संस्कृत सूची|शास्त्रः|तंत्र शास्त्रः|श्रीशक्तिसङ्ग्मतन्त्रम्|
एकोनपञ्चाशतिः पटलः ।

श्रीशक्तिसङ्ग्मतन्त्रम् - एकोनपञ्चाशतिः पटलः ।

तंत्र शास्त्र भारताची एक प्राचीन विद्या आहे. तंत्र ग्रंथ भगवान शिवाच्या मुखातून प्रकट झाले आहेत. त्यांना पवित्र आणि प्रामाणिक मानले आहेत.
Tantra shastra is a secret and most powerful science of the Indian culture and religion. It is a most powerful science which Indian Rushis have practised for centuries and still it is in practise.


श्रीशिव उवाच ।
शिवासनं समाश्रित्य कालीं तारां जपेत्सदा ।
सम्राट् भोक्ता नरो भूयान्नात्र कार्या विचारणा ॥१॥
श्री देव्युवाच ।
शिवा देवी शिवा काली शिवारूपाsहमेव हि ।
पूर्वमुक्तं त्वया नाथ विस्मृतं किं त्वया प्रभो ॥२॥
शिवबलिश्च दातव्या शिवा पूज्या निरन्तरम् ।
इत्यादुक्तं त्वया नाथ कथमारोहणं चरेत् ॥३॥
श्रीशिव उवाच ।
शिवापरिचयं कृत्वा शिवां पूज्य प्रयत्नतः ।
जपेन्मन्त्रं महेशानि प्रोक्तमेतच्छिवासनम् ॥४॥
एषामारोहणाभावे योग्यता वाहने नहि ।
तेषां सङ्गे समूहे च तैः समं भोजनं चरेत् ॥५॥
तदभावे महेशानि त्वड्निःसारणयोग्यता ।
वर्त्तते चेन्महेशानि कुलाचारक्रमेण च ॥६॥
सर्वं विज्ञा यत्नेन हये वा शकटे रथे ।
पल्लक्यां सुखयाने वा गजे वाsपि रथेsपि वा ॥७॥
अन्यमासनमादाय तत्र स्थित्वा जपं चरेत् ।
शोधनं व्याघ्रवत्कार्यं प्रकृतं कथ्यते श्रृणु ॥८॥
मेषासनं समारुह्य दिवारात्रं जपेन्मनुम् ।
षण्मासाभ्यासयोगेन शाकिनी वरदा भवेत् ॥९॥
अजासने नरः स्थित्वा निशि जप्याद्दिने दिने ।
मासपञ्चकयोगेन पञ्चकामसमो भवेत् ॥१०॥
उष्टासनं समारुह्य ताम्बूलपूरिताननः ।
मन्त्रमात्रं जपेद्देवि मासत्रयं निरन्तरम् ॥११॥
दुष्टसत्त्वविनाशश्च भवत्येव न संशयः ।
मृगासने नरः स्थित्वा सर्वकालं जपेच्छिवे ॥१२॥
राजराजसमो भूयाद्वायुतुल्यपराक्रमः ।
एतेषाञ्च कुशेनैव प्रकृतिं कारयेत्प्रिये ॥१३॥
तत्र स्थित्वा जपं कुर्यादेतदेव फलं लभेत् ।
मृत्तिकाप्रकृति कृत्वा प्राणस्थापनमाचरेत् ॥१४॥
तत्र स्थित्वा जपेद्देवि फलमेतद्भवेद् ध्रुवम् ।
कुक्कटासनमारुद्य सर्वकालं जपेन्मनुम् ॥१५॥
वेतालः किङ्करो भूयाद् भैरवः सुप्रसीदति ।
कुक्कुटासनयोगेन किं तद्यन्न करे स्थितम् ॥१६॥
कुक्कुरासनमारुह्य जपेदिष्टमनुं शिवे ।
सर्वकामानवाप्नोति नात्र कार्या विचारणा ॥१७॥
मयूरासनमासाद्य मासमात्रं जपेन्मनुम् ।
कार्तिकेयसमो भूयान्नात्र कार्या विचारणा ॥१८॥
शरभासनमरुह्य अहोरात्रं जपेच्छिवे ।
सर्वसिद्धीश्वरो भूयान्नात्र कार्या विचारणा ॥१९॥
गवयासनमारुह्य सर्वदुःखानि नाशयेत् ।
शूकरासनमासाद्य त्रिकालं प्रजपेन्मनुम् ॥२०॥
