संस्कृत सूची|शास्त्रः|तंत्र शास्त्रः|श्रीशक्तिसङ्ग्मतन्त्रम्|
एकपञ्चाशतिः पटलः ।

श्रीशक्तिसङ्ग्मतन्त्रम् - एकपञ्चाशतिः पटलः ।

तंत्र शास्त्र भारताची एक प्राचीन विद्या आहे. तंत्र ग्रंथ भगवान शिवाच्या मुखातून प्रकट झाले आहेत. त्यांना पवित्र आणि प्रामाणिक मानले आहेत.
Tantra shastra is a secret and most powerful science of the Indian culture and religion. It is a most powerful science which Indian Rushis have practised for centuries and still it is in practise.


पुढील अध्याय अपूर्ण आहे.

तदतीता रसाख्या तु सर्वातीता तु सप्तमी ।
कलासप्तकसंयुक्तः प्रणवः परिकीर्तितः ॥१५॥
ब्रह्मा विष्णुश्च रुद्रश्च ईश्वरश्च सदाशिवः ।
शक्तिश्च तदतीता च अकारोकार एव च ॥१६॥
मकारो नादबिन्दुश्च नादातीता तदुत्तरम् ।
बिन्द्वतीता सप्तमी स्यान्मध्यकोष्ठे समास्थिता ॥१७॥
चन्द्रो मुखं महेशानि टङ्कास्त्रं तच्च कीर्तितम् ।
दक्षबाहौ महेशानि रुद्रसंख्या प्रकीर्तिता ॥१८॥
हकारश्च रकारश्च ईकारश्च सबिन्दुमत् ।
बिन्द्वतीता तु षष्ठी स्याच्छैवशाक्तक्रमेण च ॥१९॥
गुह्यभागे महेशानि स्त्रीबीजान्वितरूपिणी ।
उग्रोग्रचण्डा चामुण्डा चण्डोग्रा चण्डघण्टिका ॥२०॥
महोग्रतारा उग्रेशी त्रिजटैकजटा स्मृता ।
क्रूरचण्डा घोरचण्डा वीरोग्रा वीरतारिणी ॥२१॥
सर्वापत्तारिणी तीव्रा चीनतारा सुरेश्वरी ।
सिद्धितारा रिष्टितारा घोरतारा परा स्मृता ॥२२॥
उग्रोग्रतारा देवेशि रणोग्रा चन्द्रगोचरा ।
त्रिकोणकोष्ठमालम्ब्य स्त्रीबीजञ्च व्यवस्थितम् ॥२३॥
वामपादं समारभ्यं वामबाहूत्तरं शिवे ।
बीजद्वयं तु संव्याप्य सदा तिष्ठति पार्वति ॥२४॥
चन्द्रघण्टा चण्डघण्टा वीरघण्टा सुघण्टिका ।
राजघण्टा मोहघण्टा घोरघण्टा रणाभिधा ॥२५॥
शवघण्टा चीनघण्टा सिद्धिघण्टा तथा परा ।
घण्टोग्रघण्टा मुण्डाख्या घण्टाविद्याभिधानतः ॥२६॥
सैन्यघण्टा जयाख्या च मोहनाख्या तथैव च ।
आकर्षणाख्या घण्टा तु विंशत्सङ्ख्याभिधानतः ॥२७॥
सार्धपञ्चाक्षरं व्याप्य यन्त्रमेतत् सदा स्थितम् ।
तत्रैव बटुकं व्याप्य सर्वं तिष्ठति पार्वति ॥२८॥
पंचावरणदेवाश्च सर्व चात्र वसन्ति च ।
एतद्यन्त्रं तु सन्धार्य त्रैलोक्यविजयी भवेत् ॥२९॥
त्रिपंक्तिक्रमयोगेन सर्पाख्यगतिमार्गतः ।
मायायुग्मं कुर्चयुग्मं कालीवीजत्रयं तथा ॥३०॥
दक्षिणे कालिके माया बीजयुग्मं च कूर्चयुक् ।
कालीविद्या महाविद्या द्वाविंशतिविधा मता ॥३१॥
कालीमारभ्य देवेशि कुटिलालकदेवताः ।
यावत्स्याद्देवदेवेशि तावद्वयाप्य प्रतिष्ठते ॥३२॥
तृतीयं द्वितीयं देवि त्रितयं तु क्रमेण च ।
व्याप्य श्रीकालिकाविद्या सर्वावरणसंगता ॥३३॥
साम्राज्यमुद्रिकां व्याप्य सदा तिष्ठति पार्वति ।
अधिष्ठात्री भवेत्तारा काली प्रत्यधिदेवता ॥३४॥
आकर्षदेवता घण्टा त्रैलोक्यविजयाभिधा ।
प्रयोगविद्या देवेशि गदिता परमेश्वरि ॥३५॥
एतस्या धारणाद्देवि किं तद्यन्न करे स्थितम् ।
एतस्यावर्तनाद्देवि पृथ्वीपतिपदं लभेत् ॥३६॥
सृष्टिकर्ता भवेद्देवि पञ्चलक्षक्रमेण च ।
कोट्यावर्तनमात्रण कालीरूपो न संशयः ॥३७॥
अष्टवन्ध्यानाशनं च धारणान्नश्यति ध्रुवम् ।
ब्रह्माण्डगोलके या च या काचित् जगतीतले ॥३८॥
समस्ताः सिद्धयो देवि तस्य हस्ते व्यवस्थिताः ।
अद्रौ भूमौ तथा मध्ये ह्यब्धौ यद्यपि तिष्ठति ॥३९॥
ईदृग्विधोsपि देवेशि गर्भस्तिष्ठति निश्चितम् ।
बालको मरणासन्नस्तस्य यन्त्रं तु बन्धयेत् ॥४०॥
मृत्युबाधाविनिर्मुक्तश्चिरञीवी भवेद् ध्रुवम् ।
वेदं प्रकाशयेद्धीमान् यत्र कुत्रापि पार्वति ॥४१॥
घण्टाख्यश्रृङ्खलां कृत्वा मणिबन्धकरद्वये ।
गले पादद्वये देवि बन्धं यत्नेन कारयेत् ॥४२॥
प्रतिमां बन्धयेद्वापि श्रृङ्खलां केवलां च वा ।
मुद्रिकां श्रृङ्खलां वापि मुद्रिकां केवलां च वा ॥४३॥
वामपञ्चाङुलौ धार्या दक्षपञ्चाङ्गुले तथा ।
मस्तके च तथा बाहौ धारयेन्मुद्रिकामिमाम् ॥४४॥
त्रैलोक्यविजयी भूयान्नात्र कार्या विचारणा ।
श्रृङ्खलाधारणाद्देवि किं तद्यन्न करे स्थितम् ॥४५॥

N/A

References : N/A
Last Updated : January 17, 2018

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP