संस्कृत सूची|शास्त्रः|तंत्र शास्त्रः|श्रीशक्तिसङ्ग्मतन्त्रम्|
पञ्चषष्टिः पटलः ।

श्रीशक्तिसङ्ग्मतन्त्रम् - पञ्चषष्टिः पटलः ।

तंत्र शास्त्र भारताची एक प्राचीन विद्या आहे. तंत्र ग्रंथ भगवान शिवाच्या मुखातून प्रकट झाले आहेत. त्यांना पवित्र आणि प्रामाणिक मानले आहेत.
Tantra shastra is a secret and most powerful science of the Indian culture and religion. It is a most powerful science which Indian Rushis have practised for centuries and still it is in practise.


श्रीदेव्युवाच ।
देवेश श्रोतुमिच्छामि रहस्यातिरहस्यकम् ।
श्रीशिव उवाच ।
यन्त्रं नष्टं च स्फुटितं तज्जपः कथ्यते श्रृणु ॥१॥
कुमारीं च समानीय चार्वङ्गीं चारुहासिनीम् ।
प्रसूनपीठे संस्थाप्य न्यासजालं प्रविन्यसेत् ॥२॥
पात्रासादनमासाद्य तां बालां पूजयेत्ततः ।
नवोत्तरं समारभ्य कामवर्णान्तकं शिवे ॥३॥
तावद्बालेति गदिता ताराकालीसमा कलौ ।
तां सम्पूज्य महेशानि दोषमुक्तो नरो भवेत् ॥४॥
मूलाधारान्मस्तकान्तं समालोक्य विभाव्य च ।
ध्यानोक्तदेवतां कृत्वा साङ्गां सपरिवारकाम् ॥५॥
नवतिर्भोजयेद्देवि साङ्गां सावरणां शिवे ।
स्वदेवीवच्च सम्पूज्य सबल्यन्तं महेश्वरि ॥६॥
अङ्गं षडङ्गं सम्पूज्य मस्तके गुरुपूजनम् ।
सर्वावृत्तिं च सर्वाङ्गे मूलदेवीं त्रिपत्रके ॥७॥
सम्पूज्य परमेशानि रत्नभरणविस्तरैः ।
ग्रामैर्वस्त्रैर्भोजनाद्यैः लेह्यपेयादिभिः शिवे ॥८॥
सम्पूजयेन्महेशानि देवताभावतत्परः ।
तया यदुक्तं देवेशि तदेव वरदानकम् ॥९॥
सा तत्र वरदा चेत्स्यादेवता वरदा ध्रुवम् ।
तस्या देहे वसेद्देवि नात्र कार्या विचारणा ॥१०॥
अविकारेण मनसा पूजयेन्निजदेववत् ।
सर्वाश्चैव महाविद्यास्तत्क्षणात् शक्तिदेहगाः ॥११॥
सा चेत् क्षुब्धा यदा भूयाद्देवता क्षोभमाप्नुयात् ।
एवं क्रमेण देवेशि सम्पूज्य निजदेवताम् ॥१२॥
यंत्रदोषविनिर्मुक्तः पुनर्यन्त्रं च संग्रहेत् ।
उक्तसंस्कारमासाद्य स्वगुरूक्तेन वर्त्मना ॥१३॥
एकतोलं द्वितोलं वा त्रितोलं पञ्चतोलकम् ।
रसतोलं वेदतोलं सप्ताष्टतोलकं यथा ॥१४॥
दशतोलं सूर्यतोलं कलाभुवनतोलकम् ।
वेदतोलं चतुःषष्ठितोलकं शततोलकम् ॥१५॥
यथा मनोज्ञं सुखदं सुरेखं पीथमुत्तमम् ।
ऊर्ध्वरेखं भूमिरेखं मेरुकैलाससन्निभम् ॥१६॥
सबीजं कारयेद् यन्त्रं बालाहस्तात्तु संग्रहेत् ।
तदभावे गुरोर्हस्ताद् गृहीत्वा पूजयेत्सुखम् ॥१७॥
सत्ये कुमारीपूजोक्ता द्वियुगे बालिका मता ।
कलौ शक्तिस्तु सम्प्रोक्ता x x तु बालिका ॥१८॥
कलौ बालैव सम्प्रोक्ता यन्त्रसिद्धिस्ततो ध्रुवम् ।
इति संक्षेपतः प्रोक्तं किमन्यच्छ्रेतुमिच्छसि ॥१९॥

इति श्रीशक्तिसङ्गममहातन्त्रराजे उत्तरभागे द्वितीयखण्डे श्रीमदक्षोभ्यमहोप्रतारासंवादे अन्नशुद्धिर्नाम पंचषष्टिः पटलः ।

N/A

References : N/A
Last Updated : January 17, 2018

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP