संस्कृत सूची|शास्त्रः|तंत्र शास्त्रः|श्रीशक्तिसङ्ग्मतन्त्रम्|
एकोनचत्वारिंशतिः पटलः ।

श्रीशक्तिसङ्ग्मतन्त्रम् - एकोनचत्वारिंशतिः पटलः ।

तंत्र शास्त्र भारताची एक प्राचीन विद्या आहे. तंत्र ग्रंथ भगवान शिवाच्या मुखातून प्रकट झाले आहेत. त्यांना पवित्र आणि प्रामाणिक मानले आहेत.
Tantra shastra is a secret and most powerful science of the Indian culture and religion. It is a most powerful science which Indian Rushis have practised for centuries and still it is in practise.


श्रीदेव्युवाच
देवेश श्रोतुमिच्छामि रहस्यातिरहस्यकम् ।
मुण्डासनमिदं ब्रूहि यद्यहं तव वल्लभा ॥१॥
श्रीशिव उवाच
रहस्यातिरहस्यं च तव स्नेहात्प्रकाश्यते ।
चन्द्रत्रिपञ्चमुण्डानि वसुरन्ध्राभिधानि च ॥२॥
दशमुण्डानि देवेशि रुद्रमुण्डानि पार्वति ।
दिक्विदिक्क्रमयोगेन कीलान्यारोप्य साधयेत् ॥३॥
महामुण्डं मध्यभागे परितो मुण्डसञ्चयः ।
कालरात्रिदिने देवि वीररात्रिदिने तया ॥४॥
मोहरात्रिदिने देवि शिवरात्रिदिने तथा ।
अष्टम्यां च चतुर्दश्यां पक्षयोरुभयोरपि ॥५॥
मुण्डसाधनकं कृत्वा मालापात्रादिकं चरेत् ।
यन्त्रं वा कारयेद्देवि त्रैलोक्याधिपतिर्भवेत् ॥६॥
अचूडकप्रकारेण वीरासनक्रमेण च ।
मृतासनक्रमेणापि साधयेद्वीरसाधनम् ॥७॥
मृद्वासनं पूर्वभागे चूडकं दक्षिणे भवेत् ।
कोमलं पश्चिमे प्रोक्तं मुण्डमुत्तरगोचरम् ॥८॥
वीरासनं मध्यभागे जप्त्वा त्रैलोक्यनायकः ।
एकवीरं त्रिवीरं वा पञ्चाष्टनववीरकम् ॥९॥
दशवीरं रुद्रवीरमासनाय प्रकल्पयेत् ।
मुण्डपक्षेsपि देवेशि मध्ये वीरं महोत्तमम् ॥१०॥
मृद्वादिमध्ययोगेन साधनाभेदभाजनम् ।
श्मशानं वा चिता शस्ता चास्थिभूम्यासनं तथा ॥११॥
योनित्वागासनं देवि दशाहमृतकासनम् ।
एवं क्रमेण देवेशि आसनानि बहूनि च ॥१२॥
एषामेकतमं कृत्वा कालीं तारां प्रसाधयेत् ।
एकान्ते शून्यसदने पर्वते विपिने वने ॥१३॥
प्रान्तरे शिवशून्ये च मातृगेहे सरित्तटे ।
एकलिङ्गे शून्यदेशे श्मशाने रणमण्डले ॥१४॥
कुलवृक्षे एकवृक्षे यद्वा चित्राङ्किते स्थले ।
गङ्गागर्भे चतुर्मार्गे त्रिपथे देवतालये ॥१५॥
वेश्यालये वा देवेशि साधयेद्वीरसाधनम् ।
कीलान्यारोप्य यत्नेन दिक्पालेभ्यो बलिं क्षिपेत् ॥१६॥
शूलस्थाने स्वयं गत्वा वीरवेषो महोत्तमः ।
संविदुग्धं बलिद्रव्यं पञ्चगव्यं रसं तथा ॥१७॥
इति संक्षेपतः प्रोक्तं किमन्यद्बहुजल्पितैः ।
श्रीदेव्युवाच
देवेश श्रोतुमिच्छामि रहस्यं पूर्वसूचितम् ॥१८॥
श्रीशिव उवाच
रहस्यातिरहस्यं च कथ्यते श्रृणु साम्प्रतम् ।
शैवे शाक्ते गाणपत्ये चान्द्रे सौरे तथार्हते ॥२०॥
वैष्णवे वेदिके देवि नैवेद्यविनियोजनम् ।
स्वर्णरत्नानि चान्यानि नानावस्त्राणि पार्वति ॥२१॥
अनेकरससम्भोगं गुरवे विनिवेदयेत् ।
गुरुपुत्राय तत्पत्न्यै तत्सुतायै निवेदयेत् ॥२२॥
ब्राह्मणाय प्रदातव्यमभावे तु जले क्षिपेत् ।
कूपेsरण्ये गुहामध्ये तडागे वा क्षिपेत्प्रिये ॥२३॥
महादेवस्य नैवेद्यं निर्माल्यत्वं प्रगच्छति ।
भक्तायामृतरूपो हि नैवेद्यः परिकीर्तितः ॥२४॥
अन्येषां चैव नैवेद्यं भक्षयेद्दापयेत्तथा ।
शालिग्रामे वाणलिङ्गे नैवेद्यो नैव दूष्यति ॥२५॥
बलिद्रव्याणि देवेशि द्विधा भिन्नानि कारयेत् ।
प्रयोगकाले देवेशि ब्राह्मणान्पूजयेद्व्रती ॥२६॥
तावत्क्कापि न गन्तव्यं यावत्सिद्धिर्न जायते ।
आरम्भान्तं समाप्याsय प्रायश्चित्तं ततश्चरत् ॥२७॥
अङ्गाङ्गिभावमासाद्य सर्वं संसाधयेद्व्रती ।
कार्यमध्ये पुनः कार्यमङ्गाङ्गित्वं भवेच्छिवे ॥२८॥
पूर्वपीठं पुरा ज्ञात्वा विघ्नानुत्सार्य यत्नतः ।
कार्याणि साधयेद्देवि तत्र कार्यं न वै भवेत् ॥२९॥
कार्यान्तरे समारब्धे तत्र कार्यं न वै भवेत् ।
न्यायाधिकरणं ज्ञात्वा पीठिकाज्ञानपूर्वकम् ॥३०॥
अङ्गाङ्गित्वं पुरा ज्ञात्वा सर्वकार्याणि साधयेत् ।
न हि कर्मणि कर्मणामारम्भस्तु क्कचिद्भवेत् ॥३१॥
कर्मणामपि चारम्भस्त्वङ्गाङ्गित्वाद्भविष्यति ।
कार्ये जातेsपि देवेशि सन्ध्यापूर्तिं समाचरेत् ॥३२॥
संकल्पबाधको भूयादन्यथा परमेश्वरि ।
इति संक्षेपतः प्रोक्तं किमन्यच्छ्रोतुमिच्छसि ॥३३॥

इति श्रीशक्तिसङ्गममहातन्त्रराजे उत्तरभागे द्वितीयखण्डे श्रीमदक्षोभ्यमहोग्रतारासंवादे मुण्डासनकथनं नामैकोनचत्वारिंशतिः पटलः ।

N/A

References : N/A
Last Updated : January 17, 2018

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP