संस्कृत सूची|शास्त्रः|तंत्र शास्त्रः|श्रीशक्तिसङ्ग्मतन्त्रम्|
अष्टषष्टिः पटलः ।

श्रीशक्तिसङ्ग्मतन्त्रम् - अष्टषष्टिः पटलः ।

तंत्र शास्त्र भारताची एक प्राचीन विद्या आहे. तंत्र ग्रंथ भगवान शिवाच्या मुखातून प्रकट झाले आहेत. त्यांना पवित्र आणि प्रामाणिक मानले आहेत.
Tantra shastra is a secret and most powerful science of the Indian culture and religion. It is a most powerful science which Indian Rushis have practised for centuries and still it is in practise.


श्रीदेव्युवाच ।
देवेश श्रोतुमिच्छामि अचूडकविशोधनम् ।
श्रीशिव उवाच ।
अचूडकासने देवि सिद्धयः सकलाः स्थिताः ॥१॥
तमासनं समादाय मकारपञ्चकान्वितः ।
भौमाष्टम्यां चतुर्द्दश्याममायां दीपकोत्सवे ॥२॥
कुलऋक्षेsपि देवेशि अचूडकासनं भवेत् ।
दिग्बन्धभूतशुद्ध्यादीन्कृत्वा यत्नेन पार्वति ॥३॥
वज्रोदके समारभ्य रक्ष रक्षान्तकं शिवे ।
मन्त्रान्विज्ञाय यत्नेन साधयेदिष्टसाधनम् ॥४॥
अन्यत्सर्वं पूर्ववत्स्यात् कोमलेsप्येवमेव तु ।
मुण्डासनं प्रवक्ष्येsहं श्रृणु सावहिता भव ॥५॥
भौमामायां चतुर्दश्यां मङ्गले शनिवासरे ।
दीपोत्सवे च फाल्गुन्यां साष्ठरात्रिदिनेsपि च ॥६॥
पूर्वकृत्यं समाप्याथ याममात्रं गते निशि ।
वीरवेषो दयायुक्तो भक्तभक्तो जितेन्द्रियः ॥७॥
महाबलो महाबुद्धिर्विजितः सर्वशास्त्रवित् ।
खड्गहस्तो मुक्तकेशः सिंदूरतिलकान्वितः ॥८॥
बलिद्रव्याणि चादाय दृढभक्तो महारुचिः ।
वीरसाधनसामग्रीं सव्रतः साधकोत्तमः ॥९॥
शिवाबलिं प्रदत्त्वादौ तदन्ते मुण्डसाधनम् ।
शिवारूपा स्वयं देवि तत्र विघ्नहरा ध्रुवम् ॥१०॥
अन्यथा विघ्नकर्तारो देवदैत्याश्च मानवाः ।
सर्वविघ्नविनाशार्थं सिद्ध्यर्थं करवीं जपेत् ॥११॥
स्मशाने गह्वरे नद्यां शून्यगेहेsपि साधयेत् ।
स्मशाने चेन्महेशानि विधिस्तत्र स्मशानवत् ॥१२॥
अन्यत्र वीरवत्कार्यं साधनं सर्वसाधनम् ।
खादिरान् कीलकानष्टौ निखनेन्मन्त्रमुच्चरन् ॥१३॥
महामण्डलमन्त्रैश्च सर्वविघ्नान्विघातयेत् ।
मुण्डमानीय यत्नेन पञ्चगव्यं विनिक्षिपेत् ॥१४॥
दुग्धेन स्नानमाचर्य ततः संविज्जलेन च ।
तदन्ते सुरया स्नानं कृत्वा यत्नेन पार्वति ॥१५॥
तैलं लाप्य च तन्मुण्डे सिंदूरं कज्जलं तथा ।
गन्धपुष्पैश्च सम्पूज्य खनेद्धस्तार्धमानतः ॥१६॥
सर्वमुण्डे विधिरयं शूलप्रोतादिके शृणु ।
शूलं सम्पूजयेद्देवि समारोपं ततश्चरेत् ॥१७॥
शूलराज महाक्रूर सर्वभूतप्रियंकर ।
सिद्धिं सङ्कल्पितां देहि वज्रशूल नमोsस्तु ते ॥१८॥
दीपं प्रज्वाल्य तत्रैव खड्गेन कर्तयेत्स्वयम् ।
वीरं सम्पूज्य यत्नेन तात्कालं मुण्डमाहरेत् ॥१९॥
कालीखड्गसमुद्भूत सर्वसिद्धिप्रदायक ।
कलिचिन्तामणि त्वञ्च खड्गमुण्ड नमो नमः ॥२०॥
पाशयुक्तो मनुरयं प्रणवं पूर्वमुद्धरेत् ।
नागपाश महासिद्ध वेताल खेचरेश्वर ॥२१॥
ऊर्ध्ववक्त्र महाकाय पाशहस्त नमोsस्तु ते ।
एवं सम्प्रार्थ्य संग्राह्य भ्रान्तिं तत्र न कारयेत् ॥२२॥
साधको भयभीतश्चेत् खड्गाराधनमुच्चरेत् ।
लक्षद्वयं तत्र जपेद्वीरमार्गक्रमेण च ॥२३॥
एवं साधितमुण्डस्य फलं सिद्ध्यष्टकं करे ।
संसाधितेन मुण्डेन मालापात्रादिकं चरेत् ॥२४॥
पात्राणां शोधनं देवि श्रृणु यत्नेन साम्प्रतम् ।
इन्द्रो तदादितः सेन्दु मन्त्रेणानेन मार्जयेत् ॥२५॥
ध्रुवं मण्डलमन्त्रेण भूगृहं वृत्तवह्नियुक् ।
कुर्यात्तत्राधारशक्तिं कूर्मानन्तान् प्रपूजयेत् ॥२६॥
व्योमाग्निशक्तिसहितमस्त्रमेतत् ध्रुवादिकम् ।
अनेन मनुनाधारं स्थापयेत्तत्र मंत्रवित् ॥२७॥
वह्निमण्डलमेतस्मिन्पूजयेत्तदनन्तरम् ।
कोर्ह्दवज्रास्त्रबीजाभ्यां आधारक्षालितं शुभम् ॥२८॥
महाशङ्खं महामन्त्री स्थापयेत्पीठके ततः ।
शिवा दीर्घत्रयोपेता कालीब्रह्मरमायुता ॥२९॥
दीर्घः शचीपतिर्वायुहृदयं मन्मथान्तिमम् ।
शिवा दीर्घत्रयोपेता नीलाशब्दस्तु पूर्ववत् ॥३०॥
मायास्मरांतिमं शम्भुं वामकर्णेन्दुसंयुतम् ।
सर्वकामकालरात्रिः दीर्घालयपदान् पुनः ॥३१॥
सर्वाधाराय सर्वाय सर्वोद्भवाय शब्दतः ।
सर्वसिद्धिं समादाय सर्वासुरपदं ततः ॥३२॥
रुधिरारुणाय सुभ्राय प्रोच्चार्य सुरभाजनम् ।
आपोदेविकपालाय हृदयान्तो मनुर्मतः ॥३३॥
एभिश्चतुर्भिर्मनुभिर्महाशङ्खं प्रपूजयेत् ।
तन्त्रसारं जपन्मन्त्री मण्डलं तिग्मरोचिषः ॥३४॥
मूलेन पूरयेत्तोयं सुधाबुद्ध्या विधानवित् ।
गन्धपुष्पाक्षातान् क्षिप्त्वा त्रिखण्डं दर्शयेत्ततः ॥३५॥
पीयूषरोचिषो देवि मण्डलं तत्र पूजयेत् ।
वाचशक्ति रमेशक्ति मनुस्वरसमन्वितम् (?) ॥३६॥
मूलतृतीयं भैरव्यां क्रोधबीजसमुज्वलम् ।
अनेन मनुना मन्त्री भावयेदष्टशतं जपेत् ॥३७॥
शक्तया सुधां विनिःक्षिप्य शंखयोनिं प्रदर्शयेत् ।
विशेषार्ध्योक्तविधिना सर्वमन्यत्पुरोक्तवत् ॥३८॥
एवं यथोक्तविधिना कपालपात्रमुत्तमम् ।
अनेन पात्रवर्येण साधयेदिष्टसाधनम् ॥३९॥
वाञ्छासिद्धिं खेचरीं च परकायप्रवेशनम् ।
मनोरथं दिव्यदृष्टिर्वेतालगुटिके तथा ॥४०॥
रसं रसायनं दिव्यं पादुकां यक्षिणीगणम् ।
खङ्गसिद्धिं कुलसिद्धिं पाशं चाञ्जनमेव च ॥४१॥
मूर्त्तिसिद्धिर्भैरवाष्टमहाकपालिनी शिवे ।
कपालार्ध्येण देवेशि सर्वं सिध्यति निश्चितम् ।
इति संक्षेपतः प्रोक्तं किमन्यच्छ्रोतुमिच्छसि ॥४२॥

इति श्रीशक्तिसङ्गममहातन्त्रराजे उत्तरभागे द्वितीयखण्डे श्रीमदक्षोभ्यमहोप्रतारासंवादे कपालपात्रविधिर्नामाष्टषष्टिः पटलः ।

N/A

References : N/A
Last Updated : January 17, 2018

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP