TransLiteral Foundation
संस्कृत सूची|शास्त्रः|तंत्र शास्त्रः|श्रीशक्तिसङ्ग्मतन्त्रम्|
त्रयोदशः पटलः ।

श्रीशक्तिसङ्ग्मतन्त्रम् - त्रयोदशः पटलः ।

तंत्र शास्त्र भारताची एक प्राचीन विद्या आहे. तंत्र ग्रंथ भगवान शिवाच्या मुखातून प्रकट झाले आहेत. त्यांना पवित्र आणि प्रामाणिक मानले आहेत.
Tantra shastra is a secret and most powerful science of the Indian culture and religion. It is a most powerful science which Indian Rushis have practised for centuries and still it is in practise.


त्रयोदशः पटलः ।
ईश्वर उवाच ।
कौलावधूतमार्गेषु तीर्थयात्रां न च व्रजेत् ।
तीर्थाटनं च संन्यासं व्रतधारणमेव च ॥१॥
उपवासं मुण्डनं च सर्वथा परिवर्जयेत् ।
पूर्णाभिषेकः शिरसि तेन तत्र न मुण्डनम् ॥२॥
कौलतीर्थानि भिन्नानि तत्र कौलो वसेत् सदा ।
एकस्यामेव देवेशि सन्ति पीठानि कृत्स्नशः ॥३॥
तत्पीठमधिपीठं स्यात् x x यामधिराजता ।
श्रीदेव्युवाच ।
देवेश श्रोतुमिच्छामि कौलतीर्थानि सर्वशः ॥४॥
ईश्वर उवाच ।
ब्राह्मणी तु गया प्रोक्ता राजाsयोध्या प्रकीर्तिता ।
वैश्या चावन्तिका प्रोक्ता शूद्रा तु मथुरा स्मृता ॥५॥
दासी मायापुरं देवि नटी गोदावरी मता ।
मालाकारिणिका देवि चित्रकूटं प्रकीर्तितम् ॥६॥
कुम्भकारिणिका देवि श्रीपुरं परिकीर्तितम् ।
उड्ड्यानं तु महादेवि (?) सौचिकी पौंड्रवर्धनम् ॥७॥
जालन्धरं कुविंदा च तन्तुवायी तु काञ्चिका ।
असिमार्जनिका देवि कामरूपमिति स्मृतम् ॥८॥
रजकी पुष्करं प्रोक्तं चर्मकारी तु काशिका ।
अयस्करीगृहं देवि कोलापुरमिति स्मृतम् ॥९॥
शौण्डिक्यास्तु गृहं देवि नेपालमिति कीर्तितम् ।
केदारपीठं देवेशि नापिती परिकीर्तितम् ॥१०॥
गोकर्णपीठं देवेशि त्वाष्ट्री वै परिकीर्तितम् ।
उज्जयिनी भवेत्पीठं कलादिकमितीरितम् ॥११॥
कालेश्वरी त्वञ्चुकी स्यात् कैवर्त्ती हस्तिनापुरम् ।
शौल्किकी राजगेहन्तु जयन्ती तैलकारिणी ॥१२॥
कान्यकुब्जं मागधी स्यात्सर्वत्र गृहयोजनम् ।
वेश्यागृहं प्रयागः स्याच्छ्रीशैलं तु कुमारिका ॥१३॥
कैलासपीठमाभीरी क्षीरिका पुंश्चली भवेत् ।
हिरण्याख्यपुरं देवि स्वैरिणी परिकीर्तितम् ॥१४॥
अट्टहासं च सैरन्ध्री दूतिका मरुतेश्वरम् ।
ॐकारपीठं देवेशि रण्डागृहमितीरितम् ॥१५॥
प्रतिवेशिनिकागेहं मलयं पीठमीरितम् ।
स्वजायाया गृहं देवि विरजापीठमीरितम् ॥१६॥
कुट्टन्यास्तु गृहं देवि पूर्णचन्द्रमितीरितम् ।
श्रीगारुडीगृहं देवि पीठं वै देवमातृकम् ॥१७॥
आम्रातकेश्वरं पीठं चाण्डालीगृहमीरितम् ।
पौत्रीगृहं कामकोटं प्रपौत्र्यैकाम्बरं मतम् ॥१८॥
मातुलानी अनन्तः स्यात् संविधिन्याश्चरस्थिरम् ।
राजकन्यागृहं देवि माहेन्द्रमिति कीर्तितम् ॥१९॥
कन्यागृहं कहादेवि जलेश्वरमितीरितम् ।
स्नुषागृहं मएशानि विचित्रमिति कीर्तितम् ॥२०॥
भगिन्यास्तु गृहं देवि भृगुपीठमितीरितम् ।
श्यालिकाया गृहं देवि महापथ इतीरितः ॥२१॥
यवनी गदिता देवि मेरुकागिरिरेव च ।
या स्यात् विवाहिता कन्या तद्गृहं वामनं स्मृतम् ॥२२॥
श्रीकेलिकुञ्चिकागेहं हिंगुलायाभिधं भवेत् ।
पर स्त्री बिंदुतीर्थं स्यात् सर्वतीर्थं रजस्वला ॥२३॥
तानि सर्वाणि तीर्थानि मातङ्गीसंगमे सकृत् ।
एतत्प्रोक्तं महादेवि किमन्यच्छ्रोतुमिच्छसि ॥२४॥
श्रीदेव्युवाच ।
देवेश श्रोतुमिच्छामि चतुष्पीठस्य लक्षणम् ।
श्रीशिव उवाच ।
रहस्यं च प्रवक्ष्यामि यज्ज्ञानादमरो भवेत् ॥२५॥
श्यालकस्य तु या पत्नी कुरुक्षेत्रं च तद्गृहम् ।
तत्कन्याया गृहं देवि श्रीगौरीमुखसंज्ञकम् ॥२६॥
तरुणी सुन्दरी रामा स्वभार्याभगिनी च या ।
तज्जेष्ठा च महेशानि कनिष्ठादिक्रमेण च ॥२७॥
ज्येष्ठा तु केलिकुञ्ची स्यात् कनिष्ठा केलिगेहिनी ।
चतुष्पीठानि देवेशि क्रमादुच्चरितं श्रुणु ॥२८॥
कुरुक्षेत्रं महेशानि गौरीमुखमथापरम् ।
पञ्चभद्रं केलिकुञ्ची मोहिनी पञ्चभद्रकम् ॥२९॥
तद्गोष्ठी स्तोत्रपाठो हि तत्संगप्रणतिस्तथा ।
x x स्पर्शो महेशानि श्रीघतस्थापनं मतम् ॥३०॥
तत्संयोगः पूजनञ्च तद्वाचस्तु प्रसन्नता ।
पुष्पाञ्जल्यादिकं चैव x x नाद्यं प्रकीर्तितम् ॥३१॥
कामस्थं काममध्यें च कामेन च पुटीकृतम् ।
कामस्थं योजयेत्कामं कामं कामेन योजयेत् ॥३२॥
वारं वारं तु x x x पूजनावरणक्रमः ।
तदालापस्तत्समाजः पूजा साsत्र प्रकीर्त्तिता ॥३३॥
यन्त्रं त्रिकोणमित्युक्तं तत्रस्थं परमेश्वरि ।
विसर्जनं वीजपातस्तद्धस्ता x x पूजनम् ॥३४॥
सदा तत्संयोगस्तद्ब्रह्म तद्धस्तपरिचुम्बनम् ।
उपर्यधस्तात्तत्कृत्वा तत्संयोगी नरो भवेत् ॥३५॥
चतुष्पीठसमायोगं यः करोति महेश्वरि ।
तस्य देवि प्रसन्नाsस्ति नात्र कार्या विचारणा ॥३६॥
तत्पीठे तन्मुखे x x दत्त्वा यत्नेन पार्वति ।
लिहन् जपं प्रकुर्वीत सर्वसिद्धीश्वरो भवेत् ॥३७॥
त्रिकोणामृतयोगेन कालिकां तर्पयेत्सदा ।
वाग्मिता कविता चैव तद्धस्ते सर्वदा वसेत् ॥३८॥
तच्चक्रं पुष्पसंयुक्तं वीक्ष्य यत्नेन पार्वति ।
दिक्सहस्रं जपेद्देवि सर्वसिद्धीश्वरो भवेत् ॥३९॥
संयोगीभूय सप्तव्यं चतुःप्रहरयोगस्तः ।
यथालाभं च वा कुर्याद्भगिनी श्यालिका च या ॥४०॥
केलिकञ्ची विशेषेण सा शुद्धा स्त्री विशेषतः ।
एवं क्रमेण यः कुर्यात् सर्वसिद्धिं स विन्दति ॥४१॥
इति संक्षेपतः प्रोक्तं किमन्यच्छ्रोतुमिच्छसि ।
श्रीदेव्युवाच ।
चतुष्पीठानि प्रोक्तानि संक्षेपेण महेश्वर ॥४२॥
पीठशक्तेः स्वरूपं तु ह्यनुकल्पं च मे वद ।
श्रीशिव उवाच ।
नारी त्रैलोक्यजननी नारी त्रैलोक्यरूपिणी ॥४३॥
नारी त्रिभुवनाधारा नारी देहस्वरूपिणी ।
पुंरूपं च स्त्रियो रूपं यत्किञ्चिद्रूपमुत्तमम् ॥४४॥
नारीचक्रे सर्वरूपं यत्किंचिज्जगतीगतम् ।
न च नारीसमं सौख्यं न च नारीसमा गतिः ॥४५॥
न नारीसदृशं भाग्यं न भूतं न भविष्यति ।
न नारीसदृशं राज्यं न नारीसदृशं तपः ॥४६॥
न नारीसदृशं तीर्थं न भूतं न भविष्यति ।
न नारीसदृशो योगो न नारीसदृशो जपः ॥४७॥
न नारीसदृशो योगो न भूतो न भविष्यति ।
न नारीसदृशं मंत्र न नारीसदृशो तपं ॥४८॥
न नारीसदृशं वित्तं न भूतं न भविष्यति ।
तरुणीं सुन्दरीं रम्यां यौवनोद्धतमानसाम् ॥४९॥
मदोन्मत्तां खञ्जनेत्रीं सदा x x भिलाषिणीम् ।
x x मोद्युक्तहृदयां प्रार्थयेद्विधिपूर्वकम् ॥५०॥
सर्वाभरणभूषाढ्यां षोडशाब्दां x x प्रियाम् ।
ईदृक्विधां समानीय पूर्ववत्सर्वमाचरेत् ॥५१॥
प्रसूनतूलिकायां तु संस्थाप्य परमेश्वरि ।
सर्वोपचारैः सम्पूज्य x x x x x नादिकम् ॥५२॥
साङ्गां सावरणां कालीं सम्पूज्य च प्रयत्नतः ।
स्वयमक्षोभितो भूत्वा तस्याः क्षोभं समाचरेत् ॥५३॥
तया यदुच्यते वाक्यं तत्तथैव भविष्यति ।
तद्गेहदेहस्पर्शेन पूतमेत्तच्चाराचरम् ॥५४॥
तस्या गेहे महेशानि तद्भावं च समाचरत् ।
नारीरूपं तु संचिन्त्य योगो जातेति भावयेत् ॥५५॥
योगवद्भावयेत्सर्वं तेन सिद्धीश्वरो भवेत् ।
विपरींत भाव्य जपेत्तेन सिद्धीश्वरो भवेत् ॥५६॥
स्त्रीस्वरूपः स्वयं भूत्वा स्वस्वरूपा तु कामिनी ।
कुचकज्जलसीमन्त कङ्कणाभरणानि च ॥५७॥
कृत्वा स्वदेहे सर्वं तु तस्यां पुंरूपमाचरेत् ।
यथा पुरूषसंयोगः क्रीड्यते स्त्रीत्रिकोणके ॥५८॥
तथा स्त्रिया च कर्तव्यं x x धारणपूर्वकम् ।
x x x तथा सर्वान्कुर्याद्यत्नेन पार्वति ॥५९॥
एवंविधे योगवरे दीक्षायोगं समाचरेत् ।
सर्वं सफलतां याति कालीविद्याप्रसादतः ॥६०॥
गोपनीयं गोपनीयं गोपनीयं प्रयत्नतः ।
इति संक्षेपतः प्रोक्तं किमन्यच्छ्रोतुमिच्छसि ॥६१॥
श्रीदेव्युवाच ।
सहस्र x x सन्दर्शान्मुक्तो भवति मानवः ।
सहस्र x x सन्दर्शाद्देवतादर्शनं ध्रुवम् ।
चतुष्पीठानि प्रोक्तानि साधनं चिन्तनं वदं ॥६२॥
श्रीशिव उवाच ।
श्यालकस्य च या भार्या कुरुक्षेत्रं प्रकीर्तितम् ।
तत्कन्यायास्त्रि x x च गौरीमुखमितीरितम् ॥६३॥
शालिकायास्त्रिः x x यत्पञ्चभद्राभिधं च तत् ।
भार्या ज्येष्ठा तु या प्रोक्ता सा चात्र केलिकुञ्चिका ॥६४॥
तस्या x x विश्वभद्रं सर्वपीठोत्तमोत्तमम् ।
एतासां व्यभिचारेण नामान्यन्यानि संश्रृणु ॥६५॥
स्वर्गद्वारं कामबिलं महापथाभिधं परम् ।
वाञ्छामणिश्चतुर्थं स्याश्चतुष्पीठानि पार्वति ॥६६॥
वर्षषोडशपर्यन्तं पूर्वा पुण्योद्भवा मता ।
द्वात्रिंशद्वर्षपर्यन्तममृतान्दोलिका मता ॥६७॥
ततोsष्टवर्षपर्यन्तं सुधासागरनामकम् ।
ततो दिग्वर्षपर्यन्तमानन्दव्रतनामकम् ॥६८॥
पूर्वाषोडशपर्यन्तं महासिद्धिमुखाभिधम् ।
पञ्चपीठानि पूर्वं स्यादधिराजक्रमेण च ॥६९॥
तत्कन्याया महेशानि श्रृणु यत्नेन साम्प्रतम् ।
अथाषोडशपर्यन्तं योगवीणा प्रकीर्तिता ॥७०॥
पुष्पिता चेद्धि ब्रह्माण्डं कीर्तितं वै चतुष्ककम् ।
द्वात्रिंशद्वर्षपर्यन्तं साम्राज्यगुटिकाभिधा ॥७१॥
ततोsष्तवर्षपर्यन्तमानन्दतूलिका मता ।
ततो दिग्वर्षपर्यन्तं सौभाग्यकमलं भवेत् ॥७२॥
अथ श्रीशक्तिकागेहलक्षणं श्रुणु पार्वति ।
अथाषोडशपर्यन्तं महासाम्राज्यमण्डपम् ॥७३॥
स्वाराज्यमण्डलं देवि तदनन्तरगं भवेत् ।
वैराज्यमण्डलं देवि ततः सर्वज्ञपीठकम् ॥७४॥
पूर्वाषोडशपर्यन्तं द्वे प्रोक्ते ऋद्धिकामुकम् ।
सर्वसिद्धिप्रदा देव्याः केलिकुञ्च्याः प्रकौर्तिता ॥७५॥
पूर्वाषोडशपर्यन्तं विश्वरूपाभिधं भवेत् ।
षोडशोत्तरगं देवि षष्टिसिध्द्यभिधं भवेत् ॥७६॥
द्वात्रिंशदुत्तरं देवि सुन्दरीमोहनाभिधम् ।
श्रीकालीमोहनाख्यं तु तदनन्तरमीरितम् ॥७७॥
चतुर्णामपि पुष्पे चेत्पुष्पिणीयोगमाहरेतू ।
रूढिजातिक्रिया चेत्स्यादधिराजाधिपं जपेत् ॥७८॥
पीठानि कथितान्यत्र रूपगन्धननाम च ।
प्रदद्याद्यत्नतो देवि परादिक्रमतोsपि वा ॥७९॥
स्त्रीमात्रे परमेशानि योगोsयं विनिवेद्यताम् ।
साधको देवदेवेशि निर्विकल्पो जितेन्द्रियः ॥८०॥
कामक्रोधादिरहितो घृणालज्जाविवर्जितः ।
x    x    x    x ॥८१॥
x    x    x    x ।
दृष्टदोषेsपि देवेशि मनःक्षोभं न कारयेत् ॥८२॥
कृतमन्येन x x x x x x स्वस्य पार्वति ।
निरन्तरं कृतं द्वित्रर्दशपञ्चभिरेव वा ॥८३॥
एवं ज्ञात्वाsपि देवेशि विकाररहितो यदि ।
ईदृग्विधो निर्विकल्पः साधनार्हो न चान्यथा ॥८४॥
यदि दैववशाद्देवि x x चेद्वयभिचारिणी ।
तथापि तस्याः सन्तोषं कारयेद्यत्नतः शिवे ॥८५॥
अन्यथा नरकी भूयान्नात्र कार्या विचारणा ।
सैव सृष्टिर्जगद्धात्री सैव कारणमीश्वरी ॥८६॥
तस्या निवारणं देवि कर्तुं केनात्र शक्यते ।
तया यत्कियते देवि सर्वं सन्तोषरूपकम् ॥८७॥
मन्यमानो महेशानि साधको भवति ध्रवम् ।
केलिकुञ्चीं महादिव्यां सर्वलक्षणसंयुताम् ॥८८॥
तारुण्यामृतसंयुक्तां भावयेत् पूजयेत्सदा ।
कादिहादिक्रमेणैव सर्वं सम्पादयेद्ध्रुवम् ॥८९॥
x x x सा चेत्तदा काली प्रकीर्तिता ।
गन्धरूपयुता स्यात् चेत्सिद्धविद्यादिरूपिणी ॥९०॥    
शयने सुन्दरी प्रोक्ता रतिगोष्ठीषु तारिणी ।
छिन्ना x xतु देवेशि माने हि बगला मता ॥९१॥
श्रृङ्गारकरणे देवि महालक्ष्मीः प्रकीर्तिता ।
तस्याः समाकारणञ्च मातङ्गी परिकीर्तिता ॥९२॥
संयोगवार्ता भुवना निद्रार्ता भैरवी मता ।
सर्वान्तरायो देवेशि दूरात्सन्दृश्यते यदि ॥९३॥
हस्तेनायाति चेत् सा वै तदा धूमावती भवेत् ।
स्वेच्छा x x स्पर्शकाली स्वेच्छया तु विपर्यते ॥९४॥
श्रीमहादक्षिणाकाली महासाम्राज्यनायिका ।
स्वेच्छादौ चेत्पुष्पयुक्ता श्रीमहाकामकालिका ॥९५॥
बला x x सिद्धिकाली संक्षेपादिदमीरितम् ।
स्त्रीमात्रे योजनीयं हि केलिकुञ्च्यां विशेषतः ॥९६॥
आमूलात्नं च संवीक्ष्य सप्त x x x योगतः ।
ओष्ठं x x नेत्रयुग्मं कपोले भालदेशके ॥९७॥
x x सप्तममादिष्टं तेन सिद्धीश्वरो भवेत् ।
हस्ताहस्तितया धृत्वा दिक्सहस्रं जपेन्मनुम् ॥९८॥
कालिका वरदा तस्य नात्र कार्या विचारणा ।
x x x समाचर्यं सहस्रं त्रिदिनं जपेत् ॥९९॥
त्रिकालज्ञो भवेद्देवि नात्र कार्या विचारणा ।
x x x x x x दशसाहस्रकं जपेत् ॥१००॥
साधकः साधनासक्तः कल्पद्रुमसमो भवेत् ।
x    x    x    x    x    x    ॥१०१॥
दश साहस्रकं जप्त्वा दशविद्याधिपो भवेत् ।
मुखे x x तु संदत्त्वा सहस्रदशकं जपेत ॥१०२॥
महाकविवरो भूत्वा वादिराजो भवेद्ध्रुवम् ।
चामरं रविबिम्बञ्च त्रिसूत्र    ञ्च सरोरुहम् ॥१०३॥
तिलपुष्पं चन्द्रबिम्बं खञ्जरीटं च पार्वति ।
पृथ्वीं विकसितां x x दश स्थानानि पार्वति ॥१०४॥
प्रत्येकं दिक्सहस्रं च प्रजपेत्कालिकामनुम् ।
कालिका वरदा तस्य क्षणमात्रेण जायते ॥१०५॥
सर्वाभावे स्वस्त्रियां च कर्तव्यं साधनं वरम् ।
चतुष्कपीठाभावे तु तत्तन्नामानि कल्पयेत् ॥१०६॥
गन्धर्वोद्वाहयोगेन मौल्येनापि महेश्वरि ।
द्रव्यदानेन देवेशि मननं कारयेत्प्रिये ॥१०७॥
मननाज्जायते माता वरदात्री न संशयः ।
प्रसूनतूलिकां कृत्वा उच्चस्थाने निधापयेत् ॥१०६॥
गन्धर्वोद्वाहयोगेन मौल्येनापि महेश्वरि ।
द्रव्यदानेन देवेशि मननं कारयेत्प्रिये ॥१०७॥
मननाज्जायते माता वरदात्री न संशयः ।
प्रसूनतूलिकां कृत्वा उच्चस्थाने निधापयेत् ॥१०८॥
पात्रासादनकं कृत्वा पूजाद्रव्याणी चानयेत् ।
पञ्चषोढापरो भूत्वा तस्यां न्यासादिकं चरेत् ॥१०९॥
साsपि चेत्स्यात् मतङ्गोत्था साsपि प्रथम x x x ।
अथवा केलिकुञ्चादि प्रतिमासादि x x x ॥११०॥
यदि भाग्यवशाद्देवि लभ्यते वा न लभ्यते ।
दीक्षितां देवताभक्तां घृणालज्जाविवर्जिताम् ॥१११॥
जपासक्तां समासाद्य सर्वं संसाधयेच्छिवे ।
तस्यां न्यासादिकं कृत्वा कामसोमकलादिकान् ॥११२॥
केशसंमार्जनं कृत्वा उपचारान् प्रकल्पयेत् ।
स्पर्शं कृत्वा जपं कुर्याद् x x x पूजनाद्भवेत् ॥११३॥
साङ्गां सावरणां कालीं सम्पूज्य परिभाव्य च ।
पूजासमाप्तौ देवेशि x x x x x x x पूजनाद्भवेत् ॥११४॥
यथासंख्यं जपेत्तत्र x x x x विकाशयेत् ।
x    x    x    x    x    x    ॥ ११५॥
x    x    x    x    सहस्रं तत्र संजपेत् ।
x    x    x    x    x    x    ॥११६॥
तया यदुक्तं देवेशि तदेव कारयेद्ध्रुवम् ।
पूजां जानीहि देवेशि तयोक्तं योगमाचरेत् ॥११७॥
योगं कृत्वा x x x तु तत्र यन्त्रं विलिख्य च ।
तत्सर्वं प्रलिहन् देवि जपं कुर्यादनन्यधीः ॥११८॥
पूजाजपो होमकर्म तर्पणं मार्जनं तथा ।
द्विजानां भोजनं चैव सर्वदा यत्र तिष्ठति ॥११९॥
शय्याभंगो भवेत्पूजा जपो जल्पः प्रकीर्तितः ।
प्रवेशनं होमकर्म तर्पणं xxx भवेत् ॥१२०॥
तत्क्षालनं मार्जनं स्याद् दर्शनं द्विजभोजनम् ।
ईदृग्विधं महापीठं स्वयम्भूसंज्ञकं परम् ॥१२१॥
यस्य दर्शनमात्रेण यावन्त्यः सन्ति सिद्धयः ।
स्वयमागत्व दासत्वं कुर्वन्त्येव न संशयः ॥१२२॥
अनन्तयुगपर्यन्तं वीरसाधनकोटयः ।
कृता येन महेशानि तत्तुल्यं निमिषाद्भवेत् ॥१२३॥
इति प्रोक्तं षष्ठिसिद्धिदातृसाधनमुत्तमम् ।
त्रिसहस्रं वेदशतं षट्पञ्चाशत्तु कीर्तितम् ॥१२४॥
सूर्यसाहस्रकं देवि तथा कलाशतं शिवे ।
द्विशतं पंचसङ्ख्यं तु नायिकाकुलमीरितम् ॥१२५॥
रहस्यातिरहस्यं च गोपनीयं स्वयोनिवत् ।
वर्षादभूपो भवेत्सोहि नात्र कार्या विचारणा ॥१२६॥
स एव कालीरूपः स्यान्नात्र कार्या विचारणा ।
अथ वक्ष्ये महेशानि यौवनाङ्कुरमादितः ॥१२७॥
सहस्रं च शतं नेत्रपञ्चाशदधिकं शिवे ।
दिव्यादिव्ये च तद्द्वये चित्रिण्यादिक्रमेण च ॥१२८॥
त्रैलोक्यभुवनान्येव तीर्थानि पीठपर्वताः ।
पुरी वनानि ग्रामाश्च द्वीपाश्चैव क्रमेण च ॥१२९॥
सागराश्च महापुर्यः समुद्राश्च प्रकीर्तिताः ।
तथा नद्यादि देवेशि देशपर्यायतीर्थकम् ॥१३०॥
क्रेमेण योज्यतां देवि नात्र कार्या विचारणा ।
सुन्दरीपीठभेदं च वनानि वाटिकास्तथा ॥१३१॥
प्राकाराश्चैव सोपानं नायिकाभेदतश्चरेत् ।
चत्वारो नायिका देवि व्यत्ययात्प्रतवाचकाः ॥१३२॥
ब्रह्माण्डमेतद्देवेशि स्त्रीदेहे तिष्ठति प्रिये ।
ब्रह्माण्डानामनन्तं च स्त्रीदेहे स्फुटमेव च ॥१३३॥
स्त्रीरूपं च जगत्सर्वं यत्किञ्चिज्जगतीगतम् ।
तद्रूपपूजनाद्देवि पूजिताः सर्वयोषितः ॥१३४॥
महाविद्याश्च योगिन्यो मातृकाः सर्वदेवताः ।
यथायोग्य्स्थानपीठे निवसंत्येव पार्वति ॥१३५॥
शास्त्रात्सर्वं तु विज्ञाय यथायोगेन योजयेत् ।
पूर्वोक्तमत्र पशूनां दिव्यानामेतदेव तु ॥१३६॥
वीराणामपि च तथा दिव्ये वीरे न भेदता ।
समस्तज्ञानसंयोगाद् ब्रह्माण्डाख्यप्रदक्षिणा ॥१३७॥
पृथ्वीप्रदक्षिणा देवि पशूनां परिकीर्तिता ।
सा पृथ्वी शक्तियोनिः स्यात्रैलोक्यं योनिमध्यगम् ॥१३८॥
x x प्रदक्षिणा देवि वीराणां परिकीर्तिता ।
गुप्ता व्यक्ता द्विधा देवि पृथिवी परिकीर्तिता ॥१३९॥
व्यक्ता गुप्ता महापुण्या तत्प्रदक्षिणमाचरेत् ।
सर्वश्रेष्ठा महादेवि ब्रह्माण्डाख्यप्रदक्षिणा ॥१४०॥
पादमात्रकृते देवि परशम्भुः सदाशिवः ।
शिव एव विजानाति फलबाहुल्यमत्र तु ॥१४१॥
स्मरणाद्भाषणाद्देवि त्रैलोक्यं पूजितं भवेत् ।
शक्तिxxx संप्रोक्तः शैव तु विरतो भवेत् ॥१४२॥
एतस्य लोपनाल्लोपा वृद्धावस्था प्रकीर्तिता ।
शक्तिस्तारुण्यवाटी स्यान्नाभिकूपः प्रकीर्तितः ॥१४३॥
x x घटौ महेशानि हास्यं पुष्पं प्रकीर्तितम् ।
कामो द्वारं महेशानि तथा दशरसा शिवे ॥१४४॥
नेत्रस्थानपञ्चकेन तिष्ठति परमेश्वरि ।
सामरस्यरसो ब्रह्म स एवात्मा प्रकीर्तितः ॥१४५॥
तद्वादनं ध्वनिः प्रोक्तस्तद्रसस्त्वमृतार्णवः ।
उद्दीपनाxxxxस्तु सुगन्धः परिकीर्तितः ॥१४६॥
मानसं भ्रामरं प्रोक्तं गतयः पक्षिणः स्मृताः ।
मृगपश्वादिभेदानां गतयः परकीर्तिताः ॥१४७॥
रागतालाश्च रागिण्यस्तद्वार्तालापनं भवेत् ।
सर्वे हावाश्च देवेशि उत्त्खातारोपणं मतम् ॥१४८॥
स्थायीभावाः सेचने स्याद्विभावाश्चावलोकनम् ।
स्थानात्स्थानान्तरे यानमनुभावाः प्रकीर्तिताः ॥१४९॥
मालाकारो वसन्तः स्यात्कटाक्षाः कामनिर्मिताः ।
नवोढप्रौढपध्यादि एकद्वित्र्यावलिर्मता ॥१५०॥
मालात्रुटिर्भवेन्मानो तन्नतिर्हा नायकः ।
मालत्यादीनि पुष्पाणि रतिहासी भवन्ति च ॥१५१॥
xxन्तहासे देवेशि सौगन्धे केशरादिकम् ।
एवं सर्वं तु विज्ञाय पञ्चगन्धाद्यकं शिवे ॥१५२॥
तद्धर्मस्तु महेशानि मयाsत्र परिकीर्तितः ।
तद्वार्ताsनुग्रह क्रोधः शापश्च परिकीर्तितः ॥१५३॥
तुष्टिः प्रसन्नता प्रोक्ता निन्दा क्षोभः प्रकीर्तितः ।
ताटस्थ्यं चैव वैमुख्यं शक्तिरूपं प्रकीर्तितम् ॥१५४॥
आग्नेयी स्वर्ग इत्युक्तः सौरीया नरलोकता ॥१५५॥
चान्द्री पाताललोकत्वं त्रैलोक्यं कोणमध्यके ।
बिन्दुधर्मस्तु पर्जन्यः सर्वं संक्षेपतो मतम् ॥१५६॥
शयनं क्रीडनं नाट्यं काव्यं तद्रूपचिन्तनम् ।
काव्यालापाश्च ये केचिन्द्रीतकाव्याखिलानि च ॥१५७॥
शब्दमूर्तिधरस्यैते विष्णोरंशा महात्मनः ।
पुनः पुनः किं वक्तव्यं त्रैलोक्यं तन्मयं भवेत् ॥१५८॥
चतुर्विंशतिवाद्यानि संयोगध्वनिरेव च ।
कराकृष्टिर्मूर्छना स्यात् x x x मोचनं शिवे ॥१५९॥
प्रोक्तः स्वर्गो महेशानि प्रवेशो मोक्ष एव च ।
अन्यत्र निर्गमो मोक्शो मूढानां दुःखभागिनाम् ॥१६०॥
एतदज्ञानतो देवि फलं संसारजं शिवे ।
अज्ञानादपि देवेशि फलमेवं प्रयच्छति ॥१६१॥
ज्ञानादेव महेशानि किंतद्यन्न करे स्थितम् ।
त्रिंशदर्वुदषट्पद्मपञ्चवृन्दार्बुदानि च ॥१६२॥
मेधादीक्षादिभिर्युक्तस्तस्य ज्ञानं प्रकाशते ।
ज्ञानात् कीटोsपि निर्मुक्तस्तद्योगं श्रृणु पार्वति ॥१६३॥
जीवः कीटः पुरा भूत्वा भ्रमरं पश्यति प्रिये ।
तदालोकनसद्भावाद् भ्रमरत्वं प्रजायते ॥१६४॥
पुनः कीटो न हि भवेत्तारुण्यरूपतां गतः ।
शून्यस्य भावना देवि शून्यरूपो हि नीरसः ॥१६५॥
यथा भवति देवेशि भावयोगोsत्र कारणम् ।
ब्रह्माण्डरूपा या शक्तिः परब्रह्मस्वरूपिणी ॥१६६॥
चिच्छक्तिरिति विज्ञाता शून्यं तस्यास्तु कोणगम् ।
अनन्तकोटिसंख्याता भ्रमरा यन्मुखोद्भवाः ॥१६७॥
तस्याः परस्वरूपिण्याः सद्भावं तु समभ्यसेत् ।
सुगमोsयं परो भावश्चेतनापुरुषोsपि वा ॥१६८॥
शिवरूपः स च प्रोक्तः सर्वसिद्धिर्महेश्वरि ।
भावयोगद्भवेन्मेधादीक्षा सर्वोत्तमोत्तमा ॥१६९॥
आदौ कामकला प्रोक्ता तत्र चिन्तामणिर्भवेत् ।
ततो बाला स्पर्शमणिः कामेशी सिद्धकालिका ॥१७०॥
विद्याराज्ञी षोडशी च पश्यन्ती कामकालिका ।
चरणेशी हंसकाली चतुश्चरणरूपिणी ॥१७१॥
कुब्जिका गुह्यकाली च मेधादीक्षा समाचरेत् ।
उभयत्र क्रमान्मेधादीक्षा प्रोक्ता महेश्वरि ॥१७२॥
द्वितीये दीक्षितो यस्तु महामेधाभिधो भवेत् ।
जीवः कीटः पुरा भूत्वा भॄंगित्वमभिगच्छति ॥१७३॥
ततः षट्चक्रसम्भेदं कृत्वा तद्रसभुग्भवेत्।
तत्तद्योगे महेशानि स्थापिते यन्त्रपीठके ॥१७४॥
तेन मन्त्रान् लिखेद्देवि तस्योच्चारणमाचरेत् ।
मन्त्ररूपो भवेत्तेन साम्राण्मेधा प्रकीर्तिता ॥१७५॥
स्वयं शक्तिस्तद्द्वयं च शक्तिस्वक्रमयोगतः ।
शैवशाक्ते शाक्तशैवे तद्द्वयक्रमयोगतः ॥१७६॥
चक्राणि चैव विज्ञाय उक्तमार्गेण पार्वति ।
चक्राणि चैव निर्भिद्य स्वरूपं तत्स्वरूपकम् ॥१७७॥
न कीटत्वं न भृंगित्वं स्वरूपेणैव देवता ।
देवतारूपभावेन क्षणात्तद्रूपतां ब्रजेत् ॥१७८॥
अर्धनारीश्वराख्यो हि स्वर्ध्वयोगः प्रकीर्तितः ।
ब्रह्मनारीश्वराखोsयं महायोगः प्रकीर्तितः ॥१७९॥
दिव्यसाम्राज्यमेधाख्या दीक्षा प्रोक्ता ततः शिवे ।
देवरूपा दिव्यरूपा मन्त्ररूपा महत्परा ॥१८०॥
सर्वरूपा सर्वपूर्वा महासाम्राज्यमेधया ।
युक्ता दीक्षा मया प्रोक्ता बिन्दुवत् गोपयेत् कलौ ॥१८१॥
एतद्दीक्षोत्तरं देवि नान्यदीक्षाsस्ति कुत्रचित् ।
अर्द्धं शिवो विजानाति काली जानाति पूर्णतः ॥१८२॥
गुह्यकाल्यां सर्वमेतत्कुब्जिका सुन्दरी त्वतः ।
कादिहादित्वकं सर्वं देवि तत्र प्रतिष्ठितम् ॥१८३॥
नवतत्त्वा महाविद्या नवचक्रेश्वरी परा ।
एतद्देक्षासमायुक्तः केरली परिकीर्तितः ॥१८४॥
चक्षुष्मत्याद्येतदन्तं केरली षष्टिसिद्धिभाक् ।
मेधान्ता गदिता सिद्धिः सम्राड्युक्ता मनोमयी ॥१८५॥
चक्षुरुपान्तसंयुक्तः काश्मिरी तत्त्वसिद्धिभाक् ।
नेत्रादिपूर्णदीक्षान्तो गौड इत्याभिधीयते ॥१८६॥
अष्टसिद्धीश्वरः प्रोक्तः कला चन्द्रे कलानि च ।
पात्राणि पूजने देवि यथायोगेन योजयेत् ॥१८७॥
पंच वा परमेशानि गौडे दारिद्र्यकल्पना ।
शक्तिर्मेधामयी प्रोक्ता तद्योगं च समभ्यसेत् ॥१८८॥
दिव्ययोगो महेशानि तवाग्रेsयं प्रकीर्तितः ।
दिव्यचक्रे जीवचक्रे शालिग्रामे तथैव च ॥१८९॥
बाणलिङ्गे महेशानि नावाहनविसर्जनम् ।
प्रत्यक्षरूपाण्येतानि देवास्तिष्ठन्ति सर्वदा ॥१९०॥
अग्नौ दीपशिखामध्ये जले च दर्पणेsपि च ।
सूर्यविम्बे चन्द्रविम्बे शालिग्रामशिलासु च ॥१९१॥
स्फाटिके देवदेवेशि सदैवावाह्य पूजयेत् ।
यन्त्रं तु गृहमित्युक्तं बिन्दुः सिंहासनं भवेत् ॥१९२॥
शालिग्रामो भवेद्गेहश्चक्राणि पीठसंचयः ।
चक्रयुक्ते चक्रमध्ये हीने चोपरि भावयेत् ॥१९३॥
बाणलिङ्गे स्फाटिकेsपि हीरमारकते तथा ।
तस्योपरि विभाव्याsथ पूजयेद्यत्नतः शिवे ॥१९४॥
शालिग्रामे जीवचक्र सर्वान्देवान् प्रपूजयेत् ।
यो भावो यस्य वै प्रोक्तस्तेन भावेन तिष्ठति ॥१९५॥
पुष्पमेकतमं स्थाप्य पूजयेत्परमेश्वरीम् ।
वीजयुक्तं तु यद्यन्त्रं तद्यन्त्रं सिद्धिरूपकम् ॥१९६॥
शालिग्रामोsथवा यन्त्रं स्थाप्य चैकतमं शिवे ।
दिव्यचक्रं यदा प्राप्तं जीवचक्रं तदा न च ॥१९७॥
जीवचक्रं यदा प्राप्तं बाणलिङ्गं न चार्चयेत् ।
बाणलिङ्गं यदा प्राप्तं शालिग्रामस्तदा न वै ॥१९८॥
शालिग्रामो यदाप्राप्तस्तदाsन्यत्र न पूजयेत् ।
शालिग्रामं तथा यन्त्रं द्वयमेकत्र नार्चयेत् ॥१९९॥
पञ्चायतनपक्षी चेद् द्वितीयं पूजयेत्सदा ।
एकपीठे पृथक् पूजां विना यन्त्रं करोति यः ॥२००॥
देवताशापमाप्नोति रौरवं नरकं व्रजेत् ।
शालिग्रामे तथा यन्त्रे विद्यमाने महेश्वरि ॥२०१॥
देवः कुत्र वसेद्देवि स्थानद्वितयकं भवेत् ।
शालिग्रामो भवेद्यन्त्रं शालिग्रामो गृहं भवेत् ॥२०२॥
यन्त्र तु गृहमित्युक्तं गृहस्था देवता मताः ।
प्रतिमा वा प्रकर्तव्या यथोक्ता शुभलक्षणा ॥२०३॥
शालिग्रामे तथा यन्त्रे सहसैव प्रसीदति ।
जीवचक्रे महेशानि प्रसन्नाsस्ति निरन्तरम् ॥२०४॥
जीवचक्रस्य विज्ञानी कलौ दुर्लभ एव च ।
बालुकायां भवेत्तैलं वन्ध्या पुत्रं प्रसूयते ॥२०५॥
खपुष्पमति जायेत अयोनिर्मनुजोsपि वा ।
जीवचक्रस्य विज्ञानी कलौ क्कापि न वै भवेत् ॥२०६॥
अग्रस्थानं परित्यज्य भिक्षामटति दुर्मतिः ।
तथा जीवं परित्यज्य परिधावति धावति ॥२०७॥
अहो जीवस्य विज्ञानी शिवतुल्यो नरो भवेत् ।
पश्यन् लिहन् स्पृशन् x x x भजन् ध्यायन् महेश्वरि ॥२०८॥
यो जपेत्परमेशानि शिवतुल्यो नरो भवेत् ।
जीव जीवेन युज्जीत जीव जीवेन योजयेत् ॥२०९॥
जीवं जीवेन संयोज्य जीवन्मुक्तो नरो भवेत् ।
अहो धन्यात्परो देवि जीवचक्री नरोत्तमः ॥२१०॥
आनन्दात्मा घनान्दात्मा ज्ञानात्मा परमात्मवित् ।
विज्ञानात्मा भवेद्देवि सकृज्जीवस्य दर्शकः ॥२११॥
जीवचक्रं मुखे धृत्वा लक्षं जपति वादिराट् ।
तद्रसं x x x x देवि लक्षं जपति कालिका ॥२१२॥
जिह्वां दत्त्वा जपेल्लक्षं शक्तिपातकरो भवेत् ।
x x दत्त्वा जपेल्लक्षं सर्वज्ञः साधको भवेत् ॥२१३॥
आलोक्य प्रजपेल्लक्षं कविराट् साधको भवेत् ।
x x दत्त्वा जीवचक्रे सप्तचम्बुनविद्ध्रुवम् ॥२१४॥
x x मुखं प्रदत्त्वा तु लक्षं जपति शङ्करः ।
इति संक्षेपतः प्रोक्तं किमन्यच्छ्रोतुमिच्छसि ॥२१५॥

इति श्रीशक्तिसङ्गममहातन्त्रराजे उत्तरभागे द्वितीयखण्डे श्रीमदक्षोभ्यमहोग्रतारासंवादे कौलतीर्थविनिर्णयो नाम त्रयोदशः पटलः ।

Translation - भाषांतर
N/A

References : N/A
Last Updated : 2016-11-11T12:48:35.3730000

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.

Controlling officer

  • नियंत्रक अधिकारी 
RANDOM WORD

Did you know?

श्रीयंत्र स्थापना व मुहूर्त याबद्दल माहिती द्यावी.
Category : Hindu - Puja Vidhi
RANDOM QUESTION
Don't follow traditions blindly or ignore them. Don't assume a superstition either. Don't be intentionally ignorant. Ask us!!
Hindu customs are all about Symbolism. Let us tell you the thought behind those traditions.
Make Informed Religious decisions.

Featured site

Ved - Puran
Ved and Puran in audio format.