TransLiteral Foundation
संस्कृत सूची|शास्त्रः|तंत्र शास्त्रः|श्रीशक्तिसङ्ग्मतन्त्रम्|
सप्तत्रिंशतिः पटलः ।

श्रीशक्तिसङ्ग्मतन्त्रम् - सप्तत्रिंशतिः पटलः ।

तंत्र शास्त्र भारताची एक प्राचीन विद्या आहे. तंत्र ग्रंथ भगवान शिवाच्या मुखातून प्रकट झाले आहेत. त्यांना पवित्र आणि प्रामाणिक मानले आहेत.
Tantra shastra is a secret and most powerful science of the Indian culture and religion. It is a most powerful science which Indian Rushis have practised for centuries and still it is in practise.


सप्तत्रिंशतिः पटलः ।
श्रीशिव उवाच
शृणु देवि वरारोहे रहस्यं महदद्भुतम् ।
विना पूजां स्त्रियो x x सङ्गमे साधकोत्तमः ॥१॥
सप्तजन्मदरिद्रत्वं नरके कोटिकल्पशः ।
ब्रह्महत्या सुरापानं स्तेयं गुर्वङ्गनागमः ॥२॥
एतत्पापकृतो दोषो जायते नात्र संशयः ।
वीरो वाsप्यथवा दिव्यो न बुद्ध्वा नरके व्रजेत् ॥३॥
गुरुपूजाकृतिविधौ विद्योच्चारणकर्म तत् ।
रहस्याख्यं कर्णकूपे दंशनं गण्ड x x ॥४॥
भूतशुद्धिपरिरम्भो संभावेन्द्रियनिग्रहः ।
प्राणायामस्तवाकृष्टिः न्यासस्तस्याः समाहितः ॥५॥
परस्परावलोकश्च व्यानकर्म प्रकीर्तितम् ।
नखदन्त x x दीनि धूपदीपप्रतापनम् ॥६॥
तत्तत्तत्त्वविशेषाश्च प्रेममुद्रा प्रकीर्त्तिता ।
पूजनं गायनं स्तुत्यं x x x विसर्जनम् ॥७॥
ज्ञति प्रोक्तं महेशानि रहस्यमपरं शृणु ।
सत्यमेतद्विना x x x सङ्गान्मन्त्रो न सिध्यति ॥८॥
सङ्ग एव हि कर्तव्यः कर्तव्यं न च x x x ।
पूजनीया सदा योषा मद्भावकृतनिश्चयः ॥९॥
तस्यां तु x x x देवि कर्तव्यं मम साधकैः ।
मम भावस्वरूपा सा मत्स्वरूपा महं च सा ॥१०॥
यदि न x x देवि सा कथं भवतारिता ।
भरता दृढपापेन सदृशो जायते नरः ॥११॥
मद्भावप्रतिपन्नापि अधिकारी न x x x ।
यादृशी तु दृढे ज्ञाने मद्भावैकपरायणा ॥१२॥
कदाचित्पतितां वापि कदाचिद्वापि पूतताम् ।
कदाचित् गुरुतां याति कदाचिदपि शिष्यताम् ॥१३॥
इदृशं सर्वदा ज्ञानं निश्चयं यस्य योषितः ।
स विष्णुः स शिवः साक्षात् स योग्यः सर्वकर्मसु ॥१४॥
श्रेदेव्युवाच
अहं हि जगतां धात्री जननी जन्मकारणम् ।
मद्भावप्रतिपन्ना या साsहमेव सुनिश्चितम् ॥१५॥
कर्तव्या x x x नैव तस्या मनोविकारणा ।
मोहाद्वा गुरुमौढ्याद्वा यदा यत्कुरुते सुधीः ॥१६॥
वीरो वाsप्यथवा दिव्यो अबुद्ध्वा नरकं व्रजेत् ।
गुरुपत्नीं द्विजपत्नीं पितृपत्नीं प्रपूजयेत् ॥१७॥
x x x नरकं यावत् तावत्कोटिगुणं भवेत् ।
पापासम्भवमापन्ना नारी सर्वमयी हि सा ॥१८॥
अहं च रोषसम्पन्ना नाशयामि तमीश्वर ।
छिन्नशिरः शिरा तस्य द्वेषं पश्येद्भिया तपेत् ॥१९॥
भयाहतोsपि पापात्मा प्राप्नोति नरकं महत् ।
अथवाsपि चिरञ्जीवेन्महादुर्गतिदुर्गतिम् ॥२०॥
निरन्तरं रोगपीडा जायते तस्य पापिनः ।
कदाचन शिरःपीडा कदाचित्तु गुरुज्वरः ॥२१॥
कदाचित् गात्रसन्तापः कदाचित्कर्णपीडनम् ।
कदाचिदपि कण्डूः स्यात्कदाचित्तु विचर्चिकाम् ॥२२॥
अनालोक्यं च बाधिर्यं खञ्जता कुब्जता तथा ।
अन्येsपि विविधा रोगाः कुष्ठाद्याः प्रभवन्ति हि ॥२३॥
चक्षुर्नाशः श्रुतिच्छेदो नासाच्छेदस्तथैव च ।
करच्छेदः पादच्छेदः शिरश्छेदोsपि जायते ॥२४॥
पशुपीडा राजपीडा वह्निपीडाsपि जायते ।
कुलं तस्मात्त दोषेण भ्रियते नात्र संशयः ॥२५॥
प्रार्थनामपि कुर्वाणो न लभेदन्नमुष्टिकम् ।
मूलाहारः फलाहारः पत्राहारो जलाशनः ॥२६॥
प्रायशो जायते पीडा तपःफलविवर्जितः ।
तस्य स्यादसकृद्बन्धुद्रोहो भृत्याश्च तस्कराः ॥२७॥
स्वगोत्रकलहो नित्यं स्वगोत्रहिंसनं सदा ।
सुहृद्भिः क्रियते द्वेषो रिपुणा बध्यते स तु ॥२८॥
स्वयोषाsपि विषं दद्यान्मित्रं वा सेवकोsथवा ।
औषधं च भवेत्तस्य महाहालाहलं प्रभो ॥२९॥
हितं पथ्यं सुहृद्वाक्यं कदाचन रोचते ।
हिता न वदनात्तस्य क्कचिद्वाणी बहिर्भवेत् ॥३०॥
चारूक्ता बन्धुजा वाणी विपरीतेव जायते ।
तदाज्ञाकारिणो न स्युः सुहृद्भृत्यादयस्तथा ॥३१॥
एकादशगृहस्थो हि ग्रहः पीडयते ध्रवम् ।
अन्यथा सिद्धिमापन्ना मन्त्राः स्युर्हतसिद्धयः ॥३२॥
एते ते कथिता दोषा योषि x x x सम्भवाः ।
अधिकारविहीनानां अधिकारयुतेन हि ॥३३॥
ईश्वर उवाच
अधिकारी भवेत्कीदृक् देवेशि भवदर्चने ।
कथं स्यादधिकारश्च प्रागभ्यासप्रवर्तनम् ॥३४॥
महान्ममैव सन्देहो वर्द्धते जगदीश्वरि ।
तदेव श्रोतुमिच्छामि सन्देहं छेदय प्रिये ॥३५॥
ममानुग्रहतो देवि तदेतद्वक्तुतर्हसि ।
श्रीदेव्युवाच
श्रृणु देव प्रवक्ष्यामि गुह्यात् गुह्यतरं महत् ॥३६॥
गोपितं सर्वतन्त्रेषु न देयं यस्य कस्यचित् ।
अहमेव परं ज्ञानमहमेव परा गतिः ॥३७॥
अहमेव परं ध्यानमहमेव परा श्रुतिः ।
मत्तः परतरं विश्वे न किञ्चिदवलोकयेत् ॥३८॥
अहमेव जगत्सर्वं जगदेवाहमीश्वर ।
मद्भावभावितानां हि भवद्वै तादृशी शिव ॥३९॥
एवं ज्ञानविशिष्टः स्यादधिकारी भवेच्छिव ।
ब्रह्माविष्णुमहेशादिसर्वदेवमयो हि सः ॥४०॥
जायमानस्य बालस्य x x x x ।
सम्पर्केण विकारो हि न यथा जायते क्कचित् ॥४१॥
साधकस्य तथा यस्य मतिः स्यादविकारिणी ।
सोsधिकारी भवेन्नित्यं यागादौ सह योषिता ॥४२॥
मद्भावप्रतिपन्ना या मत्स्वरूपाsहमेव सा ।
विकारो नहि योषायां तस्यामर्पित एव हि ॥४३॥
एवं यस्य स्थिता बुद्धिः सोधिकारी न संशयः ।
भ्रातृ x x परित्यज्य सर्व x x विचारयेत् ॥४४॥
सङ्गमे साधकश्रेष्ठः शिववत् क्रीडते भुवि ।
प्रथमन्यासकाले तु यावद्धैर्य्यं न जायते ॥४५॥
तावत्कामविलोपार्थं यतितव्यं प्रयत्नतः ।
कामभावविलोपार्थं सङ्गं कृत्वैव x x x ॥४६॥
साधयेन्सर्वकार्याणि यावज्ज्ञानं न जायते ।
ततो ज्ञाने समुत्पन्ने स्वच्छन्दं विहरेत् पुमान् ॥४७॥
एवं कर्तुमशक्तस्तु नाधिकारी कथञ्चन ।
कुर्याज्जपं तथा होमं तर्पणं मार्जनं तथा ॥४८॥
द्विजानां भोजनं चैव योषित्सङ्गविवर्जितः ।
साधकस्य भवेद्यस्तु यत्स्वरूपेष्टदेवता ॥४९॥
तद्वर्पणसमतेजोभिः पूर्णं भुवनमण्डलम् ।
भावनाभिः स्थिरीकृत्य देवताध्यानतत्परः ॥५०॥
यथास्वरूपवर्णादि चिन्तयेद्यतमानसः ।
एवं यस्य मनो नास्ति तस्य प्रतिनिधिः स्मृतः ॥५१॥
कुमार्यामेव कर्त्तव्यं न x x x कदाचन ।
यतः स्या x x योग्यामविकाराय कल्प्यते ॥५२॥
न प्रयोगादिकं क्कापि गृहस्थो निजयोषितः ।
कुमारीभोजनादेव कुमारीपूजनादपि ॥५३॥
कुमारीचिन्तनादेव त्रैलोक्यविजयी भवेत् ।
इति संक्षेपतः प्रोक्तं गौडानां वीरयोषिताम् ॥५४॥
श्रीशिव उवाच
श्रृणु यत्नेन देवेशि रहस्यातिरहस्यकम् ।
विना मद्यन मांसेन पुंश्चलीसेवनं विना ॥५५॥
न मन्त्रसिद्धिमाप्नोति चन्द्रसौरक्रमार्चिते ।
अलिना पूरितं पात्रं बलिना पूरितो अलिः ॥५६॥
अलिं बलिं च रामाञ्च किन्न सिध्यति भूतले ।
विशेषं श्रृणु देवेशि पूजाप्रकरणं तथा ॥५७॥
विजया सर्वदा प्रोक्ता ताम्रपात्रे पयस्तथा ।
मधुमिश्रा तु विजया गौडब्राह्मणकर्मणि ॥५८॥
x x x नन्तरं सिर्द्धिमधुपानैर्विशेषतः ।
नृत्यगीतादिभिः सर्वैर्गुरुशुश्रूषणैस्तथा ॥५९॥
अष्टम्यां च चतुर्दश्यां नवम्यां सङ्क्रमे तथा ।
अमायां देवदेवेशि भौमे शुक्रग्रहत्रये ॥६०॥
काली तारा स्थिता तत्र पूजनाद्वरदायिनी ।
स्वशक्त्या सर्वदा पूज्यानन्तरा पञ्चपर्वणि ॥६१॥
नो चेन्मांसेन सम्पूज्यानन्तरा वत्सरो यदि ।
अगम्यागमनं चैव तथाsभक्ष्यस्य भक्षणम् ॥६२॥
सकृदुच्चारितो मन्त्रो दहत्यग्निरिवेन्धनम् ।
पैष्टी गौडी तथा माध्वी तालखर्जूरसम्भवा ॥६३॥
नारिकेली तथा द्राक्षी पूगी चान्यैरुपस्कृता ।
पैष्टी शूद्रस्य माध्वी च क्षत्रियस्य तथा द्वयम् ॥६४॥
पैष्ट्यादि सर्वं शूद्रस्य ब्राह्मणस्य न पिष्टजा ।
ब्राह्मणेनैव दातव्या विना माध्वीं कथञ्चन ॥६५॥
अथान्येषु प्रकारेषु नाधिकारो द्विजन्मनाम् ।
अथवा कुलमद्येन पूजयेत्कुलसुन्दरीम् ॥६६॥
योगिभिः पीयते मद्यं न मद्यं द्विजपुङ्गवैः ।
न मद्यं पानयोग्यं स्यान्न मद्यं गुडमिश्रितम् ॥६७॥
अशक्तद्विजजातीनां विधिं श्रृणु प्रयत्नतः ।
ब्राह्मणस्ताम्रपात्रे तु मधु मद्यं प्रकल्पयेत् ॥६८॥
अनुकल्पस्त्वशक्तानां नान्यथा पातकी भवेत् ।
नो चेत्सिद्धिकरी देवि प्रजप्तैरपि कोटिभिः ॥६९॥
पुरश्चरणलक्षैश्च होमानामपि कोटिभिः ।
ताम्बूलेन विना यस्तु कालिकां दशधा जपेत् ॥७०॥
इह क्षोभमवान्पोति परत्र नरकं व्रजेत् ।
ताम्बूलं x x चक्रञ्च मुण्डमाला शवासनम् ॥७१॥
सिन्दूरं खङ्गकं चैव संविदासवयो रसः ।
एतान्विहाय यः कश्चित्कालीं साधितुमुद्यतः ॥७२॥
इह क्षोभमवाप्नोति परत्र नरकं व्रजेत् ।
कोट्यर्बुदयुगैर्देवि नहि सिध्यति तारिणी ॥७३॥
चिन्मयेsयं निगदिता महाकालाय वै पुरा ।
कालिकामनुजापी तु स्पृशेत्पातकिनं यदि ॥७४॥
स तु संस्पर्शमात्रेण सर्वसिद्धीश्वरो भवेत् ।
गद्यपद्यमयी वाणी भवेद्ब्रक्षापरम्परा ॥७५॥
जायते देवदेवेशि काव्यकर्ता क्षणेन तु ।
अतीतानागतं ज्ञानं वर्तमानं च पश्यति ॥७६॥
तस्माxxर्मुख्यभूता सर्वसिद्धिप्रदर्शिनी ।
x x चक्रं समालोच्य यत्किञ्चित्कुरुते नरः ॥७७॥
तत्तदक्षय्यमायाति छिन्नविद्याप्रसादतः ।
कालीं विहाय यः कश्चित् सिद्धिमिच्छति कामुकः ॥७८॥
स चक्षुषा विना रूपं दर्पणे द्रष्टुमिच्छति ।
शक्तिं विहाय यः कश्चित् कालिकां द्रष्टुमिच्छति ॥७९॥
स भोजनं विना नूनं क्षुन्निवृत्तिमभीप्सति ।
कालीविद्या सिद्धविद्या महाविद्या प्रकीर्तिता ॥८०॥
इयं विद्या त्रिधा देवि जप्यते स्मर्यतेsथवा ।
तदैव सिद्धिया तस्य सा चान्यस्य वरप्रदा ॥८१॥
तस्याः सकाशान्मन्त्रोsयं ग्राह्यो यत्नेन पार्वति ।
पाणौ विचिन्त्य जप्तव्यः सिद्धिर्दिवसमात्रतः ॥८२॥
कृष्णाष्टम्यां चतुर्दश्यां मङ्गलें वासरे निशि ।
कृष्णपक्षे विशेषेण कारयेत्सर्वदा गृहे ॥८३॥
मृदुचूडयोxx कोमले विष्टरेsपि च ।
एकलिङ्गे शून्यदेशे शून्यगेहे जलार्णवे ॥८४॥
श्मशाने कुलवृक्षे तु शवमुण्डे रणाजिरे ।
स्वयम्भूकुसुमं वापि अथवा x x जं च वा ॥८५॥
एतेषु कालिका देवि स्वय तिष्ठति निश्चितम् ।
एतान् स्थानान् शुभान् विद्धि महाकौलवरप्रदान् ॥८६॥
श्मशानं तु समाश्रित्य यं यश्चित्कालिकां जपेत् ।
तस्य काली प्रसन्नाsस्ति नात्र कार्या विचारणा ॥८७॥
x x शवे श्मशाने वा कालिकां दशधा जपेत् ।
तस्य काली प्रसन्नाsस्ति नात्र कार्या विचारणा ॥८८॥
मुनिदिननरमुण्डं साधनार्हं सुशस्तम्
शशिदिननवमुण्डं दैवतं नोत्तमं च ।
हुतवहदिनमुण्डं मालिकाद्येषु शस्तम्
तपनदिनसुमुण्डं मध्यमं कार्यपात्रे ॥८९॥
हायनायनमासैश्च कलामुत्पत्तिचन्द्रमा (?) ।
साध्यादि क्रमतो सायं दिक्पात्रं परमेश्वरि ॥९०॥
एवं सर्वं तु विज्ञाय मुण्डं लक्षणपूर्वकम् ।
साध्यं सिद्धं सुसिद्धं च सुसिद्धेयं तथैव च ॥९१॥
वीर च दैवतं दिव्यं क्रमेण परिकीर्तितम् ।
इति संक्षेपतः प्रोक्तं श्रृण्वेतत्साधनं शुभम् ॥९२॥

इति श्रीशक्तिसङ्गममहातन्त्रराजे उत्तरभागे द्वितीयखण्डे श्रीमदक्षोभ्यमहोग्रतारासंवादे शक्तिसङ्गमरहस्यकथनं नाम सप्तत्रिंशतिः पटलः ।

Translation - भाषांतर
N/A

References : N/A
Last Updated : 2016-11-11T12:48:36.7800000

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.

biotical

  • = biotic 
RANDOM WORD

Did you know?

उगवत्या सूर्याला नमस्कार, मावळत्या का नाही?
Category : Hindu - Traditions
RANDOM QUESTION
Don't follow traditions blindly or ignore them. Don't assume a superstition either. Don't be intentionally ignorant. Ask us!!
Hindu customs are all about Symbolism. Let us tell you the thought behind those traditions.
Make Informed Religious decisions.

Featured site

Ved - Puran
Ved and Puran in audio format.