TransLiteral Foundation
संस्कृत सूची|शास्त्रः|तंत्र शास्त्रः|श्रीशक्तिसङ्ग्मतन्त्रम्|
दशमः पटलः ।

श्रीशक्तिसङ्ग्मतन्त्रम् - दशमः पटलः ।

तंत्र शास्त्र भारताची एक प्राचीन विद्या आहे. तंत्र ग्रंथ भगवान शिवाच्या मुखातून प्रकट झाले आहेत. त्यांना पवित्र आणि प्रामाणिक मानले आहेत.
Tantra shastra is a secret and most powerful science of the Indian culture and religion. It is a most powerful science which Indian Rushis have practised for centuries and still it is in practise.


दशमः पटलः ।
श्रीशिव उवाच ।
अथातः संप्रवक्ष्यामि वीरसिद्धेश्वरीं पराम् ।
यस्या विज्ञानमात्रेण महाकालसमो भवेत् ॥१॥
पादुकाखङ्गवेतालधातुवादश्च यक्षिणी ।
गुटिकाञ्जनसिद्धिश्च गुप्तिश्च तिलकः शिवे ॥२॥
सर्वं संभवति क्षिप्रं नान्यथा शाङ्करं वचः ।
कालिका तारिणी छिन्ना त्रिशक्तिरिति ईरिता ॥३॥
त्रिशक्तिविषये देवि साधनेयं प्रकीर्तिता ।
मुण्डकोपासनं नाम सर्वसिद्धिप्रदायिका ॥४॥
साधना कालिकारूपा मुण्डदुर्गाsभिधातु सा ।
रणवीरं महावीरं तथा पाशगलानपि ॥५॥
शूलाप्रोतान् यष्टिविद्धान् षट्त्रिंशदस्त्रविद्धकान् ।
सर्पादिजीवनष्टान् वै गजव्याघ्रविदारितान् ॥६॥
अपमृत्युमृतान्देवि शवानाहृत्य पार्वति ।
महावीरैर्महामुण्डैर्दुर्गं कृत्वा प्रयत्नतः ॥७॥
रणवीरं समारभ्य महावीरान्तकं शिवे ।
आसनार्थं प्रकर्तव्यं परितो मुण्डदुर्गकम् ॥८॥
दिननन्दाष्टाद्रिरसैः सहस्त्रैः पञ्चभिश्च वा ।
अभावे त्रिसहस्त्रेण मुण्डदुर्गं समाचरेत् ॥९॥
तारासारूप्यचक्रं तु स्वाग्रे संलिख्य पार्वति ।
पात्रार्थं च तथात्मार्थं देवार्थमपि पार्वति ॥१०॥
स्थानं त्यक्त्वा प्रयत्नेन साधने र्गुसाधनम् ।
दुर्गेsरण्ये नदीगर्भे तडागे शून्यवेश्मनि ॥११॥
रणे श्मशाने देवेशि त्रिपथे वा चतुष्पथे ।
कुलवृक्षे चैकवृक्षे शिवदेवगृहेsथ वा ॥१२॥
एकलिङ्गे प्रयत्नेन मुण्डदुर्गं प्रसाधयेत् ।
एके संसाधिते देवि त्रैलोक्यसाधितं भवेत् ॥१३॥
वीरसाधनसामग्रीं पुरतः स्थाप्य पार्वति ।
वीरवेषो दयायुक्तो खादिरान्दशकीलकान् ॥१४॥
अन्तर्बन्धबहिर्बन्धौ कृत्वा यत्नेन पार्वति ।
वीरसाधनवत्कृत्वा सर्वं यत्नेन पार्वति ॥१५॥
यावदग्रे समायान्ति मुण्डानि परमेश्वरि ।
तावदिष्टा भवन्त्यत्र दशविद्याक्रमेण च ॥१६॥
काली तारा तथा छिन्ना सुन्दरी बगलामुखी ।
इष्टाः पञ्च विशेषेण भविष्यन्ति क्षणेन च ॥१७॥
या या बलिर्याच्यते तैः सा सा देया प्रयत्नतः ।
वरो ग्राह्यः प्रयत्नेन वीरयन्त्रप्रपूजकैः ॥१८॥
वीरजापी वीरपात्री वीरमालासनी शिवे ।
मुण्डदुर्गे नरः स्थित्वा क्षणात् त्रैलोक्यसिद्धिभाक् ॥१९॥
भीतिं तु तृणवत्कृत्वा महावीरो दिगम्बरः ।
शिवरूपो नरो भूयान्नात्र कार्या विचारणा ॥२०॥
घटीपञ्चकयोगेन सर्वसाम्राज्ययोगके ।
इष्टाः पञ्च भविष्यन्ति महाविद्यास्वरूपिणः ॥२१॥
इष्टसिद्धिं सर्वसिद्धिं प्रदास्यन्ति क्षणे क्षणे ।
गोपनीयाः कलौ देवि साधकेन हितेच्छुना ॥२२॥
गोपनीया साधनेयं स्वयोनिरिव तारिणि ।
त्रैलोक्यराज्यं सत्काव्यं महाश्रुतिधरी कला ॥२३॥
शापानुग्रहसामर्थ्यं मुण्डदुर्गभवं फलम् ।
बिन्दुं त्रिकोणं सूर्यं च ततोsष्टदलभूषितम् ॥२४॥
वृत्तं भूपुरसंयुक्तं वज्राष्टकविभूषितम् ।
बिंन्दुं सिन्दूरवर्णं च त्रिकोणं दिव्यवर्णकम् ॥२५॥
सूर्यं घुसृणवर्णं च दले वर्णाष्टकं शिवे ।
वृत्तं च कालिकावर्णं भूपुरं श्वेतवर्णकम् ॥२६॥
चतुर्वर्णं चतुर्द्वारं तारास्वाराज्यचक्रकम् ।
शूलाष्टकविभूषाढ्यं तत्रिकोणे त्रिशक्तयः ॥२७॥
तत्तद्वर्णानि बीजानि कामेशी दिक्सुरेश्वरी ।
प्रचण्डेति महेशानि महाकाली ततो दले ॥२८॥
रुद्राणी च तथोग्रा च घोरा भीमा तथाम्बिका ।
महारात्रिर्भैरवीति ततो वैरोचनाष्टकः ॥२९॥
पद्मान्तकादयः पूज्याः कुल्लकां मूर्ध्निं पूजयेत् ।
अक्षोभ्यं पूजयेत्तत्र सर्वमन्यच्च पूर्ववत् ॥३०॥
एवं कालीमयं चक्रं कृत्वा वा साधनं चरेत् ।
चतुरान् साधकान्दूरे स्वगुरून्दूरदेशकान् ॥३१॥
कृत्वा संसाधयेद्देवि किं तद्यन्न करे स्थितम् ।
इति संक्षेपतः प्रोक्तं किमन्यच्छ्रोतुमिच्छसि ॥३२॥
श्रीदेव्युवाच ।
देवेश श्रोतुमिच्छामि रहस्यातिरहस्यकम् ।
श्रीशिव उवाच ।
काली तारा तथा छिन्ना चतुर्थी सुन्दरी मता ॥३३॥
एवं दशसु विद्यासु वीरसाधनमाचरेत् ।
शैवे गाणपते चान्द्रे बौद्धे स्वायम्भुवे तथा ॥३४॥
वैष्णवे सौरमन्त्रेषु गारुडे केरलेषु च ।
एतेषु देवदेवेशि वीरसाधनमाचरेत् ।३५॥
वीरसाधनकं कर्म वैदिके नाचरेत् शिवे ।
केरलेष्वपि देवेशि वीरसाधनकं न च ॥३६॥
वैदिकेsप्याचरेद्देवि यदि वै तादृशो मनुः ।
केरलेsप्याचरेद्देवि यदि क्रूरो मनुर्भवेत् ॥३७॥
मुख्या तु साधना काल्यां तारायामपि कीर्तिता ।
या काली सैव तारा स्यात् छिन्नायामपि संमता ॥३८॥
एवं पाशुपताद्येषु वीरसाधनमाचरेत् ।
वगलाद्यासु विद्यासु वीरसाधनमाचरेत् ॥३९॥
वीरसाधनकं कर्म विहाय सिद्धिकामुकः ।
स चक्षुषा विना रूपं दर्पणे द्रष्टुमिच्छति ॥४०॥
तस्मात्तु साधना मुख्या दशविद्यासु पार्वति ।
तारिणी ब्रह्मरूपा स्यात् कालिका ब्रह्मसुन्दरी ॥४१॥
छिन्नाद्या ब्रह्मसिद्धिः स्यात् सुन्दरी ब्रह्मचिद्घना ।
एवं सर्वत्र देवेशि ब्रह्मत्वं व्याप्य तिष्ठति ॥४२॥
मुख्यत्वं सर्वविद्यासु तत्रापि कालिका कलौ ।
एकद्वित्रिविधा देवि दशधा शतधा शिवे ॥४३॥
लक्षधा कोटिधा देवि तथा चानन्तरूपिणी ।
अङ्गाङ्गकैर्नामभेदैः कालिकेति प्रगीयते ॥४४॥
सर्वद्या कालिकाशक्तिः सैव तारा च कुलुका ।
सुन्दरी छिन्नमस्ता च कालिकैव प्रकीर्तिता ॥४५॥
यावद्धि वर्णितुं शक्त्या तावत्सगुणतां गता ।
वाच्यातीता यदा जाता तदा निर्गुणतां गता ॥४६॥
जिह्वाकोटिसहस्रैस्तु वक्त्रकोटिशतैरपि ।
महिमां वर्णितुं चास्या न शक्रोमि महेश्वरि ॥४७॥
अशक्यत्वं यदा जातं तदैव ब्रह्म कीर्तितम् ।
निर्गुणत्वं तु किन्नाम वर्णनाशक्तिगोचरम् ॥४८॥

इति श्रीशक्तिसङ्गममहातन्त्रराजे उत्तरभागे द्वितीयखण्डे श्रीमदक्षोभ्यतारासंवादे वीरसिद्धेश्वरीकथनं नाम दशमः पटलः ॥

Translation - भाषांतर
N/A

References : N/A
Last Updated : 2016-11-11T12:48:35.2030000

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.

आकार दाखविणें

  • ढोंग करणें 
  • बहाणा करणें 
  • वरवर दाखविणें 
  • मिष करणें. 
RANDOM WORD

Did you know?

उगवत्या सूर्याला नमस्कार, मावळत्या का नाही?
Category : Hindu - Traditions
RANDOM QUESTION
Don't follow traditions blindly or ignore them. Don't assume a superstition either. Don't be intentionally ignorant. Ask us!!
Hindu customs are all about Symbolism. Let us tell you the thought behind those traditions.
Make Informed Religious decisions.

Featured site

Ved - Puran
Ved and Puran in audio format.