्पाख्यक्रमो देवि कथ्यते श्रृणु साम्प्रतम् ।
तरुणीं सुन्दरीं रम्यां तारुण्यामृतविग्रहाम् ॥६॥
सदा x x साभिलाषां x x x द्युक्तमानसाम् ।
मन्त्रयंत्रसमायुक्तां समानीय महेश्वरी ॥७॥
x x तां च विधायादौ x x जपं चरेत् ।
परस्परावलोकश्च कर्तव्यश्च परस्परम् ॥८॥
सदा तत्सङ्गिना भाव्यं तद्धस्तरचितं जलम् ।
तद्धस्तरचितं भोज्यं तद्धस्तरचितं स्थलम् ॥९॥
तद्धस्तरचितं पुष्पं देवताभ्यो निवेदयेत् ।
स्त्रियो देवाः स्त्रियः प्राणाः स्त्रिय एव हि भूषणम् ॥१०॥
स्त्रियः सृष्टिः स्त्रियः सर्गः सर्वं तस्यां प्रतिष्ठितम् ।
स्त्रीद्वेषो नैव कर्तव्यो विशेषात्पूजनं स्त्रियः ॥११॥
तासां प्रहारं कौटिल्यं सर्वथा परिवर्जयेत् ।
प्रमादात्कुरुते यस्तु तस्य पातो भविष्यति ॥१२॥
ईदृग्विधां समालोक्य सुन्दरीगेहसंस्थितः ।
अविकारी यदा देवि साधनार्हो न चाsन्यथा ॥१३॥
विकार भावमाने चसाधको नश्यति क्षणात् ।
तत्कुण्डं च महेशानि क्षणाद्वि x x भवेत् ॥१४॥
तथापि स्वस्य देहस्य विकारं नहि कारयेत् ।
सापि चेद्देवदेवेशि ह्यविकारी यथा भवेत् ॥१५॥
x x x तदीये विद्यन्ते नाड्यस्तिंस्त्रः प्रधानिकाः ।
अम्भः स्रवति चान्द्रीया पुष्पं स्रवति भानवी ॥१६॥
बीजं स्रवति चाग्नेयी नाड्यो ज्ञेया त्रिधा x x ।
पुष्पिणीमनुना देवि बलात् पुशःपं समानयेत् ॥१७॥
द्राविणीमनुना देवि बलादृष्टया x x नयेत् ।
उभयं चैव संगृह्य जपं कुर्यान्महेश्वरि ॥१८॥
स्वयमेव भवेत् पुष्पं स्वपुष्पं तेन कीर्तितम् ।
तथा कार्या महेशानि स्थैर्य्यसङ्कारिणीजपात् ॥१९॥
शक्तिश्च साधको देवि दम्पती दुर्लभौ मतौ ।
बगलान्तासु देवेशि कल्पाद्यास्वपि यत्नतः ॥२०॥
क्रमोsयं योज्यतां सम्यक् नात्र कार्या विचारणा ।
कलिदोषवशाद्देवि नायं योगो भविष्यति ॥२१॥
तस्मात्पाशवकल्पेन बालां संसाध्यतां शिवे ।
बालायामुभयाचारो दक्षिणो मुख्य एव हि ॥२२॥
शीघ्रञ्च सिद्धिकामा चेत् गवाक्षयोगमभ्यसेत् ।
यत्र स्त्रीणां समुहोsस्ति नदीनदसमुद्रके ॥२३॥
यत्र स्नानं प्रकुर्वन्ति गवाक्षं तत्र कारयेत् ।
तानालोक्य प्रयत्नेन जपं कुर्यान्निरन्तरम् ॥२४॥
सर्वाः सम्प्रीणयेद्देवि स्वर्णवस्त्रादिभिः प्रिये ।
इति संक्षेपतः प्रोक्तं तिलकं श्रृणु पार्वति ॥२५॥
घुसृणं वामहस्ते तु समानीय प्रयत्नतः ।
शक्तिस्नपनतीरे तु गत्वा यत्नेन पार्वति ॥२६॥
वामहस्ततले यंन्त्रं विलिख्य यत्नतः शिवे ।
अवशिष्टेन तिलकं कारयेत्परमेश्वरि ॥२७॥
भाले कस्तूरिकाबिन्दुर्मुनिपत्रं सुचन्दनम् ।
पट्टरङ्गनकं देवि घुसृणेन प्रकारयेत् ॥२८॥
तन्मध्ये श्वेतदिव्यं च केशादि पूर्ववद्भवेत् ।
दशविद्याविद्यौ देवि केशवर्द्धनमीरितम् ।
इति संक्षेपतः प्रोक्तं किमन्यच्छ्रोतुमिच्छसि ॥२९॥

इति श्रीशक्तिसङ्गममहातन्त्रराजे उत्तरभागे द्वितीयखण्डे श्रीमदक्षोभ्यमहोग्रतारासंवादे छिन्नमस्ताक्रमो नाम त्रयोविंशतिः पटलः ।

N/A

References : N/A
Last Updated : January 17, 2018

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP