TransLiteral Foundation
संस्कृत सूची|शास्त्रः|तंत्र शास्त्रः|श्रीशक्तिसङ्ग्मतन्त्रम्|
त्रयश्चत्वारिंशतिः पटलः ।

श्रीशक्तिसङ्ग्मतन्त्रम् - त्रयश्चत्वारिंशतिः पटलः ।

तंत्र शास्त्र भारताची एक प्राचीन विद्या आहे. तंत्र ग्रंथ भगवान शिवाच्या मुखातून प्रकट झाले आहेत. त्यांना पवित्र आणि प्रामाणिक मानले आहेत.
Tantra shastra is a secret and most powerful science of the Indian culture and religion. It is a most powerful science which Indian Rushis have practised for centuries and still it is in practise.


त्रयश्चत्वारिंशतिः पटलः ।
श्रीदेव्युवाच ।
देवदेव उमाकान्त प्राणात्प्राणतर प्रभो ।
त्वया संसूचितं पूर्व विद्यानां सिद्धिनिर्णयम् ॥१॥
तन्मे कथय देवेश यद्यहं तव वल्लभा ।
श्रीशिव उवाच ।
सारात्सारतरं देवि रहस्यमपि गोपितम् ॥२॥
तव प्रीत्या महेशानि कथ्यते श्रृणु साम्प्रतम् ।
काली तारा चिन्नमस्ता वीरसाधनमार्गतः ॥३॥
याममात्रेण सिध्यन्ति नात्र कार्या विचारणा ।
साधनारहिते देवि वर्णलक्षद्वये शिवे ॥४॥
कालिका सिद्धिदा प्रोक्ता तारा श्रीशैवतत्त्वके ।
छिन्नमस्ता चतुःषष्टिलक्षजापेन सिध्यति ॥५॥
चतुरशीतिलक्षैस्तु सुन्दरी सिद्धिदा क्कचित् ।
बाला कोट्यर्धजापेन बगला पञ्चसप्ततिः ॥६॥
श्रीएमहाराजमातङ्गी वर्णलक्षैस्तु सिध्यति ।
सिद्धविद्या महेशानि मासलक्षेण सिध्यति ॥७॥
महालक्ष्मीश्च भुवना तथा धूमावती प्रिये ।
विद्यागुणनयोगेन सिध्यन्त्येव न चान्यथा ॥८॥
विद्यामात्र महेशानि विद्यानामार्णयोगतः ।
मातकार्णकृतेनैव गुणानां भाजनं चरेत् ॥९॥
तावल्लक्षैर्महेशानि सिध्यत्येव न चान्यथा ।
भरवस्य तु योगेन शाबरं सिद्धिदायकम् ॥१०॥
निर्मित नवनाथैस्तु आदिनाथस्तु भैरवः ।
दशाविद्याक्रमे देवि दशधा फलमीरितम् ॥११॥
एको मनुश्चेत्संसिद्धस्तदा सर्वेsपि सिद्धिदाः ।
षट्पञ्चाशद्देशभेदैः शाबरे भेदभाजनम् ॥१२॥
भैरवस्य तु संयोगाच्छाबरं सिद्धिदायकम् ।
महाकालस्य संयोगाद् बटुकस्य च योगतः ॥१३॥
शाबरं सिद्धिदं देवि तच्च वै द्विविध भवेत् ।
नाथोक्तं शम्भुसम्प्रोक्तं नाथोक्तं द्विविधं भवेत् ॥१४॥
शिवोक्तरूपभेदन तत्र नाथाभिधे शिवे ।
चतुरशीतिसिद्धोक्तं नाथोक्तं द्विविधं भवेत् ॥१५॥
एका चेद्देवता सिद्धा तदा सिद्धं जगत्त्रयम् ।
तत्रापि बटुकेनैव सिद्धं स्थावरजङ्गमम् ॥१६॥
अथाद्यो हेतुबटुको द्वितीयो बटुकः स्मृतः ।
त्रिपुरान्तकबटुकस्मृतीयः परिकीर्तितः ॥१७॥
वह्निवेतालबटुकश्चतुर्थः परिकीर्तितः ।
अथाग्निजिह्वबटुकः पञ्चमः परिकीर्तितः ॥१८॥
श्रीकालवटुको देवि करालबटुकस्तथा ।
तथैकपादबटुको श्रीभीमबटुकस्तथा ॥१९॥
त्रैलोक्यबटुकश्चैव श्रीसिद्धबटुकस्तथा ।
दश वै बटुकाः ख्याताः कलौ प्रत्यक्षसिद्धिदाः ॥२०॥
मातृकासुतसंज्ञाख्या बटुकाः पूर्वमीरिताः ।
महाक्रोधस्य योगेन सिध्यन्ति किन्नरीगणाः ॥२१॥
कालिकायां महाकालश्चाक्षोभ्यस्तारिणीमनौ ।
त्रिपुरायां तु राजेशो बगलायाञ्च त्र्यम्बकः ॥२२॥
मातंग्यां तु महेशश्च भुवनेश्यं महेश्वरः ।
नारायणो महालक्ष्म्यां महादेवोsथ वा प्रिये ॥२३॥
छिन्नायां तु करालः स्यात्सिद्धायां कुक्कुटेश्वरः ।
धूम्रायां तु अघोरः स्यादिति संक्षेपतो मतम् ॥२४॥
शक्त्या विना शिवे सूक्ष्मे नाम धाम न विद्यते ।
शिवं विना चित्कलायां न कलात्वं क्कचिद्भवेत् ॥२५॥
बीजाङ्कुरन्याययोगात् शिवशक्त्यात्मकं महः ।
सदा जागर्ति देवेशि नानारूपाणि दर्शयन् ॥२६॥
सर्वभावे तु बटुको महाकालस्तथैव च ।
तारिण्यां बटुकः प्रोक्तः कल्यां कालः प्रकीर्तितः ॥२७॥
श्रीक्रोधमण्डलं देवि पातालाम्नायगोचरम् ।
यथा पराख्यमन्त्रे तु शिवशक्त्यात्मकं महः ॥२८॥
सदा जागर्ति देवेशि व्याप्त ब्रह्माण्डमण्डलम् ।
बिन्दुयुक्ता भवेच्छैवी सर्गान्ता शक्तिसंज्ञिका ॥२९॥
बिन्दुसर्गान्वितायां तु शिवशक्तिमयी कला ।
बीजाङ्कुरन्याययोगात्सदा तिष्ठति तिष्ठति ॥३०॥
वीरसाधनमार्गेण शिथिलोsपि च सिध्यति ।
शक्तिमन्त्रे शम्भुमन्त्रे शाबर गाणपे तथा ॥३१॥
कौले वौद्धे वैदिके च क्रूरमन्त्रेsपि पार्वति ।
महाविद्याक्रमे देवि सिद्धविद्याक्रमे तथा ॥३२॥
विद्याक्रमेsपि देवेशि वीरसाधनमार्गतः ।
सर्वं सिध्यति देवेशि नात्र कार्या विचारणा ॥३३॥
जीवहीने यथा जीवो मृतसञ्जीवनीक्रमात् ।
पुनर्जीवो यथा भूयात्तथा साधनयोगतः ॥३४॥
सर्वं सिध्यति देवेशि नात्र कार्या विचारणा ।
मन्त्रमात्रे महेशानि वीरसाधनमाचरेत् ॥३५॥
बटुके हनुमन्मन्त्रे गारुडे चेटकेsपि च ।
वेताले धूम्रवेताले वीरसाधनमाचरेत् ।
इति संक्षेपतः प्रोक्तं किमन्यच्छ्रोतुमिच्छसि ॥३६॥

इति श्रीशक्तिसङ्गममहातन्त्रराजे उत्तरभागे द्वितीयखण्डे श्रीमदक्षोभ्यमहोग्रतारासंवादे विद्यासिद्धिनिर्णयो नाम त्रयश्चत्वारिंशतिः पटलः ।

Translation - भाषांतर
N/A

References : N/A
Last Updated : 2016-11-11T12:48:37.1400000

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.

पंचारति

  • पांच दीपांची आरती किंवा कापूर पेटवून देवास ओबाळणें, याचे चौदा प्रकार आहेत. 
RANDOM WORD

Did you know?

विवाह जमवतांना गुणमेलनाचे महत्व काय ?
Category : Hindu - Traditions
RANDOM QUESTION
Don't follow traditions blindly or ignore them. Don't assume a superstition either. Don't be intentionally ignorant. Ask us!!
Hindu customs are all about Symbolism. Let us tell you the thought behind those traditions.
Make Informed Religious decisions.

Featured site