सर्वपापविनिर्मुक्तो मानवो भवति ध्रुवम् ।
शबरासनमारुह्य मन्त्रमष्टसहस्रकम् ॥२१॥
गन्धर्वाधिपतिर्भूयान्नात्र कार्या विचारणा ।
शबरासनमारुह्य मन्त्रं लक्षमितं जपेत् ॥२२॥
अणिमां लभते धीरो नात्र कार्या विचारणा ।
तरणीं तु समारुह्य सर्वकालं जपेच्छिवे ॥२३॥
महाविद्येश्वरो भूयान्नात्र कार्या विचारणा ।
महानौकां समाश्रित्य कामिनीx x x चरेत् ॥२४॥
x x सनमासाद्य त्रैकालज्ञानमाप्नुयात् ।
रथासनं समारुह्य कामिनी x x x चरेत् ॥२६॥
x x सनयोगेन ब्रह्माण्डनायको भवेत् ।
शकटासनमासाद्य सर्वकालं जपेच्छिवे ॥२७॥
मासत्रयप्रयोगेण त्रैलोक्यं वशमानयेत् ।
शकटासनमारुह्य कामिनी x x x चरेत् ॥२८॥
x x x x x x देवि कालिकारूपभाग्भवेत् ।
सुखासने नरः स्थित्वा चतुर्यामं निरन्तरम् ॥२९॥
जपं कुर्यान्महेशानि सर्वसिद्धीश्वरो भवेत् ।
सुखासने x x कृत्वा भैरवीं प्रजपेत्सदा ॥३०॥
त्रैलोक्यविजयी भूयान्नात्र कार्या विचारणा ।
दण्डिकारोहणं कृत्वा जपेद्दशसहस्रकम् ॥३१॥
सर्वशत्रून् विनिर्जित्य सर्वत्र जयमाप्नुयात् ।
दोलासनं समाश्रित्य त्रिसन्ध्यं च सहस्रकम् ॥३२॥
देवीं ध्यात्वा जपेन्मन्त्रमिष्टसिद्धिमवाप्नुयात् ।
दोलासने नरः स्थित्वा x x कृत्वा प्रवीक्ष्य च ॥३३॥
प्रजपेद्यदि देवेशि भवेत्स्पर्शमणिर्यथा ।
चक्रासने नरः स्थित्वा त्रिसहस्रं जपेन्मनुम् ॥३४॥
त्रैलोक्यभ्रामरी शक्तिस्तस्य हस्ते व्यवस्थिता ।
दोलाचक्रासने स्थित्वा कालिकां वा जपेत्सदा ॥३५॥
सर्वसिद्धीश्वरो भूयान्नात्र कार्या विचारणा ।
पादासनं जपेद्देवि वाञ्छासिद्धिमवाप्नुयात् ।
पादासनपरो भूत्वा कामिनीध्यानतत्परः ॥३७॥
कामिनीकान्तया संगे हस्ताहस्तिकया शिवे ।
लक्षमात्रं जपेन्मत्रं सर्वसिद्धीश्वरो भवेत् ॥३८॥
कामिनीपृष्ठमाश्रित्य x x x  प्रदापयेत् ।
पृष्ठे रुद्रं प्रलाप्याsय लक्षमात्रं जपेच्छिवे ॥३९॥
सर्वसिद्धीश्वरो भूयान्नात्र कार्या विचारणा ।
पृठतो धावनं कृत्वा कामिन्या सह पार्वति ॥४०॥
सर्वसिद्धीस्वरो भूयान्नात्र कार्या विचारणा ।
कुररासनमारुह्य निशि जप्याद्दिने दिने ॥४१॥
डाकिनीमेलनं भूयान्नात्र कार्या विचारणा ।
कच्छपासनमारुह्य सर्वदा प्रजपेन्मनुम् ॥४२॥
सर्वबाधाविनिर्मुक्तः सर्वसिद्धीश्वरो भवेत् ।
खङ्गासनं समारुह्य त्रिसन्ध्यं प्रजपेन्मनुम् ॥४३॥
सर्वसिद्धिसमायुक्तो गुटिका लभते ध्रुवम् ।
सुखासने गजाख्ये तु स्थित्वा जपति शङ्करः ॥४४॥
सुखासने गजाख्ये तु कामिनी x x x  ।
प्रजपेद्यत्नतो देवि सृष्टिकर्त्ता भवेद् ध्रुवम् ॥४५॥
गजाख्यासनके स्थित्वा त्रिसन्ध्यमयुतं जपेत् ।
महीपतिर्नरो भूयान्नात्र कार्या विचारणा ॥४६॥
स्थित्वा नररथे देवि विद्यास्तोत्रं जपेत्सदा ।
सर्वदेवेश्वरो भूयान्नात्र कार्या विचारणा ॥४७॥
स्थित्वा नररथे देवि कामिनी x x x x x x ।
त्रैलोक्यराज्यं लभते यदि सा चञ्चला यदि ॥४८॥
पञ्चवर्णवृषे देवि तद्रथे शकटे प्रिये ।
फलं तु हयवत् प्रोक्तं विशेषं श्रृणु पार्वति ॥४९॥
बलीवर्द्दरथे स्थित्वा सर्वकालमसंख्यकम् ।
प्रजपेन्मनवो यस्तु किङ्करोsपि धनी भवेत् ॥५०॥
वलीवर्द्दरथे स्थित्वा x x x x x x चरेत् ।
x x x x जपेद्देवि त्रिकालज्ञो नरो भवेत् ॥५१॥
तथा वाजिरथे स्थित्वा मन्त्रमिष्टार्थदायकम् ।
इष्टार्थसिद्धिर्देवेशि भवत्येव न संशयः ॥५२॥
तथैव सुरथे गत्वा x x x x x x x ।
वाक्सिद्धिर्लभते देवि नात्र कार्या विचारणा ॥५३॥
महिषाख्ये रथे स्थित्वा त्रिलक्षाल्लोकनायकः ।
तुषारमहिषे स्थित्वा लक्षं जपति शत्रुजित् ॥५४॥
महानरपतेर्याने स्थित्वा जपति मानवः ।
महाहयपतेर्याने स्थित्वा पञ्चसहस्रकम् ॥५५॥
प्रजपेद्यन्ततो देवि इच्छासिद्धिर्भवेद् ध्रुवम् ।
महागजपतेर्याने स्थित्वा चैव त्रिसन्ध्यकम् ॥५६॥
त्रिसहस्रं जपेद्देवि सर्वसाम्राज्यनायकः ।
मेषाख्यरथमारुह्य जपाद्विद्वेषकर्मकृत् ॥५७॥
अजाख्यरथमारुह्य महाप्रीतिकरो भवेत् ।
सुखासने गजे वापि सर्वाः सिध्यन्ति सिध्ययः ॥५८॥
यथा पायसहोमेन सर्वकामानि संलभेत् ।
तथा गजासने स्थित्वा सर्वकार्याणि साधयेत् ॥५९॥
सरभे देवदेवेशि परराज्यजयी भवेत् ।
करिण्यां तु महेशानि परकन्यावशं नयेत् ॥६०॥
अश्विन्यां वरमाराध्य सर्वकामप्रकामकृत् ।
सुखासनं समारुह्य जपेद् भैरवमादरात् ॥६१॥
सर्वसङ्कटमुत्तीर्णो मासमात्रे भवेन्नरः ।
गजासनं समारुह्य जपेत्सप्तशतीस्तवम् ॥६२॥
सर्वबाधाविनिर्मुक्तः पक्षावर्त्तनयोगतः ।
सर्वानि साधयेद्देवि कीर्त्तितान्यासनानि च ॥६३॥
वरप्रयोगा देवेशि शाब्रे सर्वसिद्धिदा ।
अश्वासने नरः स्थित्वा त्रिशक्तिं प्रजपेत्सदा ॥६४॥
त्रैलोक्यविजयी भूयात् सर्वकार्याणि साधयेत् ।
एतेषामस्थिसारेण मालिकां कारयेद्बुधः ॥६५॥
तेन जापः प्रवर्तव्यस्तत्रारुह्य जपं चरेत् ।
तत्र तस्यासने स्थाप्य त्रैलोक्याधिपतिर्भवेत् ॥६६॥
संख्या सामान्यतः प्रोक्ता सर्वकर्माणि साधयेत् ।
वीरासनानि देवेशि गदितानि मया तव ॥६७॥
जपसंकल्पपूर्तिस्तु भवेन्मा भवतु प्रिये ।
तथाप्यासनयोगेन शीघ्रसिद्धिर्भवेद् ध्रुवम् ॥६८॥
जीवचक्रे यथा सिद्धिस्तथा जीवासने प्रिये ।
रहस्यातिरहस्यं च गोप्तव्यं पशुसङ्कटे ।
इति संक्षेपतः प्रोक्तं किमन्यच्छ्रोतुमिच्छसि ॥६९॥

इति श्रीशक्तिसङ्गममहातन्त्रराजे उत्तरभागे द्वितीयखण्डे श्रीमदक्षोभ्यमहोग्रतारासंवादे शिवसनादि नाम नामैकोनपञ्चाशतिः पटलः ।

N/A

References : N/A
Last Updated : January 17, 2018

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP