TransLiteral Foundation
संस्कृत सूची|शास्त्रः|तंत्र शास्त्रः|श्रीशक्तिसङ्ग्मतन्त्रम्|
प्रथमः पटलः ।

श्रीशक्तिसङ्ग्मतन्त्रम् - प्रथमः पटलः ।

तंत्र शास्त्र भारताची एक प्राचीन विद्या आहे. तंत्र ग्रंथ भगवान शिवाच्या मुखातून प्रकट झाले आहेत. त्यांना पवित्र आणि प्रामाणिक मानले आहेत.
Tantra shastra is a secret and most powerful science of the Indian culture and religion. It is a most powerful science which Indian Rushis have practised for centuries and still it is in practise.


प्रथमः पटलः ।
आदिनाथ उवाच ।

कालि कालि महाकालि प्रिये दक्षिणकालिके ।
कादिहादिमताधीशे षष्टिसिद्धिप्रदर्शिनि ॥१॥
सब्रह्मरूपिणि शिवे रहस्यमपि कथ्यताम् ।
पूर्वं संसूचितं देवि न मह्यं कथितं त्वया ॥२॥
तन्मे कथय देवेशि यदि मे करुणा तव ।
श्रीकाल्युवाच ।
रहस्यं सर्वगोप्यं यत्तदेव कथ्यते श्रृणु ॥३॥
एकं दशं शतं देव सहस्रं त्वयुतं तथा ।
गदितं नियुतं देव तदेव लक्षवाचकम् ॥४॥
ततश्च प्रयुतं देव दशलक्षप्रवाचकम् ।
कोटिश्च दशकोटिश्च त्वर्बुदं च दशार्बुदम् ॥५॥
खर्वश्च काष्ठखर्वश्च निखर्वं दिङ्निखर्वकम् ।
जलधिश्चान्तमध्यं च वृन्दमब्जं ततः परम् ॥६॥
लयश्चैव महेशान ततः प्रोक्तो महालयः ।
शंखश्चैव महाशंखः पद्मं च महापद्मकम् ॥७॥
मुकुन्दः कुन्दनीलश्च महानीलश्च शंकर ।
मकरः कच्छपश्चैव परार्धं तदनन्तरम् ॥८॥
पारे परार्द्धं च तथा चातः संख्या न विद्यते ।
अनन्तं तत्तदग्रे स्यादित्युक्तं कालिकागमे ॥९॥
दशोत्तरक्रमाज्ज्ञेया संख्या चैषा महेश्वर ।
आगमग्रन्थसंख्या च कथ्यते श्रृणु साम्प्रतम् ॥१०॥
पंचाशद्वै महाभारो ग्रन्थसंख्या प्रकीर्तिता ।
एकं दशं शतं ज्ञेयं सहस्त्रं नियुतं तथा ॥११॥
प्रयुतमर्बुदं खर्वं वृन्दखर्वं निखर्वकम् ।
शङ्खं पद्मं समुद्रोsय मध्यमं वान्त्यमेव च ॥१२॥
पराख्यं परमे चैव परार्द्धं तत्परार्द्धकम् ।
दशोत्तरक्रमेणैव संख्या लक्षणसंग्रहे ॥१३॥
द्वात्रिंशदक्षरं यत्र स ग्रन्थेति निगद्यते ।
सैव श्लोकेति गदितस्तारनेत्रसमुद्भवः ॥१४॥
एतन्मध्ये महेशानि सर्व यामलडामराः ।
तंत्राणि त्वर्णवश्चैव चूडामणिशतत्रयम् ॥१५॥
चिन्तामणीः कल्पतरुः कल्पाः सर्वे प्रतिष्ठिताः ।
कामधेनुः पारिजातस्त्वमृतं दर्पणं तथा ॥१६॥
सोपानसंहिताश्चापि तथोपसंहितादयः ।
सांख्यायनावर्तनत्वात्तथा मूलावतारकाः ॥१७॥
पुराणान्युपसंख्यानि रहस्यानि बहूनि च ।
बृहद्रहस्योज्जाबाले हृदयानि बहूनि च ॥१८॥
कौमुद्यादीनि देवेश तथैव चन्द्रिका शिव ।
पातंजलादिकादीनि तथा सारस्वतादिकाः ॥१९॥
उपतंत्राणि सर्वाणि पर्यायम्नायकागमाः ।
बृहत्संज्ञानि देवेश यथायोगक्रमेण च ॥२०॥
उपशब्दो बृहच्छक्तिस्तन्त्रयामलगोचरः ।
श्रीशिव उवाच ।
ग्रन्थ नाम त्वया प्रोक्तं कियत्कुत्र स्थितं वद ॥२१॥
कियद्वै मर्त्यलोकेषु स्वर्गपातालयोः कियत् ।
श्रीकाल्युवाच ।
पंचाशद्वै महाभारैः षट्त्रिंशत्संख्यकं भुवि ॥२२॥
मनुसंख्या स्वर्गलोके पाताले दश वै स्थिता ।
एवमागमसन्दोहः कथितस्ते मया तव ॥२३॥
शैवं शाक्तं गाणपत्यं सौरं वैष्णवमेव च ।
महावीरं पाशुपतं वैष्णवं वीरवैष्णवम् ॥२४॥
वीरशैवं तथा चान्द्रं स्वायम्भुवमनन्तरम् ।
पांचरात्रं गारुडं च केरलं शाबरं तथा ॥२५॥
श्रीसिद्धशाबरं देव तथैव कालशाबरम् ।
कुमारीशाबरं देव विजयाशाबरं तथा ॥२६॥
कालिकाशाबरं दिव्यशाबरं वीरशाबरम् ।
श्रीनाथशाबरं देव तारिणीशाबरं परम् ॥२७॥
श्रीशम्भुशाबरं रुद्रसंख्या शाबरजातयः ।
रक्तघोरस्तथा शुक्लो घोरविण्मूत्रकस्तथा ॥२८॥
भक्षघोरस्तथा वांत्यो घोरघोरतरः स्मृतः ।
वीणाघोरस्तथा नीलः सर्वभक्षाभिधस्ततः ॥२९॥
घोराघोरस्तथा सिद्धो घोराश्चैकादश स्मृताः ।
मायाकापालिकं चापि बीरबौद्धागमौ तथा ॥३०॥
जैनागमो रक्तशुक्लपटसंबंधिजातयः ।
चीनभेदास्तु बहवो द्विशतेति प्रकीर्तिताः ॥३१॥
बौद्धानां शतभेदाः स्युर्दश पाशुपते स्मृताः ।
कौले भेदाष्टकं चाबधूतं वैदिकशास्त्रकम् ॥३२॥
यथावर्णानुधर्मेण योजनीयं प्रयत्नतः ।
येषु येषु च वर्णेषु ये ये धर्माः प्रकीर्तिताः ॥३३॥
तेषु तेषु च ते धर्मा योजनीयाः प्रयत्नतः ।
ब्राह्मणेन तथा कार्यं ब्राह्मण्यं न विनश्यति ॥३४॥
अथान्यवर्णेष्णेवं हि कर्तव्यं मृडशंकर ईश्वर ।
एतद्ग्रन्थरहस्यं च यो जानाति स चेश्वरः ॥३५॥
एतद्धि ग्रन्थबाहुल्यान्नोक्तमत्र मया तव ।
श्रीशिव उवाच ।
शिवतत्त्वें सूचितं यत्तद्वदस्व प्रियंवदे ॥३६॥
सिद्धविद्या महाविद्या लघुविद्या तथा मता ।
त्रिधातु कथ्यमाना हि पुनर्मर्त्ये न दर्शितम् ॥३७॥
तदेव कथ्यतां देवि संख्या चादौ वद प्रिये ।
श्रीकाल्युवाच ।
दश संख्या महाविद्या तस्या नामानि वच्म्यहम् ॥३८॥
सिद्धविद्या महाविद्या विद्येत्येवं गुणक्रमः ।
चतुर्युगादिरूपेण कथं सिद्धा च किंविधा ॥३९॥
का वा सिद्धाः सत्ययुगे का वा सिद्धिर्महेश्वर ।
का वा सिद्धाश्वान्ययुगे सर्वं ते कथ्यते श्रृणु ॥४०॥
सत्ययुगे सिद्धविद्या सुन्दरी भुवनेश्वरी ।
काली तरिति देवेश सिद्धविद्याः प्रकीर्तिताः ॥४१॥
कालिका सिद्धविद्या च सर्वदैव महेश्वर ।
छिन्नमस्ता च बगला मातङ्गी कमला तया ॥४२॥
एता एव महाविद्या विद्यां संश्रृणु वल्लभ ।
धूमावती भैरवी च विद्यात्वेन प्रतिष्ठिताः ॥४३॥
काली तारा महाविद्या षोडशी भुवनेश्वरी ।
भैरवी छिन्नमस्ता च विद्या धूमावती तया ॥४४॥
बगला सिद्धविद्या च मातङ्गी कमलात्मिका ।
एता एवमहाविद्याः सिद्धविद्याः प्रकीर्तिताः ॥४५॥
वीरनाथमते देव युगभेदात् त्रिधा गतिः ।
काली छिन्ना सुन्दरी च सिद्धविद्या च तारिणी ॥४६॥
बगला कमला धूमा महाविद्यान्तरं भवेत् ।
मातङ्गी भैरवी चैव त्रिपुटा शूलिनी तथा ॥४७॥
वनदुर्गा च त्वरिता विद्यात्वेन महेश्वर ।
तोतला त्रिपुटा माया कान्हेशी भ्रमरांकिका ॥४८॥
भोगवती तथा क्लिन्ना हंसारूढा च कुक्कुटी ।
त्रिकंटकी च देवेश महाविद्याः प्रकीर्तिताः ॥४९॥
नित्यामतमिदं प्रोक्त श्रृणु कुब्जामतं शिव ।
वज्रप्रस्तारिणी भोगवती पद्मावती तथा ॥५०॥
महामधुमती सिद्धिर्मृतसञ्जीविनी तथा ।
अघोरा राजमातङ्गी मातङ्गी हिंगुलाम्बिका ॥५१॥
कालरात्रीति देवेश महाविद्याः प्रकीर्तिताः ।
श्रीशिव उवाच ।
सामान्यतः छिन्नयोक्तः विशेषो बहु तत्र च ॥५२॥
मया ज्ञातोsस्ति विश्वेशि शिष्यभावं भज प्रिये ।
श्रीदेव्युवाच ।
देवेश श्रोतुमिच्छामि सिद्धविद्यादिर्निर्णयम् ॥५३॥
श्रीशिव उवाच ।
सिद्धविद्या महाविद्या भेदत्रयक्रमेण च ।
विद्यामंत्रक्रमेणैव द्विधा जातिः प्रकीर्तिता ॥५४॥
स्त्रीपुंनपुंसकत्वेन त्रिधा जातिः प्रकीर्तिता ।
चतुर्युगक्रमेणैव भेदभेदान्तरं शिवे ॥५५॥
सत्ये काली च श्रीविद्या कमला भुवनेश्वरी ।
सिद्धविद्या महेशानि त्रिशक्तिर्बगला शिवे ॥५६॥
महाविद्या सत्ययुगे मातङ्गी भैरवी शिवे ।
धूमावती च विद्या स्यात्त्रेतायां श्रृणु पार्वति ॥५७॥
काली तारा सुन्दरी च सिद्धविद्याः प्रकीर्तिताः ।
मातङ्गी भुवना लक्ष्मीर्महाविद्याः प्रकीर्तिताः ॥५८॥
धूमावती भैरवी च विद्यात्वेन महेश्वरि ।
द्वापरे कालिका तारा रोचिनी भैरवी तथा ॥५९॥
सिद्धविद्या महेशानि सुन्दरी भुवना रमा ।
धूमावती महाविद्या मातङ्गी कमला तथा ॥६०॥
विद्यात्वेन महेशानि धूमा च बगला शिवे ।
विद्यात्वेन महेशानि कलौ काली तु केवला ॥६१॥
काली तारा छिन्नमस्ता सिद्धविद्याः कलौ मता ।
सुन्दरी भैरवी लक्ष्मीर्मातङ्गी भुवनेश्वरी ॥६२॥
महाविद्या महेशानि धूमा च बगला शिवे ।
विद्यात्त्वेन महेशानि कलौ संकीर्तिता मया ॥६३॥
उन्मत्तभैरवमते भेदोsन्यः कथ्यते श्रृणु ।
काली तारा महाविद्या षोडशी भुवनेश्वरी ॥६४॥
भैरवी छिन्नमस्ता च विद्या धूमावती तथा ।
बगला सिद्धविद्या च मातङ्गी कमलाम्बिका ॥६५॥
त्रयोदश महाविद्या युगभेदात्त्रिधाsपि च ।
एता एव महाविद्याः त्रियुगं व्याप्य संस्थिताः ॥६६॥
कलौ काली कलौ काली कलौ काली तु केवला ।
साधिता कालनाथेन प्रत्यक्षा कालिका कलौ ॥६७॥
कलौ कालीं विहायाथ यः कश्चित्सिद्धिकामुकः ।
स चक्षुषा विना रूपं दर्पणे द्रष्टुमिच्छति ॥६८॥
कलौ कालीं विहायाथ यः कश्चिद्राज्यमिच्छति ।
स हि शीतनिवृत्यर्थं हिमशैलं निषेवते ॥६९॥
कलौ कालीं विहायाथ यः कश्चिन्मोक्षकामुकः ।
स भोजनं विना नूनं क्षुन्निवृत्तिमभीप्सति ॥७०॥
कलौ कालीं विहायाथ यः कश्चिच्छक्तिमिच्छति ।
स च शक्तिं विना देवि मनसा x x यथा ॥७१॥
कलौ कालीं विहायाथ यः कश्चित्भक्तिकामुकः ।
स सिद्धान्नं परित्यज्य तृणाद्भोजनमिच्छति ॥७२॥
कलौ कालीं विहायाय यःकश्चित् काम्यमिच्छति ।
स तु दुःखनिवृत्यहर्तं पापानि कुरुते सदा ॥७३॥
स दरिद्रो महामूर्खो मम द्रोही स एव तु ।
युगत्रयेsपि देवेशि कलिपूर्वेषु तत्त्वतः ॥७४॥
अन्यां विद्यामपि भजन्सिद्धिमाप्नोति मानवः ।
कालौ काली स्पर्शमणिर्नान्यविद्या कदाचन ॥७५॥
श्रीमहाकालिका विद्या कलौ पूर्णफलप्रदा ।
अज्ञानाज्ज्ञानतो वापि सलीलं वा सहेलया ॥७६॥
स्मृताsपि सिद्धिदा काली सकृदेव महेश्वरि ।
चतुर्युगानां राज्ञी वै कालिका परिकीर्तिता ॥७७॥
विद्याराज्ञी सिद्धविद्या कलौ शीघ्रफलप्रदा ।
नामैक्याद्रूपसाम्याच्च महाविद्या प्रकीर्तिता ॥७८॥
कलिर्हि यस्या दासश्च पादपूजां करोति च ।
सकृन्नम स्मृतं येन कालिकाया महेश्वरि ॥७९॥
तस्य सेवापरः सोsयं कलिबाधा न तस्य हि ।
कलिर्यच्छति वित्तानि हेमश्रीशैलभूरुहान् ॥८०॥
स्वयमागत्य यत्नेन ददाति प्रतिवासरम् ।
एतद्वै सिद्धिबाहुल्यं मया वक्तुं न शक्यते ॥८१॥
वरदानेषु च रता तेनेsयं दक्षिणा स्मृता ।
सेयं दक्षिणकाली तु सिद्धिभूमिरितीरिता ॥८२॥
कालिका षोडशी तारा वामाचारप्रिया मता ।
छिन्नमस्ता च बगला वाममार्गाधिदेवता ॥८३॥
मातङ्गयाद्या महादेवि वाममार्गेण सिद्धिदाः ।
कमला भुवना बाला तथा धूमावती शिवे ॥८४॥
दक्षिणाचारयोगेन सिद्ध्यत्येव न संशयः ।
वामाचारेणापि तथा सिध्यत्येव महेश्वरि ॥८५॥
भैरवी वामसंतुष्टा बाला दक्षिणवामगा ।
वसंतसुन्दरी विद्या तथा सङ्गीतसुन्दरी ॥८६॥
वामदक्षिणयोगेन सिध्यत्येव न संशयः ।
रेणुका दक्षिणाचारा त्वन्या देव्यश्च दक्षिणाः ॥८७॥
मर्दिनी वाममार्गेण प्रत्यक्षा भवति ध्रुवम् ।
बालायामुभयाचारः श्रीविद्यायां तथैव च ॥८८॥
लोपामुद्रा दक्षिणेति त्रिषु लोकेषु विश्रुता ।
सैव वामप्रिया देवी वामाच्छीघ्रफलप्रदा ॥८९॥
काली तारा छिन्नमस्ता सुन्दरी बगलामुखी ।
भैरवी चैव मातङ्गी वामाचारप्रिया सदा ॥९०॥
मातङ्ग्यां बगलामुख्यां दक्षिणाख्योsपि वर्तते ।
मातङ्ग्यां लघुमातङ्ग्यां सुमुखी वामतत्परा ॥९१॥
क्कचिद्गणेशरुद्रेषु विष्णुसौरस्वयम्भुवे ।
वामाचारो वैदिकेsपि भैरवा वामतत्पराः ॥९२॥
क्षेत्रपाला वामपराश्चीनाः कापालिकास्तथा ।
तथा पाशुपता देवा वाममार्गे प्रतिष्ठिताः ॥९३॥
बौद्धाश्च केरला ये च वीरवैष्णवशांभवाः ।
चान्द्रास्त्वघोरा देवेशि वामद्वारपरायणाः ॥९४॥
बार्हस्पत्यादयोsप्यन्ये भेदा वामपरायणाः ।
चीना वामपरा देवि वौद्धाचारपरायणाः ॥९५॥
गोपालसुन्दरी विद्या तथा नृसिंहसुन्दरी ।
श्रीब्रह्मसुन्दरी विद्या तथैव वामसुन्दरी ॥९६॥
सुन्दरीगणपो देवि तत्पूर्वोsपि हयाननः ।
यक्षिण्याद्याः सर्वविद्याः कामिनीयोगनायिकाः ॥९७॥
वाममार्गेण सिध्यन्ति नान्यथा सिद्धिदाःण क्कचित् ।
एवं च दक्षिणामूर्तिर्हयग्रीवगणेशयोः ॥९८॥
वामदक्षिणयोगेन उभयाचारतत्परा ।
शैवे शाक्ते गाणपते सौरे स्वायम्भुवे तथा ॥९९॥
चान्द्रे चीने पांचरात्रे वैष्णवे वेदिकेsपि च ।
कापालिके महेशानि वाममार्गोsत्र कारणम् ॥१००॥
वाममार्गप्रकारेण सर्वं सिध्यति नान्यथा ।
वाममार्गं विना देवि न हि सिध्यन्ति देवताः ॥१०१॥
तोतला तुलजा दुर्गा त्रिपुटा त्रिजटासुरी ।
वामाचारेण सिध्यन्ति दक्षिणे क्षोभकारकाः ॥१०२॥
अत्रार्थे प्रत्ययो देवि सिद्धभैरव एव च ।
अन्यथा भ्रममाणोsयं नरो भवति नान्यथा ॥१०३॥
सुन्दरी वामदक्षस्था कालिका वाममार्गगा ।
काली तारा छिन्नमस्ता सुमुखी च मतङ्गिनी ॥१०४॥
बगला देवदेवेशि वाममार्गपरायणा ।
वामाचारं विहायाथ कालीं तारा च भैरवीम् ॥१०५॥
महापिशाचिनीं देव छिन्नमस्तां विशेषतः ।
योपासनं कर्तुकामस्तस्य पातो भविष्यति ॥१०६॥
स दरिद्रो मम द्रोही सुतहारी प्रजायते ।
विशेषात्सर्वमन्त्रेषु कुलाचारः प्रकीर्तितः ॥१०७॥
तदा सिद्धाः सर्वविद्या नात्र कार्या विचारणा ।
सुरेश्वरी महाविद्या शाक्ते सर्वा महेश्वरि ॥१०८॥
मंत्रमण्डलगा विद्या वामाचारेण सिद्धिदाः ।
वामाचारेण सिध्यन्ति ह्यप्सरादिगणाः शिवे ॥१०९॥
वाममार्गं विना देवि न हि सिध्यन्ति कुत्रचित् ।
वामाचारः प्रधानोsत्र सर्वेषु दर्शनेषु च ॥११०॥
आदौ शाक्तं ततः शैवं वैष्णवं गाणपं तथा ।
सौरं चान्द्रं जैनधर्मं स्वायम्भुवमनन्तरम् ॥१११॥
वामे चान्तर्भविषन्ति चैते वैजातिजातयः ।
एवं दर्शनमार्गेsपि न हि वामे करोति चेत् ॥११२॥
तस्य सिद्धिर्न देवेशि मम वैरी प्रकीर्तितः ।
सर्वस्मादधिको वामधर्मः प्रोक्तः कुलागमे ॥११३॥
तत्रापि कालिकाताराविधौ प्रियतरः स्मृतः ।
बाममार्गं परित्यज्य यः कालीं भक्तितोsर्चयेत् ॥११४॥
तस्य क्रिया च विफला महापशुरितीरितः ।
तत्राम्नायेsपि देवेशि श्रेष्ठमध्यमभेदतः ॥११५॥
अधमस्तु तृतीयः स्यान्नितयं त्रितयं त्रिषु ।
यथाक्रमेण तत्र स्यात्तत्र श्रृणु हि चोत्तमम् ॥११६॥
षड्दर्शनादिमन्त्राणां षट्सु स्यानेषु योजनम् ॥
तत्र पूर्णाभिषेको हि पूर्णरूपः प्रकीर्तितः ॥११७॥
तत्र पर्यायभेदोsपि वाममार्गप्रधानतः ।
शैवे च वैष्णवे शाक्ते सौरे सुगतदर्शने ॥११८॥
बौद्धे पाशुपते सांख्ये मंत्रकालमुखेsपि च ।
दक्षिणे वामः सिध्यन्ति वैदिकादिष्वपि प्रिये ॥११९॥
विनालिपिशिताभ्यां तु पूजनं निष्फलं भवेत् ।
एवं दशसु विद्यासु षडाम्नाये तु वामता ॥१२०॥
मध्यमाम्नाय आख्यातः कनिष्ठं संश्रृणु प्रिये ।
कुब्जादिभेदैर्देवेशि पूर्वाम्नायादि कल्पनम् ॥१२१॥
कथितस्ते कनिष्ठोsत्र सूक्ते पूर्वं प्रकीर्तितम् ।
कादिः काली महाशक्तिर्हादिस्त्रिपुरसुन्दरी ॥१२२॥
कादिहादिप्रभेदेन द्विधाम्नायार्थसंहतिः ।
कुलार्णवे तंत्रकौले वीरचूडामणावपि ॥१२३॥
सिद्धान्ते त्रैपुराख्ये च तथा ज्ञानार्णवद्वये ।
श्रीमूर्तिसंहितांयां च तथैव समयार्णवे ॥१२४॥
एतत्तन्त्रे मुख्यधर्मो वामान्मायादिकारणम् ।
कादित्त्वाद्ब्रह्मरूपत्वं हादित्वाच्छिवरूपता ॥१२५॥
ब्रह्मरूपे महाचारे न दिवा न निशा प्रिये ।
न वा प्रयासकरणं नास्ति शुद्ध्यादिकारणम् ॥१२६॥
स्वेच्छया सर्वमेतद्धि तस्माद्विद्या महोत्तमा ।
कादिः कालीति शक्तिश्चेत्युपक्रम्य प्रकीर्तिता ॥१२७॥
कादिकाली हादिकाली कलौ काली तु केवला ।
सुन्दर्या हादिरूपत्वं शिवतां शृणु पार्वति ॥१२८॥
हादित्वाच्छिवरूपत्वं शिवरूपत्वभावना ।
कायक्लेशादिकं स्नानं न्यासपूजादिकं बहु ॥१२९॥
एवं च क्रमबाहुल्यात् कलौ सिध्यति वा न वा ।
तस्मात्सर्वयुगे देवि काली तारा फलप्रदा ॥१३०॥
सुन्दर्यां तु कुलाचारो राजसः परिकीर्तितः ।
दिव्योsपि कीर्तितो देवि काली राजसतामसौ ॥१३१॥
दिव्योsपि वीरबाहुल्यं तेन शीघ्रफलप्रदा ।
कादिस्तु कामराजो हि हादिर्लोपा परेरिता ॥१३२॥
इदं वटेशसम्मत्या पारिभाषिकमीरितम् ।
कादयो मनवः सन्ति बहवः परमेश्वरि ॥१३३॥
न तत्र कादिता कापि हादावपि महोत्तमे ।
हादयो मनवो देव षट्त्रिंशत्पद्मसंख्यकाः ॥१३४॥
न तत्र हादिता क्कापि षोडश्यामेव हादिता ।
कादित्त्वं कालिकायां च तेन प्रोक्तः कहात्मकः ॥१३५॥
काल्यामपि हादिकादिभेदाः सन्त्येव भूरिशः ।
न तत्र कादिहादित्वं लोपायां न तु हादिता ॥१३६॥
लोपायां सुन्दरीभेदः कामराजादयो यथा ।
न तत्र कादिहादित्वं हादिः श्रीषोडशी परा ॥१३७॥  
हादौ तु नियमाः प्रोक्ता यमसंयमनादयः ।
कादौ तु नियमो नास्ति स्वेच्छया धर्ममाचरेत् ॥१३८॥
नित्याश्लिष्टं कादिमतं परिभाषामयं मतम् ।
शक्तिसङ्गमनामानं महाकादिमतं शिवे ॥१३९॥
कादि हादि तद्द्वयं च त्रितयं यत्र तिष्ठति ।
चिच्छक्तिः कादिरूपा स्याद्धादिश्चज्ज्ञानगोचरा ॥१४०॥
चिदानन्दस्वरूपाख्यं शिवशक्त्यात्मकं महत् ।
शक्तेः प्राधान्यं काल्यां च सर्वदा परिकीर्तितम् ॥१४१॥
सुन्दर्यां तु क्वचित्कापि समयेषु प्रधानता ।
काल्यां शक्तिं विहायाथ यः कश्चिज्जपमाचरेत् ॥१४२॥
स दरिद्रो महादुःखी योगिनीचर्वणः स तु ।
सुन्दर्यां ब्रह्मचारित्वं काले चानन्दरूपता ॥१४३॥
एवं हि कादिहादीनां संज्ञा प्रोक्ता महेश्वरि ।
सर्वप्रपंचसिध्यर्थं गोपनार्थं महेश्वरि ॥१४४॥
गौडकेरलकाश्मीरसम्प्रदायानुसारतः ।
दीक्षा विद्याविधौ कार्या तारायां च विशेषतः ॥१४५॥
कालिकायां च सुन्दर्यां पूर्णदीक्षादि विंशतिः ।
कादिहादिमतद्वन्द्वे ह्यभिषेकविधिं चरेत् ॥१४६॥
स्वस्वविद्या गुरूणां च नामानुकूलतश्चरेत् ।
दक्षकाश्मीरगौडाख्यनानाभेदप्रविस्तरैः ॥१४७॥
अमुकानन्दनाथान्तनामाज्ञां च प्रदापयेत् ।
पूर्णाभिषेकः सुन्दर्यां षोडश्यामेव कीर्तितः ॥१४८॥
अभावे लघुषोडश्यां परिभाषामनावपि ।
राजराजेश्वरी विद्या पञ्चमी परसुन्दरी ॥१४९॥
श्रीमहाषोडशी पूर्णा पूर्वदीक्षितपूर्तिदा ।
अन्यभेदेsपि कर्तव्यं संक्षेपात्परिकीर्तितम् ॥१५०॥
तथा कामकला काली दक्षिणायामपि स्मृता ।
महाविद्यासु सर्वासु ह्यभिषेकः शुभावहः ॥१५१॥
तत्र स्वस्वमतेनैव नामदानं प्रकीर्तितम् ।
काली तारा छिन्नमस्ता त्वेकरूपास्ति पार्वति ॥१५२॥
तथा नवाक्षरी काल्यामुच्यते सृष्टिकाविधौ ।
गुह्यकाली सैव विद्या तत्त्वानां नवकैर्युता ॥१५३॥
सप्तप्रेतसमासीना महागुह्येश्वरी परा ।
दशवक्त्रा कार्यमत्र नाम ध्येयं स्वकल्पतः ॥१५४॥
गुरुणोक्तप्रकारेण सम्प्रदायानुकूलतः ।
यथा दशसु विद्यासु गुरवः सन्ति पंक्तिशः ॥ १५५॥
तथा दशसु विद्यासु षोढान्यासाः प्रकीर्तिताः ।
ते ते पूज्याः सपर्यादौ सर्वसिद्धिप्रदायकाः ॥१५६॥
सुंदर्यामपि देवेशि कामराजादिके तथा ।
स्वप्नावत्यां च लोपायां मधुमत्यादिभेदतः ॥१५७॥
सर्वत्र भिन्ननामानो गुरवः परिकीर्तिताः ।
कालीक्रमागमोक्तेन कालिका फलदा ध्रुवम् ॥१५८॥
कुलार्णवोक्तसन्मार्गात्सुन्दरी फलदा क्कचित् ।
अर्णवाः सर्वसामान्याः सर्वधर्मषु तद्गतिः ॥१५९॥
विना पूर्णाभिषेकेण कालीं तारां च सुन्दरीम् ।
ये जपन्ति नरा देवि ते नरा यमकिंकराः ॥१६०॥
तस्मातु सर्वथा कार्यस्त्वभिषेकः शुचिस्मिते ।
आम्नायैर्हादिकादीनामभिषेको ध्रुवं चरेत् ॥१६१॥
साङ्गद्वये महेशानि पुरैव कथितं मया ।
परायामपि देवेशि तत्र प्रासादयोगतः ॥१६२॥
भेदाष्टकेsपि गदिता सम्प्रदायानुकूलतः ।
आम्नायविद्याभेदेsपि ह्यभिषेकविधिः स्मृतः ॥१६३॥
दशलक्षप्रभेदैश्च कालीविद्या कलौ स्थिता ।
दशपूर्वैः सप्तलक्षैः सुन्दरी कीर्तिता भुवि ॥१६४॥
त्रिनिखर्वा तु तारा स्याच्छिन्नायाः खर्वमात्रकम् ।
पंचाशीतिसहस्रैश्च लक्षपंचकसंयुता ॥१६५॥
भुवनेशीमहाविद्यां बगलां श्रृणु सादरम् ।
तत्त्वलक्षा तु बगला सहस्रनवतिर्गता ॥१६६॥
धूमावती महाविद्या षडशीतिस्तु भैरवी ।
मातङ्गी नेत्रलक्षा च कमला लक्षपञ्चका ॥१६७॥
एते श्रृङ्खलिकायोगात्प्रस्तारात्तु विनिर्गता ।
सामान्यमुख्यभेदेsपि दीक्षानाम प्रकीर्तितम् ॥१६८॥
सप्तसप्ततिभेदेन सुन्दरी तु प्रतिष्ठिता ।
चत्त्वारिंशत्प्रभेदेन भैरवी भुवि कीर्तिता ॥१६९॥
भुवनेश्यष्टभेदा स्यान्मातङ्गी पञ्चधा स्मृता ।
कमला शतभेदा च षट्त्रिंशद्बगला स्मृता ॥१७०॥
धूमावती पञ्चभेदा तारा त्रिर्वा त्रयोदश ।
दशधा कालिका छिन्ना तथा षोडशधा स्मृता ॥१७१॥
श्रीकाल्या दशभेदानां भेदे दीक्षा प्रकीर्तिता ।
दक्षिणा सूर्ययुग्मा च स्मशाना दशधा स्मृता ॥१७२॥
भद्रकाली षोडशधा कालकाली तथाष्टधा ।
गुह्यकाली च नवधा सप्तधा कामकालिका ॥१७३॥
नवधा धनकाली च सिद्ध काली त्रयोदश ।
चन्द्रकाली विंशतिधा हंसकाली च सप्ततिः ।
एवं भेदोsपि कर्तव्यः किमन्यच्छ्रोतुमिच्छसि ॥१७४॥

इति श्रीशक्तिसङ्गममहातन्त्रराजे उत्तरभागे द्वितीयखण्ड श्रीमदक्षोभ्यमहोग्रतारासंवादे परिभाषा नाम प्रथमः पटलः ।

Translation - भाषांतर
N/A

References : N/A
Last Updated : 2016-11-11T12:48:34.6070000

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.

managed expenditure

  • व्यवस्थापित खर्च 
RANDOM WORD

Did you know?

उगवत्या सूर्याला नमस्कार, मावळत्या का नाही?
Category : Hindu - Traditions
RANDOM QUESTION
Don't follow traditions blindly or ignore them. Don't assume a superstition either. Don't be intentionally ignorant. Ask us!!
Hindu customs are all about Symbolism. Let us tell you the thought behind those traditions.
Make Informed Religious decisions.

Featured site

Ved - Puran
Ved and Puran in audio format.