संस्कृत सूची|शास्त्रः|तंत्र शास्त्रः|श्रीशक्तिसङ्ग्मतन्त्रम्|
अष्टात्रिंशतिः पटलः ।

श्रीशक्तिसङ्ग्मतन्त्रम् - अष्टात्रिंशतिः पटलः ।

तंत्र शास्त्र भारताची एक प्राचीन विद्या आहे. तंत्र ग्रंथ भगवान शिवाच्या मुखातून प्रकट झाले आहेत. त्यांना पवित्र आणि प्रामाणिक मानले आहेत.
Tantra shastra is a secret and most powerful science of the Indian culture and religion. It is a most powerful science which Indian Rushis have practised for centuries and still it is in practise.


श्रीशिव उवाच ।
यः कश्चित् कुरुते वीरसाधनं सुसमाहितः ।
स प्राप्नोति परां सिद्धिं देवैरपि सुदुर्लभाम् ॥१॥
तस्मात् सर्वप्रयत्नेन कर्त्तव्यं सुसमाहितैः ।
मञ्जुघोषे चीनमार्गे स्नाननत्यादिकं शृणु ॥२॥
जानुभ्यामवनीं धृत्वा शिरसा स्पृश्य मेदिनीम् ।
उत्थाय नमनं कुर्य्यात् स्थित्वा वा परमेश्वरि ॥३॥
एष एव नमस्कारश्र्छिन्नमस्ताविधौ शिवे ।
मणिबन्धादधः पाणीः पादो गुल्फादधः शिवे ॥४॥
मुखं प्रक्षाल्य मन्त्रेण स्नानं छिन्नाविधौ स्मृतम् ।
साधनायामिदं स्नानं कर्त्तव्यमादिकारणम् ॥५॥
कथ्यते चैव वेदोक्तं नहि ध्यानमनुत्तमम् ।
भैरवेन पुरा प्रोक्तं सर्वसिद्धिकरं परम् ॥६॥
तस्मात् सर्वप्रयत्नेन कर्त्तव्या वीरसाधना ।
न स्यात् परतरं किञ्चित् विद्यते शीघ्रसिद्धिदम् ॥७॥
चितासाधनयोगेन मृतकारोहणेन वा ।
मृदुकोमलयोर्वाsपि चंडूकाचूडकेsपि वा ॥८॥
x x त्वचि त्रिमुण्डे वा पञ्चमुण्डेsयवा प्रिये ।
साधनेयं महेशानि एतेषु परिकीर्तितम् ॥९॥
श्रीविद्यायां कालिकायां तारिण्यां भरवीमनौ ।
चण्डके बगलायाञ्च साधनेयं प्रकीर्तिता ॥१०॥
वज्रोदके समारभ्य स्वरक्षान्तं महेश्वरि ।
रुद्रसंख्याsत्र मनवो मञ्जुघोषेति पार्वति ॥११॥
एतज् ज्ञात्वा महेशानि विशेषज्ञानमाचरेत् ।
ज्ञात्वा स्वगुरुवक्त्रात्तु मन्त्राचारकुलक्रमात् ॥१२॥
वीरसाधनमात्रेण सर्वसिद्धिर्भवेद् ध्रुवम् ।
सम्पाद्य सामिषान्नं तु स्वगेहे बलिमाहरेत् ॥१३॥
मधुमांसं गुडमांसं महिषच्छागकुञ्चरैः ।
ततो बलिप्रयोगार्थं पिष्टं पुष्पाद्यनेकधा ॥१४॥
गोदुग्धसंप्लुतं सर्वं कृत्वा यामोर्द्धतः शिवे ।
सार्धयामोत्तरं देवि परितः सकृदेव च ॥१५॥
शस्त्रपाणिर्निभयश्च चितास्थानं विशेषतः ।
अन्यानवेक्षकान् दूरे स्थाप्य निर्भयमानसः ॥१६॥
महावीरोरुचित्तश्च जितक्रोधो जितेन्द्रियः ।
महाबलो दयालुश्च रक्षकोsयं नरो भवेत् ॥१७॥
चितावरुणदिग्भागे चोपविश्य महेश्वरि ।
प्राड्मुखोदड्मुखो वापि यथाक्ताचमनं चरेत् ॥१८॥
दत्त्वा मूलबलिं चादौ श्रीकरालस्य सम्मते ।
ये के चात्र स्थिता देवा राक्षसाश्च भयानकाः ॥१९॥
ते प्रयच्छन्तु मां सिद्धिं ममत्वेनानुकम्पया ।
मन्त्रेणानेन तान् दत्वा षट्पात्रेषु बलिं हरेत् ॥२०॥
एकैकेन च संस्थाप्य देयं यत्नेन पार्वति ।
चतुःपात्रं चतुर्द्वारे उदगारभ्य पार्वति ॥२१॥
प्रदक्षिणक्रमेणैव पश्चिमान्तं महेश्वरि ।
बलिं दद्याद्यथोक्तेन दुग्धेनोत्सर्गमाचरेत् ॥२२॥
गोदुग्धेन विशेषेण उत्सर्गं तं समाचरेत् ।
ॐ ह्रीं श्मशानेति जंभायेमं बलिं हरेत् ॥२३॥
गृह्ण गृह्णा पयद्वन्द्वं सर्वविघ्ननिवारणम् ।
कृत्वा बलिं प्रयच्छेति द्वन्द्वं स्वाहा तता बलिः ॥२४॥
श्मशानजम्मदेवाय बलिं दत्त्वा प्रयत्नतः ।
ॐ ह्रीं भैरवभयानकेति श्मशानाधिप इत्यापि ॥२५॥
सामिषादि पूर्ववत्स्यात् स्वाहान्तो बलिरीरितः ।
ॐ हूं स्मशानदेवेति इममित्यादि पूर्ववत् ॥२६॥
ॐ ह्रीं महाकाल श्मशानाधिप इत्यपि ।
इममित्यादि देवेशि पूर्ववत्तु समुच्चरेत् ॥२७॥
ॐ ह्रूं कालपदं प्रोच्य भैरवेति स्मशान वै ।
साधनाधिपमुच्चार्य इममित्यादि पूर्ववत् ॥२८॥
प्रणवं कूर्चवीजं च स्मशानवासिनीति च ।
महाभीमे महाघोर स्वनेति च गृहाण वै ॥२९॥
इमं बलिं मातर्देहि सिद्धिमनुत्तमां वदेत् ।
ह्रीं कालिका वह्निजाया इममित्यादि पूर्ववत् ॥३०॥
महाकालसमीपे तु ततश्छागबलिद्वयम् ।
ततो यथोक्तविधिना दिक्पालेभ्यो बलिं चरेत् ॥३१॥
स्वस्वविद्याङ्गदेवेभ्यो बलिं दत्त्वा प्रयत्नतः ।
यथोक्तेन विधानेन प्राणायामं समाचरेत् ॥३२॥
षडङ्गाद्यं पूर्ववत्स्यात्स्वेष्टदेवं विचिन्त्य च ।
अव्यग्रचित्तः प्रजपेन्निर्भयः साधकोत्तमः ॥३३॥
एकाक्षरे दिक्सहस्रं द्वयक्षरे वसुसंख्यकम् ।
सहस्रं देवदेवेशि त्र्यक्षरे नियुतार्द्धकम् ॥३४॥
अष्टोत्तरसहस्त्रं च महामन्त्रे प्रकीर्तितम् ।
देवता यदि प्रत्यक्षा तदैव जपमुत्सृजेत् ॥३५॥
देवतापूजनं कृत्वा यदा देहीति भाषते ।
देववाणी तु सा देवि तदा छागबलिं हरेत् ॥३६॥
तदभावे महेशानि गुडपायसयोर्बलिः ।
वरं गृहीत्वा देवेशि सुखेन विहरेद्भुवि ॥३७॥
अत्रैव मृतके देवि पञ्चवर्षमिते शिवे ।
इयञ्च साधना कार्या महावीरमतोदिता ॥३८॥
सार्धयामोत्तरं रात्रौ मृतकस्थलसंगतः ।
चतुष्पथे नदीतीरे श्मशाने वापि पार्वति ॥३९॥
अघोमुखं तु तं कृत्वा तदाsवाहनकृन्मनुः ।
मायाबीजेन यजनं हूंबीजेनोपवेशनम् ॥४०॥
तस्योपरि महेशानि पूर्वोक्तमण्डलाष्टकम् ।
देवीपूजादिकं कृत्वा ततो बल्यादिकं चरेत् ॥४१॥
नीलक्रमेण कर्तव्यं दिक्सहस्त्रं जपं चरेत् ।
मन्त्रमात्रे महेशानि जपान्ते देवता वरा ॥४२॥
प्रत्यक्षे सति देवेशि ततश्छागबलिं हरेत् ।
देहीति भाषेत द्वंद्वं वरं गृह्य द्विधा वदेत् ॥४३॥
संस्कृतं वक्ति या चाग्रे सा देवी कीर्तिता मया ।
वीरार्गलाघोरयोश्च चक्रपाशुपतौ तथा ॥४४॥
जयदुर्गान्तं देवेशि पञ्चमन्त्राः प्रकीर्तिताः ।
सिद्धवीरक्रमो देवि मन्त्रषट्के प्रकीर्तितः ॥४५॥
गणेशे क्रूरमन्त्रे च क्रमोsयं परिकीर्तितः ।
नीलक्रमो वा देवेशि महाचीनक्रमश्च वा ॥४६॥
गन्धर्वाख्यक्रमो वापि सौभाग्यार्चनकोsपि वा ।
क्रममेतत्पुरस्कृत्य त्रैलोक्यविजयी भवेत् ॥४७॥
महानीलक्रमे स्नानं मुखं प्रक्षाल्य यत्नतः ।
कण्ठाधः स्नानमासाद्य मस्तके मार्जनं चरेत् ॥४८॥
वीरस्नानमिदं प्रोक्तं वीराणां सिद्धिदायकम् ।
वीरगुरोर्महाविद्यां प्राप्य कालानलप्रभाम् ॥४९॥
वीरजापं च देवेशि तेन सिद्धीश्वरो भवेत् ।
दिव्यगुरोर्महाविद्यां कालीं कादम्बरीनिभाम् ॥५०॥
दिवाजापेन सिद्धिः स्यान्नात्र कार्या विचारणा ।
पशुगुरोर्महाविद्यां महाकालाभ्रसन्निभाम् ॥५१॥
पशुजापेन देवेशि कलौ सिध्यति वा न वा ।
रहस्यातिरहस्यञ्च मयोक्तं गोप्यतां शिवे ।
इति संक्षेपतः प्रोक्तं मालाभेदं श्रृणु प्रिये ॥५२॥

इति श्रीशक्तिसङ्गममहातन्त्रराजे उत्तरभागे द्वितीयखण्डे श्रीमदक्षोभ्यमहोग्रतारासंवादे वीरसाधनं नामाष्टात्रिंशतिः पटलः ।

N/A

References : N/A
Last Updated : January 17, 2018

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP